Sorry, your browser does not support JavaScript!
Go
Top
विवेक-चूडामणि

1–6 Brahma-niṣṭhā-mahattvam 7–17 Adhikārī 18–24 Guruḥ 25–26 Praśnam 27–33 An-ātmā 34–38 Ātmā 39–44 Bandhaḥ 45–60 Ātma-an-ātma-vivekaḥ 61–65 Tvam-pada-arthaḥ 66–73 Tat-pada-arthaḥ 74–82 Asi-pada-artham 83–94 Jīvan-mukta-lakṣaṇam 95–100 Jīvan-mukta-prārabdham 101-108 Śāsana-upasaṃhāraḥ

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view.
Viveka-Cūḍāmaṇi is attributed to Śrī Śaṅkarācarya. Here is a concise set of 108 verses from the original 581 selected by Swami Paramārthānanda. The 108 numbering is shown in parenthesis.

ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.

Go to Top ('Home' key on many Windows browsers)

The greatness of abiding in brahman

vs.001 vs.002 vs.003 vs.004 vs.005 vs.006

sarva-veda-anta-siddha-anta-go-cara, tad, a-go-cara;
go-vinda, parama-ānanda, mad-guru, praṇata, √as, asmad.

तं सद्-गुरुं गो-विन्दं परम-आत्मानं गोविन्द-आचर्य-नाम च परम-आनन्दम् अ-गो-चरं तथा अपि सर्व-वेद-अन्त-सिद्ध-अन्त-गो-चरम् अहं प्रणतः अस्मि
dus-labha, traya, eva, etad, deva-anugraha-hetuka;
manuṣyatva, mumukṣutva, mahā-puruṣa-saṃśraya.

मनुष्यत्वं मुमुक्षुत्वं महा-पुरुष-संश्रयःएतद् त्रयं देव-अनुग्रह-हेतुकं दुस्-लभम् एव
labdhā, katham-cid, nara-janman, dus-labha,
tatra, api, puṃstva, śruti-pāra-darśana;
yad, sva-ātma-mukti, na, √yat, mūḍha-dhī,
tad, hi, ātma-han, sva, vi-ni-√han, a-sat-graha.

दुस्-लभं नर-जन्म कथम्-चिद् लब्ध्वा, तत्र अपि पुंस्त्वं स्व-तन्त्रता-आदि-पुम्-प्रधान-धर्मी स्त्रियाम् अपि श्रुति-पार-दर्शनं लब्ध्वा, यः मूढ-धीः स्व-आत्म-मुक्त्यै न यतेत, सः आत्म-हा हि अ-सत्-ग्रहात् स्वं विनिहन्ति
√paṭh, śāstra, √yaj, deva,
√kṛ, karman, √bhaj, devatā;
ātma-aikya-bodha, vinā, vimukti,
na, √sidh, brahma-śata-antare, api.

जनाः शास्त्राणि पठन्तु, देवान् यजन्तु, कर्माणि कुर्वन्तु, देवताः भजन्तु ध्यायन्तु। आत्म-ऐक्य-बोधेन विना विमुक्तिः न सिध्यति, ब्रह्म-शत-अन्तरे अपि
citta, śuddhi, karman, na, tu, vastu-upalabdhi;
vastu-siddhi, vicārya, na kim-cid, karma-koṭi.

चित्तस्य शुद्धये कर्म कर्म-योगः स्व-कर्म स-ईश्वर-अर्पण-बुद्धिः, न तु वस्तु-उपलब्धये। श्रवण-मनन-निदिध्यासन-रूपेण विचारेण ज्ञान-योगेन इत्यर्थः वस्तु-सिद्धिः, न किम्-चिद् कर्म-कोटिभिः
atas, vicāra, karttavya, jijñāsu, ātma-vastu;
samāsādya, dayā-sindhu, guru, brahma-vid-uttama.

अतस् यः दया-सिन्धुं ब्रह्म-विद्-उत्तमं श्रोत्रियं ब्रह्म-निष्टं च गुरुं समासाद्य, तस्य जिज्ञासोः आत्म-वस्तुनः विचारः कर्त्तव्यः

Go to Top ('Home' key on many Windows browsers)

adhikārin, ā-√śās, phala-siddhi, viśeṣatas;
upāya, deśa-kāla-ādi, √as, idam, saha-kārin.

फल-सिद्धिः अधिकारिणं साधकं विशेषतस् आशास्ते आकाङ्क्षति। अस्मिन् देश-काल-आद्याः सह-कारिणः उपायाः सन्ति
sādhana, atra, catur, kathina, manīṣin;
yad, sat, eva, sanniṣṭhā, yad-a-bhāva, na, √sidh.

अत्र मनीषिभिः चत्वारि साधनानि कथिनानियेषु साधनेषु सत्वु एव सन्निष्ठा, यद्-अ-भावे न सिध्यति
ādi, nitya-a-nitya-vastu-viveka, pari-√gaṇ;
iha-amutra-phala-bhoga-virāga, tad-an-antaram;
śama-ādi-ṣaṭka-sampatti, mumukṣutva, iti, sphuṭam.

आदौ नित्य-अ-नित्य-वस्तु-विवेकः, तद्-अन्-अन्तरम् इह-अमुत्र-फल-भोग-विरागः, शम-आदि-षट्क-सम्पत्तिः, मुमुक्षुत्वंइति साधन-चतुष्टयं (TatB.2)] स्फुटं परिगण्यते
brahman, satya, jagat, mithyā, iti, evam-rūpa, viniścaya;
tad, idam, nitya-a-nitya-vastu-viveka, samudāhṛta.

ब्रह्म सत्यं जगत् मिथ्या इति एवम्-रूपः विनिश्चयः इति सः अयं नित्य-अ-नित्य-वस्तु-विवेकः समुदाहृतः (TatB.3)॥
tad, vairāgya, jihāsā, yad, darśana-śravaṇa-ādi;
deha-ādi-brahma-paryanta, hi, a-nitya, bhoga-vastu.

देह-आदि-ब्रह्म-पार्यन्ते हि अ-नित्ये भोग-वस्तुनि दर्शन-श्रवण-आदिभिः या जिहासा, तद् इह-अमुत्र-फल-भोग-वैराग्यम् (TatB.4)॥
virajya, viṣaya-vrāta, doṣa-dṛṣṭi, muhur, muhur;
sva-lakṣya, niyata-avasthā, manas, śama, √vac.

मुहुर् मुहुर् दोष-दृष्ट्या विषय-व्रातात् विषय-गणात् विरज्य, तस्य मनसः स्व-लक्ष्ये नियत-अवस्था इति शमः उच्यते (TatB.6)॥
viṣaya, parāvartya, sthāpana, sva-sva-golaka;
ubhaya, indriya, tad, dama, parikīrtita.

विषयेभ्यः परावर्त्य, तेषाम् उभयेषां ज्ञान-कर्म-इन्द्रियाणां स्व-स्व-गोलके स्थापनम् इति सः दमः परिकीर्तितः (TatB.7)॥
bāhya-an-ālambana, vṛtti, etad, uparati, uttamā;
sahana, sarva-duḥkha, a-pratikāra-pūrvaka;
cintā-vilāpa-rahita, tad, titikṣā, ni-√gad.

वृत्तेः बाह्य-अन्-आलम्बनम् अ-प्राप्त-विषय-अन्य-धर्म-आदि-बाह्य-अन्-आसक्तिः इति एषा उत्तमा उपरतिः (TatB.8)। सर्व-दुःखानां सहनम् अ-प्रतिकार-पूर्वकं चिन्ता-विलाप-रहितम् इति सा तितिक्षा निगद्यते उच्यते (TatB.9)॥
śāstra, guru-vākya, satya-buddhi-avadhāraṇā (satya-buddhi, avadhāraṇā);
tad, śrad-dhā, kathitā, sat, yad, vastu, upa-√labh.

शास्त्रस्य गुरु-वाक्यस्य सत्य-बुद्धि-अवधारणा (सत्य-बुद्ध्या अवधारणा) इति सा श्रद्-धा सद्भिः सत्-विद्भिः कथिता, यया श्रद्-धया वस्तु उपलभ्यते (TatB.10)॥
sarvadā, sthāpana, buddhi, śuddha, brahman, sarvathā;
tad, samādhāna, iti, ukta, na, tu, citta, lālana.

शुद्धे ब्रह्मणि बुद्धेः सर्वदा सर्वथा स्थापनं तद् ‘समाधानम्’ इति उक्तं, न तु चित्तस्य लालनम् (TatB.11)॥
ahaṅkāra-ādi-deha-anta, bandha, a-jñāna-kalpita;
sva-sva-rūpa-avabodha, moktum, icchā, mumukṣutā.

अ-ज्ञान-कल्पितान् सतः अहङ्कार-आदि-देह-अन्तान् बन्धान् मोक्तुम् इच्छा स्व-स्व-रूप-अवबोधेन इति मुमुक्षुता

Go to Top ('Home' key on many Windows browsers)

ukta-sādhana-sampanna, tattva-jijñāsu, ātmanaḥ;
upa-√sad, guru, prājña, yad, bandha-vimokṣaṇa.

उक्त-साधन-संपन्नः आत्मनः तत्त्व-जिज्ञासुः प्राज्ञं गुरुं उपसीदेत्, यस्मात् गुरोः बन्ध-विमोक्षनं विद्यते॥
śrotriya, a-vṛjina, a-kāma-hata, yad, brahma-vidtama;
brahman, uparata, śānta, nis-indhana, iva, an-ala;
a-hetuka-dayā-sindhu, bandhu, ānamat, sat.
tad, ārādhya, guru, bhakti, prahva-praśraya-sevana;
prasanna, tad, anuprāpya, √prach, jñātavya, ātman.

यः श्रोत्रियः, अ-वृजिनः अ-पापः, अ-काम-हतः, ब्रह्म-वित्तमः, ब्रह्मणि उपरतः, शान्तः निर्-इन्धनः इव अन्-अलः, अ-हेतुक-दया-सिन्धुः, आनमतां सतां मुमुक्षूणां बन्धुः सहायः गुरुतया च – तं गुरुं भक्त्या आराध्य, तंप्रह्व-प्रश्रय-सेवनैः प्रणाम-विनय-सेवनैः प्रसन्नं अनुप्राप्य, शिष्यः आत्मनः ज्ञातव्यं पृच्छेत्
dus-vāra-saṃsāra-dava-agni-tapta,
dodhūyamāna, dur-a-dṛṣṭa-vāta;
bhīta, prapanna, pari-√pā, mṛtyu,
śaranya, anya, asmad, na, √jñā.

गुरो, यद् यस्मात् अहम् अन्यं शरण्यं न जाने, माम् तुभ्यं प्रपन्नं परिपाहि यं दुस्-वार-संसार-दव-अग्नि-तप्तं दुस्-निवार-संसार-तप्तं यथा अरण्य-अग्नि-अर्चिर्भिः, दुस्-अ-दृष्ट-वातैः दोधूयमानं, मृत्योःभीतम्
śānta, mahat, ni-√vas, sat,
vasantavat, loka-hita, carat;
tīrṇa, svayam, bhīma-bhava-ārṇava, jana,
a-hetu, anya, api, tārayat.

शान्ताः, महान्तः, सन्तः, लोक-हीतं चरन्तः वसन्तवत्, स्वयं भीम-भव-आर्णवं तीणाः, अन्यान् जनान् अपि अ-हेतुना तारयन्तः ईदृशाः गुरवः निवसन्ति विद्यन्ते॥
mā, √bhī, vidvas, yuṣmad, na, √as, apāya,
saṃsāra-sindhu, taraṇa, √as, upāya;
yad, eva, yata, yati, idam, pāra,
tad, eva, mārga, yuṣmad, nis-√diś.

विद्वन्, मा भैष्टअपायः नाशः तव न अस्तिसंसार-सिन्धोः तरणे उपायः अस्तियेन एव यतयः अस्य संसारस्य पारं याताः, तम् एव मार्गं तव निर्दिशामि
a-jñāna-yoga, parama-ātman, yuṣmad
hi, an-ātma-bandha, tatas, eva, saṃsṛti;
tad, viveka-udita-bodha-vahni
a-jñāna-kārya, pra-√dah, sa-mūla.

तव हि यस्मात् परम-आत्मनः अ-ज्ञान-योगात् अन्-आत्म-बन्धः अस्ति। ततस् एव संसृतिः संसारः। तयोः आत्म-अन्-आत्मनोः विवेक-उदित-बोध-वह्निः अ-ज्ञान-कार्यं स-मूलं प्रदहेत्

Go to Top ('Home' key on many Windows browsers)

The question

vs.25 vs.26

kim, nāma, bandha, katham, etad, āgata,
katham, pratiṣṭhā, idam, katham, vimokṣa;
kim, adas, an-ātman, parama, kim, ātman,
tad, viveka, katham, etad, √vac.

१. कः बन्धः नाम? २. कथम् एषः आगतः? ३. कथम् अस्य प्रतिष्ठा? ४. कथं विमोक्षः? ५. कः असौ अन्-आत्मा? ६. कः परमः आत्मा? ७. कथं तयोः आत्म-अन्-आत्मनोः विवेकः? एतद् उच्यताम्
yad, boddhavya, yuṣmad, idānīm, ātma-an-ātma-vivecana;
tad, √vac, asmad, samyak, śrutvā, ātman, ava-√dhṛ.

यद् आत्म-अन्-आत्म-विवेचनं तव इदानीं बोद्धव्यं, तद् मया सम्यक् उच्यतेश्रुत्वा, आत्मनि अवधारय बुद्धौ अवधारय स्वी-कारय इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

pañcī-kṛta, bhūta, sthūla, pūrva-karman;
samutpanna, idam, sthūla, bhoga-āyatana, ātman;
avasthā, jāgara, idam, sthūla-artha-anubhava, yatas.

अथ पञ्चम-प्रश्न-प्रतिवचनं (VivC.51(25) इदं स्थूलं शरीरं पञ्ची-कृतेभ्यः स्थूलेभ्यः भूतेभ्यः पूर्व-कर्मणा समुत्पन्नम् जीव-आत्मनःभोग-आयतनम्तस्य स्थूल-शरीर-अभिमानि-आत्मनः अवस्था जागरः, यतस् तस्य स्थूल-अर्थ-अनुभवः (TatB.17)॥
vāc-ādi-pañcan, śravaṇa-ādi-pañcan,
prāṇa-ādi-pañcan, abhra-mukha, pañcan;
buddhi-ādi, a-vidyā, api, ca, kāma-karman,
puri-aṣṭaka, sūkṣma, śarīra, √ah.

वाक्-आदि-पञ्च, श्रवण-आदि-पञ्च, प्राण-आदि-पञ्च, पञ्च अभ्र-मुखानि सूक्ष्म-आकाश-आदि, बुद्धि-आदि बुद्धिः मनः चित्तं अहङ्कारः च, अ-विद्या आत्म-अन्-आत्म-अध्यासः, अपि च काम-कर्मणी कामः कर्म च – तं पुरी-अष्टकं पुरीवत् वाक्-आदि-अष्टकं सूक्ष्म-शरीरम् आहुः (TatB.18)॥
idam, śarīra, √śru, sūkṣma-sañjñita,
liṅga, tu, a-pañcī-kṛta-bhūta-sambhava;
sa-vāsana, karma-phala-anubhāvaka,
sva-a-jñānatas, an-ādi, upādhi, ātman.
svapna, √bhū, idam, vibhakti-avasthā,
sva-mātra-śeṣa, vi-√bhā, yatra.

शृणुइदं शरीरं सूक्ष्म-सञ्ज्ञितं सूक्ष्म-शरीर-सञ्ज्ञितं लिङ्गं लिङ्ग-शरीर-सञ्ज्ञितं लिङ्ग्यते अनेन इति लिङ्गं येन “चक्षुषश् चक्षुस्” इति-आदि-श्रुतेः चैतन्य-आत्मा लिङ्ग्यते तु अथवा, अ-पञ्ची-कृत-भूत-संभवं, स-वासनं, कर्म-फल-अनुभावकं सुख-दुःख-रूप-कर्म-फल-हेतुकं, स्व-अ-ज्ञानतस् अन्-आदिः आत्मनःउपाधिःअस्य जीव-आत्मनः जागरित-विभक्ति-अवस्था स्वप्नः भवति, यत्र स्वप्ने सूक्ष्म-शरीरं स्व-मात्र-शेषेण स्वेन एव विभाति
sarva-vyāpṛti-karaṇa, liṅga,
idam, √as, cit-ātman puṃs;
vāsi-ādika, iva, takṣan,
tad, eva, ātman, √bhū, a-saṅga, idam.

इदं चित्-आत्मनः चित्-स्व-रूपस्य पुंसः जीवस्य लिङ्गं सर्व-व्यापृति-करणं सर्व-व्यापार-करणं स्यात्, तक्ष्णः तक्षकस्य इव वासि-आदिकं छेदन-उपकरण-आदिकम्। तेन हेतुना एव अयम् आत्मा अ-सङ्गः भवति
a-vyakta-nāman, parama-īśa-śakti,
an-ādi-a-vidyā, tri-guṇa-ātmikā, parā;
kārya-anumeyā, su-dhiyā, eva, māyā,
yad, jagat, sarva, idam, pra-sū.

किं कारण-शरीरम्? यद् अ-व्यक्ततया माया-समष्टि-कारणात् अन्-अन्यं (VivC.122(33)), सा – अ-व्यक्त-नाम्नी, परम-ईश-शक्तिः, अन्-आदि-अ-विद्या अ-कृता च अ-विद्या च न विद्या अ-सत् इति अ-विद्या अपि च विद्यया बाध्या इति अ-विद्या, त्रि-गुण-आत्मिका, परा, सु-धिया एव कार्य-अनुमेया जगत्-रूप-कार्यात् कारणतया शास्त्र-अनुरूप-अनुमेया माया, यया इदं सर्वं जगत् प्रसूयते
sat, na, api, a-sat, na, api, ubhaya-ātmikā, na, u,
bhinnā, api, a-bhinnā, api, ubhaya-ātmikā, na, u;
sa-anṅgā, api, an-aṅgā, hi (api), ubhaya-ātmikā, na, u,
mahā-adbhutā, a-nirvacanīya-rūpā.

सा माया न अपि सत् न अपि अ-सत् न उ उभय-आत्मिका, न उ ब्रह्मणः भिन्ना अ-भिन्ना एकम् अपि उभय-आत्मिका, न उ स-अङ्गा अपि अन्-अङ्गा हि (अपि) उभय-आत्मिका। सा महा-अद्भुता अ-निर्वचनीय-रूपा न सत्-अ-सत्-आदितया निर्वचनीय-रूपा मिथ्या च॥
a-vyakta, etad, tri-guṇa, nirukta,
tad, kāraṇa, nāma, śarīra, ātman;
suṣupti, etad, vibhakti-avasthā,
pralīna-sarva-indriya-buddhi-vṛtti.

एतद् अ-व्यक्तं माया त्रि-गुणैः निरुक्तम्तद् अ-व्यक्तम् आत्मनः कारणं शरीरं कारण-शरीरं नामएतस्य आत्मनः जागरित-स्वप्न-विभक्ति-अवस्था सुषुप्तिः प्रलीन-सर्व-इन्द्रय-बुद्धि-वृत्तिः भवति॥

Go to Top ('Home' key on many Windows browsers)

The ātmā

vs.34 vs.35 vs.36 vs.37 vs.38

atha, yuṣmad, sam-pra-√vac, sva-rūpa, parama-ātman;
yad, vijñāya, nara, bandha, mukta, kaivalya, √aś.

अथ षष्ठ-प्रश्न-प्रतिवचनं (VivC.51(25) अथ परम-आत्मनः स्व-रूपं ते तुभ्यं संप्रवक्ष्यामि, यद् विज्ञाय नरः बन्धात् मुक्तः कैवल्यं पूर्णत्वं च अश्नुते
√as, kim-cid, svayam, nityam, aham-pratyaya-lambana;
avasthā-traya-sākṣin, sat, pañca-kośa-vilakṣaṇa.

सः आत्मा कः-चिद् स्वयं स्व-तन्त्रम् अस्ति, नित्यम् अस्ति च, अहम्-प्रत्यय-लम्बनः अहम्-प्रत्यय-आश्रयः, अवस्था-त्रय-साक्षी च (TatB.16) सन् पञ्च-कोश-विलक्षणः
yad, vi-√jñā, sa-kalam, jāgrat-svapna-suṣupti;
buddhi-tad-vṛtti-sat-bhāva, a-bhāva, asmad, iti, idam.

अयम् आत्मा “अहम्इति, यः जाग्रत्-स्वप्न-सुषुप्तिषु बुद्धि-तद्-वृत्ति-सत्-भावं बुद्धेः बुद्धि-वृत्तीनां च सत्-भावम् अ-भावं वृत्तीनाम् अ-भावं च स-कलं विजानाति स्व-भावतस् न कर्मतस्॥
yad, √dṛś, svayaṃ, sarva, yad, na, √dṛś, kim-cana;
yad, √cit, buddhi-ādi, na, tad, yad, √cit, idam.

अयम् आत्मा यः सर्वं स्वयं पश्यति, यं न कस्-चन पश्यति, यः बुद्धि-आदि चेतयति, यं तद् बुद्धि-आदि न चेतयति
prakṛti-vikṛti-bhinna, śuddha-bodha-sva-bhāva,
sat, a-sat, idam, a-śeṣa, bhāsayat, nis-viśeṣa;
vi-√las, parama-ātman, jāgrat-ādi, avasthā,
asmad, asmad, iti, sākṣāt, sākṣi-rūpa, buddhi.

अयं प्रकृति-विकृति-भिन्नः कारण-कार्य-भिन्नः शुद्ध-बोध-स्व-भावः निस्-विशेषः परम-आत्मा इदम् अ-शेषं सद् मूर्तं स-रूप-अग्नि-जल-पृथिवी-भूनानि इत्यर्थः अ-सद् अ-मूर्तं निस्-रूप-आकाश-वायु-भुतानि इत्यर्थः भासयन्, जाग्रत्-आदिषु अवस्थासु बुद्धेः अन्तस्-करणस्य साक्षि-रूपेणअहम् अहम्इति-रूपेण साक्षात् विलसति प्रकाशते॥

Go to Top ('Home' key on many Windows browsers)

atra, an-ātman, asmad, iti, mati, bandha, etad, idam, puṃs,
prāpta, a-jñāna, janana-maraṇa-kleśa-saṃpāta-hetu;
yad, eva, idam, vapus, idam, a-sat, satya, iti, ātma-buddhi,
√puṣ, √ukṣ, √av, viṣaya, tantu, kośa-kṛdvat.

अथ प्रथम-प्रश्न-प्रतिवचनं (VivC.51(25) अत्र अस्य पुंसः एषः बन्धः अन्-आत्मनिअहम्इति मतिः। एषः बन्धः अ-ज्ञानात् प्राप्तः, जनन-मरण-क्लेश-संपात-हेतुः, येनएव अयं जीवः “सत्यम्इति आत्म-बुद्ध्या इदम् अ-सत् वपुस् – अतस् विषयैः पुष्यति उक्षति अवति च, कोश-कृत्-वत् यथा तन्तु-कृमिः तन्तुभिः
akhaṇḍa-nitya-a-dvaya-bodha-śakti,
sphurat, ātman, an-anta-vaibhava;
sam-ā-√vṛ, āvṛti-śakti, etad,
tamas-mayī, rāhu, iva, arka-bimba.

अथ द्वितीय-प्रश्न-प्रतिवचनं (VivC.51(25)) अ-विद्यायाः एषा तमस्-मयी आवृति-शक्तिः तम् अ-खण्ड-नित्य-अ-द्वय-बोध-शक्त्या स्फुरन्तम् अन्-अन्त-वैभवम् अन्-अन्त-व्याप्तिमन्तम् आत्मानं समावृणोति, राहुः इव अर्क-बिम्बम्
tiras-bhūta, sva-ātman, a-malatara-tejovat, puṃs,
an-ātman, moha, asmad, iti, śarīra, √kal;
tatas, kāma-krodha-prabhṛti, adas, bandhana-guṇa,
param, vikṣepa-ākhyā, rajas, uru-śakti, √vyath.

अ-मलतर-तेजोवति स्व-आत्मनि तिरस्-भूते सति, पुमान् मोहात् अन्-आत्मानं शरीरम्अहम्इति कलयतिततस् रजसः उरु-शक्तिः विक्षेप-आख्या अमुं पुमांसं काम-क्रोध-प्रभृतिभिः बन्धन-गुणैः परं व्यथयति
etad, eva, śakti, bandha, puṃs, samāgata;
yad, vimohita, deha, matvā, ātman, √bhram, idam.

पुंसः बन्दः एताभ्याम् आवरण-विक्षेप-रूपाभ्यां शक्तिभ्याम् एव समागतः, याभ्याम् अयं विमोहितः पुमान् देहम् आत्मानं मत्वा, संसारे भ्रमति
bīja, saṃsṛti-bhūmi-ja, tu, tamas, deha-ātma-dhī, aṅkura,
rāga, pallava, ambu karman, tu, vapus, skandha, asu, śākhika;
agra, indriya-saṃhati, ca, viṣaya, puṣpa, duḥkha, phala,
nānā-karma-samudbhava, bahu-vidha, bhoktṛ, atra, jīva, kha-ga.

अथ तृतीय-प्रश्न-प्रतिवचनं (VivC.51(25)) संसृति-भूमि-जस्य संसार-वृक्षस्य देह-आदेः इत्यर्थः तमस् तु एव बीजः, देह-आत्म-धीः अङ्कुरः, रागः पल्लवं, कर्म तु अम्बु जलं, वपुस् स्कन्धः, असवः प्राणाः शाखिकाः, इन्द्रिय-संहतिः इन्द्रिय-गणः च अग्राणि, विषयाः पुष्पाणि, नान-कर्म-समुद्भवं बहु-विधं दुःखं फलम्अत्र संसार-वृक्षे भोक्ता जीवः ख-गः अस्ति (“द्वा सु-पर्णा…” इति MunU.3.1.1)॥
śruti-parama-eka-mati, sva-dharma-
niṣṭhā, tad, eva, ātma-viśuddhi, idam;
viśuddha-buddhi, parama-ātma-vedana,
tad, eva, saṃsāra-sa-mūla-nāśa.

अथ चतुर्थ-प्रश्न-प्रतिवचनं (VivC.51(25) श्रुति-प्रमाण-एक-मतेः पुरुषस्य श्रद्-धावतः इत्यर्थः स्व-धर्म-निष्ठातया निष्ठया एव अस्य पुरुषस्य आत्म-विशुद्धिःविशुद्ध-बुद्धेः श्रुति-प्रमाण-श्रवण-आदितया परम-आत्म-वेदनम्तेन एव संसार-स-मूल-नाशः

Go to Top ('Home' key on many Windows browsers)

Discernment between self and non-self

vs.45 vs.46 vs.47 vs.48 vs.49 vs.50 vs.51 vs.52 vs.53 vs.54 vs.55 vs.56 vs.57 vs.58 vs.59 vs.60

muñca, iṣīkā, iva, dṛśya-varga,
pratyac, ātman, a-saṅga, a-kriya;
vivicya, tatra, pravilāpya, sarva,
tad-ātman, √sthā, yad, tad, mukta.

अथ सप्तम-प्रश्न-प्रतिवचनं (VivC.51(25) मुञ्जात् इषीकाम् इव धैर्येण (KathU.2.3.17), दृश्य-वर्गात् प्रत्यञ्चम् कोश-आदि-विवेक-शेषम् अ-विवेचनीयम् व्यापिनम् अपि अ-सङ्गम् अ-क्रियम् आत्मानं विविच्य, तत्र आत्मनि सर्वं नामधेय-अ-सत्-रूपतया प्रविलाप्य विलयं कृत्य, यः तद्-आत्मना तादृक्-आत्मना तिष्ठति, सः मुक्तः
deha, idam, anna-bhavana, annamaya, tu, kośa,
ca anna, √jīv, vi-√naś, tad-vihīna;
tvak-carma-māṃsa-rudhira-asthi-purīṣa-rāśi,
na, idam, svayam, bhavitum, √arh, nitya-śuddha.

अयं देहः अन्न-भवनः, अन्नमयः तु एव कोशः, अन्नेन जीवति, तद्-विहीनः अन्न-विहीनः च विनश्यति (TatB.32)। अयं त्वक्-चर्म-मांस-रुधिर-अस्थि-पुरीष-राशिः देहः न स्ययं नित्य-शुद्धः नित्यः च शुद्धः च आत्मा भवितुम् अर्हति
pūrvam, jani, adhi, mṛti, api, na, idam, √as,
jāta-kṣaṇa-kṣaṇa-guṇa, a-niyata-sva-bhāva;
na-eka, jaḍa, ca, ghaṭavat, paridṛśyamāna,
sva-ātman, katham, √bhū, bhāva-vikāra-vettṛ.

अयं देहः जनेः पूर्वं मृतेः अधि अपि न अस्ति। अयं जात-क्षण-क्षण-गुणः अ-नियत-स्व-भावः च। अयं न-एकः अन्-एकः, सङ्घातः इत्यर्थः। परिदृश्यमानः सन् अयं जडः, घटवत्कथम् अयं देहः भाव-विकार-वेत्ता स्व-आत्मा भवति?
karma-indriya, pañcan, añcita, idam,
prāṇa, √bhū, prāṇamaya, tu, kośa;
yad, ātmavat, annamaya, anupūrṇa,
pra-√vṛt, adas, sa-kala-kriyā.

अयं प्राणः पञ्चभिः कर्म-इन्द्रियैः अञ्चितः उपेतः तु एव प्राणमयः कोशः भवेत्, येन अनुपूर्णः असौ अन्नमयः देहः आत्मवान् जीवितः सन् स-कल-क्रियासु प्रवर्त्तते (TatB.33, TaitU.2.1.2)॥
na, eva, ātman, api, prāṇamaya, vāyu-vikāra,
gantṛ, āganṭṛ, vāyuvat, antar, bahis, etad;
yas, kim-cid, kva-api, na, √vid, iṣṭa, an-iṣṭa,
sva, vā, anya, vā, kim-cana, nityam, para-tantra.

एषः प्राणमयः अपि न एव आत्मा, यस्मात् वायु-प्रधान-विकारः वायु-प्रधान-पञ्च-महा-भुत-विकारः, अथवा वायु-रजस्-आत्मिक-पञ्च-महा-भुत-विकारः, अन्तर् गन्ता देहात् बहिस्आगन्ता वायुवत्, किम्-चिद् क्व-अपि स्वं वा अन्यं वा इष्टम् अन्-इष्टं न वेत्ति, नित्यंपर-तन्त्रः
jñāna-indriya, ca, manas, ca, manomaya, √as,
kośa, asmad, asmad, iti-vastu-vikalpa-hetu;
sañjñā-ādi-bheda-kalanā-kalita, balīyas,
tad-pūrva-kośa, abhipūrya, vi-√jṛmbh, yad.

तद्-पूर्व-कोशं प्राणमय-कोशम् अभिपूर्य मनस् च ज्ञान-इन्द्रियाणि च मनो-मयः कोशः स्यात्, यः विज्ञानमय-कर्तृस्य द्वारकेन “मम” “अहम्इति-वस्तु-विकल्प-हेतुः, सञ्ज्ञा-आदि-भेद-कलना-कलितः सञ्ज्ञा-रूप-क्रिया-भेद-कल्पना-उपेतः, बलीयान् विजृम्भते उद्गच्छति (TatB.34)॥
manomaya, na, api, √bhū, para-ātman,
hi, ādi-antavattva, pariṇāmi-bhāva;
duḥkha-ātmakatva, viṣayatva-hetu,
draṣṭṛ, hi, dṛśya-ātmatā, na, dṛṣṭa.

मनोमयः अपि न हि पर-आत्मा भवेत्, आदि-अन्तवत्त्वात्, परिणामि-भावात्, दुःख-आत्मकत्वात्, विषयत्व-हेतोः च – आत्मा द्रष्टा हि यस्मात् न दृश्य-आत्मतया दृष्टः
buddhi, buddhi-indriya, sa-ardham, sa-vṛtti, kṛtṛ-lakṣaṇa;
vijñānamaya-kośa, √as, puṃs, saṃsāra-kāraṇa.

बुद्धिः स-वृत्तिः स-बुद्धि-वृत्तिः बुद्धि-इन्द्रियैः स-अर्धं स-ज्ञान-इन्द्रियः च, कर्तृ-लक्षणः, पुंसः संसार-कारणं विज्ञानमय-कोशः स्यात् (TatB.35)॥
anuvrajat-cit-pratibimba-śakti,
vijñāna-sañjña, prakṛti, vikāra;
jñāna-kriyāvat, asmad, iti, a-jasram,
deha-indriya, abhi-√man, bhṛśam.

एषः कोशः विज्ञान-सञ्ज्ञः अनुव्रजत्[=अनुप्रविशत्]-चित्-प्रतिबिम्ब-शक्तिः, प्रकृतेः विकारः, ज्ञान-क्रियावान् ज्ञाता कर्ता च इत्यर्थः, देह-इन्द्रिय-आदिषुअहम्इति अजस्रम् अ-विरतं भृशं प्रबलम् अभिमन्यते
an-ādi-kāla, idam, aham-sva-bhāva,
jīva, samasta-vyavahāra-voḍhṛ;
√kṛ, karman, api, pūrva-vāsana,
puṇya, a-puṇya, ca, tad-phala.
√bhuj, vicitrā, api, yoni, vrajat,
ā-√yā, nis-√yā, adhas, ūrdhvam, etad;
idam, eva, vijñānamaya, jāgrat-
svapna-ādi-avasthā, sukha-duḥkha-bhoga.

अयं विज्ञानमयः चित्-प्रतिबिम्ब-सहितः जीवः अन्-आदि-कालः, अहम्-स्व-भावः अहम्-अभिमानी, समस्त-व्यवहार-वोढा समस्त-व्यवहार-वहन-कर्ता, पूर्व-वासनः सन् अपिपुण्यानि अ-पुण्यानि च कर्माणि करोति तद्-फलानि भुङ्क्ते च, विचित्रासु अपि योनिषु व्रजन् एषः विज्ञानमयः जीवः अधस् ऊर्ध्वम् आयाति निर्याति, अस्य विज्ञानमयस्य एव जाग्रत्-स्वप्न-आदि-अवस्थाः सुख-दुःख-भोगः च॥
atas, na, idam, para-ātman, √as, vijñānamaya-śabda-bhāj;
vikāritva, jaḍatva, ca, paricchinnatva-hetutas;
dṛśyatva, vyabhicāritva, na, a-nitya, nitya, √iṣ.

विकारित्वात्, जडत्वात्, परिच्छिन्नत्व-हेतुतस्, दृश्यत्वात्, व्यभिचारित्वात् च अतस् अयंविज्ञानमय-शब्द-भाक् न पर-आत्मा स्यात्अ-नित्यः न नित्यः इष्यते प्रतिपद्यते॥
ānanda-pratibimba-cumbita-tanu, vṛtti, tamas-jṛmbhitā,
√as, ānandamaya, priya-ādi-guṇaka, sva-iṣṭa-artha-lābha-udaya;
puṇya, anubhava, vi-√bhā, kṛtin, ānanda-rūpa, svayam,
bhūtvā, √nand, yatra, sādhu, tanu-bhṛt-mātra, prayatna, vinā.

आनन्दमयः तमस्-जुम्भिता अ-विद्या-उद्भूता आनन्द-प्रतिबिम्ब-चुम्बित[=व्याप्त]-तनुः वृत्तिः, प्रिय-आदि-गुणकः, स्व-इष्ट-अर्थ-लाभ-आदि-दर्शन-लाभ-भोग-उदयः स्यात्कृतिनां पुण्यवतां पुण्यस्य अनुभवे विभातियत्र काले स्वयम् आनन्त-रूपः भूत्वा, तनु-भृत्-मात्रः सर्वः देहवान् प्रयत्नं विना साधु सम्यक् ऋजुना नन्दति
ānandamaya-kośa, suṣupti, sphūrtti, utkaṭā;
svapna-jāgara, īṣat, iṣṭa-sandarśana-ādi.

आनन्दमय-कोशस्य स्फूर्त्तिः व्यक्तिः सुषुप्तौ उत्कटा विपुला, स्वप्न-जागरयोः तु इष्ट-सन्दर्शन-आदिना ईषत् अल्पं स्फूर्त्तिः॥
na, eva, idam, ānandamaya, para-ātman,
sa-upādhikatva, prakṛti, vikāra;
kāryatva-hetu, su-kṛta-kriyā,
vikāra-saṅghāta-samāhitatva.

अयम् आनन्दमयः न एव पर-आत्मा भवेत्, स-उपाधिकत्वात्, प्रकृतेः विकारात्, सु-कृत-क्रियायाः कार्यत्व-हेतोः, प्रिय-आदि-अन्नमय-आदि-विकार-सङ्घात-समाहितत्वात् च॥
pañcan, api, kośa, niṣedha, yuktitas, śruti;
tad-niṣedha-avadhi, sa-akṣin, bodha-rūpa, ava-√śiṣ.

पञ्चामाम् अपि सवतस् कोशानां दृक्-दृश्य-युक्तितस् श्रुतेः आत्मत्व-सत्यत्व-निषेधे कृते, तद्-निषेध-अवधिः कोश-निषेध-अन्तः बोध-रूपः स-अक्षी अवशिष्यते

Go to Top ('Home' key on many Windows browsers)

Ātmā as meaning of tvam-pada

vs.61 vs.62 vs.63 vs.64 vs.65

yad, idam, ātman, svayam-jyoti, pañca-kośa-vi-lakṣaṇa;
avasthā-traya-sa-akṣin, sat, nis-vikāra, nis-añjana;
sadā, ānanda, tad, vijñeya, sva-ātmatva, vipas-cit.

अयम् आत्मा यः स्वयं-ज्योतिः, अवस्था-त्रय-साक्षी सन् पञ्च-कोश-वि-लक्षणः पञ्च-कोशात् विपरीत-लक्षणः, निस्-विकारः, निस्-अञ्जनः, सदा आनन्दः, सः विपस्-चिता कर्म-ज्ञान-योगिना स्व-आत्मत्वेन विज्ञेयः
mithyātva, niṣeddha, kośa, etad, pañcan;
sarva-a-bhāva, vinā, kim-cid, na, √dṛś, atra, he, guru;
vijñeya, kim, u, vastu, √as, sva-ātman, ātma-vipas-cit.

हे गुरो, एतेषु पञ्चसु कोशेषु अन्-आत्म-मिथ्यात्वेन निषिद्धेषु, सर्व-अ-भावं विना, अत्र न किम्-चिद् पश्यामि इव, अतस् किम् उ वस्तु आत्म-विपस्-चिता स्व-आत्मना विज्ञेयम् अस्ति?
satya, ukta, yuṣmad, vidvas, nipuṇa, √as, vicāraṇa;
aham-ādi-vikāra, tad, tad-a-bhāva, idam, api, anu.
sarva, yad, anu-√bhū, yad, svayam, na, anu-√bhū;
tad, ātman, veditṛ, √vid, buddhi, su-sūkṣmā.

विद्वन्, त्वया सत्यम् उक्तम्विचारणे निपुणः असियेन सर्वे ते अहम्-आदि-विकाराः अनुभूयन्ते जाग्रत्-स्वप्नयोः अनु उत्तरं च सुषुप्तौ इत्यर्थः अयं तद्-अ-भावः सर्व-विकार-अ-भावः अपि अनुभूयन्ते, यःस्वयं न अनुभूयते, सु-सूक्ष्मया बुद्ध्या तं वेदितारम् आत्मानं विद्धि
jāgrat-svapna-suṣupti, sphuṭataram, yad, adas, sam-ud-√jṛmbh,
pratyak-rūpatā, sadā, asmad, asmad, iti, antar, sphurat, ekadhā;
nānā-kāra-vikāra-bhāgin, idam, paśyat, aham-dhī-mukha,
nitya-ānanda-cit-ātman, √sphur, tad, √vid, sva, etad, hṛd.

यः असौ आत्मा जाग्रत्-स्वप्न-सुषुप्तिषु स्फुटतरं समुज्जुम्भते उद्गच्छति, सदा प्रत्यक्-रूपतयाअहम् अहम्इति एकधा अन्तर् स्फुरन्, इमान् अहं-धी-मुखान् अहङ्कार-आदीन् नान-कार-विकार-भागिनः पश्यन्, नित्य-आनन्द-चित्-आत्मना स्फुरतितम् एतं हृदि बुद्धौ स्वं विद्धि

Go to Top ('Home' key on many Windows browsers)

Ātmā as meaning of tat-pada

vs.66 vs.67 vs.68 vs.69 vs.70 vs.71 vs.72 vs.73

brahma-a-bhinnatva-vijñāna, bhava-mokṣa, kāraṇa;
yad, a-dvitīya, ānanda, brahman, sam-√pad, buddha.

येन ब्रह्म-अभिन्नत्व-विज्ञानं ब्रह्म-अभिन्नत्वस्य संशय-विपरीत-भावन-रहितं ज्ञानं बुद्धैः अ-द्वितीयम् आनन्दं ब्रह्म सम्पद्यते, तद् विज्ञानं भव-मोक्षस्य कारणम्
satya, jñāna, an-anta, brahman, viśuddha, para, svatas, siddha;
nitya-ānanda-eka-rasa, pratyak-a-bhinna, nis-antaram, √ji.

सत्यं ज्ञानम् अन्-अन्तं ब्रह्म, विशुद्धं नित्य-शुद्धम् इत्यर्थः, परम् अ-क्षर-माया-अतीतं सर्व-व्यवहार-अतीतं च इत्यर्थः, स्वतस् सिद्धं विशिष्ट-अनुभव-अन्-अपेक्षम् इत्यर्थः, नित्य-आनन्द-एक-रसं प्रत्यक्-अ-भिन्नं निस्-अन्तरंजयति सिध्यति स्वे महिम्नि तिष्ठति सत्यम् एव जयति इत्यर्थः॥
sat-brahma-kārya, sa-kala, sadā, eva,
sat-mātra, etad, na, tatas, anya, √as;
√as, iti, yad, √vac, na, tad, moha,
vinirgata, nidritavat, prajalpa.

एतद् स-कलं सद्-ब्रह्म-कार्यं जगत् सदा सत्-मात्रं एव, ततस् सद्-ब्रह्मणः न अन्यद् अस्तियः “जगत् पृथक् अस्तिइति वक्ति, तस्य मोहः न विनिर्गतः, निद्रितवत् प्रजल्पः यथा निद्रित-पुरुषस्य प्रजल्पः॥
brahman, eva, idam, viśva, iti, eva, vāṇī,
śrautī, √brū, atharva-niṣṭhā, variṣṭhā;
tad, etad, brahma-mātra, hi, viśva,
na, adhiṣṭhāna, bhinnatā, āropita.

वरिष्ठा श्रौती अथर्व-निष्ठा वाणी अथर्व-वेदे महा-वाक्यं “ब्रह्म एव इदं विश्वम्इति (MunU.2.1.11) ब्रूतेतस्मात्, ब्रह्म-मात्रं हि एतद् विश्वं, यस्मात् न आरोपितस्य अधिष्ठानात् भिन्नता
satya, yadi, √as, jagat, etad, ātman,
an-antatva-hāni, nigama-a-pramāṇatā;
a-satya-vāditva, api, īśitṛ, √as,
na, etad, traya, sādhu, hita, mahā-ātman.

यदि एतद् जगत् सत्यं स्यात्, ततस् आत्मनः अन्-अन्तत्व-हानिः, निगम-अ-प्रमाणता वेद-अ-प्रमाणता, ईशितुः वेद-कृत्-ईशरस्य श्री-कृष्णस्य वा अपि अ-सत्य-वादित्वं स्यात्एतत् त्रयं महा-आत्मनाम् आस्तिकानाम् इत्यर्थः न साधु हितं च॥
īśvara, vastu-tattva-jña, na, ca, asmad, tad, avasthita;
na, ca, mad-stha, bhūta, iti, evam, eva, vi-√kḷp.

वस्तु-तत्त्व-ज्ञः ईश्वरःन च अहं तेषु अवस्थितःन च मद्-स्थानि भूतानिइति (BhG.9.4–5) एवम् एव व्यचीकॢपत् प्रोक्तः॥
yadi, satya, √bhū, viśva, suṣupti, upa-√labh;
yad, na, upa-√labh, kim-cid, atas, a-sat-svapnavat, mṛṣā.

यदि विश्वं सत्यं भवेत्, सुषुप्तौ अपि उपलभ्यताम्यद् यस्मात् किम्-चिद् तस्यां न उपलभ्यते, अतस् विश्वं मृषा, अ-सत्-स्वप्नवत्
atas, pṛthak, na, √as, jagat, para-ātman,
pṛthak-pratīti, tu, mṛṣā, guṇa-ahivat;
āropita, √as, kim, arthavattā,
adhiṣṭhāna, ā-√bhā, tathā, bhrama.

अतस् जगत् न पर-आत्मनः पृथक् अस्तिपृथक्-प्रतीतिः तु मृषा, गुण-अहिवत् रज्जु-सर्पवत्। किम् आरोपितस्य अर्थवत्ता सत्ता प्रयोजनं वा अस्ति? अधिष्ठामम् एव तथा आरोपितेन भ्रमेण अविद्यया आभाति

Go to Top ('Home' key on many Windows browsers)

Complete identity as meaning of asi-pada

vs.74 vs.75 vs.76 vs.77 vs.78 vs.79 vs.80 vs.81 vs.82

tad-tvam-pada, abhidhīyamāna,
brahma-ātman, śodhita, yadi (yad), ittham;
śruti, tad, tad, yuṣmad, √as, iti, samyak,
ekatva, eva, prati-√pad, muhur.

यदि इत्थम् एवं तद्-त्वम्-पदाभ्याम् अभिधीयमानयोः ब्रह्म-आत्मनोः जगत्-कारण-ब्रह्म जीव-आत्मा तयोः शोधितयोः निर्णीतयोः, तयोः ईश्वर-जीवयोः (यद्) एकत्वम् एवतद् त्वम् असिइति श्रुत्या मुहुर् पुनर् पुनर् सम्यक् प्रतिपाद्यते
aikya, tad, lakṣita, na, vācya,
ni-√gad, anyas-anya-viruddha-dharman;
kha-dyota-bhānu, iva, rāja-bhṛtya,
kūpa-ambu-rāśi, parama-aṇu-meru.

तयोः एक्यं लक्षितयोः न वाच्ययोः ‘लक्ष्य-अर्थयोः न तु वाच्य-अर्थयोः’ इति निगद्यते उच्यते, यस्मात् वाच्य-अर्थयोः अन्यस्-अन्य-विरुद्ध-धर्मिणोः ख-द्योत-भान्वोः ज्योतिस्-कीट-सूर्योः इव, राज-भृत्ययोः, कूप-अम्बु-राश्योः, परम-अणु-मेर्वोः च॥
tad, virodha, idam, upādhi-kalpita,
na, vāstava, kim-cid, upādhi, etad;
īśa, māyā, mahat-ādi-kāraṇa,
jīva, kārya, √śru, pañca-kośa.

तयोः अयं विरोधः उपाधि-कल्पितः, न कस्-चिद् वास्तवःशृणुएषः न वास्तवः उपाधिः ईशस्य महद्-आदि-कारणं माया, जीवस्यकार्यं पञ्च-कोशाः
etad, upādhi, para-jīva, tad,
samyak-nirāsa, na, para, na, jīva;
rājya, nara-indra, bhaṭa, kheṭaka,
tad, apoha, na, bhaṭa, na, rājan.

पर-जीवयोः एतौ उपाधी, तयोः सम्यक्-निरासे सम्यक्-अपोहे सति, न परः न जीवः आत्मा एव इत्यर्थः, यथा नर-इन्द्रस्य राज्यं भटस्यखेटकः तयोः राज-राज्य-सैनक-फलकयोः अपोहे सति, न राजा न भटः न राजत्वं भटत्वं पुरुषः एव इत्यर्थः॥
tatas, tu, tad, lakṣaṇā, su-lakṣya,
tad, a-khaṇḍa-eka-rasatva-siddhi;
na, alam, jahatī, na, tathā, a-jahatī,
kim-tu, ubhaya-artha-ātmikā, eva, bhāvya.

ततस् तु तयोः पर-जीवयोः अ-खण्ड-एक-रसत्व-सिद्धये लक्षणया तौ सु-लक्ष्यौन अलं जहत्या जहत्-लक्षणा – शक्यमात्र-परित्यागेन तद्-संबन्ध्य्-अर्थन्तरे वृत्तिः, यथा ‘गङ्गायां घोषः’ इति गङ्गा-पदस्य तीरे तया जहत्-लक्षणया, न तथाअ-जहत्या अ-जहत्-लक्षणा – शक्यमात्र-अपरित्यागेन तद्-संबन्धि-अर्थ-अन्तरे वृत्तिः, यथा ‘शोणः धावति’ इति अत्र शोण-पदस्य शोण-गुण-विशिष्टे अश्व-आदि-द्रव्ये तया अ-जहत्-लक्षणया, किम्-तु ऐक्यम् उभय-अर्थ-आत्मिकया जहत्-अ-जहत्-लक्षणया भाग-त्याग-लक्षणया एव भाव्यम्
tad, deva-datta, idam, iti, iha, ca, ekatā,
viruddha-dharma-aṃśa, apāsya, idam, √kath;
yathā, tathā, tad, yuṣmad, √as, iti, vākya,
viruddha-dharma, ubhayatra, hitvā.

यथासः अयं देव-दत्तःइति इह वाक्ये एव अस्य वाक्यस्य विरुद्ध-धर्म-अंशम् अपास्य त्यक्त्वा, एकता कथ्यते, तथातद् जगत्-कारण-ब्रह्म त्वम् असिइति वाक्ये उभयत्र विरुद्ध-धर्मान् हित्वा एकता कथ्यते॥
saṃlakṣya, cit-mātratā, sat-ātman,
a-khaṇḍa-bhāva, pari-√ci, budha;
evam, mahā-vākya-śata, √kath,
brahma-ātman, aikya, a-khaṇḍa-bhāva.

सत्-आत्मनोः ब्रह्म-जीवयोः चित्-मात्रतया संलक्ष्य, बुधैः तयोः अ-खण्ड-भावः परिचीयतेएवं महा-वाक्य-शतेन ब्रह्म-आत्मनोः ऐक्यम् अ-खण्ड-भावः कथ्यते
mṛd-kārya, sa-kala, ghaṭa-ādi, sa-tatam, mṛd-mātra, eva, abhitas,
tadvat, sat-janita, sat-ātmaka, idam, sat-mātra, eva, a-khila;
yad, na, √as, sat, para, kim-api, tad, satya, tad, ātman, svayam,
tad, tad, yuṣmad, √as, praśānta, a-mala, brahma, a-dvaya, yad, para.

यद्वत् स-कलं घट-आदि मृद्-कार्यं स-ततम् अभितस् मृद्-मात्रम् एव, तद्वत् इदं सत्-जनितं सत्-आत्मकं जगत् अ-खिलं सत्-मात्रम् एवयस्मात् न किम्-अपि सतः परम् अस्ति, तद् सत्यं, सः स्वयम् आत्मातस्मात्तद् त्वम् असि’, यद् प्रशान्तम् अ-मलम् अ-द्वयं परं ब्रह्म
nidrā-kalpita-deśa-kāla-viṣaya-jñātṛ-ādi, sarva, yathā,
mithyā, tadvat, iha, api, jāgrat, jagat, sva-a-jñāna-kāryatvatas;
yad, evam, idam, śarīra-karaṇa-prāṇa-aham-ādi, api, a-sat,
tad, tad, yuṣmad, √as, praśānta, a-mala, brahma, a-dvaya, yad, para.

यथा सर्वं निद्रा[=श्वप्न]-कल्पित-देश-काल-विषय-ज्ञातृ-आदि, तद्वत् इह जाग्रति अपि जगत् मिथ्या प्रत्येति, स्व-अ-ज्ञान-कार्यत्वतस्यस्मात् एवं इदं शरीर-करण-प्राण-अहम्-आदि अपि अ-सत्, तस्मात्तद् त्वम् असि’, यद् ब्रह्म प्रशान्तम् अ-मलम् अ-द्वयं परम्

Go to Top ('Home' key on many Windows browsers)

The characteristic of being free in this life

vs.83 vs.84 vs.85 vs.86 vs.87 vs.88 vs.89 vs.90 vs.91 vs.92 vs.93 vs.94

brahma-ātman, śodhita, eka-bhāva-avagāhinī;
nis-vikalpā, ca, cit-mātrā, vṛtti, prajñā, iti, √kath;
su-sthitā, tad, √bhū, yad, jīvat-mukta (sthita-prajña), tad, √vac.

शोधितयोः मिथ्या-उपाधिभ्यां निर्णीतयोः ब्रह्म-आत्मनः एक-भाव-अवगाहिनी ऐक्य-व्याप्तिमता निस्-विकल्पा चित्-मात्रा च बुद्धि-वृत्तिःप्रज्ञाइति कथ्यतेयस्य सा सु-स्थिता भवेत्, सः जीवन्-मुक्तः (स्थित-प्रज्ञः) उच्यते
yad, sthitā, √bhū, prajñā, yad, ānanda, nis-antara;
prapañca, vi-smṛta-prāyas, tad, jīvat-mukta, √iṣ.

यस्य प्रज्ञा स्थिता भवेत्, यस्य आनन्दः निस्-अन्तरः, यस्य च प्रपञ्चः संसारः वि-स्मृत-प्रायस् अ-स्मृतः इव इत्यर्थः, सः जीवत्-मुक्तः इष्यते मन्यते॥
varttamāna, api, deha, idam, chāyāvat, anuvarttin;
ahaṃtā-māmatā-a-bhāva, jīvat-mukta, lakṣaṇa.

अस्मिन् देहे वर्त्तमाने अपि छायावत् अनुवर्त्तिनी सति, जीवत्-मुक्तस्य अहंता-मामता-अ-भावः लक्षणम्
atīta-an-anusandhāna, bhaviṣat-a-vicāraṇa;
audāsīnya, api, prāpta, jīvat-mukta, lakṣaṇa.

अतीत-अन्-अनुसन्धानम् अतीत-अ-चिन्तनं भविष्यत्-अ-विचारणं भविष्यत्-अ-चिन्तनं, प्राप्ते वर्तमाने अपि औदासीन्यम् इव राग-द्वेष-राहित्यं – तद् जीवत्-मुक्तस्य लक्षणम्
guṇa-doṣa-viśiṣṭa, idam, sva-bhāva, vilakṣaṇa;
sarvatra, sama-darśitva, jīvat-mukta, lakṣaṇa.

अस्मिन् जगति गुण-दोष-विशिष्टे सु-गुण-वि-गुण-विशिष्टे व्यावहारिक-स्व-भावेन विलक्षणेसर्वत्र सम-दर्शित्वं (BhG.5.18) – तद् जीवत्-मुक्तस्य लक्षणम्
iṣṭa-an-iṣṭa-artha-samprāpti, sama-darśitā, ātman;
ubhayatra, a-vikāritva, jīvat-mukta, lakṣaṇa.

इष्ट-अन्-इष्ट-अर्थ-संप्राप्तौ सम-दर्शितया उभयत्र आत्मनि मनसि अ-विकारित्वं – तद् जीवत्-मुक्तस्य लक्षणम्
sādhu, pūjyamāna, idam, pīḍyamāna, api, dus-jana;
sama-bhāva, √bhū, yad, tad, jīvat-mukta, √iṣ.

अस्मिन् शरीरे साधुभिः पूज्यमाने दुस्-जनैः पीड्यमाने अपि वा यस्य सम-भावः भवेत्, सः जीवत्-मुक्तः इष्यते मन्यते॥
vijñāta-brahma-tattva, yathā-pūrvam, na, saṃsṛti;
√as, ced, na, tad, vijñāta-brahma-bhāva, bahis-mukha.

विज्ञात-ब्रह्म-तत्त्वस्य न यथा-पूर्वं संसृतिः संसारः। संसृतिः अस्ति चेद्, सः न विज्ञात-ब्रह्म-भावः, सः बहिर्-मुखः अन्य-तन्त्रः इत्यर्थः॥
asmad, brahman, iti, vijñāna, kalpa-koṭi-śata-arjita;
sañcita, vilaya, √yā, prabodha, svapna-karmavat.

अहं ब्रह्म अस्मि” इति विज्ञानात् कल्प-कोटि-शत-अर्जितं सञ्चितं विलयं याति नश्यति (MunU.2.2.8, BhG.4.37), प्रबोधात् स्वप्न-कर्मवत्
yad, kṛta, svapna-velā, puṇya, vā, pāpa, ulbaṇa;
supta-utthita, kim, tad, √as, svar-ga, naraka, vā.

यद् उल्बणं स्पष्टं पुण्यं पापं वा स्वप्न-वेलायां स्वप्न-काले कृतं, सुप्त-उत्थितस्य किं तद् स्वर्गाय नरकाय वा स्यात्?
sva, a-saṅga, udāsīna, parijñāya nabha, yathā;
na, √śliṣ, yati, kim-cid, kadā-cid, bhāvi-karman.

यथा नभस् आकाशः, स्वम् अ-सङ्गम् उदासीनं परिज्ञाय, यतिः भावि-कर्मभिः भविष्यत्-कर्मभिः आगामि-कर्मभिः न किम्-चिद् अपि कदा-चिद् श्लिष्यते
na nabhas, ghaṭa-yoga, surā-gandha, √lip;
tathā, ātman, upādhi-yoga, tad-dharma, na, eva, √lip.

नभस् आकाशः घट-योगेन न सुरा-गन्धेन लिप्यतेतथा आत्मा उपाधि-योगेन न एव तद्-धर्मैः लिप्यते

Go to Top ('Home' key on many Windows browsers)

The prārabdha karma of the one who is free in this life

vs.095 vs.096 vs.097 vs.098 vs.099 vs.100

jñāna-udayāt, purā, ārabdha, karman, jñāna, na, √naś;
a-dattvā, sva-phala, lakṣya, uddiśya, utsṛṣṭa-bāṇavat.

स्व-फलम् अ-दत्त्वा, ज्ञान-उदयात् पुरा आरब्धं कर्म न ज्ञानात् नश्यते, लक्ष्यं उद्दिश्य उत्सृष्ट-बाणवत्
vyāghra-buddhi, vinirmukta, bāṇa, paścāt, tu, go-mati;
na, √sthā, √chid, eva, lakṣya, vega, nirbharam.

बाणः व्याघ्र-बुद्ध्या विनिर्मुक्तः, पश्चात् तु गो-मतौ सत्यां, न तिष्ठति न स्थापयेत इत्यर्थः। सः बाणः लक्ष्यं वेगेन निर्भरं बलेन च छिनत्ति एव
upādhi-tād-ātmya-vihīna-kevala-
brahma-ātman, eva, ātman, tiṣṭhat, muni;
prārabdha-sat-bhāva-kathā, na, yuktā,
svapna-artha-sambandha-kathā, iva, jāgrat.

मुनेः आत्मनि एव उपाधि-ताद्-आत्म्य-विहीन-केवल-ब्रह्म-आत्मना तिष्ठतः प्रारब्ध-सत्-भाव-कथा न युक्ता, जाग्रतः इव स्वप्न-अर्थ-सम्बन्ध-कथा
aja, nitya, iti, √brū, śruti, etad, tu, a-mogha-vāc;
tad-ātman, tiṣṭhat, idam, kutas, prārabdha-kalpanā.

अ-जः नित्यःइति (KathU.1.2.18) श्रुतिः ब्रूतेएषा श्रुतिः तु एव अ-मोघ-वाक् सत्य-वाक्। अस्य तद्-अ-ज-नित्य-आत्मना तिष्ठतः कुतस् प्रारब्ध-कल्पना?
śarīra, api, prārabdha-kalpanā, bhrānti, eva, hi;
adhyasta, kutas, sattva, a-sattva, kutas, jani;
a-jāta, kutas, nāśa, prārabdha, a-sat, kutas.

शरीरस्य अपि प्रारब्ध-कल्पना भ्रान्तिः एवअध्यस्तस्य हियस्मात् कुतस् सत्त्वम्? अ-सत्त्वस्य कुतस् जनिः? अ-जातस्य कुतस् नाशः? अ-सतः सत्-अ-सत्-रहितस्य कुतस् प्रारब्धम्?
jñāna, a-jñāna-kārya, sa-mūla, laya, yadi;
√sthā, idam, katham, deha, iti, saṅkāvat, jaḍa;
samādhātum, bāhya-dṛṣṭi, prābdha, √vad, śruti.

“तस्य (आचर्यवत्-पुरुषस्य) तावत् एव चिरं यावत् न विमोक्ष्ये अथ संपत्स्ये” ChanU.6.14.2 इति चेद्? “यदि ज्ञानेन अ-ज्ञान-कार्यस्य स-मूलस्य लयः भवेत्, कथं अयं ज्ञानिनः देहः तिष्ठति?” इति शङ्कावतः जडान् मन्द-जनान् प्रति समाधातुं प्रतिवक्तुम् इत्यर्थः श्रुतिः जीवत्-मुक्तस्य प्रारब्धं बाह्य-दृष्ट्या व्यवहारिक-दृष्ट्या वदति

Go to Top ('Home' key on many Windows browsers)

Summing up this Vedānta teaching

vs.101 vs.102 vs.103 vs.104 vs.105 vs.106 vs.107 vs.108

veda-anta-siddha-anta-nirukti, etad,
brahman, eva, jīva, sa-kala, jagat, ca;
a-khaṇda-rūpa-sthiti, eva, mokṣa,
brahma-a-dvitīya, śruti, pramāṇa.

एषा वेद-अन्त-सिद्ध-अन्त-निरुक्तिःब्रह्म एव जीवः स-कलं जगत् ईश्वरः अस्ति। अ-खण्ड-रूप-स्थितिः एव मोक्षःब्रह्म-अ-द्वितीये प्रमाणम् एव श्रुतयः
dhanya, asmad, kṛta-kṛtya, asmad, vimukta, asmad, bhava-graha;
nitya-ānanda-sva-rūpa, asmad, pūrṇa, asmad, tvad-anugraha.

अहं धन्यः ईश्वर-अनुग्रहात्। अहं कृत-कृत्यः, अहं भव-ग्रहात् विमुक्तः, अहं नित्य-आनन्द-स्व-रूपः, अहं पूर्णःत्वद्-मद्-गुरु-अनुग्रहात् च॥
svā-rājya-sāmrājya-vibhūti, etad,
bhavat-kṛpā-śrī-mahita(mahima)-prasāda;
prāptā, asmad, śrī-guru, mahā-ātman,
namas, namas, yuṣmad, √as, punar, namas, √as.

एषा स्वा-राज्य[=स्वा-तन्त्र्य]-साम्राज्य-विभूतिः मया भवत्-कृपा-श्री-महित-प्रसादात् भवत्-कृपा-ईश्वर-प्रसादात् प्राप्ताते श्री-गुरवे श्रीमत्-गुरवे महा-आत्मने नमस् नमस् अस्तु, पुनर् नमस् अस्तु
sva, eva, sarvatas, paśyat, manyamāna, sva, a-dvaya;
sva-ānanda, anubhuñjāna, kāla, √nī, mahā-mati.

स्वम् एव सर्वतस् पश्यन्, स्वम् अ-द्वयं मन्यमानः, स्व-आनन्दम् अनुभुञ्जानः स्व-कालं नय, हे महा-मते
iti, śrutvā, guru, vākya, praśraya, kṛta-ānati;
tad, tad, samanujñāta, √yā, nirmukta-bandhana.

इति (VivC.10–104of108) गुरोः वाक्यं श्रुत्वा, प्रश्रयेण प्रणयेन कृत-आनतिः, तेन गुरुना च समनुज्ञातः, सः निर्मुक्त-बन्धनः ययौ जगाम॥
guru, evam, sat-ānanda-sindhu, nirmagna-mānasa;
pāvayat, vasu-dhā, sarvā, vi-√car, nis-antaram.

एवं सत्-आनन्द-सिन्धौ निर्मग्न-मानसः गुरुः सर्वां वसु-धां पृथिवीं पावयन्, निस्-अन्तरं सदा विचचार परिजगाम॥
iti, ācārya, śiṣya, saṃvāda, ātma-lakṣaṇa;
nirūpita, mumukṣu, sukha-bodha-upapatti.

इति आत्म-लक्षणं मुमुक्षूणां सुख-बोध-उपपत्तये आचार्यस्य शिष्यस्य संवादेन निरूपितम्
saṃsāra-advan, tāpa-bhānu-kirana-prodbhūta-dāha-vyathā-
khinna, jala-kāṅkṣā, maru-bhū, bhrānti, paribhrāmyat;
ati-āsana-sudhā-ambu-dhi, sukha-kara, brahma, a-dvaya, darśayantī,
etad, śaṅkara-bhāratī, vi-√ji, nirvāṇa-sandāyinī.

ताप-भानु-किरण-प्रोद्भूत-दाह-व्यथा-खिन्नानां ताप-सुर्य-किरण-दुःखितानां जल-काङ्क्षया मरु-भुवि भ्रान्त्या परिभ्राम्यतां च, तथा संसार-अध्वनि संसार-मार्गे परिभ्राम्यतां अति-आसन्न[=सन्निहित]-सुधा-अम्बु-धिं सुख-करं ब्रह्म अ-द्वयं दर्शयन्ती, एषा निर्वाण-सन्दायिनी शङ्कर-भारती आदि-शङ्करस्य सरस्वती उक्तिः विजयते

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति विवेक-चूडामणिः समाप्तः॥