Sorry, your browser does not support JavaScript!
Go
Top
तत्त्व-बोध

1-15. Ātma-bodha Qualifications 16-43. Ātmā as the Individual 44-56. Ātmā as the Total 57-60. Identity of Individual & Total) 61-71. Benefit of Ātma-bodha

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view.
Tattva Bodha is written by a teacher within the Kāñci-Maṭh, established by ĀdiŚaṅkarācarya, and whose teacher was named Vāsu-devendra Saraswati. The division and numbering of the statements is for reference in this format only.

ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.
सः ह नै अवतु। सः ह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनौ [=तेजस्विनोः आवयोः] अधीतं अस्तु (अथवा, नौ अधीतं तेजस्वि अस्तु)। मा विद्विषावहै। ओम् शान्तिः शान्तिः शान्तिः॥
vāsu-deva-indra-yogi-indra, natvā, jñāna-prada, guru;
mumukṣu, hita-artha, tattva-bodha, abhi-√dhā.

वासु-देव-इन्द्र-योगि-इन्द्रं [=वासु-देवः नाम विष्णुः आदि-गुरुः देव-इन्द्र: च नाम शिवः उभौ एक-ईश्वरः एव, वासु-देव-इन्द्र-सरस्वतिः च नाम मम आचर्यः तं प्रति] ज्ञान-प्रदं गुरुं नत्वा, मुमुक्षूणां हित-अर्थाय तत्त्व-बोधः अभिधीयते॥

Go to Top ('Home' key on many Windows browsers)

[अथ आत्म-बोध-अधिकारित्वं वक्षामः]

Sādhana-catuṣṭaya-sampanna-adhikārin, mokṣa-sādhana-bhūta, tattva-viveka-prakāra, √vac.
साधन-चतुष्टय-सम्पन्न-अधिकारिणां मोक्ष-साधन-भूतं तत्त्व-विवेक-प्रकारं वक्ष्यामः।
Sādhana-catuṣṭaya, kim? Nitya-a-nitya-vastu-viveka. Iha-amutra-artha-phala-bhoga-virāga. Śama-ādi-ṣaṭka-sampatti. Mumukṣutva, ca, iti.
साधन-चतुष्टयं किम्? नित्य-अ-नित्य-वस्तु-विवेकः। इह-अमुत्र-अर्थ-फल-भोग-विरागः। शम-आदि-षट्क-सम्पत्तिः। मुमुक्षुत्वं च इति।
Nitya-a-nitya-vastu-viveka, kim? Nitya-vastu, eka, brahman. Tad-vyatirikta, sarva, a-nitya. Idam, eva, nitya-a-nitya-vastu-viveka.
नित्य-अ-नित्य-वस्तु-विवेकः कः? नित्य-वस्तु एकं ब्रह्म। तद्-व्यतिरिक्तं सर्वम् अ-नित्यम्। अयम् एव नित्य-अ-नित्य-वस्तु-विवेकः।
Virāga, kim? Iha-svarga-bhoga, icchā-rāhitya.
विरागः कः? इह-स्वर्ग-भोगेषु इच्छा-राहित्यम्।
Śama-ādi-sādhana-sampatti, kim? Śama, dama, uparama, titikṣā, śrad-dhā, samādhāna, ca, iti.
शम-आदि-साधन-सम्पत्तिः का? शमः दमः उपरमः तितिक्षा श्रद्-धा समाधानं च इति।
Śama, kim? Manas-nigraha.
शमः कः? मनस्-निग्रहः।
Dama, kim? Cakṣus-ādi-bāhya-indriya-nigraha.
दमः कः? चक्षुस्-आदि-बाह्य-इन्द्रिय-निग्रहः।
Uparama, kim? Sva-dharma-anuṣṭhāna, eva.
उपरमः कः? स्व-धर्म-अनुष्ठानम् एव।
Titikṣā, kim? Śīta-uṣṇa-sukha-duḥkha-ādi-sahiṣṇutva.
तितिक्षा का? शीत-उष्ण-सुख-दुःख-आदि-सहिष्णुत्वम्।
Śrad-dhā, kī-dṛśī? Guru-veda-anta-vākya, viśvāsa, śrad-dhā.
श्रद्-धा की-दृशी। गुरु-वेद-अन्त-वाक्येषु विश्वासः श्रद्-धा।
Samādhāna, kim? Citta-eka-agratā.
समाधानं किम्? चित्त-एक-अग्रता।
Mumukṣutva, kim? ‘Mokṣa, asmad, √bhū’, iti, icchā.
मुमुक्षुत्वं किम्? “मोक्षः मे भूयात्” इति इच्छा।
Etad, sādhana-catuṣṭaya.
एतद् साधन-चतुष्टयम्
Tatas, tattva-viveka, adhikārin, √bhū.
ततस् तत्त्व-विवेकस्य अधिकारिणः भवन्ति।
Tattva-viveka, kim? Ātman, satya, tad-anyad, sarva, mithyā, iti.
तत्त्व-विवेकः कः? आत्मा सत्यं, तद्-अन्यद् सर्वं मिथ्या इति।

Go to Top ('Home' key on many Windows browsers)

[अथ प्रत्यक्-आत्म-महा-वाक्य-त्वम्-पद-अर्थं वक्षामः]

Ātman, kim? Sthūla-sūkṣma-kāraṇa-śarīra, vyatirikta, pañca-kośa-atīta, sat, avasthā-traya-sākṣin, sat-cit-ānanda-sva-rūpa, sat, yad, √sthā, tad, ātman.
आत्मा कः? स्थूल-सूक्ष्म-कारण-शरीरात् व्यतिरिक्तः पञ्च-कोश-अतीतः सन्, अवस्था-त्रय-साक्षी सत्-चित्-आनन्द-स्व-रूपः सन्, यः तिष्ठति, सः आत्मा।
Sthūla-śarīra, kim? Pañcī-kṛta-pañca-mahā-bhūta, kṛta, sat, karma-janya, sukha-duḥkha-ādi-bhoga-āyatana, śarīra, ‘√as, √jan, √vṛdh, vi-pari-√nam, apa-√kṣi, vi-√naś’, iti, ṣaṣ-vikāravat, etad, sthūla-śarīra.
स्थूल-शरीरं किम्? पञ्ची-कृत-पञ्च-महा-भूतैः कृतं सत्, कर्म-जन्यं, सुख-दुःख-आदि-भोग-आयतनं – शरीरम् ‘अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यति’ इति षड्-विकारवत् एतद् स्थूल-शरीरम्।
Sūkṣma-śarīra, kim? A-pañcī-kṛta-pañca-mahā-bhūta, kṛta, sat, karma-janya, sukha-duḥkha-ādi-bhoga-āyatana, pañca-jñāna-indriya, pañca-karma-indriya, pañca-prāṇa-ādi, manas, ca, eka, buddhi, ca, ekā, evam, sapta-daśa-kala, saha, yad, √sthā, tad, sūkṣma-śarīra.
सूक्ष्म-शरीरं किम्? अ-पञ्ची-कृत-पञ्च-महा-भूतैः कृतं सत्, कर्म-जन्यं, सुख-दुःख-आदि-भोग-साधनं – पञ्च-ज्ञान-इन्द्रियाणि, पञ्च-कर्म-इन्द्रियाणि, पञ्च-प्राण-आदयः, मनस् च एकं, बुद्धिः च एका, एवं सप्त-दश-कलाभिः सह यद् तिष्ठति, तद् सूक्ष्म-शरीरम्।
Śrotra, tvac, cakṣus, rasanā, ghrāṇa, iti, pañca-jñāna-indriya.
श्रोत्रं त्वक् चक्षू रसना घ्राणम् इति पञ्च-ज्ञान-इन्द्रियाणि
Śrotra, diś-devatā. Tvac, vāyu. Cakṣus, sūrya. Rasanā, varuṇa. Ghrāṇa, aśvin. Iti, jñāna-indriya-devatā.
श्रोत्रस्य दिक्-देवता। त्वचः वायुः। चक्षुषः सूर्यः। रसनायाः वरुणः। घ्राणस्य अश्विनौ। इति ज्ञान-इन्द्रिय-देवताः
Śrotra, viṣaya, śabda-grahaṇa. Tvac, viṣaya, sparśa-grahaṇa. Cakṣus, viṣaya, rūpa-grahaṇa. Rasanā, viṣaya, rasa-grahaṇa. Ghrāṇa, viṣaya, gandha-grahaṇa, iti.
श्रोत्रस्य विषयः शब्द-ग्रहणम्। त्वचः विषयः स्पर्श-ग्रहणम्। चक्षुषः विषयः रूप-ग्रहणम्। रसनायाः विषयः रस-ग्रहणम्। घ्राणस्य विषयः गन्ध-ग्रहणम् इति [ज्ञान-इन्द्रियाणां विषयाः]।
Vāc-prāṇi-pāda-pāyu-upasthāna-iti-pañca-karma-indriya.
वाक्-पाणि-पाद-पायु-उपस्थानि इति पञ्च-कर्म-इन्द्रियाणि
Vāc, devatā, vahni. Hasta, indriya. Pāda, viṣṇu. Pāyu, mṛtyu. Upastha, prajā-pati. Iti, karma-indriya-devatā.
वाचः देवता वह्निः। हस्तयोः इन्द्रः। पादयोः विष्णुः। पायोः मृत्युः। उपस्थस्य प्रजा-पतिः। इति कर्म-इन्द्रिय-देवताः
Vāc, viṣaya, bhāṣaṇa. Pāṇi, viṣaya, vastu-grahaṇa. Pāda, viṣaya, gamana. Pāyu, viṣaya, mala-tyāga. Upastha, viṣaya, ānanda, iti.
वाचः विषयः भाषणम्। पाण्योः विषयः वस्तु-ग्रहणम्। पादयोः विषयः गमनम्। पायोः विषयः मल-त्यागः। उपस्थस्य विषयः आनन्दः इति [कर्म-इन्द्रियाणां विषयाः]।
Kāraṇa-śarīra, kim? A-nirvācya-an-ādi-a-vidyā-rūpa, śarīra-dvaya, kāraṇa-mātra, sat, sva-rūpa-a-jñāna, nis-vikalpaka-rūpa, yad, √as, tad, kāraṇa-śarīra.
कारण-शरीरं किम्? अ-निर्वाच्य-अन्-आदि-अ-विद्या-रूपं शरीर-द्वयस्य कारण-मात्रं सत् स्व-रूप-अ-ज्ञानं निस्-विकल्पक-रूपं यद् अस्ति, तद् कारण-शरीरम्।
Avasthā-traya, kim? Jāgrat-svapna-suṣupti-avasthā.
अवस्था-त्रयं किम्? जाग्रत्-स्वप्न-सुषुप्ति-अवस्थाः।
Jāgrat-avasthā, kim? ‘Śrotra-ādi-jñāna-indriya, śabda-ādi-viṣaya, √jñā’, iti, yad, tad, jāgrat-avasthā. Sthūla-śarīra-abhimānin, ātman, ‘viśva’, iti, √vac.
जाग्रत्-अवस्था का? ‘श्रोत्र-आदि-ज्ञान-इन्द्रियैः शब्द-आदि-विषयाः ज्ञायन्ते’ इति यद्, सा जाग्रत्-अवस्था। स्थूल-शरीर-अभिमानी आत्मा ‘विश्वः’ इति उच्यते।
Svapna-avasthā, kim? Iti, ced. Jāgrat-avasthā, yad, dṛṣṭa, yad, śruta, tad-janita-vāsanā, nidrā-samaya, yad, prapañca, prati-√i, tad, svapna-avasthā. Sūkṣma-śarīra-abhimānin, ātman, ‘taijasa’, iti, √vac.
स्वप्न-अवस्था का? इति चेद्। जाग्रत्-अवस्थायां यद् दृष्टं यद् श्रुतं तद्-जनित-वासनया, निद्रा-समये यः प्रपञ्चः प्रतीयते, सा स्वप्नावस्था। सूक्ष्म-शरीर-अभिमानी आत्मा ‘तैजसः’ इति उच्यते।
Tatas, suṣupti-avasthā, kim? ‘Aham, api, na, √jnā, sukha, asmad, nidrā, anu-√bhū’, iti, suṣupti-avasthā.
ततस् सुषुप्ति-अवस्था का? “अहं किम् अपि न जानामि, सुखेन मया निद्रा अनुभूयते” इति सुषुप्ति-अवस्था।
Kāraṇa-śarīra-abhimānin, ātman, ‘prājña’, iti, √vac.
कारण-शरीर-अभिमानी आत्मा ‘प्राज्ञः’ इति उच्यते।
Pañca-kośa, kim? Annamaya, prāṇamaya, manomaya, vijñānamaya, ānandamaya, ca, iti.
पञ्च-कोशाः के? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयः च इति।
Annamaya, kim? Anna-rasa, eva, bhūtvā; anna-rasa, eva, vṛddhi, prāpya; anna-rūpa-pṛthivī, yad, vi-√lī; tad, annamaya, kośa, sthūla-śarīra.
अन्नमयः कः? अन्न-रसेन एव भूत्वा, अन्न-रसेन एव वृद्धिं प्राप्य, अन्न-रूप-पृथिव्यां यद् विलीयते, तद् अन्नमयः कोशः स्थूल-शरीरम्।
Prāṇamaya, kim? Prāṇa-ādi, pañca-vāyu, vāc-ādi-indriya-pañcaka, prāṇamaya, kośa.
प्राणमयः कः? प्राण-आद्याः पञ्च-वायवः वाक्-आदि-इन्द्रिय-पञ्चकं प्राणमयः कोशः।
Manomaya, kim? Manas, ca, jñāna-indriya-pañcaka, militvā, yad, √bhū, tad, manomaya, kośa.
मनोमयः कः? मनस् च ज्ञान-इन्द्रिय-पञ्चकं मिलित्वा यः भवति, सः मनोमयः कोशः।
Vijñānamaya, kim? Buddhi, jñāna-indriya-pañcaka, militvā, yad, √bhū, tad, vijñānamaya, kośa.
विज्ञानमयः कः? बुद्धिः ज्ञान-इन्द्रिय-पञ्चकं मिलित्वा यः भवति, सः विज्ञानमयः कोशः।
Ānandamaya (ānandamaya, kośa), kim? Evam, eva, kāraṇa-śarīra-bhūta-a-vidyā-stha-malina-sattva, priya-ādi-vṛtti-sahita, sat (priya-moda-ādi-vṛttimat, sva-rūpa-a-jñāna, yad, √bhū, tad), ānandamaya, kośa.
आनन्दमयः (आनन्दमयः कोशः) कः? एवम् एव कारण-शरीर-भूत-अ-विद्या-स्थ-मलिन-सत्त्वं प्रिय-आदि-वृत्ति-सहितं सत् (प्रिय-मोद-आदि-वृत्तिमत् स्व-रूप-अ-ज्ञानं यद् अस्ति तद्) आनन्दमयः कोशः।
Etad, kośa-pañcaka.
एतद् कोश-पञ्चकम्।
‘Madīya, śarīra, madīya, prāṇa, madīya, manas, ca, madīyā, buddhi, madīya, a-jñāna’, iti, sva, eva, √jñā, tad. Yathā, madīyatva, jñāta, kaṭaka-kuṇḍala-gṛha-ādika, sva, bhinna; tathā, pañca-kośa-ādika, madīyatva, jñāna, ātman, na, √bhū.
“मदीयं शरीरं, मदीयाः प्राणाः, मदीयं मनस् च, मदीया बुद्धिः, मदीयम् अ-ज्ञानम्” इति स्वेन एव ज्ञायते तद्। यथा मदीयत्वेन ज्ञातं कटक-कुण्डल-गृह-आदिकं स्वस्मात् भिन्नं, तथा पञ्च-कोश-आदिकं मदीयत्वेन ज्ञातम् आत्मा न भवति।
Ātman, tarhi, kim? Sat-cit-ānanda-sva-rūpa.
आत्मा तर्हि कः? सत्-चित्-आनन्द-स्व-रूपः।
Sat, kim? Kāla-traya, api, √sthā, iti, sat.
सत् किम्? ‘काल-त्रये अपि तिष्ठति’ इति सत्।
Cit, kim? Jñāna-sva-rūpa.
चित् किम्? ज्ञान-स्व-रूपः।
Ānanda, kim? Sukha-sva-rūpa.
आनन्दः कः? सुख-स्व-रूपः।
Evam, sat-cit-ānanda-sva-rūpa, sva-ātman, vi-√jñā.
एवं सत्-चित्-आनन्द-स्व-रूपं स्व-आत्मानं विजानीयात्।

Go to Top ('Home' key on many Windows browsers)

[अथ परम-आत्म-महा-वाक्य-तद्-पद-अर्थं वक्षामः]

Atha, catur-viṃśati-tattva-utpatti-prakāra, √vac.
अथ चतुर्-विंशति-तत्त्व-उत्पत्ति-प्रकारं वक्ष्यामः।
Brahma-āśrayā, sattva-rajas-tamas-guṇa-ātmikā, māyā, √as.
ब्रह्म-आश्रया सत्त्व-रजस्-तमस्-गुण-आत्मिका माया अस्ति।
Tatas, ākāśa, sambhūta. Ākāśa, vāyu. Vāyu, tajas. Tajas, ap. Ap, pṛthivī.
ततस् आकाशः सम्भूतः। आकाशात् वायुः। वायोः तेजस्। तेजसः आपः। अद्भ्यः पृथिवी
Etad, pañca-tattva, madhya, ākāśa, sāttvika-aṃśa, śrotra-indriya, sambhūta. Vāyu, sāttvika-aṃśa, tvac-indriya, sambhūta. Agni, sāttvika-aṃśa, cakṣus-indriya, sambhūta. Jala, sāttvika-aṃśa, rasana-indriya, sambhūta. Pṛthivī, sāttvika-aṃśa, ghrāṇa-indriya, sambhūta.
एतेषां पञ्च-तत्त्वानां मध्ये आकाशस्य सात्त्विक-अंशात् श्रोत्र-इन्द्रियं सम्भूतम्। वायोः सात्त्विक-अंशात् त्वक्-इन्द्रियं सम्भूतम्। अग्नेः सात्त्विक-अंशात् चक्षुस्-इन्द्रियं सम्भूतम्। जलस्य सात्त्विक-अंशात् रसन-इन्द्रियं सम्भूतम्। पृथिव्याः सात्त्विक-अंशात् घ्राण-इन्द्रियं सम्भूतम्।
Etad, pañca-tattva, samaṣṭi-sāttvika-aṃśa, manas-buddhi-aham-kāra-citta-antar-karaṇa, sambhūta.
एतेषां पञ्च-तत्त्वानां समष्टि-सात्त्विक-अंशात् मनस्-बुद्धि-अहम्-कार-चित्त-अन्तर्-करणानि सम्भूतानि।
Saṅkalpa-vikalpa-ātmaka, manas. Niścaya-ātmikā, buddhi. Aham-kartṛ, aham-kṛti. Cintana-kartṛ, citta.
सङ्कल्प-विकल्प-आत्मकं मनस्। निश्चय-आत्मिका बुद्धिः। अहम्-कर्ता अहम्-कृतिः। चिन्तन-कर्तृ चित्तम्
Manas, devatā, candramas. Buddhi, brahman. Aham-kāra, rudra. Citta, vāsu-deva.
मनसः देवता चन्द्रमाः। बुद्धेः ब्रह्मा। अहम्-कारस्य रुद्रः। चित्तस्य वासु-देवः। [इति अन्तर्-करणानां देवताः]।
Etad, pañca-tattva, madhya, ākāśa, rājasa-aṃśa, vāc-indriya, sambhūta. Vāyu, rājasa-aṃśa, pāṇi-indriya, sambhūta. Vahni, rājasa-amśa, pāda-indriya, sambhūta. Jala, rājasa-aṃśa, guda-indriya, sambhūta. Pṛthivī, rājasa-amśa, upastha-indriya, sambhūta.
एतेषां पञ्च-तत्त्वानां मध्ये आकाशस्य राजस-अंशात् वाक्-इन्द्रियं सम्भूतम्। वायोः राजस-अंशात् पाणि-इन्द्रियं सम्भूतम्। वह्नेः राजस-अंशात् पाद-इन्द्रियं सम्भूतम्। जलस्य राजस-अंशात् गुद-इन्द्रियं सम्भूतम्। पृथिव्याः राजस-अंशात् उपस्थ-इन्द्रियं सम्भूतम्।
Etad, samaṣṭi-rājasa-aṃśa, pañca-prāṇa, sambhūta.
एतेषां समष्टि-राजस-अंशात् पञ्च-प्राणाः सम्भूताः।
Etad, pañca-tattva, tāmasa-aṃśa, pañcī-kṛta-pañca-tattva, √bhū.
एतेषां पञ्च-तत्त्वानां तामस-अंशात् पञ्ची-कृत-पञ्च-तत्त्वानि भवन्ति।
Pañcī-karaṇa, katham? Iti, ced. Etad, pañca-mahā-bhūta, tāmasa-aṃśa-sva-rūpa, eka, eka, bhūta, dvidhā, vibhajya; eka, eka, ardha, pṛthak, tūṣṇīm, vyavasthāpya; apara, apara, ardha, caturdhā, vibhajya; sva-ardha-bhinna, anya, sva-bhāga-catuṣṭaya-saṃyojana, pañcī-karaṇa, √bhū.
पञ्ची-करणं कथम्? इति चेद्। एतेषां पञ्च-महा-भूतानां तामस-अंश-स्व-रूपम् एकम् एकं भूतं द्विधा विभज्य, एकम् एकम् अर्धं पृथक् तूष्णीं व्यवस्थाप्य, अपरम् अपरम् अर्धं चतुर्धा विभज्य, स्व-अर्ध-भिन्नेषु अन्येषु स्व-भाग-चतुष्टय-संयोजनं पञ्ची-करणं भवति।
Etad, pañcī-kṛta-pañca-mahā-bhūta, sthūla-śarīra, √bhū.
एतेभ्यः पञ्ची-कृत-पञ्च-महा-भूतेभ्यः [सर्वं] स्थूल-शरीरं भवति।
Evam, piṇḍa-brahma-aṇḍa, aikya, sambhūta.
एवं [मायायां स्थूल-सुक्ष्म-]पिण्ड-ब्रह्म-अण्डयोः [व्यावहारिकं] ऐक्यं सम्भूतम्।

Go to Top ('Home' key on many Windows browsers)

[अथ प्रत्यक्-परम-आत्म-पारमार्थिक-एकत्व-बोधं वक्षामः]

Sthūla-śarīra-abhimānin, ‘jīva’-nāmaka, brahma-pratibimba, √bhū. Tad, Eva, jīva, prakṛti, sva, īśvara, bhinnatva, √jñā. A-vidyā-upādhi, sat, ātman, ‘jīva’, iti, √vac. Māyā-upādhi, sat, ātman, ‘īśvara’, iti, √vac. Evam, upādhi-bheda, jīva-īśvara-bheda-dṛṣṭi, yāvat, paryantam, √sthā; tāvat, paryantam, janma-maraṇa-ādi-rūpa-saṃsāra, na, ni-√vṛt.
स्थूल-शरीर-अभिमानी जीव-नामकं ब्रह्म-प्रतिबिम्बं भवति। सः एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति। अ-विद्या-उपाधिः सन् आत्मा ‘जीवः’ इति उच्यते। माया-उपाधिः सन् आत्म ‘ईश्वरः’ इति उच्यते। एवम् उपाधि-भेदात् जीव-ईश्वर-भेद-दृष्टिः यावत् पर्यन्तं तिष्ठति, तावत् पर्यन्तं जन्म-मरण-आदि-रूप-संसारः न निवर्तते।
Tad, kāraṇa, na, jīva-īśvara, bheda-buddhi, svī-kāryā.
तस्मात् कारणात् न जीव-ईश्वरयोः भेद-बुद्धिः स्वी-कार्या।
Nanu; sa-aham-kāra, ka-cid-jña, jīva, nis-aham-kāra, sarva-jña, īśvara, ‘tad, yuṣmad, as’, iti, mahā-vākya, katham, a-bheda-buddhi, √as, ubhaya, viruddha-dharma-ākrāntatva?
ननु, स-अहम्-कारस्य किम्-चिद्-ज्ञस्य जीवस्य निस्-अहम्-कारस्य सर्व-ज्ञस्य ईश्वरस्य “तद् त्वम् असि” इति महा-वाक्यात् कथम् अ-भेद-बुद्धिः स्यात् उभयोः विरुद्ध-धर्म-आक्रान्तत्वात्?
Iti, ced; na. Sthūla-sūkṣma-śarīra-abhimānin, tvam-pada-vācya-artha. Upādhi-vinirmukta, samādhi-daśā-sampanna, śuddha, caitanya, tvam-pada-lakṣya-artha. Evam, sarva-jñatva-ādi-viśiṣṭa, īśvara, tad-pada-vācya-artha. Upādhi-śūnya, śuddha-caitanya, tad-pada-lakṣya-artha. Evam, ca, jīva-īśvara, caitanya-rūpa, a-bheda, bādhaka-a-bhāva.
इति चेद्, न। स्थूल-सूक्ष्म-शरीर-अभिमानी त्वम्-पद-वाच्य-अर्थः। उपाधि-विनिर्मुक्तं समाधि-दशा-सम्पन्नं शुद्धं चैतन्यं त्वम्-पद-लक्ष्य-अर्थः। एवं सर्व-ज्ञत्व-आदि-विशिष्टः ईश्वरः तद्-पद-वाच्य-अर्थः। उपाधि-शून्यं शुद्ध-चैतन्यं तद्-पद-लक्ष्य-अर्थः। एवं च जीव-ईश्वरयोः चैतन्य-रूपेण अ-भेदे बाधक-अ-भावः।

Go to Top ('Home' key on many Windows browsers)

[अथ तत्त्व-बोध-फलं वक्षामः]

Evam, ca, veda-anta-vākya, sat-guru-upadeśa, ca, sarva, api, bhūta, yad, brahma-buddhi, utpannā, tad, jīvat-mukta, √bhū.
एवं च वेद-अन्त-वाक्यैः सत्-गुरु-उपदेशेन च सर्वेषु अपि भूतेषु येषां ब्रह्म-बुद्धिः उत्पन्ना, ते जीवत्-मुक्ताः भवन्ति।
Nanu; jīvat-mukta, kim? Yathā, ‘deha, asmad, puruṣa, asmad, brāhmaṇa, asmad, śūdra, asmad, √as’, iti, dṛḍha-niścaya; tathā, ‘na, asmad, brāhmaṇa, na, śūdra, na, puruṣa; kim-tu, a-saṅga, sat-cit-ānanda-sva-rūpa, prakāśa-rūpa, sarva-antar-yāmin, cit-ākāśa-rūpa, √as’, iti, dṛḍha-niścaya-rūpa-a-paras-akṣa-jñānavat, jīvat-mukta.
ननु, जीवत्-मुक्तः कः? यथा “देहः अहं, पुरुषः अहं, ब्राह्मणः अहं, शूद्रः अहम् अस्मि” इति दृढ-निश्चयः, तथा “न अहं ब्राह्मणः, न शूद्रः, न पुरुषः, किम्-तु अ-सङ्गः सत्-चित्-आनन्द-स्व-रूपः प्रकाश-रूपः सर्व-अन्तर्-यामी चित्-आकाश-रूपः अस्मि” इति दृढ-निश्चय-रूप-अ-परस्-अक्ष-ज्ञानवान् जीवत्-मुक्तः।
‘Brahman, eva, asmad, √as’, iti, a-paras-akṣa-jñāna, nikhila-karma-bandha-vinirmukti, √as.
“ब्रह्म एव अहम् अस्मि” इति अ-परस्-अक्ष-ज्ञानेन निखिल-कर्म-बन्ध-विनिर्मुक्तिः स्यात्।
Karman, kati-vidha, √as? Iti, ced. Āgāmi-sañcita-prārabdha-bheda, tri-vidha, √as.
कर्माणि कति-विधानि सन्ति? इति चेद्। आगामि-सञ्चित-प्रारब्ध-भेदेन त्रि-विधानि सन्ति।
Āgāmin, karman, kim? Jñāna-utpatti-an-antara, jñāni-deha-kṛta, puṇya-pāpa-rūpa, karman, yad, √as, tad, ‘āgāmin’, iti, abhi-√dhā.
आगामि कर्म किम्? ज्ञान-उत्पत्ति-अन्-अन्तरं ज्ञानि-देह-कृतं पुण्य-पाप-रूपं कर्म यद् अस्ति, तद् ‘आगामि’ इति अभिधीयते।
Sañcita, karman, kim? An-anta-koṭi-janman, bīja-bhūta, sat, yad, karma-jāta, pūrva-arjita, √sthā, tad, ‘sañcita’, jñeya.
सञ्चितं कर्म किम्? अन्-अन्त-कोटि-जन्मनां बीज-भूतं सत् यद् कर्म-जातं पूर्व-अर्जितं तिष्ठति, तद् ‘सञ्चितं’ ज्ञेयम्।
Prārabdha, karman, kim? Iti, ced. Idam, śarīra, utpādya; iha, loka, eva, sukha-duḥkha-ādi-prada, yad, karman, tad, prārabdha. Bhoga, naṣṭa, √bhū; ‘prārabdha-karman, bhoga, eva, kṣaya’, iti.
प्रारब्धं कर्म किम्? इति चेद्। इदं शरीरम् उत्पाद्य, इह लोके एव सुख-दुःख-आदि-प्रदं यद् कर्म तद् प्रारब्धं। भोगेन नष्टं भवति, “प्रारब्ध-कर्मणां भोगात् एव क्षयः” इति।
Sañcita, karman, ‘brahman, eva, asmad, √as’, iti, niścaya-jñāna, √naś.
सञ्चितं कर्म “ब्रह्म एव अहम् अस्मि” इति निश्चय-ज्ञानेन नश्यति।
Āgāmin, karman, api, jñāna, √naś. Kim-ca, āgāmi-karman, nalinī-dala-gata-jalavat, jñānin, sambandha, na, √as.
आगामि कर्म अपि ज्ञानेन नश्यति। किम्-च आगामि-कर्मणां नलिनी-दल-गत-जलवत् ज्ञानिनां सम्बन्धः न अस्ति।
Kim-ca, yad, jñānin, √stu, √bhaj, √arc; tad, prati, jñāni-kṛta, āgāmin, puṇya, √gam. Yad, jñānin, √nind, √dviṣ, duḥkha-pradāna, √kṛ; tad, prati, jñāni-kṛta, sarva, āgāmin, kriyamāṇa-pada-vācya (kriyamāṇa, yad, a-vācya), karman, pāpa-ātmaka, tad, √gam. (Tathā, ca, śruti, ‘su-hṛd, puṇya-kṛtyā, dviṣat, pāpa-kṛtyā, √grah’, iti.)
किम्-च ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति, तान् प्रति ज्ञानि-कृतम् आगामि पुण्यं गच्छति। ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःख-प्रदानं कुर्वन्ति, तान् प्रति ज्ञानि-कृतं सर्वम् आगामि क्रियमाण-पद-वाच्यं (क्रियमाणं यद् अ-वाच्यं) कर्म पाप-आत्मकं तद् गच्छति। (तथा च श्रुतिः सु-हृदः पुण्य-कृत्यां द्विषन्तः पाप-कृत्यां गृह्णन्ति इति।)।
Tathā, ca, ātma-vid, saṃsāra, tīrtvā, brahma-ānanda, iha, eva, pra-√āp. “√Tṝ, śoka, ātma-vid”, iti, śruti. “Tanu, √tyaj, vai, kāśi; śva-paca, gṛha, athavā. Jñāna-saṃprāpti-samaya, mukta, adas, vigata-āśaya”, iti, smṛti, ca.
तथा च आत्म-विद् संसारं तीर्त्वा ब्रह्म-आनन्दम् इह एव प्राप्नोति। “तरति शोकम् आत्म-विद्” इति श्रुतेः।
“तनुं त्यजतु वा काश्यां, श्व-पचस्य गृहे अथवा।
ज्ञान-संप्राप्ति-समये मुक्तः असौ विगत-आशयः” इति स्मृतेः च।

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति तत्त्व-बोध-प्रकरणं समाप्तम्।॥