Sorry, your browser does not support JavaScript!
Go
Top
मुण्डक उपनिषद्
with शङ्कर-भाष्यम्


Khaṇḍa 1.1 Khaṇḍa 1.2 Khaṇḍa 2.1 Khaṇḍa 2.2 Khaṇḍa 3.1 Khaṇḍa 3.2

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Muṇḍaka-Upaniṣad, from the Atharva Veda, presents the nature and limits of rituals. It expressly calls Brahma VidyāVedānta’ and the ultimate knowledge, emphasizing the need for finding a qualified teacher.

ओम्, भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र् यज॑त्राः।
स्थि॒रैर् अङ्गै᳚स् तुष्टु॒वाग्ँस॑स् त॒नूभिः॑ व्यशे॑म दे॒व-हि॑तं॒ यद् आयुः॑॥
स्व्-अ॒स्ति न॒ इन्द्रो॑ वृ॒द्ध-श्र॑वाः। स्व्-अ॒स्ति नः॑ पू॒षा वि॒श्व-वे॑दाः।
स्व्-अ॒स्ति न॒स् तार्क्ष्यो॒ अरि॑ष्ट-नेमिः। स्व्-अ॒स्ति नो॒ बृह॒स्-पति॑र् दधातु॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥

Om, bhadra, karṇa, √śṛ, deva. bhadra, √dṛś, akṣa, yajatra.
sthira, aṅga, tuṣṭuvas, tanū, vi-√aś, deva-hita, yad, āyus.
su-asti, asmad, indra, vṛddha-śravas. su-asti, asmad, pūṣan, viśva-deva.
su-asti, asmad, tārkṣya, a-riṣṭa-nemi. su-asti, asmad, bṛhas-pati, √dhā.
om, śānti, śānti, śānti.

ओम्, “ब्रह्मा देवानाम्” (MunU.1.1.01) इत्याद्य्-आथर्वणोपनिषद्, अस्याश्च विद्या-सम्प्रदाय-कर्तृ-पारम्पर्य-लक्षणं सम्बन्धम् आदाव् एवाह स्वयम् एव स्तुत्यर्थम् – एवं हि महद्भिः परम-पुरुषार्थ-साधनत्वेन गुरुणा_आयासेन लब्धा विद्या_इति, श्रोतृ-बुद्धि-प्ररोचनाय विद्यां मही-करोति। स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरन्न् इति।
प्रयोजनेन तु विद्यायाः साध्य-साधन-लक्षणं सम्बन्धम् उत्तरत्र प्रवक्ष्यति “भिद्यते हृदय-ग्रन्थिः” (MunU.2.2.08) इत्यादिना।
अत्र च अपर-शब्द-वाच्यायाम् ऋग्-वेदादि-लक्षणायां विधि-प्रतिषेधमात्र-परायां विद्यायां संसार-कारणाविद्यादि-दोष-निवर्तकत्वं नास्तीति स्वयम् एवोक्त्वा परापर-विद्या-भेद-करण-पूर्वकम् (MunU.1.2.04) “अ-विद्यायाम् अन्तरे वर्तमानाः” (MunU.1.2.08) इत्यादिना, तथा पर-प्राप्ति-साधनं सर्व-साधन-साध्य-विषय-वैराग्य-पूर्वकं गुरु-प्रसाद-लभ्यां ब्रह्म-विद्याम् आह “परीक्ष्य लोकान्” (MunU.1.2.12) इत्यादिना।
प्रयोजनं च_अ-सकृद् ब्रवीति “ब्रह्म वेद ब्रह्मैव भवति” (MunU.3.2.09) इति “परामृताः परिमुच्यन्ति सर्वे” (MunU.3.2.06) इति च।
ज्ञानमात्रे यद्यपि [उपनिषद्-सहित-वेद-अध्ययनेन] सर्वाश्रमिणाम् अधिकारः, तथापि संन्यास-निष्ठैव ब्रह्म-विद्या मोक्ष-साधनं न कर्म-सहितेति “भैक्ष-चर्यां चरन्तः” (MunU.1.2.11) “संन्यास-योगाद्” (MunU.3.2.06) इति च ब्रुवन् दर्शयति।
विद्या-कर्म-विरोधाच्च – न हि ब्रह्मात्मैकत्व-दर्शनेन सह कर्म स्वप्नेऽपि संपादयितुं शक्यं, विद्यायाः काल-विशेषाभावाद् अ-नियत-निमित्तत्वाच् च काल-संकोचानुपपत्तेः।
यत् तु गृह-स्थेषु ब्रह्म-विद्या-सम्प्रदाय-कर्तृत्वादि लिङ्गं [भवेत्?] – न तत् [लिङ्गं] स्थितं न्यायं [‘विद्या-कर्म-विरोधात्’] बाधितुम् उत्सहते, न हि विधि-शतेनापि तमः-प्रकाशयोर् एकत्र सद्-भावः शक्यते कर्तुम्, किम्-उत लिङ्गैः केवलैर् इति।
एवम् उक्त-सम्बन्ध-प्रयोजनाया उपनिषदोऽल्पाक्षरं ग्रन्थ-विवरणम् आरभ्यते। य इमां ब्रह्म-विद्याम् उप-यन्त्य् आत्म-भावेन श्रद्धा-भक्ति-पुरःसराः सन्तः, तेषां गर्भ-जन्म-जरा-रोगाद्य्-अनर्थ-पूगं नि-शातयति परं वा ब्रह्म गमयत्य्, अ-विद्यादि-संसार-कारणं च अत्यन्तम् अवसादयति विनाशयति – इत्य् उपनिषद् उप-नि-पूर्वस्य सदेर् एवम् अर्थ-स्मरणात् [see KathU. Bhāṣya Intro.]॥

Go to Top ('Home' key on many Windows browsers)

The lower and higher knowledge

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09

brahman, deva, prathama, sam-√bhū, viśva, kartṛ, bhuvana, goptṛ;
tad, brahma-vidyā, sarva-vidyā-pratiṣṭhā, atharva[n], jyeṣṭha-putra, pra-√ah.

विश्वस्य कर्ता, भुवनस्य गोप्ता, ब्रह्मा देवानां प्रथमः सम्बभव। सः [ब्रह्मा] सर्व-विद्या-प्रतिष्ठां ब्रह्म-विद्यां अथर्वाय ज्येठ-पुत्राय प्राह॥
ब्रह्मा परिबृढो महान् धर्म-ज्ञान-वैराग्यैश्वर्यैः सर्वान् अन्यान् अतिशेत इति, देवानां द्योतनवताम् इन्द्रादीनां प्रथमः गुणैः प्रधानः सन्, प्रथमः अग्रे वा सम्बभूव अभिव्यक्तः सम्यक् स्वा-तन्त्र्येण इत्यभिप्रायः। न तथा यथा धर्माधर्म-वशात् संसारिणोऽन्ये जायन्ते, “योऽसाव् अतीन्द्रियोऽग्राह्यः…[स्वयम् उद्बभौ]” (ManSmrt.1.7) इत्यादि-स्मृतेः।
विश्वस्य सर्वस्य जगतः कर्ता उत्पादयिता, भुवनस्य उत्पन्नस्य गोप्ता पालयिता_इति विशेषणं ब्रह्मणो विद्या-स्तुतये। सः एवं-प्रख्यात-महत्त्वो ब्रह्मा ब्रह्म-विद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्म-विद्याम्, “येनाक्षरं पुरुषं वेद सत्यम्” (MunU.1.2.13) इति विशेषणात्। परमात्म-विषया हि सा। ब्रह्मणा वा_अग्रजेनोक्ता_इति ब्रह्म-विद्या। तां (ब्रह्म-विद्यां) सर्व-विद्या-प्रतिष्ठां सर्व-विद्याभिव्यक्ति-हेतुत्वात् सर्व-विद्याश्रयाम् इत्यर्थः।
सर्व-विद्यावेद्यं वा वस्त्व् अनया_एव ज्ञायत इति, “येनाश्रुतं श्रुतं भवति अ-मतं मतम् अ-विज्ञातं विज्ञातम्” (ChanU.6.1.3) इति श्रुतेः। “सर्व-विद्या-प्रतिष्ठाम्” इति च स्तौति विद्याम्। अथर्वाय ज्येष्ठ-पुत्राय ज्येष्ठश् च असौ पुत्रश् च, अनेकेषु ब्रह्मणः सृष्टि-प्रकारेष्व् अन्यतमस्य सृष्टि-प्रकारस्य प्रमुखे पूर्वम् अथर्वा सृष्ट इति ज्येष्ठः, तस्मै ज्येष्ठ-पुत्राय प्राह प्रोक्तवान्॥
atharva[n], yad, pra-√vad, brahman, atharva[n], tad, purā, √vac, aṅgir, brahma-vidyā;
tad, bhārad-vāja, satya-vaha, pra-√ah, bhārad-vāja, aṅgiras, para-avaram.

ब्रह्मा यां [ब्रह्म-विद्याम्] अथर्वणे प्रवदेत। अथर्वा तां ब्रह्म-विद्याम् अङ्गिरे पुरा उवाच। सः [अङ्गीर्/अङ्गिराः] सत्य-वहाय भारद्-वाजाय प्राह। भारद्-वाजः अङ्गिरसे परावरां [परम्-परया प्राप्तां ब्रह्म-विद्याम् उवाच]॥
याम् एताम् अथर्वणे प्रवदेत प्रावदद् ब्रह्म-विद्यां ब्रह्मा, ताम् एव ब्रह्मणः प्राप्ताम् अथर्वा पुरा पूर्वम्, उवाच उक्तवान् अङ्गिरे अङ्गिर्-नाम्ने ब्रह्म-विद्याम् चाङ्गीः भारद्-वाजाय भरद्-वाज-गोत्राय सत्य-वहाय सत्य-वह-नाम्ने प्राह प्रोक्तवान्। भारद्-वाजः अङ्गिरसे स्व-शिष्याय पुत्राय वा परावरां परस्मात् परस्माद् अवरेण (अवरेण) प्राप्तेति परावरा परावर-सर्व-विद्या-विषय-व्याप्तेर् वा, तां परावराम् अङ्गिरसे ‘प्राह’ इत्य् अनुषङ्गः॥
Śaunaka, ha, vai, mahā-śāla, aṅgiras, vidhivat, upasanna, √pṛch. Kim, nu, bhagavan, vijñāta, sarva, idam, vijñāta, √bhū, iti.
शौनकः ह वै महा-शालः अङ्गिरसं विधिवत् उपसन्नः पप्रच्छ। कस्मिन् नु भगवः विज्ञाते सर्वम् इदं विज्ञातं भवति इति॥
शौनकः शुनकस्यापत्यं महा-शालः महा-गृह-स्थः अङ्गिरसं भारद्-वाज-शिष्यम् आचार्यं विधिवद् यथा-शास्त्रम् इत्येतद्, उपसन्नः उपगतः सन् पप्रच्छ पृष्टवान्। शौनकाङ्गिरसोः सम्बन्धाद् अर्वाग् विधिवद्-विशेषणाद् उपसदन-विधेः ‘पूर्वेषाम् अ-नियम’ इति गम्यते। मर्यादा-करणार्थं विशेषणम्। मध्य-दीपिका-न्यायार्थं वा विशेषणम्। अस्मद्-आदिष्व् अप्य् उपसदन-विधेर् इष्टत्वात्।
किम्? इत्याह – कस्मिन् नु भगवो विज्ञाते, “नु” इति वितर्के, भगवः हे भगवन्, सर्वं यद् इदं विज्ञेयं विज्ञातं विशेषेण ज्ञातम् अवगतं भवति_इति। ‘एकस्मिन् ज्ञाते सर्व-विद् भवति’ इति शिष्ट-प्रवादं श्रुतवाञ् शौनकः तद् विशेषं विज्ञातु-कामः सन् “कस्मिन् नु?” इति वितर्कयन् पप्रच्छ। अथवा, लोक-सामान्य-दृष्ट्या ज्ञात्वा_एव पप्रच्छ। सन्ति (हि) लोके सुवर्णादि-शकल-भेदाः सुवर्णत्वाद्य्-एकत्व-विज्ञानेन विज्ञायमाना लौकिकैः, तथा किं न्व् अस्ति? सर्वस्य जगद्-भेदस्य_एकं कारणम् यद्-एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति।
नन्व् अ-विदिते हि ‘कस्मिन्?’ इति प्रश्नोऽनुपपन्नः, ‘किम् अस्ति तद्?’ इति तदा प्रश्नो युक्तः, सिद्धे ह्य् अस्तित्वे ‘कस्मिन्?’ इति स्याद्, यथा ‘कस्मिन् निधेयम्?’ इति।
न, अ-क्षर-बाहुल्याद् आयास-भीरुत्वात् प्रश्नः सम्भवत्य् एव – ‘किं न्व् एकस्मिन् विज्ञाते सर्व-वित् स्याद्’ इति॥
Tad, tad, ha, √vac. Dvi, vidyā, veditavya, iti, ha, sma, yad, brahma-vid, √vad, parā, ca, eva, a-parā, ca.
तस्मै [शौनकाय] सः ह उवाच। ‘द्वे विद्ये वेदितव्ये’ इति ह स्म यद् ब्रह्म-विदः वदन्ति परा च एव अ-परा च॥
तस्मै शौनकाय (सः) अङ्गिराः किल उवाच। किम्? इति उच्यते – द्वे विद्ये वेदितव्ये ज्ञातव्ये इति एवं ह स्म किल, यद् ब्रह्म-विदः वेदार्थाभिज्ञाः परमार्थ-दर्शिनः वदन्ति। के ते? इत्य् आह – परा च परमात्म-विद्या, अपरा च धर्माधर्म-साधन-तत्-फल-विषया।
ननु ‘कस्मिन् विदिते सर्व-विद् भवति’_इति शौनकेन पृष्टम्। तस्मिन् वक्तव्ये_अ-पृष्टम् आह_अङ्गिराः ‘द्वे विद्ये’ इत्यादिना।
न_एष दोषः, क्रमापेक्षत्वात् प्रतिवचनस्य। अपरा हि विद्या अ-विद्या, सा निराकर्तव्या तद्-विषये हि (अ-)विदिते न किञ्चित् तत्त्वतो विदितं स्याद् इति, ‘निराकृत्य हि पूर्व-पक्षं, पश्चात् सिद्धान्तो वक्तव्यो भवति’ इति न्यायात्॥
Tatra, a-parā, ṛc-veda, yajus-veda, sāma-veda, atharva-veda, śikṣā, kalpa, vyākaraṇa, nirukta, chandas, jyotisa, iti. Atha, parā, yad, tad, a-kṣara, adhi-√gam.
तत्र अ-परा [विद्या] – ऋग्-वेदः, यजुर्-वेदः, साम-वेदः, अथर्व-वेदः, शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दस्, ज्योतिषं [च] इति। अथ परा [विद्या] – यया तद् अ-क्षरं [ब्रह्म] अधिगम्यते॥
तत्र का अपरा? इत्य् उच्यते – ऋग्-वेदो यजुर्-वेदः साम-वेदोऽथर्व-वेदः इत्य् एते चत्वारो वेदाः। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इत्य् अङ्गानि षट्। एषा अपरा विद्या।
अथ इदानीम् इयं परा विद्या_उच्यते यया तद् वक्ष्यमाण-विशेषणम् अ-क्षरम् अधिगम्यते प्राप्यते। अधि-पूर्वस्य गमेः प्रायशः प्राप्त्य्-अर्थत्वाद्, न च पर-प्राप्तेर् अवगमार्थस्य भेदोऽस्ति, अ-विद्याया अपाय एव हि पर-प्राप्तिर् न_अर्थान्तरम्।
ननु ऋग्-वेदादि-बाह्या तर्हि सा, कथं परा विद्या स्याद् मोक्ष-साधनं च? “या वेद-बाह्याः स्मृतयो याश् च काश् च कु-दृष्टयः। सर्वास् ता निष्फलाः प्रेत्य तमो-निष्ठा हि ताः स्मृताः” (ManSmrt.12.95) इति हि स्मरन्ति। कु-दृष्टित्वान् निष्फलत्वाद् अन्-आदेया स्याद्, उपनिषदां च ऋग्-वेदादि-बाह्यत्वं स्यात्, ऋग्-वेदादित्वे तु पृथक्-करणम् अन्-अर्थकम् “अथ परा”_इति।
न, वेद्य-विषय-विज्ञानस्य विवक्षितत्वात्। उपनिषद्-वेद्याक्षर-विषयं हि विज्ञानम् इह ‘परा विद्या’_इति प्राधान्येन विवक्षितम्, न_उपनिषच्-छब्द-राशिः। वेद-शब्देन तु सर्वत्र शब्द-राशिर् विवक्षितः। शब्द-राश्य्-अधिगमेऽपि यत्नान्तरम् अन्तरेण गुर्व्-अभिगमनादि-लक्षणं वैराग्यं च न_अ-क्षराधिगमः सम्भवति_इति पृथक्-करणं ब्रह्म-विद्याया ‘अथ परा विद्या’_इति कथनं च_इति॥
yad, tad, a-dreśya, a-grāhya, a-gotra, a-varṇa, a-cakṣus-śrotra, tad, a-pāṇi-pāda;
nitya, vibhu, sarva-gata, su-sūkṣma, tad, a-vyaya, yad, bhūta-yoni, pari-√dṛś, dhīra.

यद् तद् [अ-क्षरं ब्रह्म] अ-द्रेश्यम्, अ-ग्राह्य, अ-गोत्रम्, अ-वर्णम्, अ-चक्षुः-श्रोत्रम्, अ-पाणि-पादं, नित्यं, विभुं, सर्व-गतं, सु-सूक्ष्मं, तद् अ-व्ययं, यद् भूत-योनिं [च] – धीराः तद् [अ-क्षरं] परिपश्यन्ति॥
यथा विधि-विषये कर्त्राद्य्-अनेक-कारकोपसंहार-द्वारेण वाक्यार्थ-ज्ञान-कालाद् अन्यत्र_अनुष्ठेयोऽर्थोऽस्त्य् अग्नि-होत्रादि-लक्षणः, न तथा_इह पर-विद्या-विषये वाक्यार्थ-ज्ञान-सम-काल एव तु पर्यवसितो भवति, केवल-शब्द-प्रकाशितार्थ-ज्ञानमात्र-निष्ठा-व्यतिरिक्ताभावात्। तस्माद् इह परां विद्यां स-विशेषणेन_अ-क्षरेण विशिनष्टि “यत् तद् अ-द्रेश्यम्” इत्य्-आदिना –
वक्ष्यमाणं बुद्धौ संहृत्य सिद्धवत् [=सिद्धम् इव] परामृश्यते (परामृशति) “यत् तद्” इति। अ-द्रेश्यम् अ-दृश्यं सर्वेषां बुद्धीन्द्रियाणाम् अ-गम्यम् इत्येतत्। दृशेर् बहिः-प्रवृत्तस्य पञ्चेन्द्रिय-द्वारकत्वात्। अ-ग्राह्यं कर्मेन्द्रियाविषयम् इत्येतत्। अ-गोत्रम्, गोत्रम् अन्वयो मूलम् इत्य् अन्-अर्थान्तरम्, अ-गोत्रम् अन्-अन्वयम् इत्यर्थः, न हि तस्य मूलम् अस्ति येन_अन्वितं स्यात्। (अ-वर्णं) वर्ण्यन्त इति वर्णा द्रव्य-धर्माः स्थूलत्वादयः शुक्लत्वादयो वा, अ-विद्यमाना वर्णा यस्य तद् अ-वर्णम् अ-क्षरम्। अ-चक्षुः-श्रोत्रं चक्षुश् च श्रोत्रं च नाम-रूप-विषये करणे सर्व-जन्तूनाम्, ते अ-विद्यमाने यस्य तद् अ-चक्षुः-श्रोत्रम्। “यः सर्व-ज्ञः सर्व-विद्” (MunU.1.1.09) इति चेतनावत्त्व-विशेषणात् प्राप्तं संसारिणाम् इव चक्षुः-श्रोत्रादिभिः करणैर् अर्थ-साधकत्वम्, तद् इह “अ-चक्षुः-श्रोत्रम्” इति वार्यते, “पश्यत्य् अ-चक्षुः स शृणोत्य् अ-कर्णः” (SvetU.3.19) इत्यादि-दर्शनात्।
किञ्च, तद् अ-पाणि-पादं कर्मेन्द्रिय-रहितम् इत्येतत्। यत एवम् अ-ग्राह्यम् अ-ग्राहकं च, अतो नित्यम् अ-विनाशि। विभुं विविधं ब्रह्मादि-स्थावरान्त-प्राणि-भेदैर् भवति_इति विभुम्। सर्व-गतं व्यापकम् आकाशवत्। सु-सूक्ष्मम् शब्दादि-स्थूलत्व-कारण-रहितत्वात्। शब्दादयो ह्य् आकाश-वाय्व्-आदीनाम् उत्तरोत्तरं स्थूलत्व-कारणानि, तद्-अभावात् सु-सूक्ष्मम्। किञ्च, तद् अ-व्ययम् उक्त-धर्मत्वाद् एव न व्येति_इत्य् अ-व्ययम्। न ह्य् अन्-अङ्गस्य स्वाङ्गापचय-लक्षणो व्ययः सम्भवति शरीरस्य_इव। न_अपि कोशापचय-लक्षणो व्ययः सम्भवति राज्ञ इव। न_अपि गुण-द्वारको व्ययः सम्भवति, अ-गुणत्वात् सर्वात्मकत्वाच् च।
यद् एवं-लक्षणं भूत-योनिं भूतानां कारणं पृथिवी_इव स्थावर-जङ्गमानां परिपश्यन्ति सर्वत आत्म-भूतं सर्वस्य अ-क्षरं पश्यन्ति धीराः धीमन्तो विवेकिनः। ईदृशम् अ-क्षरं यया विद्यया अधिगम्यते सा परा विद्या_इति समुदायार्थः॥
yathā, ūrṇa-nābhi, √sṛj, √grah, ca, yathā, pṛthivī, oṣadhi, sam-√bhū;
yathā, sat, puruṣa, keśa-loman, tathā, a-kṣara, sam-√bhū, iha, viśva.

यथा ऊर्ण-नाभिः सृजते गृह्णते च, यथा पृथिव्याम् ओषधयः सम्भवन्ति, यथा सतः [=जीवतः] पुरुषात् केश-लोमानि [प्रभवन्ति], तथा अ-क्षरात् इह विश्वं [सम्भवति]॥
भूत-योनिर् अ-क्षरम् इत्युक्तम्। तत् कथं भूत-योनित्वम्? इत्य् उच्यते (प्रसिद्ध-)दृष्टान्तैः –
यथा लोके प्रसिद्धम् ऊर्ण-नाभिः लूता-कीटः किञ्चित् कारणान्तरम् अन्-अपेक्ष्य स्वयम् एव सृजते, स्व-शरीराव्यतिरिक्तान् एव तन्तून् बहिः प्रसारयति, पुनस् तान् एव गृह्णते च गृह्णाति स्वात्म-भावम् एव_आपादयति। यथापृथिव्याम् ओषधयः, व्रीह्य्-आदि-स्थावराणि_इत्यर्थः, स्वात्माव्यतिरिक्ता एव प्रभवन्ति। यथासतः विद्यमानाज् जीवतः पुरुषात् केश-लोमानि केशाश् च लोमानि च संभवन्ति विलक्षणानि (BrahSu.2.1.7)।
यथा_एते दृष्टान्ताः, तथा वि-लक्षणं स-लक्षणं च निमित्तान्तरानपेक्षाद् यथोक्त-लक्षणाद् अ-क्षरात् सम्भवति समुत्पद्यते इह संसार-मण्डले विश्वं समस्तं जगत्। अनेक-दृष्टान्तोपादानं तु सुखार्थ-प्रबोधनार्थम्॥
tapas, √ci, brahman, tatas, anna, abhi-√jan;
anna, prāṇa, manas, satya, loka, karman, ca , a-mṛta.

[भूत-योनिं] ब्रह्म तपसा चीयते [इव]। ततस् अन्नम् [=अ-व्याकृतम्] अभिजायते, अन्नात् प्राणः [=हिरण्य-गर्भः], [प्राणात् समष्ठि-]मनस्, [मनसः] सत्यम् [स्थूल-भूत-पञ्चकं], [सत्यात्] लोकाः [अभिजायन्ते]। [तेषु लोकेषु], कर्मसु [सन्ति] अ-मृतं [कर्म-फलं] च [अभिजायते]॥
यद् ब्रह्मण उत्पद्यमानं विश्वं तद् अनेन क्रमेण_उत्पद्यते, न युगपद् बदर-मुष्टि-प्रक्षेपवद् इति क्रम-नियम-विवक्षार्थोऽयं मन्त्र आरभ्यते –
तपसा ज्ञानेन उत्पत्ति-विधि-ज्ञतया भूत-योन्य्-अ-क्षरं ब्रह्म चीयते उपचीयते उत्पादयिष्यद् इदं जगद् अङ्कुरम् इव बीजम् उच्छूनतां गच्छति पुत्रम् इव पिता हर्षेण।
एवं सर्व-ज्ञतया सृष्टि-स्थिति-संहार-शक्ति-विज्ञानवत्तया_उपचितात् ततः ब्रह्मणः अन्नम् अद्यते भुज्यत इत्य् अन्नम् अ-व्याकृतं साधारणं कारणं संसारिणां व्याचिकीर्षितावस्था-रूपेण अभिजायते उत्पद्यते। ततश् च अ-व्याकृताद् व्याचिकीर्षितावस्थातः अन्नात् प्राणः हिरण्य-गर्भो ब्रह्मणो ज्ञान-क्रिया-शक्त्यधिष्ठितो जगत्-साधारणोऽविद्या-काम-कर्म-भूत-समुदाय-बीजाङ्कुरो जगद्-आत्मा ‘अभिजायत’ इत्यनुषङ्गः।
तस्माच् च प्राणाद् मनः मन-आख्यं सङ्कल्प-विकल्प-संशय-निर्णयाद्य्-आत्मकम् अभिजायते। ततोऽपि सङ्कल्पाद्य्-आत्मकान् मनसः सत्यं सत्याख्यम् आकाशादि-भूत-पञ्चकम् अभिजायते। तस्मात् सत्याख्याद् भूत-पञ्चकाद् अण्ड-क्रमेण सप्त लोकाः भूर्-आदयः। तेषु मनुष्यादि-प्राणि-वर्णाश्रम-क्रमेण कर्माणि। कर्मसु च निमित्त-भूतेषु अ-मृतं कर्म-जं फलम्। यावय् कर्माणि कल्प-कोटि-शतैर् अपि न विनश्यन्ति, तावत् फलं न विनश्यति_इत्य् अ-मृतम्॥
yad, sarva-jña, sarva-vid, yad, jñānamaya, tapas;
tad, etad, brahman, nāman, rūpa, anna, ca, √jan.

यः [अ-क्षरः] [सामान्येन] सर्व-ज्ञः [विशेषेण] सर्व-विद् [च], यस्य तपस् ज्ञानमयम्। तस्माद् [तपसः] एतद् ब्रह्म [उपचित-ब्रह्म], [सूक्ष्मं] नाम [स्थूलं] रूपं [च], अन्नं च जायते॥
उक्तम् एवार्थम् उपसञ्जिहीर्षुर् मन्त्रो वक्ष्यमाणार्थम् आह –
यः उक्त-लक्षणोऽक्षराख्यः सर्व-ज्ञः सामान्येन सर्वं जानाति_इति सर्व-ज्ञः। विशेषेण सर्वं वेत्ति_इति सर्व-वित्यस्य ज्ञानमयं ज्ञान-विकारम् एव सार्वज्ञ्य-लक्षणं तपः अन्-आयास-लक्षणम्। तस्माद् यथोक्तात् सर्व-ज्ञाद् एतद् उक्तं कार्य-लक्षणं ब्रह्म हिरण्य-गर्भाख्यं जायते। किञ्च, नाम असौ देव-दत्तो यज्ञ-दत्त इत्यादि-लक्षणम्, रूपम् इदं शुक्लं नीलम् इत्यादि, अन्नं च व्रीहि-यवादि-लक्षणम्, जायते पूर्व-मन्त्रोक्त-क्रमेण_इत्य् अ-विरोधो द्रष्टव्यः॥

Go to Top ('Home' key on many Windows browsers)

The karma and knowledge paths

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11 mn.12 mn.13

साङ्गा वेदा अपरा विद्या [सन्ति], [सा] उक्ता “ऋग्-वेदो यजुर्-र्वदः” (MunU.1.1.5) इत्य्-आदिना। “यत् तद् अ-द्रेश्यम्” (MunU.1.1.6) इत्य्-आदिना “नाम रूपम् अन्नं च जायते” (MunU.1.1.9) इत्य्-अन्तेन ग्रन्थेन_उक्त-लक्षणम् अ-क्षरं यया विद्यया_अधिगम्यत इति परा विद्या स-विशेषणा_उक्ता। अतः परम्, अनयोर् विद्ययोर् विषयौ विवेक्तव्यौ संसार-मोक्षाव् इत्य् उत्तरो ग्रन्थ आरभ्यते।
तत्र [विवेक्तव्यौ] – अपर-विद्या-विषयः कर्त्रादि-साधन-क्रिया-फल-भेद-रूपः संसारोऽन्-आदिर् अन्-अन्तो दुःख-स्वरूपत्वाद् धातव्यः प्रत्य्-एकं शरीरिभिः सामस्त्येन नदी-स्रोतोवद् अ-व्यवच्छेद-रूप-सम्बन्धः, तद्-उपशम-लक्षणो मोक्षः पर-विद्या-विषयोऽन्-आद्य्-अन्-अन्तोऽजरोऽमरोऽमृतोऽभयः शुद्धः प्रसन्नः स्वात्म-प्रतिष्ठा-लक्षणः परमानन्दोऽद्वय [विवेक्तव्यौ] इति।
पूर्वं तावद् अपर-विद्याया विषय-प्रदर्शनार्थम् आरम्भः, तद्-दर्शने हि तन्-निर्वेदोपपत्तेः। तथा च वक्ष्यति – “परीक्ष्य लोकान् कर्म-चितान्” (MunU.1.2.12) इत्य्-आदिना। न ह्य् अ-प्रदर्शिते परीक्षोपपद्यत इति तत् प्रदर्शयन्न् आह –
tad, etad, satya. mantra, karman, kavi, yad, √dṛś, tad, tretā, bahudhā, santata;
tad, ā-√car, niyatam, satya-kāma, etad, yuṣmad, panthan, su-kṛta, loka.

तद् एतद् [अग्नि-होत्रादि-कर्म] सत्यम् – यानि कर्माणि कवयः मन्त्रेषु अपश्यन्, तानि त्रेतायां [=त्रि-वेद-कर्म-प्रकार-त्रये, त्रेता-युगे वा] बहुधा सन्ततानि, [अतस्] सत्यकामाः [सन्तः] तानि नियतम् आचरथ। सु-कृतस्य [=स्वयं-कृतस्य] लोके वः [=युष्माकम्] एषः पन्थाः॥
तद् एतत् सत्यम् अ-वि-तथम्। किं तद्? मन्त्रेषु ऋग्-वेदाद्य्-आख्येषु कर्माणि अग्नि-होत्रादीनि मन्त्रैर् एव प्रकाशितानि कवयः मेधाविनो वसिष्ठादयः यानि अपश्यन् दृष्टवन्तः। यत् तद् एतत् सत्यम् एकान्त-पुरुषार्थ-साधनत्वात्, तानि च वेद-विहितानि ऋषि-दृष्टानि कर्माणि त्रेतायां त्रयी-संयोग-लक्षणायां हौत्राध्वर्यवौद्गात्र-प्रकारायाम् अधिकरण-भूतायां बहुधा बहु-प्रकारं संततानि प्रवृत्तानि कर्मिभिः क्रियमाणानि। त्रेतायां वा युगे प्रायशः प्रवृत्तानि।
अतो यूयं तानि_आचरथ निर्वर्तयत नियतं नित्यं सत्य-कामा यथा-भूत-कर्म-फल-कामाः सन्तः। एषः वः युष्माकं पन्थाः मार्गः सु-कृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फल-निमित्तं लोक्यते दृश्यते भुज्यत इति कर्म-फलं लोक उच्यते तद्-अर्थं तत्-प्राप्तये_एष मार्ग इत्यर्थः।
यान्य् एतान्य् अग्नि-होत्रादीनि त्रय्यां विहितानि कर्माणि, तान्य् एष पन्था अ-वश्य-फल-प्राप्ति-साधनम् इत्यर्थः॥
yadā, √lī, hi, arci, samiddha, havya-vāhana;
tadā, ājya-bhāga, antareṇa, āhuti, prati-√pad.

यदा हि हव्य-वाहने [अग्नौ] समिद्धे अर्चिः लेलायते, तदा आज्य-भागौ अन्तरेण [=मध्ये] आहुतीः प्रतिपादयेत्॥
तत्र_अग्नि-होत्रम् एव तावत् प्रथमं प्रदर्शनार्थम् उच्यते, सर्व-कर्मणां प्राथम्यात्। तत् कथम्?
यदा_एव इन्धनैर् अभ्याहितैः सम्यग्-इद्धे समिद्धे हव्य-वाहने लेलायते चलति अर्चिः, तदा तस्मिन् काले लेलायमाने चलत्य् अर्चिषि आज्य-भागौ_आज्य-भागयोः अन्तरेण मध्ये आवाप-स्थाने आहुतीः प्रतिपादयेत् प्रक्षिपेद् देवताम् उद्दिश्य। अन्-एकाहः-प्रयोगापेक्षया आहुतीर् इति बहु-वचनम्॥
yad, agni-hotra, a-darśa, a-paurṇa-māsa, a-cātur-māsya, an-āgrayaṇa, a-tithi-varjita, ca;
a-huta, a-vaiśva-deva, a-vidhi, huta, ā, saptama, tad, loka, √hiṃs.

यस्य [अग्नि-होत्रिणः] अग्नि-होत्रम् [अ-सम्पादितं दुस्-सम्पादितं वा] – अ-दर्शम्, अ-पौर्ण-मासम्, अ-चातुर्-मास्यम्, अन्-आग्रयणम्, अ-तिथि-वर्जितम्, [काले] अ-हुतम्, अ-वैश्व-देवम्, अ-विधिना हुतं [करोति] च, तस्य [अग्नि-होत्रिणः] आ सप्तमान् लोकान् हिनस्ति [इव]॥
एष सम्यग्-आहुति-प्रक्षेपादि-लक्षणः कर्म-मार्गो लोक-प्राप्तये पन्थाः। तस्य च सम्यक्-करणं दुष्-करम्, विपत्तयस् त्व् अन्-एका भवन्ति। कथम्?
यस्य अग्नि-होत्रिणः अग्नि-होत्रम् अ-दर्शं दर्शाख्येन कर्मणा वर्जितम्, अग्नि-होत्रिणः अ-वश्य-कर्तव्यत्वाद् दर्शस्य, अग्नि-होत्र-सम्बन्ध्य् अग्नि-होत्र-विशेषणम् इव भवति, तद् अ-क्रियमाणम् इत्येतत्। तथा अ-पौर्ण-मासम् इत्यादिष्व् अप्य् अग्नि-होत्र-विशेषणत्वं द्रष्टव्यम्, अग्नि-होत्राङ्गत्वस्य_अ-विशिष्टत्वात्, अ-पौर्ण-मासं पौर्ण-मास-कर्म-वर्जितम्। अ-चातुर्-मास्यं चातुर्-मास्य-कर्म-वर्जितम्। अन्-आग्रयणम् आग्रयणं शरद्-आदिषु कर्तव्यम्, तच् च न क्रियते यस्य। तथा अ-तिथि-वर्जितं च अ-तिथि-पूजनं च_अहन्य्-अहन्य् अ-क्रियमाणं यस्य। स्वयं सम्यग्-अग्नि-होत्र-काले अ-हुतम्। अ-दर्शादिवद् अ-वैश्व-देवं वैश्व-देव-कर्म-वर्जितम्। हूयमानम् अप्य् अ-विधिना हुतम् न यथा-हुतम् इत्येतत्। एवं दुः-संपादितम् अ-संपादितम् अग्नि-होत्राद्य्-उपलक्षितं कर्म किं करोति? इत्य् उच्यते।
आ सप्तमान् सप्तम-सहितान् तस्य कर्तु-र्लोकान् हिनस्ति हिनस्ति_इव आयासमात्र-फलत्वात्। सम्यक्-क्रियमाणेषु हि कर्मसु कर्म-परिणामानुरूप्येण भूर्-आदयः सत्यान्ताः सप्त लोकाः फलं प्राप्यन्ते। ते लोकाः एवं-भूतेन_अग्नि-होत्रादि-कर्मणा त्व् अ-प्राप्यत्वाद् धिंस्यन्त इव, आयासमात्रं त्व् अ-व्यभिचारीत्यतो हिनस्ति_इत्य् उच्यते।
पिण्ड-दानाद्य्-अनुग्रहेण वा सम्बध्यमानाः पितृ-पितामह-प्रपितामहाः पुत्र-पौत्र-प्रपौत्राः स्वात्मोपकाराः सप्त लोका उक्त-प्रकारेण_अग्नि-होत्रादिना न भवन्ति_इति हिंस्यन्त इत्युच्यते॥
kālī, karālī, ca, manas-javā, ca, su-lohitā, yad, ca, su-dhūmra-varṇā;
sphul-iṅginī, viśva-rucī, ca, devī, lelāyamānā, iti, saptan, jihvā.

याः काली, कराली च, मनो-जवा च, सु-लोहिता च, सु-धूम्र-वर्णा, स्फुल्-इङ्गिनी, देवी विश्व-रुची च इति [अग्नेः] सप्त लेलायमानाः जिह्वाः॥
काली कराली च मनो-जवा च सु-लोहिता या च सु-धूम्र-वर्णास्फुल्-इङ्गिनी विश्व-रुची च देवी लेलायमाना इति सप्त जिह्वाः। काल्य्-आद्या विश्व-रुच्य्-अन्ता लेलायमानाः अग्नेर् हविर्-आहुति-ग्रसनार्था एताः सप्त जिह्वाः
etad, yad, √car, bhrājamāna, yathā-kālam, ca, āhuti, hi, ādadāyat;
tad, √nī, etad, sūrya, raśmi, yatra, deva, pati, eka, adhivāsa.

यः [अग्नि-होत्री] [अग्न्नि-होत्र-आदि] चरते, यथा-कालं च एतेषु भ्राजमानेषु आहुतयः हि आददायन् [=आददानाः], एताः [आहुतयः] सूर्यस्य रश्मयः [भूत्वा] तम् [अग्नि-होत्रिं] नयन्ति यत्र देवानां पतिः [इन्द्रः] एकः अधिवासः॥
एतेषु अग्नि-जिह्वा-भेदेषु यः अग्नि-होत्री चरते कर्माचरत्य् अग्नि-होत्रादि भ्राजमानेषु दीप्यमानेषु। यथा-कालं च यस्य कर्मणो यः कालस् तत् कालं यथा-कालं यजमानम् आददायन् आददाना आहुतयः यजमानेन निर्वर्तिनास् तं नयन्ति प्रापयन्ति। एताः आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयः भूत्वा, रश्मि-द्वारैर् इत्यर्थः। यत्र यस्मिन् स्वर्गे देवानां पतिः इन्द्रः एकः सर्वान् उपरि अधि वसति_इति अधिवासः
ā-√i, ā-√i, iti, tad, āhuti, su-varcas, sūrya, raśmi, yajamāna, √vah;
priyā, vāc, abhivadantī, arcayantī, etad, yuṣmad, puṇya, su-kṛta, brahma-loka.

“एहि एहि, एषः वः [=युष्माकं] पुण्यः सु-कृतः ब्रह्म-लोकः” इति प्रियां वाचम् अभिवदन्त्यः अर्चयन्त्यः [च एताः] सु-वर्चसः आहुतयः तं यजमानं सूर्यस्य रश्मिभिः वहन्ति [स्वर्गं प्रापयन्ति]॥
कथम्?
सूर्यस्य रश्मिभिर् यजमानं वहन्ति इत्युच्यते – “एहि एहिइति आह्वयन्त्यः (तं यजमानम् आहुतयः) सु-वर्चसः दीप्तिमत्यः, किञ्च, प्रियाम् इष्टां वाचं स्तुत्य्-आदि-लक्षणाम् अभिवदन्त्यः उच्चारयन्त्यः अर्चयन्त्यः पूजयन्त्यश् च_“एषः वः युष्माकं पुण्यः सु-कृतः पन्था ब्रह्म-लोकः” फल-रूपः, एवं प्रियां वाचम् अभिवदन्त्यो वहन्ति_इत्यर्थः। ब्रह्म-लोकः स्वर्गः प्रकरणात्॥
plava, hi, etad, a-dṛḍha, yajña-rūpa, aṣṭā-daśan, ukta, avara, yad, karman;
etad, śreyas, yad, abhi-√nand, mūḍha, jarā-mṛtyu, tad, punar, eva, api, √i.

एते अष्टा-दश [षो-डश-ऋत्विजः यजमानः च भार्या च] यज्ञ-रूपाः, येषु हि [=यस्मात्] अवरं कर्म उक्तम्, अ-दृढाः प्लवाः [इव भवन्ति]। ये मूढाः एतद् [उपासना-रहितं कर्म] श्रेयस् [इति] अभिनन्दति, ते जरा-मृत्युं पुनर् एव अपि यन्ति॥
एतच् च ज्ञान-रहितं कर्म_एतावत् फलम् अ-विद्या-काम-कर्म-कार्यम् अतोऽसारं दुःख-मूलम् इति निन्द्यते –
प्लवाः विनाशिन इत्यर्थः, हि यस्माद् एते अ-दृढाः अ-स्थिराः यज्ञ-रूपाः यज्ञस्य रूपाणि यज्ञ-रूपाः यज्ञ-निर्वर्तकाः अष्टा-दश अष्टा-दश-संख्याकाः षोडश-ऋत्विजः पत्नी यजमानश् च_इत्य् अष्टा-दश। एतद् आश्रयं कर्म उक्तं कथितं शास्त्रेण येषु अष्टा-दशसु अवरं केवलं ज्ञान-वर्जितं कर्म। अतस् तेषाम् अवर-कर्माश्रयाणाम् अष्टा-दशानाम् अ-दृढतया प्लवत्वात् प्लवते सह फलेन तत्-साध्यं कर्म, कुण्ड-विनाशाद् इव क्षीर-दध्य्-आदीनां तत्-स्थानां नाशः।
यत एवम् एतत् कर्म श्रेयः श्रेयः-करणम् इति ये अभिनन्दन्ति अभिहृष्यन्ति अ-विवेकिनः मूढाः, अतः ते जरां च मृत्युं च जरा-मृत्युं किंचित्-कालं स्वर्गे स्थित्वा पुनर् एव_अपि यन्ति भूयोऽपि गच्छन्ति॥
a-vidyā, antare, vartamāna, svayam, dhīra, paṇḍita, manyamāna;
jaṅghanyamāna, pari-√i, mūḍha, andha, eva, nīyamāna, yathā, andha.

अ-विद्यायाम् अन्तरे [=मध्ये] वर्तमानाः, ‘स्वयं धीराः पण्डितं’ मन्यमानाः, [ते] मूढाः जङ्घन्यमानाः परियन्ति, यथा अन्धाः अन्धेन एव नीयमानाः॥
किञ्च –
अ-विद्यायाम् अन्तरे मध्ये वर्तमानाः अ-विवेक-प्रायाः, ‘स्वयं वयम् एव धीराः धीमन्तः [पण्डितं] पण्डिता विदित-वेदितव्याश् च’_इति मन्यमाना आत्मानं संभावयन्तः। ते च जङ्घन्यमानाः जरा-रोगाद्य्-अनेकानर्थ-व्रातैर् हन्यमाना भृशं पीड्यमानाः परियन्ति विभ्रमन्ति मूढाः दर्शन-वर्जितत्वाद् अन्धेन_एव_अ-चक्षुष्केण_एव नीयमानाः प्रदर्श्यमान-मार्गाः, यथा लोके अन्धाः अक्षि-रहिता गर्त-कण्टकादौ पतन्ति, तद्वत्॥
a-vidyā, bahudhā, vartamāna, asmad, kṛta-artha, iti, abhi-√man, bāla;
yad, karmin, na, pra-√vid, rāga, tad, ātura, kṣīṇa-loka, √cyu.

अ-विद्यायां बहुधा वर्तमानाः, ‘वयं एव कृत-अर्थाः’ इति अभिमन्यन्ति। यद् [यस्मात् ते] बालाः रागात् कर्मिणः [सन्तः] [आत्म-तत्त्वं] न प्रवेदयन्ति, तेन [अ-ज्ञानेन] क्षीण-लोकाः [सन्तः ते] आतुराः [दुःखिनः भवन्ति], [स्वर्ग-लोकात्] च्यवन्ते [च]॥
किञ्च –
अविद्यायां बहुधा बहु-प्रकारं वर्तमानाः, ‘वयम् एव कृतार्थाः कृत-प्रयोजनाः’ इति एवम् अभिमन्यन्ति अभिमानं कुर्वन्ति बालाः अ-ज्ञानिनः। यद् यस्माद् एवं कर्मिणः न प्रवेदयन्ति तत्त्वं न जानन्ति रागात् कर्म-फल-रागाभिभव-निमित्तम्, तेन कारणेन आतुराः दुःखार्ताः सन्तः क्षीण-लोकाः क्षीण-कर्म-फलाः स्वर्ग-लोकात् च्यवन्ते
iṣṭā-pūrta, manyamāna, variṣṭha, na, anya, śreyas, √vid, pramūḍha;
na-a-ka, pṛṣṭha, tad, su-kṛta, anubhūtvā, idam, lokam hīnatara, vā, √viś.

‘इष्टा-पूर्तं [कर्म एव] वरिष्ठं’ मन्यमानाः, [ते] प्रमूढाः अन्यद् [किञ्चिद्] श्रेयस् न वेदयन्ते। न-अ-कस्य [स्वर्गस्य] पृष्ठे [उपरि-भागे] सु-कृते [पुण्य-भूते] अनुभूत्वा, ते इमं लोकं हीनतरं [निकृष्टं लोकं] वा विशन्ति॥
इष्टा-पूर्तम् इष्टं यागादि श्रौतं कर्म पूर्तं वापी-कूप-तडागादि स्मार्तं मन्यमानाः एतद् एव_अतिशयेन पुरुषार्थ-साधनं वरिष्ठं प्रधानम् इति चिन्तयन्तः, अन्यद् आत्म-ज्ञानाख्यं श्रेयः-साधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्र-पशु-बान्धवादिषु प्रमत्ततया मूढाः। तेनाकस्य स्वर्गस्य पृष्ठे उपरि-स्थाने सु-कृते भोगायतने अनुभूत्वा अनुभूय कर्म-फलं पुनः इमं लोकं मानुषम्, अस्माद् हीनतरं वा तिर्यङ्-नरकादि-लक्षणं, यथा-कर्म-शेषं विशन्ति
tapas-śrad-dhā, yad, hi, upa-√vas, araṇya, śānta, vidvas, bhaikṣya-carya, carat;
sūrya-dvāra, tad, vi-rajas, pra-√yā, yatra, a-mṛta, tad, puruṣa, hi, a-vyaya-ātman.

ये हि [एव] अरण्ये भैक्ष्य-चर्यां चरन्तः [ये च] शान्ताः विद्वांसः [उपासक-अन्य-आश्रमिनः], [ते] तपस्-श्रद्धे उपवसन्ति। ते वि-रजाः [सन्तः] सूर्य-द्वारेण प्रयान्ति यत्र सः हि [आपेक्षिकः] अ-मृतः अ-व्यय-आत्मा पुरुषः [हिरण्य-गर्भः वर्तते]॥
ये पुनस् तद्-विपरीताः ज्ञान-युक्ता वान-प्रस्थाः संन्यासिनश् च, तपः-श्रद्धे हि तपः स्वाश्रम-विहितं कर्म, श्रद्धा हिरण्य-गर्भादि-विषया विद्या, ते तपः-श्रद्धे उपवसन्ति सेवन्तेऽरण्ये वर्तमानाः सन्तः। शान्ताः उपरत-करण-ग्रामाः विद्वांसः गृह-स्थाश् च ज्ञान-प्रधाना इत्यर्थः। भैक्ष-चर्यां चरन्तः परिग्रहाभावाद् उपवसन्त्य् अरण्ये इति सम्बन्धः। सूर्य-द्वारेण सूर्योपलक्षितेन_उत्तरायणेन पथा ते वि-रजाः वि-रजसः, क्षीण-पुण्य-पाप-कर्माणः सन्त इत्यर्थः। प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन् सत्य-लोकादौ अ-मृतः स पुरुषः प्रथम-जो हिरण्य-गर्भः हि अ-व्ययात्मा अ-व्यय-स्वभावो यावत् संसार-स्थायी। एतद्-अन्तास् तु संसार-गतयोऽपर-विद्या-गम्याः।
नन्व् एतं मोक्षम् इच्छन्ति केचित्।
न, “इहैव सर्वे प्रविलीयन्ति कामाः” (MunU.3.2.2) “ते सर्व-गं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वम् एव_आविशन्ति” (MunU.3.2.5) इत्यादि-श्रुतिभ्यः। अ-प्रकरणाच् च, अपर-विद्या-प्रकरणे हि प्रवृत्ते न ह्य् अ-कस्मान् मोक्ष-प्रसङ्गोऽस्ति। वि-रजस्त्वं त्व् आ<ा>पेक्षिकम्।
समस्तम् अपर-विद्या-कार्यं साध्य-साधन-लक्षणं क्रिया-कारक-फल-भेद-भिन्नं द्वैतम् एतावद् एव यद् धिरण्य-गर्भ-प्राप्त्य्-अवसानम्। तथा च मनुना_उक्तं स्थावराद्यां संसार-गतिम् अनुक्रामता – “ब्रह्मा विश्व-सृजो धर्मो महान् अ-व्यक्तम् एव च। उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः” (ManSmrt.12.50) इति॥
parīkṣya, loka, karma-cita, brāhmaṇa, nirveda, ā-√yā, na, √as, a-kṛta, kṛta;
tad-vijñāna-artha, tad, guru, eva, abhi-√gam, samit-pāṇa, śrotriya, brahma-niṣṭha.

कर्म-चितान् लोकान् परीक्ष्य, [गुणतः] ब्राह्मणः निर्वेदं [=वैराग्यं] आयात् ‘कृतेन अ-कृतः [मोक्षः] न अस्ति’ [इति]। [अतः] तद्-विज्ञान-अर्थं सः समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठं गुरुम् एव अभिगच्छेत्॥
अथ_इदानीम् अस्मात् साध्य-साधन-रूपात् सर्वस्मात् संसाराद् विरक्तस्य परस्यां विद्यायाम् अधिकार-प्रदर्शनार्थम् इदम् उच्यते –
परीक्ष्य यद् एतद् ऋग्-वेदाद्य्-अपर-विद्या-विषयं स्वा-भाविक्य्-अविद्या-काम-कर्म-दोषवत्-पुरुषानुष्ठेयम् अ-विद्यादि-दोषवन्तम् एव पुरुषं प्रति विहितत्वात्, तद्-अनुष्ठान-कार्य-भूताश् च लोका ये दक्षिणोत्तर-मार्ग-लक्षणाः फल-भूताः, ये च विहिताकरण-प्रतिषेधातिक्रम-दोष-साध्या नरक-तिर्यक्-प्रेत-लक्षणाः, तान् एतान् परीक्ष्य प्रत्यक्षानुमानोपमानागमैः सर्वतो याथात्म्येन_अवधार्य, लोकान् संसार-गति-भूतान् अ-व्यक्तादि-स्थावरान्तान् व्याकृताव्याकृत-लक्षणान् बीजाङ्कुरवद्-इतरेतरोत्पत्ति-निमित्तान् अन्-एकानार्थ-शत-सहस्र-संकुलान् कदली-गर्भवद्-अ-सारान् माया-मरीच्य्-उदक-गन्धर्व-नगराकार-स्वप्न-जल-बुद्बुद-फेन-समान् प्रतिक्षण-प्रध्वंसान् – पृष्ठतः कृत्वा_अ-विद्या-काम-दोष-प्रवर्तित-कर्म-चितान् धर्माधर्म-निर्वर्तितान् इत्येतत्। ब्राह्मणः, ब्राह्मणस्य_एव विशेषतोऽधिकारः सर्व-त्यागेन ब्रह्म-विद्यायाम् इति ब्राह्मण-ग्रहणम्। परीक्ष्य लोकान् किं कुर्याद्? इत्युच्यते – निर्वेदम् ‘निः’-पूर्वो विदिर् अत्र वैराग्यार्थे वैराग्यम् आयात् कुर्याद् इत्येतत्।
स वैराग्य-प्रकारः प्रदर्श्यते – इह संसारे न_अस्ति कश्चिद् अपि अ-कृतः पदार्थः। सर्व एव हि लोकाः कर्म-चिताः कर्म-कृतत्वाच् च_अ-नित्याः। न नित्यं किञ्चिद् अस्ति_इत्यभिप्रायः। सर्वं तु कर्मानित्यस्य_एव साधनम्। यस्माच् चतुर्-विधम् एव हि सर्वं कर्म कार्यम् – उत्पाद्यम् आप्यं संस्कार्यं विकार्यं वा। न_अतः परं कर्मणो विषयोऽस्ति। ‘अहं च नित्येन_अ-मृतेन_अ-भयेन कूट-स्थेन_अ-चलेन ध्रुवेण_अर्थेन_अर्थी, न तद्-विपरीतेन, अतः किं कृतेन कर्मणा आयास-बहुलेन_अन्-अर्थ-साधनेन?’ इत्य् एवं निर्विण्णः। अ-भयं शिवम् अ-कृतं नित्यं पदं यत्, तद्-विज्ञानार्थं विशेषेण_अधिगमार्थं निर्विण्णो ब्राह्मणः गुरुम् एव आचार्यं शम-दम-दयादि-सम्पन्नम् अभिगच्छेत्। शास्त्र-ज्ञोऽपि स्वा-तन्त्र्येण ब्रह्म-ज्ञानान्वेषणं न कुर्याद् इत्य् एतद् गुरुम् ‘एव’_इत्य् अवधारण-फलम्।
समित्-पाणिः समिद्-भार-गृहीत-हस्तः श्रोत्रियम् अध्ययन-श्रुतार्थ-सम्पन्नं ब्रह्म-निष्ठं हित्वा सर्व-कर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्म-निष्ठः, जप-निष्ठस् तपो-निष्ठ इति यद्वत्। न हि कर्मिणो ब्रह्म-निष्ठता सम्भवति, कर्मात्म-ज्ञानयोर् विरोधात्। स तं गुरुं विधिवद् उपसन्नः प्रसाद्य पृच्छेद् अ-क्षरं पुरुषं सत्यम्॥
tad, tad, vidvas, upasanna, samyak, praśānta-citta, śama-anvita;
yad, a-kṣara, puruṣa, √vid, satya, pra-√vac, tad, tattvatas, brahma-vidyā.

तस्मै सम्यक् उपसन्नाय, प्रशान्त-चित्ताय, शम-अन्विताय [च] [अधिकारिणे] सः विद्वान् [गुरुः] तां ब्रह्म-विद्यां तत्वतः प्रोवाच [प्रब्रूयाद्], येन [सः मुमुक्षुः] अ-क्षरं सत्यं पुरुषं वेद [विजानाति]॥
तस्मै सः विद्वान् गुरुर् ब्रह्म-विद्, उपसन्नाय उपगताय सम्यक् यथा-शास्त्रम् इत्येतत्। प्रशान्त-चित्ताय उपरत-दर्पादि-दोषाय शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय, सर्वतो विरक्ताय_इत्येतत्। येन विज्ञानेन यया विद्यया परया अ-क्षरम् अ-द्रेश्यादि-विशेषणं (MunU.1.1.6) तद् एव_अ-क्षरं पुरुष-शब्द-वाच्यं पूर्णत्वात् पुरि शयनाच् च, सत्यं तद् एव परमार्थ-स्वा-भाव्याद्, अ-क्षरं च_अ-क्षरणाद् अ-क्षतत्वाद् अ-क्षयत्वाच् च, वेद विजानाति तां ब्रह्म-विद्यां तत्त्वतः यथावत् प्रोवाच प्रब्रूयाद् इत्यर्थः। आचार्यस्य_अप्य् अयं नियमो यन्-न्याय-प्राप्त-सच्-छिष्य-निस्तारणम् अ-विद्या-महोदधेः॥

Go to Top ('Home' key on many Windows browsers)

Everything is the puruṣa

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10

अपर-विद्यायाः सर्वं कार्यम् उक्तम्। स च संसारो यत्-सारो यस्मान् मूलाद् अ-क्षरात् संभवति, यस्मिंश् च प्रलीयते, तद् अ-क्षरं पुरुषाख्यं सत्यम्। यस्मिन् “विज्ञाते सर्वम् इदं विज्ञातं भवति” (MunU.1.1.3), तत्-परस्या ब्रह्म-विद्याया विषयः। स वक्तव्य इत्य् उत्तरो ग्रन्थ आरभ्यते –
tad, etad, satya. yathā, su-dīpta, pāvaka, visphul-iṅga, sahasraśas, pra-√bhū, sa-rūpa;
tathā, a-kṣara, vividha, somya, bhāva, pra-√jan, tatra, ca, eva, api, √i.

तद् एतद् [इह] सत्यम् [अ-वि-तथम् अस्ति] – सोम्य, यथा सु-दीप्तात् पावकात् [महा-उपाधिकात् अग्नेः] सहस्रशः [अन्-एकशः] स-रूपाः [अग्नि-स-लक्षणाः] विस्फुल्-इङ्गाः [अल्प-उपाधिकाः अग्नि-अवयवाः] प्रभवन्ते, तथा अ-क्षरात् [ब्रह्मणः] विविधाः [नाना-देह-उपाधि-भेदाः] भावाः [जीवाः] प्रजायन्ते, तत्र एव [अ-क्षरे] च अपि यन्ति॥
यद् अपर-विद्या-विषयं कर्म-फल-लक्षणम्, “सत्यं” (MunU.1.2.1) तद् आपेक्षिकम्। इदं तु पर-विद्या-विषयम्, परमार्थ-सल्-लक्षणत्वात्। तद् एतत् सत्यं यथा-भूतं विद्या-विषयम्, अ-विद्या-विषयत्वाच् च अन्-ऋतम् इतरत्। अत्यन्त-परोक्षत्वात् कथं नाम प्रत्यक्षवत् सत्यम् अ-क्षरं प्रतिपद्येरन्? इति दृष्टान्तम् आह –
यथा सु-दीप्तात् सुष्ठु दीप्ताद् इद्धात् पावकाद् अग्नेः विस्फुल्-इङ्गाः अग्न्य्-अवयवाः सहस्रशः अन्-एकशः प्रभवन्ते निर्गच्छन्ति स-रूपाः अग्नि-स-लक्षणा एव, तथा उक्त-लक्षणाद् (MunU.1.1.5) अ-क्षराद् विविधाः नाना-देहोपाधि-भेदम् अनु विधीयमानत्वाद् विविधाः, हे सोम्य, भावाः जीवाः आकाशादिवद् घटादि-परिच्छिन्नाः सु-षिर-भेदा घटाद्य्-उपाधि-प्रभेदम् अनु भवन्ति, एवं नाना-नाम-रूप-कृत-देहोपाधि-प्रभवम् अनु प्रजायन्ते, तत्र च_एव तस्मिन्न् एव च_अ-क्षरे अपियन्ति (अपि यन्ति) देहोपाधि-विलयम् अनु विलीयन्ते घटादि-विलयम् अन्व् इव सु-षिर-भेदाः।
यथा_आकाशस्य सु-षिर-भेदोत्पत्ति-प्रलय-निमित्तत्वं घटाद्य्-उपाधि-कृतम् एव, तद्वद् अ-क्षरस्य_अपि नाम-रूप-कृत-देहोपाधि-निमित्तम् एव जीवोत्पत्ति-प्रलय-निमित्तत्वम्॥
divya, hi, a-mūrta, puruṣa, sa-bāhya-abhyantara, hi, a-ja;
a-prāṇa, hi, a-manas, śubhra, hi, a-kṣara, paratas, para.

पुरूषः दिव्यः हि [यस्मात्] अ-मूर्तः, स-बाह्य-अभ्यन्तरः हि [यस्मात्] अ-जः [स्थूल-षड्-भाव-विकार-वर्जितः], अ-प्राणः हि अ-मनाः [सूक्ष्म-शरीर-वर्जितः], शुभ्रः हि, परतस् अ-क्षरात् [अ-व्ययात् मायायाः] परः [निर्-उपाधिक-पुरूषः]॥
नाम-रूप-बीज-भूताद् अ-व्याकृताख्यात् स्व-विकारापेक्षया पराद् अ-क्षरात् परं यत् सर्वोपाधि-भेद-वर्जितम् अ-क्षरस्य_एव स्व-रूपम् आकाशस्य_इव सर्व-मूर्ति-वर्जितं ‘न_इति न_इति’_इत्य्-आदि-विशेषणं (BrhU.2.3.6) विवक्षन्न् आह –
दिव्यः द्योतनवान् स्वयं-ज्योतिष्ट्वात्, दिवि वा स्वात्मनि भवः, अ-लौकिको वा, हि यस्माद् अ-मूर्तः सर्व-मूर्ति-वर्जितः, पुरुषः पूर्णः पुरि-शयो वा, स-बाह्याभ्यन्तरः सह बाह्याभ्यन्तरेण वर्तत इति। अ-जः न जायते कुतश्चित्, स्वतोऽन्यस्य जन्म-निमित्तस्य च_अ-भावाद्, यथा जल-बुद्बुद्-आदेर् वाय्व्-आदिः, यथा नभः-सुषिर-भेदानां घटादिः। सर्व-भाव-विकाराणां जनि-मूलत्वात् तत्-प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति। स-बाह्याभ्यन्तरो ह्य् अ-जः अतोऽजरोऽमृतोऽक्षरो ध्रुवोऽभय इत्यर्थः।
यद्यपि देहाद्य्-उपाधि-भेद-दृष्टीनाम् अ-विद्यावशाद् देह-भेदेषु स-प्राणः स-मनाः सेन्द्रियः स-विषय इव प्रत्यवभासते तल-मलादिमद् इव_आकाशम्, तथापि तु स्वतः परमार्थ-दृष्टीनाम् अ-प्राणः अ-विद्यमानः क्रिया-शक्ति-भेदवान् चलनात्मको वायुर् यस्मिन्न् असौ अ-प्राणः। तथा अ-मनाः अन्-एक-ज्ञान-शक्ति-भेदवत् संकल्पाद्य्-आत्मकं मनोऽप्य् अ-विद्यमानं यस्मिन् सोऽयम् अ-मनाः। अ-प्राणो ह्य् अ-मनाश् च_इति प्राणादि-वायु-भेदाः कर्मेन्द्रियाणि तद्-विषयाश् च तथा बुद्धि-मनसी बुद्धीन्द्रियाणि तद्-विषयाश् च प्रतिषिद्धा वेदितव्याः, यथा श्रुत्य्-अन्तरे – “ध्यायति_इव लेलायति_इव”_ इति (BrhU.4.3.7)।
यस्माच् च_एवं प्रतिषिद्धोपाधि-द्वयस्, तस्मात् शुभ्रः शुद्धः। अतो अ-क्षरान् नाम-रूप-बीजोपाधि-लक्षित-स्वरूपात्, सर्व-कार्य-करण-बीजत्वेन_उपलक्ष्यमाणत्वात् परं तद्-उपाधि-लक्षणम् अ-व्याकृताख्यम् अ-क्षरं सर्व-विकारेभ्यस् तस्मात् परतोऽक्षरात् परः निर्-उपाधिकः पुरुष इत्यर्थः। यस्मिंस् तद् आकाशाख्यम् (BrhU.3.7.5) अ-क्षरं संव्यवहार-(स-व्यवहार-)विषयम् ओतं प्रोतं च।
कथं पुनर् अ-प्राणादिमत्त्वं तस्य? इत्य् उच्यते। यदि हि प्राणादयः प्राग् उत्पत्तेः पुरुष इव स्वेन_आत्मना सन्ति, तदा पुरुषस्य प्राणदिना विद्यमानेन प्राणादिमत्त्वं भवेन्, न तु ते प्राणादयः प्राग् उत्पत्तेः पुरुष इव स्वेन आत्मना सन्ति तदा। अतोऽप्राणादिमान् परः पुरुषः, यथा_अन्-उत्पन्ने पुत्रे अ-पुत्रो देव-दत्तः॥
etad, √jan, prāṇa, manas, sarva-indriya, ca;
kha, vāyu, jyotis, ap, pṛthivī, viśva, dhāriṇī.

एतस्मात् [निर्-उपाधिक-पुरुषात् एव मायया] जायते – खम्, वायुः, ज्योतिस् [अग्निः], आपः, विश्वस्य धारिणी पृथिवी, [यतः] प्राणः, मनः, सर्वाणि इन्द्रियाणि, [विषयाः] च॥
कथं ते न सन्ति प्राणादय? इति उच्यते यस्मात् –
एतस्माद् एव पुरुषान् नाम-रूप-बीजोपाधि-लक्षिताज् जायते उत्पद्यतेऽविद्या-विषयो विकार-भूतो नामधेयोऽन्-ऋतात्मकः प्राणः, “वाचारम्भणं विकारो नामधेयम्” (ChanU.6.1.4) ‘अन्-ऋतम्’ इति श्रुत्य्-अन्तरात्। न हि तेन_अ-विद्या-विषयेण_अन्-ऋतेन प्राणेन स-प्राणत्वं परस्य स्याद्, अ-पुत्रस्य स्वप्न-दृष्टेन_इव पुत्रेण स-पुत्रत्वम्।
एवं मनः [सर्व-इन्द्रियाणि] सर्वाणि च_इन्द्रियाणि विषयाश् _एतस्माद् एव जायन्ते। तस्मात् सिद्धम् अस्य निर्-उपचरितम् अ-प्राणादिमत्त्वम् इत्यर्थः। यथा च प्राग् उत्पत्तेः परमार्थतोऽसन्तः, तथा [ऊर्ध्वम् उत्पत्तेः] प्रलीनाश् च_इति द्रष्टव्याः। यथा करणानि मनश् च_इन्द्रियाणि, तथा शरीर-विषय-कारणानि भूतानि खम् आकाशं, वायुः अन्तर् बाह्य आवहादि-भेदः, ज्योतिः अग्निः, आपः उदकं, पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी, एतानि च शब्द-स्पर्श-रूप-रस-गन्धोत्तरोत्तर-गुणानि पूर्व-पूर्व-गुण-सहितान्य् एतस्माद् एव जायन्ते॥
agni, mūrdhan, cakṣus, candra-sūrya, diś, śrotra, vāc, vivṛta, ca, veda;
vāyu, prāṇa, hṛdaya, viśva, idam, pad, pṛthivī, hi, etad, sarva-bhūta-antar-ātman.

अस्य [यस्य विराट्-आत्मनः पुरुषस्य] मूर्धा अग्निः [द्यु-लोक-रूपः], चक्षुषी चन्द्र-सूर्यौ, श्रोत्रे [कर्णौ] दिशः, वाच् विवृताः वेदाः, प्राणः वायुः, हृदयं विश्वं, पद्भ्यां पृथिवी [जाता] च – एषः [पुरुषः] हि सर्व-भूत-अन्तर्-आत्मा॥
संक्षेपतः पर-विद्या-विषयम् अ-क्षरं निर्-विशेषं पुरुषं सत्यम् “दिव्यो ह्य् अ-मूर्तः” (MunU.2.1.2) इत्यादिना मन्त्रेण_उक्त्वा, पुनस् तद् एव स-विशेषं विस्तरेण वक्तव्यम् इति प्रववृते, संक्षेप-विस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्र-भाष्योक्तिवद् इति। यो हि प्रथम-जात् प्राणाद् धिरण्य-गर्भाज् जायतेऽण्डस्य_अन्तर्-विराट्, स तत्त्वान्तरितत्त्वेन लक्ष्यमाणोऽप्य् एतस्माद् एव पुरुषाज् जायत एतन्मयश् च_इत्य् एतद् अर्थम् आह, तं च विशिनष्टि –
अग्निः द्यु-लोकः, “असौ वाव लोको [हे] गौतम_अग्निः” (ChanU.5.4.1) इति श्रुतेः, मूर्धा यस्य_उत्तमाङ्गं शिरः। चक्षुषी चन्द्रश् च सूर्यश् च_इति चन्द्र-सूर्यौ, यस्य_इति सर्वत्र_अनुषङ्गः कर्तव्यः “अस्य”_इत्य् अस्य पदस्य वक्ष्यमाणस्य यस्य_इति विपरिणामं कृत्वा। दिशः श्रोत्रे यस्य। वाक् विवृताः उद्घाटिताः प्रसिद्धा वेदाः यस्य। वायुः प्राणो यस्य। हृदयम् अन्तःकरणं विश्वं समस्तं जगद् अस्य ‘यस्य’_इत्य् एतत्। सर्वं ह्य् अन्तःकरण-विकारम् एव जगद्, मनस्य् एव सुषुप्ते प्रलय-दर्शनाज्, जागरितेऽपि तत एव_अग्नि-विस्फुल्-इङ्गवद् विप्रतिष्ठानात्। यस्य च पद्भ्यां जाता पृथिवी, एष देवो विष्णुर् अन्-अन्तः प्रथम-शरीरी त्रै-लोक्य-देहोपाधिः सर्वेषां भूतानाम् अन्तर्-आत्मा [सर्व-भूत-अन्तर्-आत्मा]। स हि सर्व-भूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्व-करणात्मा॥
tad, agni, samidha, yad, sūrya, soma, parjanya, oṣadhi, pṛthivī;
pumaṃs, retas, √sic, yoṣitā, bahu, prajā, puruṣa, samprasūta.

तस्माद् [अ-क्षर-पुरुषात्] अग्निः [द्यु-लोक-रूपः प्रथम-अग्निः सम्भवति], यस्य सूर्यः समिधः [समिन्धनम् इव]। [तत्र सोम-रूप-जीवः संसरति (ChanU.5.4, BrahS.3.1)]। सोमात् [=चन्द्रात्] पर्जन्यः [द्वितीय-अग्नौ जल-रूप-जीवः संसरति]। [पर्जन्यात्] पृथिव्यां ओषधयः [तृतीय-अग्नौ ओषधि-रूप-जीवः संसरति]। पुमान् रेतस् [चतुर्थ-अग्नौ रेत-रूप-जीवः संसरति] योषितायां सिञ्चति [पञ्च-अग्नौ प्रजा-रूप-जीवः संसरति]। [एवं क्रमेण] पुरुषात् बह्वीः [बह्व्यः] प्रजाः सम्प्रसूताः॥
पञ्चाग्नि-द्वारेण च याः संसरन्ति प्रजाः, ता अपि तस्माद् एव पुरुषात् प्रजायन्त इत्य् उच्यते –
तस्मात् परस्मात् पुरुषात् प्रजावस्थान-विशेष-रूपः अग्निः। स विशेष्यते – समिधो यस्य सूर्यः, समिध इव समिधः, सूर्येण हि द्यु-लोकः समिध्यते। ततो हि द्यु-लोकान् निष्पन्नात् सोमात् पर्जन्यः द्वितीयोऽग्निः सम्भवति। तस्माच् च पर्जन्याद् ओषधयः पृथिव्यां सम्भवन्ति। ओषधिभ्यः पुरुषाग्नौ हुताभ्य उपादान-भूताभ्यः पुमान् अग्निः रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियाम् इति। एवं क्रमेण बह्वीः बह्व्यः प्रजाः ब्राह्मणाद्याः पुरुषात् परस्मात् सम्प्रसूताः समुत्पन्नाः॥
tad, ṛc, sāman, yajus, dīkṣā, yajña, ca, sarva, kratu, dakṣiṇā, ca;
saṃvat-sara, ca, yajamāna, ca, loka, soma, yatra, √pū, yatra, sūrya.

तस्मात् [पुरुषात्] ऋचः, साम, यजूंषि, दीक्षाः [कर्तृ-नियम-विशेषाः], सर्वे यज्ञाः च, क्रतवः, दक्षिणाः च, संवत्-सरः [कालः] च, यजमानः [कर्ता] च, लोकाः [दक्षिण-उत्तर-अयण-मार्ग-गम्याः] च यत्र [येषु लोकेषु] सोमः [चन्द्रः] पवते यत्र सूर्यः [च]॥
किञ्च, कर्म-साधनानि फलानि च तस्माद् एव_इत्य् आह – कथम्?
तस्मात् पुरुषाद् ऋचः नियताक्षर-पादावसानाः गायत्र्य्-आदि-च्छन्दो-विशिष्टा मन्त्राः, साम पाञ्च-भक्तिकं साप्त-भक्तिकं च स्तोभादि-गीत-विशिष्टम्, यजूंषि अ-नियताक्षर-पादावसानानि वाक्य-रूपाणि, एवं त्रि-विधा मन्त्राः। दीक्षाः मौञ्ज्य्-आदि-लक्षणाः कर्तृ-नियम-विशेषाः। यज्ञाश् च सर्वे अग्नि-होत्रादयः। क्रतवः स-यूपाः। दक्षिणाश् च एक-गवाद्य्-अ-परिमित-सर्वस्वान्ताः। संवत्-सरश् च कालः कर्माङ्गः। यजमानश् च कर्ता। लोकाः तस्य कर्म-फल-भूताः, ते विशेष्यन्ते – सोमः यत्र येषु लोकेषु पवते पुनाति लोकान् यत्र येषु सूर्यस् तपति च। ते च दक्षिणायनोत्तरायण-मार्ग-द्वय-गम्या विद्वद्-अ-विद्वत्-कर्तृ-फल-भूताः॥
tad, ca, deva, bahudhā, samprasūta, sādhya, manuṣya, paśu, vayas;
prāṇa-apāna, vrīhi-yava, tapas, ca, śrad-dhā, satya, brahma-carya, vidhi, ca.

तस्मात् [पुरुषात्] च देवाः बहुधा सम्प्रसूताः – [तस्माद् बहुधा] साध्याः [देव-विशेषाः], मनुष्याः, पशवः, वयांसि, प्राणापानौ, व्रीहि-यवौ [हविस्-अर्थौ], तपस् च, शद्धा, सत्यं, ब्रह्म-चर्यं, विधिः [कर्तव्यता] च॥
तस्माच् च पुरुषात् कर्माङ्ग-भूता देवाः बहुधा वस्व्-आदि-गण-भेदेन संप्रसूताः सम्यक् प्रसूताः – साध्याः देव-विशेषाः, मनुष्याः कर्माधिकृताः, पशवः ग्राम्यारण्याः, वयांसि पक्षिणः, जीवनं च मनुष्यादीनां प्राणापानौ, व्रीहि-यवौ हविर्-अर्थौ, तपश् च कर्माङ्गं पुरुष-संस्कार-लक्षणं स्व-तन्त्रं च फल-साधनं, श्रद्धा यत्-पूर्वकः सर्व-पुरुषार्थ-साधन-प्रयोगश् चित्त-प्रसाद आस्तिक्य-बुद्धिः, तथा सत्यम् अन्-ऋत-वर्जनं यथा-भूतार्थ-वचनं च_अ-पीडा-करम्, ब्रह्म-चर्यं मैथुनासमाचारः, विधिश् च इति-कर्तव्यता॥
saptan, prāṇa, pra-√bhū, tad, saptan, arcis, samidh, saptan, homa;
saptan, idam, loka, yad, √car, prāṇa, guhā-āśaya, nihita, saptan, saptan.

तस्मात् [पुरुषात्] प्रभवन्ति – सप्त प्राणाः [इन्द्रियाणि द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका वाच्], [तेषां] सप्त अर्चिषः [सप्त-वृत्तयः], सप्त समिधः [विषयाः] होमाः [विषय-विज्ञानानि च], इमे सप्त लोकाः [इन्द्रिय-गोलकाः] [च] येषु प्राणाः चरन्ति। सप्त सप्त [इन्द्रियाणि] गुहा-आशयाः निहिताः [स्थापिताः, हृदये शेरते इति]॥
किञ्च –
सप्त शीर्षण्याः प्राणाः तस्माद् एव पुरुषात् प्रभवन्ति। तेषां च सप्त अर्चिषः दीप्तयः स्व-स्व-विषयावद्योतनानि। तथा सप्त समिधः सप्त-विषयाः, विषयैर् हि समिध्यन्ते प्राणाः। सप्त होमा, तद्-विषय-विज्ञानानि, “यद् अस्य विज्ञानं तज् जुहोति” (MahU.80) इति श्रुत्य्-अन्तरात्।
किञ्च, सप्त इमे लोकाः इन्द्रिय-स्थानानि, येषु चरन्ति संचरन्ति प्राणाः। प्राणा येषु चरन्ति_इति प्राणानां विशेषणम् इदं प्राणापानादि-निवृत्त्य्-अर्थम्। गुहायां शरीरे हृदये वा स्वाप-काले शेरत इति गुहाशयाःनिहिताः स्थापिता धात्रा सप्त सप्त प्रति-प्राणि-भेदम्।
यानि च आत्म-याजिनां (ManSmrt.12.91) विदुषां कर्माणि कर्म-फलानि च, अ-विदुषां च, कर्माणि तत्-साधनानि कर्म-फलानि च सर्वं च_एतत् परस्माद् एव पुरुषात् सर्व-ज्ञात् प्रसूतम् इति प्रकरणार्थः॥
atas, samudra, giri, ca, sarva, idam, √syand, sindhu, sarva-rūpā;
atas, ca, sarva, oṣadhi, rasa, ca, yad, etad, bhuta, √sthā, hi, antar-ātman.

अतः [पुरुषात्] सर्वे समुद्राः गिरयः च [प्रभवन्ति]। अस्मात् [पुरुषात्] सर्व-रूपाः सिन्धवः [नद्याः] स्यन्दन्ते। अतः [पुरुषात्] च सर्वाः ओषधयः [षड्-विधः जातः] [तेषां] रसः च, येन [रसेन] एष अन्तर्-आत्मा [लिङ्ग-शरीरं] भूतैः [स्थूल-भूतैः सह] तिष्ठते हि॥
अतः पुरुषात् समुद्राः सर्वे क्षाराद्याः गिरयश् च हिमवद्-आदयः। अस्माद् एव पुरुषात् सर्वे स्यन्दन्ते स्रवन्ति गङ्गाद्याः सिन्धवः नद्यः सर्व-रूपाः बहु-रूपाः। [अतः] अस्माद् एव पुरुषात् सर्वाः ओषधयः व्रीहि-यवाद्याः। रसश् च मधुरादिः षड्-विधः, येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितः एष तिष्ठते तिष्ठति ह्य् अन्तर्-आत्मा लिङ्गं सूक्ष्मं शरीरम्। तद् ह्य् अन्तराले शरीरस्य_आत्मनश् च_आत्मविद् वर्तत इत्य् अन्तर्-आत्मा॥
puruṣa, eva, idam, viśva, karman, tapas, brahman, para-a-mṛta;
etad, yad, √vid, nihita, guhā, tad, a-vidyā-granthi, vi-√kṝ, iha, somya.

पुरुषः एव इदं विश्वम्। कर्म तपस् [कर्म-उपासनाभ्यां कार्यं] एतद् [सर्वं] ब्रह्म पर-अ-मृतम् [एव]। सोम्य, यः [एतद् पर-अ-मृतं] गुहायां [हृदि ‘अहम् एव’ इति] निहितं वेद, सः इह [जीवन् एव] अ-विद्या-ग्रन्थिं विकिरति [नाशयति]॥
एवं पुरुषात् सर्वम् इदं सम्प्रसूतम्। अतो “वाचारम्भणं विकारो नामधेयम्” (ChanU.6.1.4) ‘अन्-ऋतं’, पुरुष “इत्य् एव सत्यम्” (ChanU.6.1.4), अतः –
पुरुष एव इदं विश्वं सर्वम्। न ‘विश्वं’ नाम पुरुषाद् अन्यत् किंचिद् अस्ति। अतो यद् उक्तं तद् एतद् अभिहितम् “कस्मिन् नु भगवो विज्ञाते सर्वम् इदं विज्ञातं भवति” (MunU.1.1.3) इति, एतस्मिन् हि परस्मिन्न् आत्मनि सर्व-कारणे पुरुषे विज्ञाते, ‘पुरुष एव_इदं विश्वं न_अन्यद् अस्ति’_इति विज्ञातं भवति_इति।
किं पुनर् इदं विश्वम्? इत्य् उच्यते – कर्म अग्नि-होत्रादि-लक्षणं, तपः ज्ञानं, तत्-कृतं फलम् अन्यद् – एतावद् धि_इदं सर्वम्। तच् च एतद् ब्रह्मणः कार्यम्, तस्मात् सर्वं ब्रह्म परामृतम्। परम् अ-मृतम् ‘अहम् एव’ इति यो वेद निहितं स्थितं गुहायां हृदि सर्व-प्राणिनां, सः एवं विज्ञानाद् अ-विद्या-ग्रन्थिं ग्रन्थिम् इव दृढी-भूताम् अ-विद्या-वासनां विकिरति विक्षिपति विनाशयति इह जीवन्न् एव न मृतः सन्, हे सोम्य प्रिय-दर्शन॥

[Go to Contents]

Go to Top ('Home' key on many Windows browsers)

āvis, sannihita, guhā-cara, nāman, mahat, pada, atra, etad, samarpita;
ejat, prāṇat, nimiṣat, ca, yad, etad, √jñā, sat, a-sat, vareṇya;
para, vijñāna, yad, variṣṭha, prajā.

आविस् संनिहितम् [आत्म-चैतन्यं] ‘गुहा-चरं’ नाम महत् पदं [सत्-ब्रह्म]। यद् [किंचिद्] एजत् [चलत्], प्राणत्, निमिषत् च अत्र [ब्र्रह्मणि] समर्पितम्। एतद् [ब्रह्म] जानथ – यद् सद् अ-सद् [मूर्तम् अ-मूर्तं पद-अर्थं], वरेण्यं [प्रार्थनीयम्], वरिष्ठं, प्र्रजानां विज्ञानात् परं [च]॥
अ-रूपं सद् अ-क्षरं केन प्रकारेण विज्ञेयम् इत्य् उच्यते –
आविः प्रकाशं संनिहितं वाग्-आद्य्-उपाधिभिः – ‘ज्वलति भ्राजति’_इति श्रुत्य्-अन्तरात् – शब्दादीन् उपलभमानवद् अवभासते, दर्शन-श्रवण-मनन-विज्ञानाद्य्-उपाधि-धर्मैर् आविर्-भूतं सल् लक्ष्यते हृदि सर्व-प्राणिनाम्। यद् एतद् आविर् ब्रह्म संनिहितं सम्यक् स्थितं हृदि, तद् गुहा-चरं नाम गुहायां चरति_इति दर्शन-श्रवणादि-प्रकारैर् ‘गुहा-चरम्’ इति प्रख्यातम्। महत् सर्व-महत्त्वात्, पदं पद्यते सर्वेण_इति, सर्व-पदार्थास्पदत्वात्।
कथं तन् महत् पदम्? इति_उच्यते। यतः अत्र अस्मिन् ब्रह्मणि एतत् सर्वं समर्पितं प्रवेशितं रथ-नाभाव् इव_अराः – एजच् चलत् पक्ष्य्-आदि, प्राणत् प्राणिति_इति प्राणापानादिमन्-मनुष्य-पश्वादि, निमिषच् च यन् निमेषादि-क्रियावद्, यच् च_अ-निमिषच् च-शब्दात्, समस्तम् एतद् अत्र_एव ब्रह्मणि समर्पितम्।
एतद् यद्-आस्पदं सर्वं जानथ, हे शिष्याः, अवगच्छत तद् आत्म-भूतं भवताम्। [सद् असत्] सद्-असत्-स्व-रूपं, सद्-असतोर् मूर्तामूर्तयोः स्थूल-सूक्ष्मयोः (BrhU.2.3.01), तद्-व्यतिरेकेण_अ-भावात्। वरेण्यं वरणीयम्, तद् एव हि सर्वस्य नित्यत्वात् प्रार्थनीयम्, परं व्यतिरिक्तं विज्ञानात् प्रजानाम् इति व्यवहितेन सम्बन्धः, यल् लौकिक-विज्ञानागोचरम् इत्यर्थः। यद् वरिष्ठं वरतमं सर्व-पदार्थेषु वरेषु, तद् ध्य् एकं ब्रह्म अतिशयेन वरं सर्व-दोष-रहितत्वात्॥
yad, arcimat, yad, aṇu, aṇu, ca, yad, loka, nihita, lokin, ca;
tad, etad, a-kṣara, brahman, tad, prāṇa, tad, u, vāc, manas;
tad, etad, satya, tad, a-mṛta, tad, veddhavya, somya, √vid.

यद् अर्चिमत्, यद् अणुभ्यः अणु, [महतः महत् (KathU.1.2.8)] च, यस्मिन् [ब्रह्मणि] लोकाः लोकिनः च निहिताः, तद् एतद् अ-क्षरं ब्रह्म। [तद्] सः प्राणः। तद् उ वाक् मनस् [च]। तद् एतद् सत्यम्। तद् अ-मृतम्। सोम्य, तद् एतद् [ब्रह्म] वेद्धव्यं विद्धि [=ब्रह्म-विज्ञान-अर्थे श्रवण-मनन-निदिध्यासनं कुरु]॥
किञ्च –
यद् अर्चिमद् दीप्तिमत्, तद्-दीप्त्या ह्य् आदित्यादि दीप्यत इति दीप्तिमद् ब्रह्म। किञ्च, यद् अणुभ्यः श्यामाकादिभ्योऽपि अणु च सूक्ष्मम्। ‘च’-शब्दात् स्थूलेभ्योऽप्य् अतिशयेन स्थूलं पृथिव्य्-आदिभ्यः। यस्मिन् लोकाः भूर्-आदयः निहिताः स्थिताः, ये च लोकिनः लोक-निवासिनः मनुष्यादयः, चैतन्याश्रया हि सर्वे प्रसिद्धाः, तद् एतत् सर्वाश्रयम् अ-क्षरम् ब्रह्म, स प्राणः, तद् उ वाङ् मनः वाक् च मनश् च सर्वाणि च करणानि तद् उ अन्तश्-चैतन्यम्, चैतन्याश्रयो हि प्राणेन्द्रियादि-सर्व-संघातः, “प्राणस्य प्राणम्” (BrhU.4.4.10) इति श्रुत्य्-अन्तरात्।
यत् प्राणादीनाम् अन्तश्-चैतन्यम् अ-क्षरं तद् एतत् सत्यम् अ-वि-तथम्, अतः अ-मृतम् अ-विनाशि, तद् वेद्धव्यं मनसा ताडयितव्यं तस्मिन् मनः-समाधानं कर्तव्यम् इत्यर्थः। यस्माद् एवं हे सोम्य, विद्धि अ-क्षरे चेतः समाधत्स्व॥
dhanus, gṛhītvā, aupaniṣada, mahā-astra, śara, hi, upāsā-niśita, sam-√dhā;
āyamya, tad-bhāva-gata, cetas, lakṣya, tad, eva, a-kṣara, somya, √vid.

औपनिषदं महा-अस्त्रं धनुस् गृहित्वा, [तस्मिन् धनुषि] उपासा-निशितं शरं [बाणं] हि सन्धयीत। तद्-भाव-गतेन चेतसा [लक्ष्ये एव] आयम्य, तद् एव अ-क्षरं [ब्रह्म] लक्ष्यं विद्धि [=समाधत्स्व], सोम्य॥
कथं वेद्धव्यम्? इति, उच्यते –
धनुः इष्व्-आसनं गृहीत्वा आदाय औपनिषदम् उपनिषत्सु भवं प्रसिद्धं महा-स्त्रं महच् च तद् अस्त्रं च महा-स्त्रं धनुः तस्मिन्, शरम् किं-विशिष्टम्? इत्य् आह – उपासा-निशितं संतताभिध्यानेन तनू-कृतं संस्कृतम् इत्येतत्, संधयीत संधानं कुर्यात्। संधाय च आयम्य आकृष्य सेन्द्रियम् अन्तःकरणं स्व-विषयाद् विनिवर्त्य लक्ष्य एव_अ-वर्जितं कृत्वा_इत्यर्थः। न हि हस्तेन_इव धनुष आयमनम् इह सम्भवति। तद्-भाव-गतेन तस्मिन् ब्रह्मण्य् अ-क्षरे लक्ष्ये भावना भावः तद्-गतेन चेतसा, लक्ष्यं तद् एव यथोक्त-लक्षणम् अ-क्षरं सोम्य विद्धि
praṇava, dhanus, śara, hi, ātman, brahman, tad-lakṣya, √vac;
a-pramatta, veddhavya, śaravad, tanmaya, √bhū.

प्रणवः धनुस्। शरः हि [मनस्-उपाधि-]आत्मा। ब्रह्म ‘तद्-लक्ष्यं’ [जीव-आत्मनः लक्ष्यं] उच्यते। अ-प्रमत्तेन [तद् लक्ष्यं] वेद्धव्यं। शरवत् तन्मयः भवेत्॥
यद् उक्तं धनुर्-आदि, तद् उच्यते –
प्रणवः ओङ्कारः धनुः यथा इष्व्-आसनं लक्ष्ये शरस्य प्रवेश-कारणम्, तथा आत्म-शरस्य_अ-क्षरे लक्ष्ये प्रवेश-कारणम् ओंकारः। प्रणवेन ह्य् अभ्यस्यमानेन संस्क्रियमाणस् तद्-आलंबनोऽप्रतिबन्धेन_अ-क्षरेऽवतिष्ठते। यथा धनुषा अस्त इषुर् लक्ष्ये। अतः प्रणवो धनुर् इव धनुः। शरो ह्य् आत्मा उपाधि-लक्षणः पर एव जले सूर्यादिवद् इह प्रविष्टो देहे सर्व-बौद्ध-प्रत्यय-साक्षितया, स शर इव स्वात्मन्य् एव_अर्पितोऽक्षरे ब्रह्मणि, अतः ब्रह्म तल्-लक्ष्यम् उच्यते, लक्ष्य इव मनः-समाधित्सुभिर् आत्म-भावेन लक्ष्यमाणत्वात्।
तत्र_एवं सति अ-प्रमत्तेन बाह्य-विषयोपलब्धि-तृष्णाप्रमाद-वर्जितेन सर्वतो विरक्तेन जितेन्द्रियेण_एकाग्र-चित्तेन वेद्धव्यं ब्रह्म लक्ष्यम्। ततस् तद्-वेधनाद् ऊर्ध्वं शरवत् तन्मयः भवेद्। यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति, तथा देहाद्य्-आत्मता-प्रत्यय-तिरस्करणेन_अ-क्षरैकात्मत्वं फलम् आपादयेद् इत्यर्थः॥
yad, dyu, pṛthivī, ca, antarikṣa, ota, manas, saha, prāṇa, ca, sarva;
tad, eva, eka, √jñā, ātman, anya, vāc, vi-√muc, a-mṛta, etad, setu.

यस्मिन् [अ-क्षरे] द्यौः पृथिवी अन्तर्-इक्षं च [समष्टितः] ओतं [समर्पितम्], सर्वैः प्राणैः [करणैः] सह मनस् च [व्यष्टितः ओतम्] – तम् एव [सर्व-आश्रयम्] एकं आत्मानं जानथ। [ज्ञात्वा] अन्याः [अ-पर-विद्या-रूपाः] वाचः विमुञ्चथ। [यतः] एषः अ-मृतस्य सेतुः [इव]॥
अ-क्षरस्य_एव दुर्-लक्ष्यत्वात् पुनः पुनर् वचनं सु-लक्षणार्थम् –
यस्मिन् अ-क्षरे पुरुषे द्यौः पृथिवी च अन्तर्-इक्षंओतं समर्पितं मनश् च सह प्राणैः करणैः अन्यैः सर्वैः, तम् एव सर्वाश्रयम् एकम् अ-द्वितीयं जानथ जानीत, हे शिष्याः, आत्मानं प्रत्यक्-स्व-रूपं युष्माकं सर्व-प्राणिनां च। ज्ञात्वा च अन्याः वाचः अपर-विद्या-रूपाः विमुञ्चथ विमुञ्चत परित्यजत। तत्-प्रकाश्यं च सर्वं कर्म स-साधनम्। यतः अ-मृतस्य एष सेतुः, एतद् आत्म-ज्ञानम् अ-मृतस्य_अ-मृतत्वस्य मोक्षस्य प्राप्तये सेतुर् इव सेतुः, संसार-महोदधेर् उत्तरण-हेतुत्वात्, तथा च श्रुत्य्-अन्तरम् – “तम् एव विदित्वा_अति मृत्युम् एति न_अन्यः पन्था विद्यतेऽयनाय” (SvetU.3.8) इति॥
ara, iva, ratha-nābhi, saṃhata, yatra, nāḍī, tad, etad, antar, √car, bahudhā, jāyamāna;
om, iti, evam, √dhyai, ātman, su-asti, yuṣmad, pāra, tamas, para.

यत्र नाड्यः संहताः [समर्पिताः] अराः इव रथ-नाभौ, [तत्र हृदये] अन्तर् [मध्ये] सः एषः [आत्मा] बहुधा जायमानः [इव सन्] चरते। [तम्] आत्मानम् ओम् इति एवं [प्रणव-आलम्बेन] ध्यायथ। [अ-विद्या-]तमसः परस्तात् पाराय [पर-कूलाय] वः [युष्माकं] स्वस्ति॥
किञ्च –
अरा इव यथा रथ-नाभौ समर्पिता अराः, एवं संहताः सम्प्रविष्टाः यत्र यस्मिन् हृदये सर्वतो देह-व्यापिन्यः नाड्यः, तस्मिन् हृदये बुद्धि-प्रत्यय-साक्षि-भूतः स एषः प्रकृत आत्मा अन्तर् मध्ये चरते चरति वर्तते। पश्यन् शृण्वन् मन्वानो विजानन् बहुधा अन्-एकधा क्रोध-हर्षादि-प्रत्ययैर् जायमान इव जायमानः अन्तःकरणोपाध्य्-अनुविधायित्वाद्, वदन्ति हि लौकिका ‘हृष्टो जातः क्रुद्धो जात’ इति। तम् आत्मानम् ओम् इत्य् एवम् ओङ्कारालम्बनाः सन्तः यथोक्त-कल्पनया ध्यायथ चिन्तयत।
उक्तं च वक्तव्यं शिष्येभ्य आचार्येण जानता। शिष्याश् च ब्रह्म-विद्या-विविदिषुत्वान् निवृत्त-कर्माणो मोक्ष-पथे प्रवृत्ताः। तेषां निर्-विघ्नतया ब्रह्म-प्राप्तिम् आशास्त्य् आचार्यः – स्व्-अस्ति निर्-विघ्नम् अस्तु वः युष्माकं पाराय पर-कूलाय। परस्ताद् कस्मात्? अ-विद्या-तमसः, अ-विद्या-रहित-ब्रह्मात्म-स्व-रूप-गमनाय_इत्यर्थः॥
yad, sarva-jña, sarva-vid, yad, etad, mahiman, bhū;
divya, brahma-pura, hi, etad, vyoman, ātman, pratiṣṭhita.
manomaya, prāṇa-śarīra-netṛ, pratiṣṭhita, anna, hṛdaya, sannidhāya;
tad, vijñāna, pari-√dṛś, dhīra, ānanda-rūpa, a-mṛta, yad, vi-√bhā.

यः [परम-आत्मा] सर्व-ज्ञः सर्व-विद् (MunU.1.1.9), यस्य भुवि एषः महिमा, [सः] एषः आत्मा दिव्ये ब्रह्म-पुरे [हृदये] हि व्योम्नि प्रतिष्ठितः [उपलभ्यते]। [तत्र-स्थ-आत्मा] मनोमयः प्राण-शरीर-नेता [च] हृदयं सन्निधाय [हृदि समवस्थाप्य], अन्ने [अन्नमय-शरीरे] प्रतिष्ठितः। यद् [आत्म-तत्त्वम्] आनन्द-रूपम् अ-मृतं विभाति, तद् धीराः विज्ञानेन परिपश्यन्ति॥
योऽसौ तमसः परस्तात् संसार-महोदधिं तीर्त्वा गन्तव्यः पर-विद्या-विषयः, स कस्मिन् वर्तत इत्य् आह –
यः सर्व-ज्ञः सर्व-विद् व्याख्यातः। तं पुनर् विशिनष्टि – यस्य_एष प्रसिद्धो महिमा विभूतिः। कोऽसौ महिमा? यस्य_इमे द्यावा-पृथिव्यौ शासने विधृते तिष्ठतः, सूर्या-चन्द्रमसौ यस्य शासनेऽलात-चक्रवद् अ-जस्रं भ्रमतः, यस्य शासने सरितः सागराश् च स्व-गोचरं न_अतिक्रामन्ति, तथा स्थावरं जङ्गमं च यस्य शासने नियतम्, तथा चर्तवोऽयने अब्दाश् च यस्य शासनं न_अतिक्रामन्ति, तथा कर्तारः कर्माणि फलं च यच् छासनात् स्वं स्वं कालं न_अतिवर्तन्ते, स एष महिमा, भुवि लोके यस्य स एष सर्व-ज्ञ एवं-महिमा देवः। दिव्ये द्योतनवति सर्व-बौद्ध-प्रत्यय-कृत-द्योतने ब्रह्म-पुरे। ब्रह्मणो अत्र चैतन्य-स्व-रूपेण नित्याभिव्यक्तत्वाद्, ब्रह्मणः पुरं हृदय-पुण्डरीकं तस्मिन् यद् व्योम, तस्मिन् व्योम्नि आकाशे हृत्-पुण्डरीक-मध्य-स्थे प्रतिष्ठित इव_उपलभ्यते, न ह्य् आकाशवत् सर्व-गतस्य गतिर् आगतिः प्रतिष्ठा वा_अन्यथा सम्भवति॥
ह्य् आत्मा तत्र-स्थो मनो-वृत्तिभिर् एव विभाव्यत इति मनोमयः, मन-उपाधित्वात्। प्राण-शरीर-नेता प्राणश् च शरीरं च तत् प्राण-शरीरं तस्य_अयं नेता। स्थूलाच् छरीराच् छरीरान्तरं प्रति प्रतिष्ठितः अवस्थितः अन्ने भुज्यमानान्न-विपरिणामे प्रतिदिनम् उपचीयमाने अपचीयमाने च पिण्ड-रूपेऽन्ने हृदयं बुद्धिं पुण्डरीक-च्छिद्रे संनिधाय समवस्थाप्य, हृदयावस्थानम् एव ह्य् आत्मनः स्थितिः, न ह्य् आत्मनः स्थितिर् अन्ने।
तद् आत्म-तत्त्वं विज्ञानेन विशिष्टेन शास्त्राचार्योपदेश-जनितेन ज्ञानेन शम-दम-ध्यान-सर्व-त्याग-वैराग्योद्भूतेन परिपश्यन्ति सर्वतः पूर्णं पश्यन्ति उपलभन्ते धीराः विवेकिनः। आनन्द-रूपं सर्वानर्थ-दुःखायास-प्रहीणम् अ-मृतं यद् विभाति विशेषेण स्वात्मन्य् एव भाति सर्वदा॥
√bhid, hṛdaya-granthi, √chid, sarva-saṃśaya;
√kṣi, ca, idam, karman, tad, dṛṣṭa, para-avara.

तस्मिन् पर-अवरे [कारण-कार्य-आत्मनि] दृष्टे, अस्य [धीरस्य] हृदय-ग्रन्थिः [अ-विद्या-कामः] भिद्यते, सर्व-संशयाः छिद्यन्ते, कर्माणि च क्षीयन्ते॥
अस्य परमात्म-ज्ञानस्य फलम् इदम् अभिधीयते –
भिद्यते हृदय-ग्रन्थिः अ-विद्यावासना-प्रचयो बुद्ध्य्-आश्रयः कामः, “कामा येऽस्य हृदि श्रिताः” (BrhU.4.4.07), (KathU.2.3.14) इति श्रुत्य्_अन्तरात्। हृदयाश्रयोऽसौ, न_आत्माश्रयः। भिद्यते भेदं विनाशम् आयाति। छिद्यन्ते [सर्व-संशयाः] सर्वे ज्ञेय-विषयाः संशयाः लौकिकानाम् आ मरणात् तु गङ्गा-स्रोतोवत् प्रवृत्ता विच्छेदम् आयान्ति। अस्य विच्छिन्न-संशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक्-तनानि जन्मान्तरे च_अ-प्रवृत्त-फलानि ज्ञानोत्पत्ति-सह-भावीनि च क्षीयन्ते कर्माणि, न त्व् एतज् जन्मारम्भकाणि, प्रवृत्त-फलत्वात्। तस्मिन् सर्व-ज्ञेऽसंसारिणि परावरे परं च कारणात्मना अवरं च कार्यात्मना ‘तस्मिन् परावरे साक्षाद् अहम् अम्मि’_इति दृष्टे, संसार-कारणोच्छेदान् मुच्यत इत्यर्थः॥
hiraṇmaya, para, kośa, vi-raja, brahman, nis-kala;
tad, śubhra, jyotis, jyotis, tad, yad, ātma-vid, √vid.

तद् ब्रह्म हिरण्मये परे कोशे [हृद्याकाशे (BrhU.2.5.10) बुद्धौ] वि-रजं निस्-कलं [च] [अतः] शुभ्रम्। तद् ज्योतिषां ज्योतिः, यद् आत्म-विदः विदुः॥
उक्तस्य_एव_अर्थस्य संक्षेपाभिधायका उत्तरे मन्त्रास् त्रयोऽपि –
हिरण्मये ज्योतिर्मये बुद्धि-विज्ञान-प्रकाशे परे कोशे, कोश इव_असेः, आत्म-स्वरूपोपलब्धि-स्थानत्वात्, परं तत् सर्वाभ्यन्तरत्वात् तस्मिन्, वि-रजम् अ-विद्याद्य्-अशेष-दोष-रजो-मल-वर्जितं ब्रह्म सर्व-महत्त्वात् सर्वात्मत्वाच् च निष्-कलं निर्गताः कला यस्मात् तन् निष्-कलं निर्-अवयवम् इत्यर्थः। यस्माद् वि-रजं निष्-कलं च, अतः तच् छुभ्रं शुद्धम्।
ज्योतिषां सर्व-प्रकाशात्मनाम् अग्न्य्-आदीनाम् अपि तज् ज्योतिः अवभासकम्। अग्न्य्-आदीनाम् अपि ज्योतिष्ट्वम् अन्तर्-गत-ब्रह्मात्म-चैतन्य-ज्योतिर्-निमित्तम् इत्यर्थः। तद् धि परं ज्योतिर् यद् अन्यानवभास्यम् आत्म-ज्योतिः। तद् यद् आत्म-विदः आत्मानं स्वं शब्दादि-विषय-बुद्धि-प्रत्यय-साक्षिणं ये विवेकिनो विदुः विजानन्ति, ते आत्म-विदः तद् विदुः, आत्म-प्रत्ययानुसारिणः। यस्मात् परं ज्योतिस्, तस्मात् त एव तद् विदुः, न_इतरे बाह्यार्थ-प्रत्ययानुसारिणः॥
na, tatra, sūrya, √bhā, na, candra-tāraka, na, idam, vidyut, √bhā, kutas, idam, agni;
tad, eva, bhāt, anu-√bhā, sarva, tad, bhās, sarva, idam, vi-√bhā.

तत्र [ब्रह्मणि] सूर्यः न भाति, न चन्द्र-तारकं, न इमाः विद्युतः भान्ति। कुतः अयम् अग्निः। तं [स्वतः भा-रूपम्] एव भान्तं [दीप्यमानं], सर्वम् अनुभाति [न स्वतः]। तस्य [स्व-प्रकाश-रूपस्य] भासा [दीप्त्या एव] इदं सर्वं विभाति। (KathU.2.2.15)॥
कथं तज् “ज्योतिषां ज्योतिः” इति, उच्यते –
न तत्र तस्मिन् स्वात्म-भूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति, तद् ब्रह्म न प्रकाशयति_इत्यर्थः। स हि तस्य_एव भासा सर्वम् अन्यद् अन्-आत्म-जातं प्रकाशयति_इत्यर्थः, न तु तस्य स्वतः प्रकाशन-सामर्थ्यम्। तथा न चन्द्र-तारकम्, न इमाः विद्युतः भान्ति, कुतोऽयम् अग्निः अस्मद् गोचरः।
किं बहुना। यद् इदं जगद् भाति, तत् तम् एव परमेश्वरं स्वतो भा-रूपत्वाद् भान्तं दीप्यमानम् अनुभाति अनुदीप्यते। यथा जलोल्मुकादि वा अग्नि-संयोगाद् अग्निं दहन्तम् अनुदहति, न स्वतः, तद्वत् तस्य_एव भासा दीप्त्या सर्वम् इदं सूर्यादि जगद् विभाति
यत एवं तद् एव ब्रह्म भाति च विभाति च कार्य-गतेन विविधेन भासा, अतस् तस्य ब्रह्मणो भा-रूपत्वं स्वतोऽवगम्यते। न हि स्वतोऽविद्यमानं भासनम् अन्यस्य कर्तुं शक्नोति। घटादीनाम् अन्यावभासकत्वादर्शनाद् भा-रूपाणां च_आदित्यादीनां तद्-दर्शनात्॥
brahman, eva, idam, a-mṛta, purastāt, brahman, paścāt, brahman, dakṣiṇatas, ca, uttareṇa;
adhas, ca, ūrdhvam, ca, prasṛta, brahman, eva, idam, viśva, idam, variṣṭha.

अ-मृतं ब्रह्म एव इद्ं पुरस्तात् [अग्रे जगत्]। ब्रह्म [एव] पश्चात् [पृष्ठतः अपि]। ब्रह्म [एव] दक्षिणतः उत्तरेण च, अधः च उर्ध्वं च प्रसृतं [जगत्]। ब्रह्म एव इदं [जगत्], विश्वं इदं [समस्तं जगत्]। [ब्रह्म एव] वरिष्ठम्॥
यत् तज् ज्योतिषां ज्योतिर् ब्रह्म, तद् एव सत्यम्, सर्वं तद्-विकारं (तद्-विकारः) वाचारम्भणं विकारो नामधेयमात्रम् अन्-ऋतम् इतरद्, इत्य् एतम् अर्थं विस्तरेण हेतुतः प्रतिपादितं निगमन-स्थानीयेन मन्त्रेण पुनर् उपसंहरति –
ब्रह्म_एव उक्त-लक्षणम् [अ-मृतम् (MunU.2.2.7)] इदं यत् पुरस्ताद् अग्रेऽब्रह्म_इव_अ-विद्या-दृष्टीनां प्रत्यवभासमानं, तथा पश्चाद् ब्रह्म तथा दक्षिणतश् तथा उत्तरेण, तथा_एव_अधसताद् ऊर्ध्वं च सर्वतोऽन्यद् इव कार्याकारेण प्रसृतं प्रगतं नाम-रूपवद् अवभासमानम्। किं बहुना? ब्रह्म_एव_इदं विश्वं समस्तम् इदं जगद् वरिष्ठं वरतमम्। अ-ब्रह्म-प्रत्ययः सर्वोऽविद्यामात्रो रज्ज्वाम् इव सर्प-प्रत्ययः। ब्रह्म_एव_एकं परमार्थ-सत्यम् इति वेदानुशासनम्॥

Go to Top ('Home' key on many Windows browsers)

Like two birds, the jiva and puruṣa

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10

परा विद्या_उक्ता यया तद् अ-क्षरं पुरुषाख्यं सत्यम् अधिगम्यते, यद्-अधिगमे हृदय-ग्रन्थ्य्-आदि-संसार-कारणस्य_आत्यन्तिको विनाशः स्यात्। तद्-दर्शनोपायश् च योगो धनुर्-आद्य्-उपादान-कल्पनया_उक्तः। अथ_इदानीं तत्-सह-कारीणि सत्यादि-साधनानि वक्तव्यानि_इति तद्-अर्थम् उत्तर-ग्रन्थारम्भः। प्राधान्येन तत्त्व-निर्धारणं च प्रकारान्तरेण क्रियते, अत्यन्त-दुर्-अवगाहत्वात् कृतम् अपि। तत्र सूत्र-भूतो मन्त्रः परमार्थ-वस्त्व्-अवधारणार्थम् उपन्यस्यते –
dvi, su-parṇa, sa-yuj, sakhi, samāna, vṛkṣa, pari-√svaj;
tad, anya, pippala, svādu, √ad, an-aśnat, anya, abhi, √kāś.

द्वा [द्वौ] स-युजा सखाया [समानाख्यानौ] सु-पर्णा [एवं-भूतौ पक्षिनौ इव] समानं [देह-आदि-संसार-]वृक्षं परिषस्वजाते। तयोः [जीव-ईशयोः] अन्यः [जीवः] स्वादु पिप्पलं अत्ति। अन्यः [ईश्वरः] अन्-अश्नन्, अभिचाकशीति [केवलं पश्यति]॥
द्वा द्वौ, सु-पर्णा सु-पर्णौ शोभन-पतनौ सु-पर्णौ, पक्षि-सामान्याद् वा सु-पर्णौ, स-युजा स-युजौ सह_एव सर्वदा युक्तौ, सखाया सखायौ समानाख्यानौ समानाभिव्यक्ति-कारणौ, एवं-भूतौ सन्तौ समानम् अ-विशेषम् उपलब्ध्य्-अधिष्ठानतया_एकं वृक्षं वृक्षम् इव_उच्छेद-सामान्याच् छरीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ। सु-पर्णाव् इवैकं वृक्षं फलोपभोगार्थम्।
अयं हि वृक्ष ऊर्ध्व-मूलोऽवाक्-शाखोऽश्वत्थोऽव्यक्त-मूल-प्रभवः (KathU.2.3.1) क्षेत्र-संज्ञकः (BhG.13.2) सर्व-प्राणि-कर्म-फलाश्रयः, तं परिष्वक्तौ सु-पर्णाव् इव अ-विद्या-काम-कर्म-वासनाश्रय-लिङ्गोपाध्य्-आत्मेश्वरौ। तयोः परिष्वक्तयोः अन्यः एकः क्षेत्र-ज्ञो लिङ्गोपाधिः वृक्षम् आश्रितः पिप्पलं कर्म-निष्पन्नं सुख-दुःख-लक्षणं फलं स्वादु अनेक-विचित्र-वेदनास्वाद-रूपं स्वादु अत्ति भक्षयत्य् उपभुङ्क्ते अ-विवेकतः। अन्-अश्नन् अन्यः इतरः ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः सर्व-ज्ञः सत्त्वोपाधिर् (सर्वोपाधिर्) ईश्वरो न_अश्नाति। प्रेरयिता ह्य् असाव् उभयोर् भोज्य-भोक्त्रोर् नित्य-साक्षित्व-सत्तामात्रेण। स तु अन्-अश्नन् अन्यः अभिचाकशीति पश्यत्य् एव केवलम्। दर्शनमात्रं हि तस्य प्रेरयितृत्वं, राजवत्॥
samāna, vṛkṣa, puruṣa, nimagna, an-īśā, √śuc, muhyamāna;
juṣṭa, yadā, √dṛś, anya, īśa, idam, mahimāna, iti, vīta-śoka.

समाने वृक्षे निमग्नः पुरुषः [अतः] मुह्यमानः अन्-ईशया शोचति। यदा [सः धीरः] ‘अन्यं जुष्टम् ईशम् [अहम् अस्मि]’ ‘अस्य महिमानं [मम]’ [च] इति पश्यति, [तदा] वीत-शोकः [भवति]॥
तत्रैवं सति –
समाने वृक्षे यथोक्ते शरीरे पुरुषः भोक्ता जीवोऽविद्या-काम-कर्म-फल-रागादि-गुरु-भाराक्रान्तोऽलाबुर् इव सामुद्रे जले निमग्नः निश्चयेन देहात्म-भावम् आपन्नः, ‘अयम् एव_अहम्, अमुष्य पुत्रः, अस्य नप्ता, कृशः स्थूलो, गुणवान् निर्-गुणः, सुखी दुःखी’ इत्य् एवं-प्रत्ययो, ‘न_अस्त्य् अन्योऽस्माद्’ इति, जायते म्रियते, संयुज्यते वियुज्यते च सम्बन्धि-बान्धवैः।
अतः अन्-ईशया, ‘न कस्यचित् समर्थोऽहं, पुत्रो मम विनष्टो, मृता मे भार्या, किं मे जीवितेन’ इत्य् एवं दीन-भावोऽन्-ईशा, तया शोचति संतप्यते, मुह्यमानः अन्-एकैर् अन्-अर्थ-प्रकारैर् अ-विवेकितया चिन्ताम् आपद्यमानः।
स एवं प्रेत-तिर्यङ्-मनुष्यादि-योनिष्व् आजवं जवी-भावम् आपन्नः, कदाचिद् अन्-एक-जन्मसु शुद्ध-धर्म-संचित-निमित्ततः, केनचित् परम-कारुणिकेन दर्शित-योग-मार्गः, अ-हिंसा-सत्य-ब्रह्मचर्य-सर्व-त्याग-शम-दमादि-सम्पन्नः, समाहितात्मा सन्, जुष्टं सेवितम् अन्-एकैर् योग-मार्गैः कर्मिभिश् च यदा यस्मिन् काले पश्यति ध्यायमानः (MunU.3.1.8) अन्यं वृक्षोपाधि-लक्षणाद् वि-लक्षणम् ईशम् अ-संसारिणम् अशनाया-पिपासाशोक-मोह-जरा-मृत्य्व्-अतीतम् ईशं सर्वस्य जगतो, ‘अयम् अहम् अस्मि_आत्मा सर्वस्य समः सर्व-भूत-स्थो, न_इतरो अ-विद्या-जनितोपाधि-परिच्छिन्नो मायात्मा’ इति, विभूतिं महिमानं च जगद्-रूपम् अस्य_एव मम परमेश्वरस्य इति यदा_एवं द्रष्टा [=द्रक्ष्यति], तदा वीत-शोकः भवति सर्वस्माच् छोक-सागराद् विप्रमुच्यते, कृत-कृत्यो भवति_इत्यर्थः॥
yadā, paśya, √dṛś, rukma-varṇa, kartṛ, īśa, puruṣa, brahma-yoni;
tadā, vidvas, puṇya-pāpa, vidhūya, nis-añjana, parama, sāmya, upa-√i.

यदा पश्यः [=विद्वान्] रुक्म-वर्णं [सर्वस्य] कर्तारम् ईशं ब्रह्म-योनिं पुरुषं पश्यते, तदा [सः] विद्वान् पुण्य-पापे विधूय, निस्-अञ्जनः परमं साम्यम् उपैति॥
अन्योऽपि मन्त्र इमम् एवार्थम् आह स-विस्तरम् –
यदा यस्मिन् काले पश्यः पश्यति_इति विद्वान् साधक इत्यर्थः। पश्यते पश्यति पूर्ववद्, रुक्म-वर्णं स्वयं-ज्योतिः-स्वभावं रुक्म्स्य_इव वा ज्योतिर् अस्य_अ-विनाशि, कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्म-योनिं ब्रह्म च तद् योनिश् च_असौ ब्रह्म-योनिस् तं ब्रह्म-योनिं ब्रह्मणो वा अपरस्य योनिं, स यदा च_एवं पश्यति, तदाविद्वान् पश्यः पुण्य-पापे बन्धन-भूते कर्मणी स-मूले विधूय निरस्य दग्ध्वा निर्-अञ्जनः निर्-लेपो विगत-क्लेशः परमं प्रकृष्टं निर्-अतिशयं साम्यं समताम् अ-द्वय-लक्षणं, द्वैत-विषयाणि साम्यान्य् अतः अर्वाञ्च्य्_एव, अतोऽद्वय-लक्षणम् एतत् परमं साम्यम् उपैति प्रतिपद्यते॥
prāṇa, hi, etad, yad, sarva-bhūta, vi-√bhā, vijānat, vidvas, √bhū, na, ati-vādin;
ātma-krīḍa, ātma-rati, kriyāvat (ātma-rati-kriyāvat), etad, brahma-vid, variṣṭha.

एषः [ईश्वरः] प्राणः हि, सर्व-भूतैः विभाति। यः [एवं] विजानन्, एषः विद्वान्। [एषः विद्वान्] अति-वादी [=वाचालः] न भवते। [एषः] आत्म-क्रीडः [बाह्यतः], आत्म-रतिः [अन्तरे], [ब्रह्म-ज्ञानादौ एव] क्रियावान् [अपि] (आत्म-रति-क्रियावान् [आत्म-आनन्दः एव क्रिया यस्य सः])। [एषः] ब्रह्मविदां [वेद-विदां मध्ये] वरिष्ठः॥
किञ्च –
योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः [सर्व-भूतैः] सर्वैर् भूतैः ब्रह्मादि-स्तम्ब-पर्यन्तैः, इत्थं-भूत-लक्षणे तृतीया, सर्व-भूत-स्थः सर्वात्मा सन्न् इत्यर्थः, विभाति विविधं दीप्यते। एवं सर्व-भूत-स्थं यः साक्षाद् आत्म-भावेन ‘अयम् अहम् अस्मि’ इति विजानन् विद्वान् वाक्यार्थ-ज्ञानमात्रेण स भवते भवति भवति_इत्येतत्, किम्? – अति-वादी अतीत्य सर्वान् अन्यान् वदितुं शीलम् अस्य_इत्य् अति-वादी।
यस् त्व् एवं साक्षाद् आत्मानं प्राणस्य प्राणं विद्वान्, अति-वादी स न भवति_इत्यर्थः। सर्वं यदा आत्मा_एव न_अन्यद् अस्ति_इति दृष्टम्। तदा किं ह्य् असाव् अतीत्य वदेत्? यस्य त्व् अपरम् अन्यद् दृष्टम् अस्ति, स तद्-अतीत्य वदति। अयं तु विद्वान् आत्मनोऽन्यन् न पश्यति, न_अन्यच् छृणोति, न_अन्यद् विजानाति। अतो न_अति-वदति।
किञ्च, आत्म-क्रीडः आत्मन्य् एव च क्रीडा क्रीडनं यस्य न_अन्यत्र पुत्र-दारादिषु, स आत्म-क्रीडः। तथा आत्म-रतिः आत्मन्य् एव च रती रमणं प्रीतिर् यस्य, स आत्म-रतिः। क्रीडा बाह्य-साधन-सापेक्षा, रतिस् तु साधन-निर्-अपेक्षा बाह्य-विषय-प्रीतिमात्रम् इति विशेषः। तथा क्रियावान् ज्ञान-ध्यान-वैराग्यादि-क्रिया यस्य सोऽयं क्रियावान्। समास-पाठे आत्म-रतिर् एव क्रिया_अस्य विद्यत इति बहु-व्रीहि-मतुब्-अर्थयोर् अन्यतरोऽतिरिच्यते।
केचित् त्व् अग्नि-होत्रादि-कर्म-ब्रह्म-विद्ययोः समुच्चयार्थम् इच्छन्ति। तच् च_एष ब्रह्म-विदां वरिष्ठ इत्य् अनेन मुख्यार्थ-वचनेन विरुध्यते। न हि बाह्य-क्रियावान् आत्म-क्रीड आत्म-रतिश् च भवितुं शक्तः, क्वचिद् बाह्य-क्रिया-विनिवृत्तो ह्य् आत्म-क्रीडो भवति, बाह्य-क्रियात्म-क्रीडयोर् विरोधात्। न हि तमः-प्रकाशयोर् युगपद् एकत्र स्थितिः सम्भवति।
तस्माद् अ-सत् प्रलपितम् एव_एतद् अनेन ज्ञान-कर्म-समुच्चय-प्रतिपादनम्। “अन्या वाचो विमुञ्चथ” (MunU.2.2.5) “संन्यास-योगाद्” (MunU.3.2.6) इत्य्-आदि-श्रुतिभ्यश् च। तस्माद् अयम् एव_इह ‘क्रियावान्’ यो ज्ञान-ध्यानादि-क्रियावान्, सः अ-संभिन्नार्थ-मर्यादः संन्यासी। य एवं-लक्षणो न_अतिवाद्य् आत्म-क्रीड आत्म-रतिः क्रियावान् ब्रह्म-निष्ठः, स ब्रह्म-विदां सर्वेषां वरिष्ठः प्रधानः॥
satya, labhya, tapas, hi, etad, ātman, samyak-jñāna, brahma-carya, nityam;
antar-śarīra, jyotirmaya, hi, śubhra, yad, √dṛś, yati, kṣīṇa-doṣa.

एषः हि आत्मा नित्यं सत्येन, तपसा, सम्यक्-ज्ञानेन, ब्रह्म-चर्येण लभ्यः। [एषः] अन्तर्-शरीरे [हृदय-आकाशे] ज्योतिर्मयः हि शुभ्रः, यम् [आत्मानं] क्षीण-दोषाः यतयः [संन्यासिनः] पश्यन्ति॥
अधुना सत्यादीनि भिक्षोः सम्यग्-ज्ञान-सह-कारीणि साधनानि विधीयन्ते निवृत्ति-प्रधानानि –
सत्येन अन्-ऋत-त्यागेन मृषा-वदन-त्यागेन लभ्यः प्राप्तव्यः। किञ्च, तपसा हि_इन्द्रिय-मन-एकाग्रतया। “मनसश् च_इन्द्रियाणां च ह्य् ऐकाग्र्यं परमं तपः” (MBhSan.250.4) इति स्मरणात्। तद् ध्य् अनुकूलम् आत्म-दर्शनाभिमुखी-भावात् परमं साधनं तपो न_इतरच् चान्द्रायणादि। एष आत्मा लभ्य इत्य् अनुषङ्गः सर्वत्र। सम्यग्-ज्ञानेन यथा-भूतात्म-दर्शनेन ब्रह्म-चर्येण मैथुनासमाचारेण। नित्यं सर्वदा, नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्-ज्ञानेन_इति सर्वत्र नित्य-शब्दोऽन्तर्-दीपिका-न्यायेन_अनुषक्तव्यः। वक्ष्यति च “न येषु जिह्मम् अन्-ऋतं न माया च” (PrasU.1.16) इति।
कोऽसाव् आत्मा य एतैः साधनैर् लभ्य इत्य् उच्यते – अन्तः-शरीरेऽन्तः मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्म-वर्णः शुभ्रः शुद्धो यम् आत्मानं पश्यन्ति उपलभन्ते यतयः यतन-शीलाः संन्यासिनः क्षीण-दोषाः क्षीण-क्रोधादि-चित्त-मलाः, स आत्मा नित्यं सत्यादि-साधनैः संन्यासिभिर् लभ्यत इत्यर्थः। न कादाचित् कैः सत्यादिभिर् लभ्यते॥
satya, eva, √ji, na, an-ṛta, satya, panthan, vitata, deva-yāna;
yad, ā-√kram, ṛśi, hi, āpta-kāma, yatra, tad, satya, parama, nidhāna.

सत्यम् एव जयति, न अनृतम् [सत्यवान् एव न अन्-ऋतवान् इत्यर्थः]। सत्येन [सः] पन्थाः देव-यानः विततः, येन [पथा] आप्त-कामाः ऋषयः हि [उपासकाः] आक्रमन्ति, यत्र [पथि] तद् परमं सत्यस्य निधानम् [निधिः]॥
सत्यादि(सत्य)-साधन-स्तुत्य्-अर्थोऽयम् अर्थ-वादः –
सत्यम् एव सत्यवान् एव जयते जयति, न_अन्-ऋतं न_अन्-ऋत-वादी_इत्यर्थः। न हि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोः जयः परा-जयो वा सम्भवति। प्रसिद्धं लोके सत्य-वादिना_अन्-ऋत-वाद्य् अभिभूयते, न विपर्ययः। अतः सिद्धं सत्यस्य बलवत्-साधनत्वम्।
किञ्च, शास्त्रतोऽप्य् अवगम्यते सत्यस्य साधनातिशयत्वम्। कथम्? सत्येन यथा-भूत-वाद-व्यवस्थया पन्थाः देव-यानख्यः विततो विस्तीर्णः सातत्येन प्रवृत्तः। येन पथा ह्य् आक्रमन्ति (आ)क्रमन्ते ऋषयः दर्शनवन्तः कुहक-माया-शाठ्याहंकार-दम्भानृत-वर्जिता ह्य् आप्त-कामाः विगत-तृष्णाः सर्वतो, यत्र यस्मिन् तत् परमार्थ-तत्त्वं सत्यस्य उत्तम-साधनस्य सम्बन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थ-रूपेण निधीयत इति निधानं वर्तते। तत्र च येन पथा आक्रमन्ति, स सत्येन वितत इति पूर्वेण सम्बन्धः॥
bṛhat, ca, tad, divya, a-cintya-rūpa, sūkṣma, ca, tad, sūkmatara, vi-√bhā;
dūra, su-dūra, tad, iha, antika, ca, paśyat, iha, eva, nihita, guhā.

तद् [ब्रह्म] च बृहत्, दिव्यम्, अ-चिन्त्य-रूपं, सूक्ष्मात् च सुक्ष्मतरम् [अपि] तद् विभाति। [अ-विदुषां] तद् [ब्रह्म] दूरात् सु-दूरे [अपि], [विदुषाम्] इह [शरीरे] अन्तिके च [वर्तते]। इह एव पश्यत्सु [प्राणिषु] गुहायां [बुद्धौ] निहितम्॥
किं तत्? किं-धर्मकं च तद्? इत्य् उच्यते –
बृहद् महच् च तत् प्रकृतं ब्रह्म सत्यादि-साधनं, सर्वतो व्याप्तत्वात्। दिव्यं स्वयं-प्रभम् अन्-इन्द्रिय-गोचरम्, अत एव न चिन्तयितुं शक्यतेऽस्य रूपम् इति अ-चिन्त्य-रूपम्सूक्ष्माद् आकाशादेर् अपि तत् सूक्ष्मतरम्, निर्-अतिशयं हि सौक्ष्म्यम् अस्य सर्व-कारणत्वाद्, विभाति विविधम् आदित्य-चन्द्राद्य्-आकारेण भाति दीप्यते।
किञ्च, दूराद् विप्रकृष्ट-देशात् सु-दूरे विप्रकृष्टतरे देशे वर्ततेऽविदुषाम् अत्यन्तागम्यत्वात् तद् ब्रह्म। इह देहे अन्तिके समीपे , विदुषाम् आत्मत्वात्। सर्वान्तरत्वाच् च_‘आकाशस्य_अप्य्’ अन्तर-श्रुतेः (BrhU.3.7.12)। इह पश्यत्सु चेतनावत्स्व् इत्येतद्, निहितं स्थितं दर्शनादि-क्रियावत्त्वेन योगिभिर् लक्ष्यमाणम्। क्व? गुहायां बुद्धि-लक्षणायाम्। तत्र हि निगूढं लक्ष्यते विद्वद्भिः। तथा_अप्य् अ-विद्यया संवृतं सन् न लक्ष्यते तत्र-स्थम् एव_अ-विद्वद्भिः॥
na, cakṣus, √grah, na, api, vāc, na, anya, deva, tapas, karman, vā;
jñāna-prasāda, viśuddha-sattva, tatas, tu, tad, √dṛś, nis-kala, dhyāyamāna.

न चक्षुषा, न अपि वाचा, न अन्यैः देवैः [इन्द्रियैः], [न] तपसा कर्मणा वा [आत्म-तत्त्वं] गृह्यते। [यतः] ज्ञान-प्रसादेन विशुद्ध-सत्वः, ततः तु [एव] ध्यायमानः [साधकः] तं निस्-कलम् [अवयव-वर्जितम् आत्मानं] पश्यत॥
पुनर् अप्य् अ-साधारणं तद्-उपलब्धि-साधनम् उच्यते –
यस्माद् न चक्षुषा गृह्यते केनचिद् अप्य् अ-रूपत्वाद्, न_अपि गृह्यते वाचा अन्-अभिधेयत्वाद्, च_अन्यैर् देवैः इतरेन्द्रियैः। तपसः सर्व-प्राप्ति-साधनत्वेऽपि न तपसा गृह्यते। तथा वैदिकेन_अग्नि-होत्रादि-कर्मणा प्रसिद्ध-महत्त्वेन_अपि न गृह्यते। किं पुनस् तस्य ग्रहणे साधनम्? इत्य् आह ज्ञान-प्रसादेन
आत्मावबोधन-समर्थम् अपि स्व-भावेन सर्व-प्राणिनां ज्ञानं बाह्य-विषय-रागादि-दोष-कलुषितम् अ-प्रसन्नम् अ-शुद्धं सन् न_अवबोधयति नित्य-संनिहितम् अप्य् आत्म-तत्त्वं, मलावनद्धम् इव_आदर्शनम्, विलुलितम् इव सलिलम्। तद् यदा_इन्द्रिय-विषय-संसर्ग-जनित-रागादि-मल-कालुष्यापनयनाद् आदर्श-सलिलादिवत् प्रसादितं स्व्-अच्छं शान्तम् अवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात्।
तेन ज्ञान-प्रसादेन, विशुद्ध-सत्त्वः विशुद्धान्तःकरणः योग्यो ब्रह्म द्रष्टुं यस्मात्, ततः तस्मात् तु तम् आत्मानं पश्यते पश्यति उपलभते निष्-कलं सर्वावयव-भेद-वर्जितं ध्यायमानः सत्यादि-साधनवान् उपसंहृत-करण एकाग्रेण मनसा ध्यायमानः चिन्तयन्॥
etad, aṇu, ātman, cetas, veditavya, yad, prāṇa, pañcadhā, sam-√viś;
prāṇa, citta, sarva, ota, prajā, yad, viśuddha, vi-√bhū, etad, ātman.

यस्मिन् [शरीरे] प्राणः पञ्चधा [पञ्च-भदेन] संविवेश, [तस्मिन् एव] एषः अणुः आत्मा चेतसा [मनसा] वेदितव्यः [ज्ञेयः]। प्रजानां सर्वं चित्तं प्राणैः [इन्द्रियैः सह] [चैतयेन] ओतम्। यस्मिन् [चित्ते] विशुद्धे [सति], एषः आत्मा विभवति॥
यम् आत्मानम् एवं पश्यति –
एषः अणुः सूक्ष्मः (आत्मा) चेतसा विशुद्ध-ज्ञानेन केवलेन वेदितव्यः। क्व_असौ? यस्मिन् शरीरे प्राणः वायुः पञ्चधा प्राणापानादि-भेदेन संविवेश सम्यक् प्रविष्टः, तस्मिन्न् एव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः।
की-दृशेन चेतसा वेदितव्यः? इत्य् आह – प्राणैः सहेन्द्रियैः चित्तं सर्वम् अन्तःकरणं प्रजानाम् ओतं व्याप्तं येन, क्षीरम् इव स्नेहेन, काष्ठम् इव च_अग्निना। सर्वं हि प्रजानाम् अन्तःकरणं चेतनावत् प्रसिद्धं लोके। यस्मिंश् च चित्ते क्लेशादि-मल-वियुक्ते शुद्धे विभवति, एषः उक्त आत्मा विशेषेण स्वेन_आत्मना विभवति आत्मानं प्रकाशयति_इत्यर्थः॥
yad, yad, loka, manas, sam-vi-√bhā, viśuddha-sattva, √kam, yad, ca, kāma;
tad, tad, loka, √ji, tad, ca, kāma, tad, ātma-jña, hi, √arc, bhūti-kāma.

यं यं लोकं मनसा संविभाति [संकल्पयति] यान् च कामान् [भोगान्] कामयते, तं तं लोकं तान् च कामान् विशुद्ध-सत्त्वः [ज्ञानी] जयते [प्राप्नोति]। तस्मात् भूति-कामः [विभूति-इच्छावान्] आत्म-ज्ञं हि अर्चयेत् [पूजयेत्]॥
य एवम्-उक्त-लक्षणं सर्वात्मानम् आत्मत्वेन प्रतिपन्नस् तस्य सर्वात्मत्वाद् एव सर्वावाप्ति-लक्षणं फलम् आह –
यं यं लोकं पित्रादि-लक्षणं मनसा संविभाति सङ्कल्पयति ‘मह्यम् अन्यस्मै वा भवेद्’ इति, विशुद्ध-सत्त्वः क्षीण-क्लेशः आत्म-विन् निर्मलान्तःकरणः कामयते यांश् च कामान् प्रार्थयते भोगान्, तं तं लोकं जयते प्राप्नोति तांश् च कामान् संकल्पितान् भोगान्। तस्माद् विदुषः सत्य-सङ्कल्पत्वाद् आत्म-ज्ञम् आत्म-ज्ञानेन विशुद्धान्तःकरणं ह्य् अर्चयेत् पूजयेत् पाद-प्रक्षालन-शुश्रूषा-नमस्कारादिभिः भूति-कामः विभूतिम् इच्छुः। ततः पूजार्ह एव_असौ॥

Go to Top ('Home' key on many Windows browsers)

This knowledge has to be chosen

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11

tad, √vid, etad, parama, brahman, dhāman, yatra, viśva, nihita, √bhā, śubhra;
upa-√ās, puruṣa, yad, hi, a-kāma, tad, śukra, etad, ati-√vṛt, dhīra.

सः [आत्म-ज्ञः] एतद् ब्रह्म परमं धाम वेद [जानाति], यत्र [धाम्नि] विश्वं [जगत्] निहितं, [यद् च] शुभ्रं भाति। ये अ-कामाः हि [तम् आत्म-ज्ञं] पुरुषं उपासते [सेवन्ते], ते धीराः [मुमुक्षवः] एतद् शुक्रं [नृ-रेतस्] अतिवर्तन्ति॥
यस्मात्
(यस्मात्) स वेद जानाति एतद् यथोक्त-लक्षणं ब्रह्म परमं प्रकृष्टं धाम सर्व-कामानाम् आश्रयम् आस्पदम्, यत्र यस्मिन् ब्रह्मणि धाम्नि विश्वं समस्तं जगद् निहितम् अर्पितम्, यच् च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम्, तम् अप्य् एवम् आत्म-ज्ञं पुरुषं ये हि अ-कामाः विभूति-तृष्णा-वर्जिता मुमुक्षवः सन्तः उपासते परम् इव सेवन्ते, ते शुक्रं नृ-बीजं यद् एतत् प्रसिद्धं शरीरोपादान-कारणम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः, न पुनर् योनिं प्रसर्पन्ति। “न पुनः क्व रतिं करोति” इति श्रुतेः। अतस् तं पूजयेद् इत्य् अभिप्रायः॥
kāma, yad, √kam, manyamāna, tad, kāma, √jan, tatra, tatra;
paryāpta-kāma, kṛta-ātman, tu, iha, eva, sarva, pra-vi-√lī, kāma.

यः कामान् कामयते, [तान्] मन्यमानः सः तत्र तत्र [लोके] कामभिः [सह] जायते। पर्याप्त-कामस्य कृत-आत्मनः तु इह [शरीरे] एव सर्वे कामाः प्रविलीयन्ति॥
मुमुक्षोः काम-त्याग एव प्रधानं साधनम् इत्य् एतद् दर्शयति –
कामान् यः दृष्टादृष्टेष्ट-विषयान् कामयते मन्यमानः तद्-गुणांश् चिन्तयानः प्रार्थयते, सः तैः कामभिः कामैर् धर्माधर्म-प्रवृत्ति-हेतुभिर् विषयेच्छा-रूपैः सह जायते तत्र तत्र। यत्र यत्र विषय-प्राप्ति-निमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैर् एव कामैर् वेष्टितो जायते।
यस् तु परमार्थ-तत्त्व-विज्ञानात् पर्याप्त-कामः आत्म-कामत्वेन परि समन्ततः आप्ताः कामा (BrhU.4.4.6) यस्य तस्य पर्याप्त-कामस्य, कृतात्मनः अ-विद्या-लक्षणाद् अ-पर-रूपाद् अपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य तस्य कृतात्मनस् तु, इह_एव तिष्ठत्य् एव शरीरे सर्वे धर्माधर्म-प्रवृत्ति-हेतवः प्रविलीयन्ति विलयम् उपयान्ति, नश्यन्ति_इत्यर्थः। कामाः तज्-जन्म-हेतु-विनाशान् न जायन्त इत्यभिप्रायः॥
na, idam, ātman, pravacana, labhya, na, medhā, na, bahu, śruta;
yad, eva, etad, √vṛ [svī-kāre], tad, labhya, tad, etad, ātman, vi-√vṛ [an-ācchādane], tanū, svā.

अयम् आत्मा लभ्यः न प्रवचनेन, न मेधया, न बहुना श्रुतेन। एषः [साधकः] यम् [आत्मानं परम-अर्थेन] वृणुते, तेन [ वरण-साधनेन मुमुक्षुणा] एव [सः वरिष्ठ-आत्मा] लभ्यः, तस्य [मुमुक्षोः] एषः आत्मा स्वां तनूं [स्व-रूपं] विवृणते॥KathU.1.2.23)
‘यद्य् एवं सर्व-लाभात् परम आत्म-लाभः, तल्-लाभाय प्रवचनादय उपाया बाहुल्येन कर्तव्या’ इति प्राप्ते, इदम् उच्यते –
यः अयम् आत्मा व्याख्यातः, यस्य लाभः परः पुरुषार्थः, _असौ वेद-शास्त्राध्ययन-बाहुल्येन प्रवचनेन [केवलेन] लभ्यः। तथा न मेधया ग्रन्थार्थ-धारण-शक्त्या, न बहुना श्रुतेन न_अपि भूयसा श्रवणेन_इत्यर्थः।
केन तर्हि लभ्य इति, उच्यते – यम् एव परमात्मानम् एव एषः विद्वान् वृणुते प्राप्तुम् इच्छति, तेन वरणेन एष पर आत्मा लभ्यः, न_अन्येन साधनान्तरेण।
नित्य-लब्ध-स्व-भावत्वात्, की-दृशोऽसौ विदुष आत्म-लाभः? इति उच्यते – तस्य एष आत्मा अ-विद्या-संछन्नां स्वां परां तनूं स्वात्म-तत्त्वं स्व-रूपं विवृणुते प्रकाशयति, प्रकाश इव घटादिर् विद्यायां सत्याम् आविर्-भवति_इत्यर्थः। तस्माद् अन्य-त्यागेन_आत्म-लाभ-प्रार्थन_एव आत्म-लाभ-साधनम् इत्यर्थः॥
na, idam, ātman, bala-hīna, labhya, na, ca, pramāda, tapas, vā, api, a-liṅga;
etad, upāya, √yat, yad, tu, vidvas, tad, etad, ātman, √viś, brahman, dhāman (or brahma-dhāman).

अयम् आत्मा लभ्यः न बल-हीनेन, न च प्रमादात्, [न] वा अपि तपसः [पाण्डित्यात्] अ-लिङ्गात् [अ-सन्न्यासा]। यः तु विद्वान् [विवेकी] एतैः उपायैः यतते, तस्य एषः [जीव-]आत्मा ब्रह्म धाम विशते [संप्रविशति]॥
आत्म-प्रार्थना-सहाय-भूतान्य् एतानि च साधनानि बलाप्रमाद-तपांसि लिङ्ग-युक्तानि संन्यास-सहितानि। यस्मात् –
न अयम् आत्मा बल-हीनेन बल-प्रहीणेन_आत्म-निष्ठा-जनित-वीर्य-हीनेन लभ्यः, _अपि लौकिक-पुत्र-पश्वादि-विषयसङ्ग-निमित्तात् प्रमादात्, तथा तपसो वा_अपि अ-लिङ्गाल् लिङ्ग-रहितात्। तपोऽत्र ज्ञानं, लिङ्गं संन्यासः, संन्यास-रहिताज् ज्ञानान् न लभ्यत इत्यर्थः। एतैः उपायैः बलाप्रमाद-संन्यास-ज्ञानैः यतते तत्-परः सन् प्रयतते यस् तु विद्वान् विवेकी आत्म-वित्, तस्य विदुषः एष आत्मा विशते सम्प्रविशति ब्रह्म धाम
samprāpya, enad, ṛṣi, jñāna-tṛpta, kṛta-ātman, vīta-rāga, praśānta;
tad, sarva-ga, sarvatas, prāpya, dhīra, yukta-ātman, sarva, eva, ā-√viś.

एनम् [आत्मानं] संप्राप्य, ऋषयः ज्ञान-तृप्ताः, कृत-आत्मनः, वीत-रागाः, प्रशान्ताः [भवन्ति]। सर्व-गम् [आत्मानं] सर्वतः प्राप्य, ते धीराः युक्त-आत्मानः सर्वम् एव आविशन्ति॥
कथं ब्रह्म विशते? इति उच्यते –
सम्प्राप्य समवगम्य एनम् आत्मानम् ऋषयः दर्शनवन्तः तेन_एव [ज्ञान-तृप्ताः] ज्ञानेन तृप्ताः, न बाह्येन तृप्ति-साधनेन शरीरोपचय-कारणेन। कृतात्मानः परमात्म-स्व-रूपेण_एव निष्पन्नात्मानः सन्तः। वीत-रागाः विगत-रागादि-दोषाः। प्रशान्ताः उपरतेन्द्रियाः।
ते एवं-भूताः सर्व-गं सर्व-व्यापिनम् आकाशवत् सर्वतः सर्वत्र प्राप्य, न_उपाधि-परिच्छिन्नेन_एक-देशेन। किं तर्हि? तद् ब्रह्म_एव_अ-द्वयम् आत्मत्वेन प्रतिपद्य धीराः अत्यन्त-विवेकिनः युक्तात्मानो नित्य-समाहित-स्व-भावाः सर्वम् एव समस्तं शरीर-पात-कालेऽपि आविशन्ति भिन्ने घटे भिन्न-घटाकाशवद् अ-विद्या-कृतोपाधि-परिच्छेदं जहति। एवं ब्रह्म-विदो ब्रह्म धाम प्रविशन्ति॥
veda-anta-vijñāna-su-niścita-artha, sannyāsa-yoga, yati, śuddha-sattva;
tad, brahma-loka, para-anta-kāla, para-a-mṛta, pari-√muc, sarva.

संन्यास-योगात् शुद्ध-सत्वाः यतयः वेदान्त-विज्ञान-सु-निश्चित-अर्थाः [भवन्ति]। ते [यतयः] सर्वे पर-अ-मृताः ब्रह्म-लोकेषु [ब्रह्म एव लोकाः साधकाः तेषु, सर्व-ग-चैतन्ये ब्रह्मणि] परान्त-काले परिमुच्यन्ति॥
किञ्च –
वेदान्त-जनितं विज्ञानं वेदान्त-विज्ञानं तस्य_अर्थः परमात्मा विज्ञेयः, सोऽर्थः सु-निश्चितो येषां ते वेदान्त-विज्ञान-सुनिश्चितार्थाः। ते च संन्यास-योगात् सर्व-कर्म-परित्याग-लक्षण-योगात् केवल-ब्रह्म-निष्ठा-स्व-रूपाद् योगाद् यतयः यतन-शीलाः शुद्ध-सत्त्वाः शुद्धं सत्त्वं येषां संन्यास-योगात्, ते शुद्ध-सत्त्वाः। ते ब्रह्म-लोकेषु, संसारिणां ये मरण-कालास् ते अपरान्ताः, तान् अपेक्ष्य मुमुक्षूणां संसारावसाने देह-परित्याग-कालः परान्त-कालः तस्मिन् परान्त-काले साधकानां बहुत्वाद् ब्रह्म_एव लोको ब्रह्म-लोकः एकोऽप्य् अन्-एकवद् दृश्यते प्राप्यते च। अतो बहु-वचनं ब्रह्म-लोकेष्व् इति, ब्रह्मणि_इत्यर्थः। परामृताः परम् अ-मृतम् अ-मरण-धर्मकं ब्रह्म आत्म-भूतं येषां ते परामृता जीवन्त एव ब्रह्म-भूताः, परामृताः सन्तः परिमुच्यन्ति परि समन्तात् प्रदीप-निर्वाणवद् भिन्न-घटाकाशवच् च निवृत्तिम् उपयान्ति परिमुच्यन्ति परि समन्तान् मुच्यन्ते सर्वे, न देशान्तरं गन्तव्यम् अपेक्षन्ते।
शकुनीनाम् इव_आकाशे जले वारि-चरस्य वा।
पदं यथा न दृश्येत तथा ज्ञानवतां गतिः॥(MBhSan.181.1)
“अन्-अध्व-गा अध्वसु पारयिष्णवः” (ItUp) इति श्रुति-स्मृतिभ्याम्।
देश-परिच्छिन्ना हि गतिः संसार-विषया_एव, परिच्छिन्न-साधन-साध्यत्वात्। ब्रह्म तु समस्तत्वान् न देश-परिच्छेदेन गन्तव्यम्। यदि हि देश-परिच्छिन्नं ब्रह्म स्याद्, मूर्त-द्रव्यवद् आद्य्-अन्तवद् अन्याश्रितं सावयवम् अ-नित्यं कृतकं च स्यात्। न त्व् एवं-विधं ब्रह्म भवितुम् अर्हति। अतस् तत्-प्राप्तिश् च न_एव देश-परिच्छिन्ना भवितुं युक्ता। अपि च, अ-विद्यादि-संसार-बन्धापनयनम् एव मोक्षम् इच्छन्ति ब्रह्म-विदः, न तु कार्य-भूतम्॥
gata, kala, pañca-daśan, pratiṣṭhā, deva, ca, sarva, prati-devatā;
karman, vijñānamaya, ca, ātman, para, a-vyaya, sarva, ekī-√bhū.

[मोक्ष-काले] पञ्च-दश कलाः [प्राण-आद्याः] प्रतिष्ठाः [स्व-करणाणि प्रति] गताः। सर्वे देवाः च [देह-आश्रय-इन्द्रियाणि] प्रति-देवतासु [समष्टि-देवतासु गताः]। सर्वे कर्माणि [प्रारब्ध-आदि-कर्माणि] विज्ञानमयः आत्मा [देह-आदि-अभिमान-आत्मा] च परे अ-व्यये एकी-भवन्ति॥
किञ्च मोक्ष-काले –
या देहारम्भिकाः कलाः प्राणाद्याः, ताः स्वां प्रतिष्ठां गताः स्वं स्वं कारणं गता भवन्ति_इत्यर्थः। प्रतिष्ठाः इति द्वितीया-बहु-वचनम्। पञ्च-दश पञ्च-दश-संख्याका या अन्त्य-प्रश्न-परिपठिताः (PrasU.6.1–4 [प्राण-आदि-नाम-पर्यन्तं]) प्रसिद्धाः, देवाश् च देहाश्रयाश् चक्षुर्-आदि-करण-स्थाः सर्वे प्रतिदेवतास्व् आदित्यादिषु गता भवन्ति_इत्यर्थः।
यानि च मुमुक्षुणा कृतानि कर्माण्य् अ-प्रवृत्त-फलानि, प्रवृत्त-फलानाम् उपभोगेन_एव क्षीणमाणत्वात्। विज्ञानमयश् च_आत्मा अ-विद्या-कृत-बुद्ध्य्-आद्य्-उपाधिम् आत्मत्वेन मत्वा जलादिषु सूर्यादि-प्रतिबिम्बवद् इह प्रविष्टो देह-भेदेषु, कर्मणां तत्-फलार्थत्वात् सह तेन_एव विज्ञानमयेन_आत्मना, अतो विज्ञानमयो विज्ञान-प्रायः। ते_एते कर्माणि विज्ञानमयश् च आत्मा उपाध्य्-अपनये सति परे अ-व्यये अन्-अन्तेऽक्षये ब्रह्मणि आकाश-कल्पे ‘अजेऽजरेऽमृतेऽभयेऽपूर्वेऽनपरेऽनन्तरेऽबाह्येऽद्वये शिवे शान्ते’ सर्वे एकी-भवन्ति अ-विशेषतां गच्छन्ति एकत्वम् आपद्यन्ते, जलाद्य्-आधारापनय इव सूर्यादि-प्रतिबिम्बाः सूर्ये, घटाद्य्-अपनये_इव_आकाशे घटाद्य्-आकाशाः॥
yathā, nadī, syandamāna, samudra, astam, √gam, nāma-rūpa, vihāya;
tathā, vidvas, nāma-rūpa, vimukta, para, para, puruṣa, upa-√i, divya.

यथा स्यन्दमानाः नद्यः नाम-रूपे विहाय समुद्रे अस्तं गच्छन्ति, तथा [मोक्ष-काले] विद्वान् नाम-रूपात् मुक्तः [सन्] परात् [अ-व्याकृतात् माययाः] परं दिव्यं पुरुषं उपैति॥
किञ्च –
यथा नद्यः गङ्गाद्याः स्यन्दमानाः गच्छन्त्यः समुद्रे समुद्रं प्राप्य अस्तम् अ-दर्शनम् अ-विशेषात्म-भावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नाम-रूपे विहाय हित्वा, तथा अ-विद्या-कृत-नाम-रूपाद् विमुक्तः सन् विद्वान् पराद् अ-क्षरात् पूर्वोक्तात् परं दिव्यं पुरुषं यथोक्त-लक्षणम् (MunU.2.1.2) उपैति उपगच्छति॥
tad, yad, ha, vai, tad, parama, brahman, √vid, brahman, eva, √bhū, na, idam, a-brahma-vid, kula, √bhū;
√tṝ, śoka, √tṝ, pāpman, guhā-granthi, vimukta, a-mṛta, √bhū.

यः [ज्ञानी] ह वै तद् परमं ब्रह्म वेद, सः ब्रह्म एव भवति। अस्य [ज्ञानिनः] [पुत्र-शिष्य-]कुले अ-ब्रह्म-विद् न भवति। [सः] शोकं तरति, पाप्मानं तरति, गुहा-ग्रन्थिभ्यः विमुक्तः [सन् च] अ-मृतः भवति॥
ननु श्रेयसि_अन्-एके विघ्नाः प्रसिद्धाः, अतः क्लेशानाम् अन्यतमेन_अन्येन वा देवादिना च विघ्नितो ब्रह्म-विद् अप्य् अन्यां गतिं मृतो गच्छति न ब्रह्म_एव।
न, विद्यया_एव सर्व-प्रतिबन्धस्य_अपनीतत्वात्। अ-विद्या-प्रतिबन्धमात्रो हि मोक्षो न_अन्य-प्रतिबन्धः, नित्यत्वाद् आत्म-भूतत्वाच् च। तस्मात् –

सः यः कश्चिद् ह वै लोके तत् परमं ब्रह्म वेद साक्षाद् ‘अहम् एव_अस्मि’_इति जानाति, स न_अन्यां गतिं गच्छति। देवैर् अपि तस्य ब्रह्म-प्राप्तिं प्रति विघ्नो न शक्यते कर्तुम्, ‘आत्मा ह्य् एषां स भवति’ [इति (BrhU.1.4.10)]। तस्माद् ब्रह्म-विद्वान् ब्रह्म_एव भवति। किञ्च, न अस्य विदुषः अ-ब्रह्म-वित् कुले भवति
किञ्च, तरति शोकम् अन्-एकेष्ट-वैकल्य-निमित्तं मानसं संतापं जीवन्न् एव_अतिक्रान्तो भवति। तरति पाप्मानं धर्माधर्माख्यं गुहा-ग्रन्थिभ्यः हृदयाविद्या-ग्रन्थिभ्यः विमुक्तः सन्न् अ-मृतः भवति_इत्य् उक्तम् एव “भिद्यते हृदय-ग्रन्थिः” (MunU.2.2.9) इत्य्-आदि॥
tad, etad, ṛc, abhyukta. kriyāvat, śrotriya, brahma-niṣṭha, svayam, √hu, eka-ṛṣi, śrad-dhayat;
tad, eva, etad, brahma-vidyā, √vad, śiras-vrata, vidhivat, yad, tu, cīrṇa.

तद् एतद् ऋचा अभ्युक्तम् – [ये] क्रियावन्तः [कर्म-अनुष्ठानेन शुद्ध-चित्ताः], श्रोत्रियाः [स्व-वेद-आध्यायिनः], ब्रह्म-निष्ठाः [स-गुण-ब्रह्म-उपासकाः ब्रह्म-जिज्ञासवः वा], श्रद्धयन्तः [च], [ये आथर्वणिकः च] स्वयम् एक-ऋषिम् [अग्निं] जुह्वते यैः तु [=च] विधिवत् शिरस्-व्रतं चीर्णं [चरितं कृतं (BrS.3.3.3)] – तेषां [पात्र-भूतानाम्] एव एतां ब्रह्म-विद्यां वदेत॥
अथ_इदानीं ब्रह्म-विद्या-सम्प्रदान-विध्य्-उपप्रदर्शनेन_उपसंहारः क्रियते –
तद् एतद् विद्या-सम्प्रदान-विधानम् ऋचा मन्त्रेण (RgVeda.???) अभ्युक्तम् अभिप्रकाशितम् – क्रियावन्तः यथोक्त-कर्मानुष्ठान-युक्ताः, श्रोत्रियाः, ब्रह्म-निष्ठाः अपरस्मिन् ब्रह्मण्य् अभियुक्ताः परं ब्रह्म बुभुत्सवः, स्वयम् एकर्षिम् एकर्षि-नामानम् अग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तः ये, तेषाम् एव संस्कृतात्मनां पात्र-भूतानाम् एतां ब्रह्म-विद्यां वदेत ब्रूयात्। शिरो-व्रतं शिरस्य् अग्नि-धारण-लक्षणं, यथा आथर्वणानां वेद-व्रतं प्रसिद्धम्। यैस् तु यैश् च तच् चीर्णं विधिवद् यथा-विधानं तेषाम् एव च (वदेत)॥
tad, etad, satya, ṛṣi, aṅgiras, purā, √vac, na, etad, a-cīrṇa-vrata, adhi-√i;
namas, parama-ṛṣi, namas, parama-ṛṣi.

ऋषिः अङ्गिराः तद् एतद् [अ-क्षरं] सत्यं [शौनकाय] पुरा उवाच। एतत् [तत्त्वम्] अ-चीर्ण-व्रतः न अधीते [पठति]। नमः परम-ऋषिभ्यः। नमः परम-ऋषिभ्यः॥
तद् एतद् अ-क्षरं पुरुषं सत्यम् ऋषिः अङ्गिरा नाम पुरा पूर्वं शौनकाय विधिवद् उपसन्नाय पृष्टवते उवाच। तद्वद् अन्योऽपि तथा_एव श्रेयो-ऽर्थिने मुमुक्षवे मोक्षार्थं विधिवद् उपसन्नाय ब्रूयाद् इत्यर्थः। न एतद् ग्रन्थ-रूपम् अ-चीर्ण-व्रतः अ-चरित-व्रतोऽपि अधीते न पठति, चीर्ण-व्रतस्य हि विद्या फलाय संस्कृता भवति_इति।
समाप्ता ब्रह्म-विद्या। सा येभ्यो ब्रह्मादिभ्यः पारम्पर्य-क्रमेण संप्राप्ता, तेभ्यो नमः परम-ऋषिभ्यः। परमं ब्रह्म साक्षाद् दृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश् च, ते परमर्षयः। तेभ्यो भूयोऽपि नमः, द्विर्-वचनम् अत्य्-आदरार्थं मुण्डक-समाप्त्य्-अर्थं च॥

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om, pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति मुण्डक-उपनिषद् समाप्ता॥