Sorry, your browser does not support JavaScript!
Go
Top
केन उपनिषद्
with शङ्कर-भाष्यम्


Khaṇḍa 1 Khaṇḍa 2 Khaṇḍa 3 Khaṇḍa 4

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Kena-Upaniṣad, from the Sāma Veda, is a short presentation on seer-seen and cause-effect discernment. The teaching is in verse form with an illustrative story in prose.

“केनेषितम्” (KenU.1.1) इत्याद्योपनिषत् पर-ब्रह्म-विषया वक्तव्या_इति नवम् अस्य_अध्यायस्यारम्भः। प्राग् एतस्मात् कर्माण्य् अशेषतः परिसमापितानि, समस्त-कर्माश्रय-भूतस्य च प्राणस्य_उपासनानि_उक्तानि, कर्माङ्ग-साम-विषयाणि च (TalBr.1–8)। अन्-अन्तरं च गायत्र-साम-विषयं दर्शनं वंशान्तम् उक्तं (कार्यम्)।
सर्वम् एतद् यथोक्तं कर्म च ज्ञानं च सम्यग्-अनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्व-शुद्ध्यर्थं भवति। स-कामस्य तु ज्ञान-रहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षिण-मार्ग-प्रतिपत्तये पुनर्-आवृत्तये च भवन्ति। स्वाभाविक्या त्व् अशास्त्रीयया प्रवृत्त्या पश्वादि-स्थावरान्ता अधो-गतिः स्यात्। “अथैतयोः पथोर् न कतरेण चन तानीमानि क्षुद्राण्य् असकृद् आवर्तीनि भूतानि भवन्ति ‘जायस्व म्रियस्व’ इत्येतत् तृतीयं स्थानम्” (ChanU.5.10.8) इति श्रुतेः, “प्रजा ह तिस्रोऽत्यायम् ईयुः” (AitAr.2.1.1) इति च मन्त्र-वर्णात्।
विशुद्ध-सत्त्वस्य तु निष्-कामस्यैव बाह्याद् अनित्यात् साध्य-साधन-सम्बन्धाद् इह-कृतात् पूर्व-कृताद् वा संस्कार-विशेषोद्भवाद् विरक्तस्य प्रत्यग्-आत्म-विषया जिज्ञासा प्रवर्तते। तद् एतद् वस्तु प्रश्न-प्रतिवचन-लक्षणया श्रुत्या प्रदर्श्यते “केनेषितम्” (KenU.1.1) इत्याद्यया। काठके चोक्तम्
पराञ्चि खानि व्यतृणत् स्वयम्-भूस् तस्मात् पराङ् पश्यति नान्तरात्मन्।
कश्चिद् धीरः प्रत्यग्-आत्मानम् ऐक्षद् आवृत्त-चक्षुर् अमृतत्वम् इच्छन्॥ (KathU.2.1.1) इत्यादि।
परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयान् नास्त्य् अकृतः कृतेन।
तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम्॥ (MunU.1.2.12) इत्याद्य्-आथर्वणे च।
एवं हि विरक्तस्य प्रत्यग्-आत्म-विषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामर्थ्यम् उपपद्यते, नान्यथा। एतस्माच् च प्रत्यग्-आत्म-ब्रह्म-विज्ञानात् संसार-बीजम् अज्ञानं काम-कर्म-प्रवृत्ति-कारणम् अशेषतो निवर्तते, “तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः” (IsU.7) इति मन्त्र-वर्णात्, “तरति शोकम् आत्म-वित्” (ChanU.7.1.3) इति
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ (MunU.2.2.8) इत्यादि-श्रुतिभ्यश् च।
कर्म-सहिताद् अपि ज्ञानाद् एतत् सिध्यति_इति चेत्?
न, वाज-सनेयके तस्य_अन्य-कारणत्व-वचनात्। “जाया मे स्यात्” (BrhU.1.4.17) इति प्रस्तुत्य “पुत्रेण…अयं…लोको…जय्यो नान्येन कर्मणा, कर्मणा पितृ-लोको, विद्यया देव-लोकः” (BrhU.1.5.16) इति_आत्मनोऽन्यस्य लोक-त्रयस्य कारणत्वम् उक्तं वाज-सनेयके।
तत्र_एव च पारिव्राज्य-विधाने हेतुर् उक्तः “किं प्रजया करिष्यामो येषां नोऽयम् आत्मायं लोकः?” (BrhU.4.4.22) इति। तत्र_अयं हेत्व्-अर्थः – ‘प्रजा-कर्म-तत्-संयुक्त-विद्याभिर् मनुष्य-पितृ-देव-लोक-त्रय-साधनैर् अनात्म-लोक-प्रतिपत्ति-कारणैः किं करिष्यामः? न च_अस्माकं लोक-त्रयम् अनित्यं साधन-साध्यम् इष्टम्, येषाम् अस्माकं स्वाभाविकोऽजोऽजरोऽमृतोऽभयो न वर्धते कर्मणा न-उ कनीयान् नित्यश् च लोक इष्टः’। स च नित्यत्वान् न_अविद्या-निवृत्ति-व्यतिरेकेण_अन्य-साधन-निष्पाद्यः। तस्मात् प्रत्यग्-आत्म-ब्रह्म-विज्ञान-पूर्वकः सर्वैषणा-संन्यास एव कर्तव्य इति।
कर्म-सह-भावित्व-विरोधाच् च प्रत्यग्-आत्म-ब्रह्म-विज्ञानस्य। न हि_उपात्त-कारक-फल-भेद-विज्ञानेन कर्मणा प्रत्यस्तमित-सर्व-भेद-दर्शनस्य प्रत्यग्-आत्म-ब्रह्म-विषयस्य सह-भावित्वम् उपपद्यते, वस्तु-प्राधान्ये सति अपुरुष-तन्त्रत्वाद् ब्रह्म-विज्ञानस्य। तस्माद् दृष्टादृष्टेभ्यो बाह्य-साधन-साध्येभ्यो विरक्तस्य प्रत्यग्-आत्म-विषया ब्रह्म-जिज्ञासा_इयम् “केनेषितम्” (KenU.1.1) इत्यादि-श्रुत्या प्रदर्श्यते। शिष्याचार्य-प्रश्न-प्रतिवचन-रूपेण कथनं तु सूक्ष्म-वस्तु-विषयत्वात् सुख-प्रतिपत्ति-कारणं भवति। केवल-तर्कागम्यत्वं च दर्शितं भवति।
“नैषा तर्केण मतिर् आपनेया” (KathU.1.2.9) इति श्रुतेश् च। “आचार्यवान् पुरुषो वेद” (ChanU.6.14.2) “आचार्याद् धैव विद्या विदिता साधिष्ठं प्रापद् इति” (ChanU.4.9.3) “तद् विद्धि प्रणिपातेन” (BhG.04.34) इत्यादि-श्रुति-स्मृति-नियमाच् च॥

Go to Top ('Home' key on many Windows browsers)

kim, iṣita, √pat, preṣita, manas, kim, prāṇa, prathama, pra-√i, yukta;
kim, iṣita, vāc, idam, √vad, cakṣus, śrotra, kim, u, deva, √yuj.

केन [कर्त्रा] इषितं [अन्-आयासेन सन्निधिमात्रेण इष्टं] मनः प्रेषितं [इव आयासेन वा] [स्व-विषयं प्रति] पतति [गच्छति]? केन युक्तः [प्रेरितः] प्राणः प्रथमः [इन्द्रिय-प्रवृत्तितः प्राक् प्रवृत्तत्वात् मुख्यः स्वं विषयं प्रति] प्रैति [गच्छति]? केन इषितां [प्रेरितां जनाः] इमां वाचं वदन्ति? कः उ [च] देवः [दिप्तिमान्] चक्षुर् श्रोत्रं [च स्वे स्वे विषये] युनक्ति [प्रेरयति]?
कश्चिद् गुरुं ब्रह्म-निष्ठं विधिवद् उपेत्य, प्रत्यग्-आत्म-विषयाद् अन्यत्र शरणम् अपश्यन्न्, अभयं नित्यं शिवम् अचलम् इच्छन् पप्रच्छ_इति कल्प्यते –
केन इषितं केन कर्त्रा इषितम् इष्टम् अभिप्रेतं सत् मनः पतति गच्छति स्व-विषयं प्रति_इति सम्बध्यते। इषेर् आभीक्ष्ण्यार्थस्य गत्य्-अर्थस्य च_इह_असम्भवाद् इच्छार्थस्य_एव_एतद् रूपम् इति गम्यते। इषितम् इति इट्-प्रयोगस् तु छान्दसः। तस्य_एव प्र-पूर्वस्य नियोगार्थे प्रेषितम् इत्येतत्। तत्र ‘प्रेषितम्’ इति_एव_उक्ते प्रेषयितृ-प्रेषण-विशेष-विषयाकाङ्क्षा स्यात् – केन प्रेषयितृ-विशेषेण, की-दृशं वा प्रेषणम् इति। ‘इषितम्’ इति तु विशेषणे सति तद्-उभयं निवर्तते, कस्य_इच्छामात्रेण प्रेषितम् इत्यर्थ-विशेष-निर्धारणात्।
यदि_एषोऽर्थोऽभिप्रेतः स्यात्, ‘केनेषितम्’ इति_एतावता_एव सिद्धत्वात् ‘प्रेषितम्’ इति न वक्तव्यम्। अपि च ‘शब्दाधिक्याद् अर्थाधिक्यं युक्तम्’ इति ‘इच्छया कर्मणा वाचा वा केन प्रेषितम्’ इत्यर्थ-विशेषोऽवगन्तुं युक्तः।
न, प्रश्न-सामर्थ्यात्। देहादि-संघाताद् अनित्यात् कर्म-कार्याद् विरक्तः [शिष्यः] अतोऽन्यत् कूट-स्थं नित्यं वस्तु बुभुत्समानः पृच्छति_इति सामर्थ्याद् उपपद्यते। इतरथा इच्छा-वाक्-कर्मभिर् देहादि-संघातस्य प्रेरयितृत्वं प्रसिद्धम् इति प्रश्नोऽनर्थक एव स्यात्।
एवम् अपि प्रेषित-शब्दस्य_अर्थो न प्रदर्शित एव।
न, संशयवतोऽयं प्रश्न इति प्रेषित-शब्दस्य_अर्थ-विशेष उपपद्यते। किं यथा-प्रसिद्धम् एव कार्य-करण-संघातस्य प्रेषयितृत्वम्, किं वा संघात-व्यतिरिक्तस्य स्व-तन्त्रस्य_इच्छामात्रेण_एव मनआदि-प्रेषयितृत्वम्, इत्य् अस्य_अर्थस्य प्रदर्शनार्थं केन_इषितं पतति प्रेषितं मन इति विशेषण-द्वयम् उपपद्यते।
ननु स्व-तन्त्रं मनः स्व-विषये स्वयं पतति_इति प्रसिद्धम्, तत्र कथं प्रश्न उपपद्यते? इति, उच्यते – यदि स्व-तन्त्रं मनः प्रवृत्ति-निवृत्ति-विषये स्यात्, तर्हि सर्वस्य_अनिष्ट-चिन्तनं न स्यात्, अनर्थं च जानन् संकल्पयति। अभ्यग्र-दुःखे च कार्ये वार्यमाणम् अपि प्रवर्तते_एव मनः। तस्माद् युक्त एव ‘केन_इषितम्’ इत्यादि-प्रश्नः।
केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रैति गच्छति स्व-व्यापारं प्रति। प्रथम इति प्राण-विशेषणं स्यात्, तत्-पूर्वकत्वात् सर्वेन्द्रिय-प्रवृत्तीनाम्।
केन_इषितां वाचम् इमां शब्द-लक्षणां वदन्ति लौकिकाः। तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवः द्योतनवान् युनक्ति नियुङ्क्ते प्रेरयति॥
śrotra, śrotra, manas, manas, yad, vāc, ha, vāc, tad, u, prāṇa, prāṇa;
cakṣus, cakṣus, atimucya, dhīra, pretya, idam, loka, a-mṛta, √bhū.

यद् [यस्मात्] सः उ [देवः] श्रोत्रस्य श्रोत्रं [इन्द्रिय-स्व-रूपं वस्तु], मनसः मनः, वाचः वाचं [वाक् इत्यर्थः], प्राणस्य प्राणः, चक्षुषः चक्षुः [स्यात्], [तद् तस्माद्, चेतन-तत्त्वं ज्ञात्वा] धीराः अतिमुच्य [श्रोत्र-आदि-अभिमानं त्यक्त्वा], अस्मात् लोकात् प्रेत्य [इह एव परित्यक्त्वा, अथवा देह-पतनात् मृत्वा अपि] अ-मृताः भवन्ति॥
एवं पृष्टवते योग्याय_आह गुरुः ‘शृणु यत् त्वं पृच्छसि, मनआदि-करण-जातस्य को देवः स्व-विषयं प्रति प्रेरयिता, कथं वा प्रेरयति?’ इति –
श्रोत्रस्य श्रोत्रं शृणोति_अनेन_इति श्रोत्रम्, शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रम् इन्द्रियम्, तस्य श्रोत्रं सः यस् त्वया पृष्टः “चक्षुः श्रोत्रं क उ देवो युनक्ति” (KenU.1.1) इति।
असौ_एवं-विशिष्टः श्रोत्रादीनि नियुङ्क्ते इति वक्तव्ये, ननु_एतद् अन्-अनुरूपं प्रतिवचनं “श्रोत्रस्य श्रोत्रम्” इति।
न_एष दोषः, तस्य_अन्यथा विशेषानवगमात्। यदि हि श्रोत्रादि-व्यापार-व्यतिरिक्तेन स्व-व्यापारेण विशिष्टः श्रोत्रादि-नियोक्ता अवगम्येत दात्रादि-प्रयोक्तृवत्, तदा_इदम् अन्-अनुरूपं प्रतिवचनं स्यात्। न तु_इह श्रोत्रादीनां प्रयोक्ता स्व-व्यापार-विशिष्टो लवित्रादिवद् अधिगम्यते। श्रोत्रादीनाम् एव तु संहतानां व्यापारेण_आलोचन-सङ्कल्पाध्यवसाय-लक्षणेन फलावसान-लिङ्गेन_अवगम्यते ‘अस्ति हि श्रोत्रादिभिर् असंहतः, यत्-प्रयोजन-प्रयुक्तः श्रोत्रादि-कलापः गृहादिवद्’, इति संहतानां परार्थत्वाद् अवगम्यते श्रोत्रादीनां प्रयोक्ता। तस्माद् अनुरूपम् एव_इदं प्रतिवचनं श्रोत्रस्य श्रोत्रम् इत्यादि।
कः पुनर् अत्र पदार्थः “श्रोत्रस्य श्रोत्रम्” इत्यादेः? न हि_अत्र श्रोत्रस्य श्रोत्रान्तरेण_अर्थः, यथा प्रकाशस्य प्रकाशान्तरेण।
न_एष दोषः। अयम् अत्र पदार्थः – श्रोत्रं तावत् स्व-विषय-व्यञ्जन-समर्थं दृष्टम्। तत् तु स्व-विषय-व्यञ्जन-सामर्थ्यं श्रोत्रस्य चैतन्ये हि_आत्म-ज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति, न_अ-सति_इति। अतः श्रोत्रस्य श्रोत्रम् इत्यादि_उपपद्यते। तथा च श्रुत्य्-अन्तराणि – “आत्मना_एव_अयं ज्योतिषा_आस्ते” (BrhU.4.3.6) “तस्य भासा सर्वम् इदं विभाति” (MunU.2.2.10) “येन सूर्यस् तपति तेजसा_इद्धः” (TaitBr.3.12.9.7) इत्यादीनि। “यद् आदित्य-गतं तेजो जगद् भासयतेऽखिलम्।” (BhG.15.12) “क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत” (BhG.13.33) इति च गीतासु। काठके च “नित्यो नित्यानां चेतनश् चेतनानाम्” (KathU.2.2.13) इति। श्रोत्रादि_एव सर्वस्य_आत्म-भूतं चेतनम् इति प्रसिद्धम्, तद् इह निवर्त्यते। अस्ति किम्-अपि विद्वद्-बुद्धि-गम्यं सर्वान्तरतमं कूट-स्थम् अजम् अजरम् अमृतम् अभयं श्रोत्रादेर् अपि श्रोत्रादि तत्-सामर्थ्य-निमित्तम् इति प्रतिवचनं शब्दार्थश् च_उपपद्यत एव।
तथा मनसः अन्तः-करणस्य मनः। न हि_अन्तः-करणम् अन्तरेण चैतन्य-ज्योतिषो दीधितिं (चैतन्य-ज्योतिषा दीपितं) स्व-विषय-सङ्कल्पाध्यवसायादि-समर्थं स्यात्। तस्मान् मनसोऽपि मन इति। इह बुद्धि-मनसी एकी-कृत्य निर्देशो मनस इति।
यद् वाचो ह वाचं, यच्-छब्दो यस्माद्-अर्थे श्रोत्रादिभिः सर्वैः सम्बध्यते – यस्माच् छ्रोत्रस्य श्रोत्रम्, यस्मान् मनसो मन इत्येवम्। “वाचो ह वाचम्” इति द्वितीया प्रथमात्वेन विपरिणम्यते, “प्राणस्य प्राण” इति दर्शनात्। “वाचो ह वाचम्” इति_एतद् अनुरोधेन “प्राणस्य प्राणम्” इति कस्माद् द्वितीया_एव न क्रियते? न, बहुनाम् अनुरोधस्य युक्तत्वात्। “वाचम्” इति_अस्य ‘वाग्’ इति_एतावद् वक्तव्यं स उ प्राणस्य प्राण इति शब्द-द्वयानुरोधेन, एवं हि बहूनाम् अनुरोधो युक्तः कृतः स्यात्।
पृष्टं च वस्तु प्रथमया_एव निर्देष्टुं युक्तम्। ‘स यस् त्वया पृष्टः प्राणस्य प्राणाख्य-वृत्ति-विशेषस्य प्राणः’, तत्-कृतं हि प्राणस्य प्राणन-सामर्थ्यम्। न हि_आत्मना_अनधिष्ठितस्य प्राणनम् उपपद्यते, “को हि_एव_अन्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात्” (TaitU.2.7.1) “ऊर्ध्वं प्राणम् उन्नयति_अपानं प्रत्यग् अस्यति” (KathU.2.2.3) इत्यादि-श्रुतिभ्यः। इह_अपि च वक्ष्यते “येन प्राणः प्रणीयते तद् एव ब्रह्म त्वं विद्धि” (KenU.1.8) इति।
श्रोत्रादीन्द्रिय-प्रस्तावे घ्राणस्य_एव ग्रहणं युक्तं, न तु प्राणस्य? सत्यम् एवम्। प्राण-ग्रहणेन_एव तु घ्राणस्य ग्रहणं कृतम् एव मन्यते श्रुतिः।
सर्वस्य_एव करण-कलापस्य यद्-अर्थ-प्रयुक्ता प्रवृत्तिः, तद् ब्रह्म_इति प्रकरणार्थो विवक्षितः।
तथा चक्षुषश् चक्षुः रूप-प्रकाशकस्य चक्षुषो यद् रूप-ग्रहण-सामर्थ्यं तद् आत्म-चैतन्याधिष्ठितस्य_एव। अतश् चक्षुषश् चक्षुः।
प्रष्टुः पृष्टस्य_अर्थस्य ज्ञातुम् इष्टत्वात् श्रोत्रादेः श्रोत्रादि-लक्षणं यथा_उक्तं ब्रह्म ‘ज्ञात्वा’ इति_अध्याह्रियते, “अमृता भवन्ति” इति फल-श्रुतेश् च। ज्ञानाद् धि_अमृतत्वं प्राप्यते। ज्ञात्वा, अतिमुच्य इति सामर्थ्यात् श्रोत्रादि-करण-कलापम् उज्झित्वा – श्रोत्रादौ हि_आत्म-भावं कृत्वा, तद्-उपाधिः सन्, तद्-आत्मना जायते म्रियते संसरति च। अतः श्रोत्रादेः श्रोत्रादि-लक्षणं ब्रह्म ‘आत्मा’ इति विदित्वा, अतिमुच्य श्रोत्राद्यात्म-भावं परित्यज्य – ये श्रोत्राद्य्-आत्म-भावं परित्यजन्ति, ते धीराः धीमन्तः। न हि विशिष्ट-धीमत्त्वम् अन्तरेण श्रोत्राद्य्-आत्म-भावः शक्यः परित्युक्तम्। प्रेत्य व्यावृत्य अस्मात् लोकात् पुत्र-मित्र-कलत्र-बन्धुषु ममाहं-भाव-संव्यवहार-लक्षणात्, त्यक्त-सर्वैषणाः_भूत्वा_इत्यर्थः। अमृताः अमरण-धर्माणः भवन्ति। “न कर्मणा न प्रजया धनेन त्यागेन_एके अमृतत्वम् आनशुः” (KaivU.3) “पराञ्चि खानि व्यतृणत् … आवृत्त-चक्षुर् अमृतत्वम् इच्छन्” (KathU.2.1.1) “यदा सर्वे प्रमुच्यन्ते … अत्र ब्रह्म समश्नुते” (KathU.2.3.14) इत्यादि-श्रुतिभ्यः।
अथवा, “अतिमुच्य”_इति_अनेन_एव_ऐषणा-त्यागस्य सिद्धत्वात् “अस्माल् लोकात् प्रेत्य” अस्माच् छरीराद् अपेत्य मृत्वा_इत्यर्थः॥
na, tatra, cakṣus, √gam, na, vāc, √gam, na, u, manas;
na, √vid, na, vi-√jñā, yathā, etad, anu-√śās.

anya, eva, tad, vidita, atha, u, a-vidita, adhi;
iti, √śru, pūrva, yad, asmad, tad, vi-ā-√cakṣ.

तत्र [इन्द्रियाणां प्रेषित-विषये ब्रह्मणि] चक्षुस् [रूपतः] न गच्छति, वाच् [नाम-रूपतः] न गच्छति, मनस् न उ [गच्छति]। [एवं तद् ब्रह्म] न [वस्तुतः] विद्मः। यथा [येन प्रकारेण कोऽपि आचार्यः] एतद् [ब्र्ह्म] [वस्तुतः] अनुशिष्यात् [उपदिशेत्], न विजानीमः॥
“तद् [ब्रह्म] विदितात् [किञ्चिद्-वस्तुना ज्ञातात् व्याकृतात् यद्-अल्पम्-इत्य्-हेयात् ज्ञेयात्] अन्यद्, अथ उ अ-विदितात् अधि [विदित-विपरीतात् उपरि अन्यद्]” [कार्य-कारणाभ्यां हेय-उपादेयाभ्याम् अन्यद् इत्यर्थः] – इति [वयं तेषां] पूर्वेषाम् [आचार्याणां] शुश्रुम [श्रुतवन्तः], ये [आचार्याः] नः [अस्मभ्यं] तद् [ब्रह्म] व्याचचक्षिरे [विस्पष्टं आसमस्तात् कथितवन्तः]॥
यस्माच् छ्रोत्रादेर् अपि श्रोत्रादि_आत्म-भूतं ब्रह्म, अतः –
न तत्र तस्मिन् ब्रह्मणि चक्षुः गच्छति, स्वात्मनि गमनासम्भवात्। तथा न वाग् गच्छति। वाचा हि शब्द उच्चार्यमाणोऽभिधेयं प्रकाशयति यदा, तदा_अभिधेयं प्रति वाग् गच्छति_इत्युच्यते। तस्य च शब्दस्य तन्-निर्वर्तकस्य च करणस्य_आत्मा ब्रह्म। अतो न वाग् गच्छति। यथा_अग्निर् दाहकः प्रकाशकश् च_अपि सन् न हि_आत्मानं प्रकाशयति दहति वा, तद्वत्।
_उ मनः मनश् च_अन्यस्य सङ्कल्पयितृ अध्यवसातृ च सत् न_आत्मानं सङ्कल्पयति_अध्यवस्यति च, तस्य_अपि ब्रह्म_आत्मा_इति।
इन्द्रिय-मनोभ्यां हि वस्तुनो विज्ञानम्। तद्-अगोचरत्वात् न विद्मः तद् ब्रह्म ‘ईदृशम्’ इति।
अतो न विजानीमः यथा येन प्रकारेण एतद् ब्रह्म अनुशिष्याद् उपदिशेच् छिष्याय_इत्यभिप्रायः। यद् धि करण-गोचरं, तद् अन्यस्मै उपदेष्टुं शक्यं जाति-गुण-क्रिया-विशेषणैः। न तज् जात्यादि-विशेषणवद् ब्रह्म। तस्माद् विषमं शिष्यान् उपदेशेन प्रत्याययितुम् इति उपदेशे तद्-अर्थ-ग्रहणे च यत्नातिशय-कर्तव्यतां दर्शयति॥

“न विद्मो न विजानीमो यथा_एतद् अनुशिष्यात्” (KenU.1.3) इति अत्यन्तम् एव_उपदेश-प्रकार-प्रत्याख्याने प्राप्ते तद्-अपवादोऽयम् उच्यते। सत्यम्, एवं प्रत्यक्षादिभिः प्रमाणैर् न परः प्रत्याययितुं शक्यः, आगमेन तु शक्यत एव प्रत्याययितुम् इति तद्-उपदेशार्थम् आगमम् आह – “अन्यद् एव तद् विदिताद् अथ_उ अविदिताद् अधि”_इति –
अन्यद् एव पृथग् एव तद् यत् प्रकृतं श्रोत्रादीनां श्रोत्रादि_इत्य्-उक्तम् अविषयश् च तेषाम्। तद् विदिताद् अन्यद् एव हि। विदितं नाम यद् विदि-क्रियया_अतिशयेन_आप्तं, तद् विदि-क्रिया-कर्म-भूतम्। क्वचित् किंचित् कस्यचिद् विदितं स्याद् इति सर्वम् एव व्याकृतं विदितम् एव, तस्माद् अन्यद् एव_इत्यर्थः।
अविदितम् अज्ञातं तर्हि_इति प्राप्ते आह – अथ_ अपि अविदितात् विदित-विपरीताद् अव्याकृताद् अविद्या-लक्षणाद् व्याकृत-बीजात्। अधि इति उपर्य्-अर्थे, लक्षणया अन्यद् इत्यर्थः। ‘यद् धि यस्माद् अधि उपरि भवति, तत् तस्माद् अन्यद्’ इति प्रसिद्धम्।
यद् विदितं तद् अल्पं मर्त्यं दुःखात्मकं च_इति हेयम्। तस्माद् विदिताद् अन्यद् ब्रह्म_इत्युक्ते तु_अहेयत्वम् उक्तं स्यात्। तथा “अविदिताद् अधि”_इत्युक्तेऽनुपादेयत्वम् उक्तं स्यात्। कार्यार्थं हि कारणम् अन्यद् अन्येन_उपादीयते। अतश् च न वेदितुर् अन्यस्मै प्रयोजनाय_अन्यद् उपादेयं भवति_इति, एवं विदिताविदिताभ्याम् अन्यद् इति हेयोपादेय-प्रतिषेधेन स्वात्मनोऽनन्यत्वाद् ब्रह्म-विषया जिज्ञासा शिष्यस्य निवर्तिता स्यात्। न हि_अन्यस्य स्वात्मनो विदिताविदिताभ्याम् अन्यत्वं वस्तुनः सम्भवति_इति_आत्मा ब्रह्म_इति_एष वाक्यार्थः, “अयम् आत्मा ब्रह्म” (BrhU.4.4.5) “य आत्मा_अपहत-पाप्मा” (ChanU.8.7.1) “यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः” (BrhU.3.4.1) इत्यादि-श्रुत्यन्तरेभ्यश् च_इति।
एवं सर्वात्मनः सर्व-विशेष-रहितस्य चिन्मात्र-ज्योतिषो ब्रह्मत्व-प्रतिपादकस्य वाक्यार्थस्य_आचार्योपदेश-परम्परया प्राप्तत्वम् आह – इति शुश्रुम_इत्यादि। ब्रह्म च_एवम् आचार्योपदेश-परम्परया_एव_अधिगन्तव्यं न तर्कतः प्रवचन-मेधा-बहु-श्रुत-तपो-यज्ञादिभ्यश् च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषाम् आचार्याणां वचनं, ये आचार्याः नः अस्मभ्यं तद् ब्रह्म व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः तेषाम् इत्यर्थः॥
yad, vāc, an-abhyudita, yad, vāc, abhi-ud-√i;
tad, eva, brahman, yuṣmad, √vid, na, idam, yad, idam, upa-√ās.

यद् [आत्म-स्व-रूपं] वाचा अन्-अभ्युदितम् [अ-प्रकाशितं], येन [चैतन्यात्म-ज्योतिषा] वाच् अभ्युद्यते, तद् [आत्म-स्व-रूपम्] एव त्वं ब्रह्म विद्धि। न इदं यद् [उपाधि-विशिष्टं ज्ञातृ-ज्ञान-ज्ञेय-भेदवत् ईश्वर-रूपम् इदंतया इत्यर्थः जनाः] ‘इदम्’ [इति] उपासते [ध्यायन्ति]॥
“अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि” (KenU.1.3) इति_अनेन वाक्येन आत्मा ब्रह्म_इति प्रतिपादिते श्रोतुर् आशङ्का जाता – तत् कथं नु_आत्मा ब्रह्म? आत्मा हि नाम_अधिकृतः कर्मणि_उपासने च संसारी, कर्म_उपासनं वा साधनम् अनुष्ठाय ब्रह्मादि-देवान् स्वर्गं वा प्राप्तुम् इच्छति। तत् तस्माद् अन्य उपास्यो विष्णुर् ईश्वर [शिवः इत्यर्थः] इन्द्रः प्राणो वा ब्रह्म भवितुम् अर्हति, न तु_आत्मा, लोक-प्रत्यय-विरोधात्। यथा_अन्ये तार्किका ‘ईश्वराद् अन्य आत्मा’_इति_आचक्षते, तथा कर्मिणो ‘ऽमुं यज_अमुं यज’_इति_अन्या एव देवता उपासते। तस्माद् यक्तं यद् विदितम् उपास्यं तद् ब्रह्म भवेत्। ततोऽन्य उपासक इति –
ताम् एताम् आशङ्कां शिष्य-लिङ्गेन_उपलक्ष्य, तद्-वाक्याद् वा आह। मा_एवं शङ्किष्ठाः –

यत् चैतन्यमात्र-सत्ताकम्, वाचा – वाग् इति जिह्वामूलादिष्व्_अष्टसु स्थानेषु विषक्तम् आग्नेयं वर्णानाम् अभिव्यञ्जकं करणम्, वर्णाश् च_अर्थ-संकेत-परिच्छिन्ना एतावन्त एवं-क्रम-प्रयुक्ता इति, एवं तद्-अभिव्यङ्ग्यः शब्दः पदं ‘वाग्’ इति_उच्यते, “अ-कारो [ओम्-कारः इत्यर्थः] वै सर्वा वाक्, सा_एषा स्पर्शान्तःस्थोष्मभिर् व्यज्यमाना बह्वी नाना-रूपा भवति” (AitAr.2.3.6) इति श्रुतेः। मितम् अमितं स्वरः सत्यानृते एष विकारो यस्याः तया वाचा पदत्वेन परिच्छिन्नया करण-गुणवत्या – अनभ्युदितम् अप्रकाशितम् अनभ्युक्तम्।
येन ब्रह्मणा विवक्षितेऽर्थे स-करणा वाग् अभ्युद्यते चैतन्य-ज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत्। ‘यद् वाचो ह वाक्’ (KenU.1.2) इति_उक्तम्, “वदन् वाक्” (BrhU.1.4.7) “यो वाचम् अन्तरो यमयति” (BrhU.3.7.10) इत्यादि च वाजसनेयके। “या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित् तां वेद ब्राह्मणः?” इति प्रश्नम् उत्पाद्य प्रतिवचनम् उक्तम् “सा वाग् यया स्वप्ने भाषते” इति [कश्चित्-श्रुतेः]। सा हि वक्तुर् वक्तिर् नित्या वाक् चैतन्य-ज्योतिः-स्वरूपा, “न हि वक्तुर् वक्तेर् विपरिलोपो विद्यते” (BrhU.4.3.26) इति श्रुतेः।
तद् एव आत्म-स्वरूपं ब्रह्म निरतिशयं भूमाख्यं (ChanU.7.23-24) बृहत्त्वाद् ब्रह्म_इति विद्धि विजानीहि त्वम्। यैर् वागाद्य्-उपाधिभिः “वाचो ह वाक्” “चक्षुषश् चक्षुः” “श्रोत्रस्य श्रोत्रं” “मनसो मनः” (KenU.1.2) “कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता” “विज्ञानम् आनन्दं ब्रह्म” (BrhU.3.9.7) इति_एवम्-आदयः संव्यवहारा असंव्यवहार्ये निर्-विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते, तान् व्युदस्य, आत्मानम् एव निर्-विशेषं ब्रह्म विद्धि_इति “एव”-शब्दार्थः। _इदं ब्रह्म यद् इदम् इति_उपाधि-भेद-विशिष्टम् अनात्मेश्वरादि उपासते ध्यायन्ति। तद् एव ब्रह्म त्वं विद्धि इति_उक्तेऽपि न_इदं ब्रह्म इति_अनात्मनोऽब्रह्मत्वं पुनर् उच्यते नियमार्थम् अन्य-ब्रह्म-बुद्धि-परिसंख्यानार्थं वा॥
yad, manas, na, √man, yad, √ah, manas, mata;
tad, eva, brahman, yuṣmad, √vid, na, idam, yad, idam, upa-√ās.

यद् [आत्म-स्व-रूपं] मनसा न मनुते [जानाति], येन [चैतन्यात्म-ज्योतिषा] मनस् मतम् [इति ब्रह्म-विदः] आहुः, तद् [आत्म-स्व-रूपम्] एव त्वं ब्रह्म विद्धि। न इदं यद् [जनाः] उपासते॥
यन् मनसा न मनुते। “मन” इति_अन्तःकरणं बुद्धि-मनसोर् एकत्वेन गृह्यते। ‘मनुतेऽनेन’_इति मनः सर्व-करण-साधारणं, सर्व-विषय-व्यापकत्वात्। “कामः सङ्कल्पो विचिकित्सा श्रद्धा_अश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इति_एतत् सर्वं मन एव” (BrhU.1.5.3) इति श्रुतेः कामादि-वृत्तिमन् मनः। तेन मनसा यत् चैतन्य-ज्योतिर्-मनसोऽवभासकं न मनुते न सङ्कल्पयति न_अपि निश्चिनोति लोकः, मनसोऽवभासकत्वेन नियन्तृत्वात्। सर्व-विषयं प्रति प्रत्यग् एव [आत्मा], इति स्वात्मनि न प्रवर्ततेऽन्तःकरणम्। अन्तः-स्थेन हि चैतन्य-ज्योतिषा_अवभासितस्य मनसो मनन-सामर्थ्यं, तेन स-वृत्तिकं मनः येन ब्रह्मणा मतं विषयी-कृतं व्याप्तम् आहुः कथयन्ति ब्रह्म-विदः। तस्मात् तद् एव मनस आत्मानं प्रत्यक्-चेतयितारं ब्रह्म विद्धि_इदम् इत्यादि पूर्ववत्॥
yad, cakṣus, na, √dṛś, yad, cakṣus, √dṛś;
tad, eva, brahman, yuṣmad, √vid, na, idam, yad, idam, upa-√ās.

यद् [आत्म-स्व-रूपं] चक्षुषा न पश्यति, येन [चैतन्यात्म-ज्योतिषा] चक्षूंषि पश्यति, तद् [आत्म-स्व-रूपम्] एव त्वं ब्रह्म विद्धि। न इदं यद् [जनाः] उपासते॥
यत् चक्षुषा न पश्यति न विषयी-करोति अन्तःकरण-वृत्ति-संयुक्तेन लोकः, येन चक्षूंषि अन्तःकरण-वृत्ति-भेद-भिन्नाश् चक्षुर्-वृत्तीः पश्यति चैतन्यात्म-ज्योतिषा विषयी-करोति व्याप्नोति। तद् एव_इत्यादि पूर्ववत्॥
yad, śrotra, na, √śru, yad, śrotra, idam, śruta;
tad, eva, brahman, yuṣmad, √vid, na, idam, yad, idam, upa-√ās.

यद् [आत्म-स्व-रूपं] श्रोत्रेण न शृणोति, येन [चैतन्यात्म-ज्योतिषा] इदं श्रोत्रं श्रुतं, तद् [आत्म-स्व-रूपम्] एव त्वं ब्रह्म विद्धि। न इदं यद् [जनाः] उपासते॥
यत् श्रोत्रेण न शृणोति दिग्-देवताधिष्ठितेन आकाश-कार्येण मनो-वृत्ति-संयुक्तेन न विषयी-करोति लोकः, येन श्रोत्रम् इदं श्रुतं यत् प्रसिद्धं चैतन्यात्म-ज्योतिषा विषयी-कृतम्। तद् एव_इत्यादि पूर्ववत्॥
yad, prāṇa, na, pra-√an, yad, prāṇa, pra-√nī;
tad, eva, brahman, yuṣmad, √vid, na, idam, yad, idam, upa-√ās.

यद् [आत्म-स्व-रूपं] प्राणेन [घ्राण-रूप-प्राणेन, यतः इह विषयी-करणं प्रकृतं] न प्राणिति [जिघ्रति], येन [चैतन्यात्म-ज्योतिषा] प्राणः [श्वासः] प्रणीयते, तद् [आत्म-स्व-रूपम्] एव त्वं ब्रह्म विद्धि। न इदं यद् [जनाः] उपासते॥
यत् प्राणेन घ्राणेन पार्थिवेन नासिका-पुटान्तर्-अवस्थितेन_अन्तःकरण-प्राण-वृत्तिभ्यां सहितेन यन् न प्राणिति गन्धवन् न विषयी-करोति, येन चैतन्यात्म-ज्योतिषा_अवभास्यत्वेन स्व-विषयं प्रति प्राणः प्रणीयते, तद् एव_इत्यादि सर्वं समानम्॥

Go to Top ('Home' key on many Windows browsers)

Yadi, √man, su-√vid, iti, dabhram, eva, api, nūnam. Yuṣmad, √vid, brahman, rūpa, yad, idam, yuṣmad, yad, idam, deva. Atha, nu, mīmāṃsya, eva, yuṣmad, √man, vidita.
[आचार्यः उवाच –] यदि त्वं मन्यसे ‘[तं ब्रह्म] सु-वेद [सुष्ठु-विषयतया जानामि]’ इति अपि, नूनं अस्य [ब्रह्मणः] [तद्] रूपं दहरम् (दभ्रम्) [अल्पम्] एव वेत्थ [जानासि] – अस्य यद् [अध्यात्म-रूपम्], यद् देवेषु [रूपं वा]। अथ [तस्मात्] नु [एव ब्रह्मणः रूपं] मीमांस्यं [विचारणीयम्] एव ते [त्वया तुभ्यं वा]। [पश्चात्, शिष्यः उवाच –] “[अहं] ‘[मया ब्रह्म] विदितम्’ मन्ये”॥
एवं हेयोपादेय-विपरीतस् त्वम् आत्मा ब्रह्म_इति प्रत्यायितः शिष्यः ‘अहम् एव ब्रह्म_इति सुष्ठु वेद_अहम्’ इति मा गृह्णीयाद् इति_आशयाद् आह_आचार्यः शिष्य-बुद्धि-विचालनार्थम् – “यदि”_इत्यादि (KenU.2.1)।
ननु_इष्टा_एव सु-वेद_अहम् इति निश्चिता प्रतिपत्तिः।
सत्यम्, इष्टा निश्चिता प्रतिपत्तिः, न हि सु-वेद_अहम् इति। यद् धि वेद्यं वस्तु विषयी-भवति, तत् सुष्ठु वेदितुं शक्यम्, दाह्यम् इव दग्धुम् अग्नेर् दग्धुः, न तु_अग्नेः स्वरूपम् एव। सर्वस्य हि वेदितुः स्वात्मा ब्रह्म_इति सर्व-वेदान्तानां सुनिश्चितोऽर्थः। इह च तद् एव प्रतिपादितं प्रश्न-प्रतिवचनोक्त्या “श्रोत्रस्य श्रोत्रम्” (KenU.1.2) इत्याद्यया। “यद् वाचा_अनभ्युदितम्” (KenU.1.4) इति च विशेषतोऽवधारितम्। ब्रह्मवित्-सम्प्रदाय-निश्चयश् च_उक्तः “अन्यद् एव तद् विदिताद् अथो अविदिताद् अधि” (KenU.1.3) इति। उपन्यस्तम् उपसंहरिष्यति च “अविज्ञातं विजानतां विज्ञातम् अविजानताम्” (KenU.2.3) इति। तस्माद् युक्तम् एव शिष्यस्य ‘सु-वेद’ इति बुद्धिं निराकर्तुम्।
न हि वेदिता वेदितुर् वेदितुं शक्यः, अग्निर् दग्धुर् इव दग्धुम् अग्नेः। न च_अन्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्यम् अन्यत् स्याद् ब्रह्म। “न_अन्यद् अतोऽस्ति विज्ञातृ” (BrhU.3.8.11) इति_अन्यो विज्ञाता प्रतिषिध्यते। तस्मात् सुष्ठु वेद_अहं ब्रह्म_इति प्रतिपत्तिर् मिथ्या एव। तस्माद् युक्तम् एव_आह_आचार्यो “यदि”_इत्यादि –

यदि कदाचिद् मन्यसे सु-वेद इति सुष्ठु वेद_अहं ब्रह्म_इति। कदाचिद् यथा-श्रुतं दुर्-विज्ञेयम् अपि क्षीण-दोषः सु-मेधाः कश्चित् प्रतिपद्यते, कश्चिन् न – इति साशङ्कम् आह “यदि”_इत्यादि। दृष्टं च “य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा_इति ह_उवाच_एतद् अमृतम् अभयम् एतद् ब्रह्म” (ChanU.8.7.4) इति_उक्ते प्राजा-पत्यः पण्डितोऽपि_असुर-राड् विरोचनः स्व-भाव-दोष-वशाद् अन्-उपपद्यमानम् अपि विपरीतम् अर्थं ‘शरीरम् आत्मा’_इति प्रतिपन्नः। तथा_इन्द्रो देव-राट् सकृद् द्विस् त्रिर् उक्तं च_अप्रतिपद्यमानः स्व-भाव-दोष-क्षयम् अपेक्ष्य चतुर्थे पर्याये प्रथमोक्तम् एव ब्रह्म प्रतिपन्नवान्। लोकेऽपि एकस्माद् गुरोः शृण्वतां कश्चिद् यथावत् प्रतिपद्यते, कश्चिद् अ-यथावत्, कश्चिद् विपरीतं, कश्चिन् न प्रतिपद्यते। किम् उ वक्तव्यम् अतीन्द्रियम् आत्म-तत्त्वम्। अत्र हि विप्रतिपन्नाः सद्-असद्-वादिनस् तार्किकाः सर्वे। तस्माद् ‘विदितं ब्रह्म’_इति सुनिश्चितोक्तम् अपि विषम-प्रतिपत्तित्वाद् “यदि मन्यसे” इत्यादि साशङ्कं वचनं युक्तम् एव_आचार्यस्य। दहरम् (दभ्रम्) अल्पम् एव_अपि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम्
किम् अनेकानि ब्रह्मणो रूपाणि महानति_अर्भकाणि च, येन_आह “दहरम् एव”_इत्यादि?
बाढम्। अनेकानि हि नाम-रूपोपाधि-कृतानि ब्रह्मणो रूपाणि, न स्वतः। स्वतस् तु “अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथा_अरसं नित्यम् अगन्धवच् च यत्” (KathU.1.3.15) इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते।
ननु, येन_एव धर्मेण यद् रूप्यते, तद् एव तस्य स्व-रूपम्, इति ब्रह्मणोऽपि येन विशेषेण निरूपणं, तद् एव तस्य स्व-रूपं स्यात्। अत उच्यते – चैतन्यं पृथिव्यादीनाम् अन्यतमस्य सर्वेषां [महा-भूतानां] विपरिणतानां [तत्-कार्यानां] वा धर्मो न भवति, तथा श्रोत्रादीनाम् [इन्द्रियाणाम्] अन्तःकरणस्य च धर्मो न भवति, इति ‘ब्रह्मणो रूपम्’, इति ब्रह्म रूप्यते चैतन्येन। तथा च_उक्तं “विज्ञानम् आनन्दं ब्रह्म” (BrhU.3.9.7) “विज्ञान-घन एव” (BrhU.2.4.12) “सत्यं ज्ञानम् अनन्तं ब्रह्म” (TaitU.2.1.1) “प्रज्ञानं ब्रह्म” (AitU.3.1.3) इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु।
सत्यम् एवम्, तथापि तद् अन्तःकरण-देहेन्द्रियोपाधि-द्वारेण_एव विज्ञानादि-शब्दैर् निर्दिश्यते, तद्-अनुकारित्वाद् देहादि-वृद्धि-संकोच-च्छेदादिषु नाशेषु च, न स्वतः। स्वतस् तु “अविज्ञातं विजानतां, विज्ञातम् अविजानताम्” (KenU.2.3) इति स्थितं भविष्यति।
यद् अस्य “ब्रह्मणो रूपम्” इति पूर्वेण सम्बन्धः। न केवलम् अध्यात्मोपाधि-परिच्छिन्नस्य_अस्य ब्रह्मणो रूपं त्वम् अल्पं वेत्थ, यद् अपि_अधिदैवतोपाधि-परिच्छिन्नस्य_अस्य ब्रह्मणो रूपं देवेषु वेत्थ त्वम्, तद् अपि नूनं दहरम् एव वेत्थ इति मन्येऽहम्। यद् अध्यात्मं यद् अपि देवेषु तद् अपि च_उपाधि-परिच्छिन्नत्वाद् दहरत्वान् न निवर्तते। यत् तु विध्वस्त-सर्वोपाधि-विशेषं शान्तम् अनन्तम् एकम् अद्वैतं भूमाख्यं नित्यं ब्रह्म, न तत् सु-वेद्यम् इत्यभिप्रायः।
यत एवम् अथ नु तस्माद् मन्ये अद्यापि मीमांस्यं विचार्यम् एव ते तव ब्रह्म। एवम् आचार्योक्तः शिष्यः एकान्ते उपविष्टः समाहितः सन्, यथोक्तम् आचार्येण आगमम् अर्थतो विचार्य, तर्कतश् च निर्धार्य, स्वानुभवं कृत्वा, आचार्य-सकाशम् उपगम्य, उवाच – ‘मन्येऽहम् अथ_इदानीं विदितं ब्रह्म’ इति॥
na, asmad, √man, su-√vid, iti, asmad, na, √vid, iti, √vid, ca;
yad, asmad, tad, √vid, asmad, na, √vid, iti, √vid, ca.

‘सु-वेद [विषयतया ब्रह्म जानामि]’ इति न अहं मन्ये। ‘न उ न [ब्रह्म] वेद’ इति, [तथापि] ‘[अहं] वेद च’। “न उ ‘न वेद’ इति वेद च” [इति] तद् [वचनं] यः नः [अस्माकं] वेद, [सः एव] तद् [ब्रह्म] वेद॥
कथम्? इति शृणु –
न अहं मन्ये सु-वेद_इति, न_एव_अहं मन्ये ‘सु-वेद ब्रह्म’_इति। ‘न_एव तर्हि विदितं त्वया ब्रह्म’_इति_उक्ते आह – _उ न वेद_इति वेद च। “वेद च”_इति च-शब्दाद् न वेद च।
ननु विप्रतिषिद्धं “न_अह मन्ये सु-वेद”_इति, “न_उ न वेद”_इति, “वेद च” इति। यदि न मन्यसे “सु-वेद”_इति, कथं मन्यसे “वेद च”_इति। अथ मन्यसे “वेद_एव”_इति, कथं न मन्यसे “सु-वेद”_इति। ‘एकं वस्तु येन ज्ञायते, तेन_एव तद् एव वस्तु न सुविज्ञायते’_इति विप्रतिषिद्धं, संशय-विपर्ययौ वर्जयित्वा। न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वा_इति नियन्तुं शक्यं, संशय-विपर्ययौ हि सर्वत्र_अनर्थकरत्वेन_एव प्रसिद्धौ।
एवम् आचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल, “अन्यद् एव तद् विदिताद् अथो अविदिताद् अधि” (KenU.1.3) इति_आचार्योक्तागम-सम्प्रदाय-बलात् उपपत्त्य्-अनुभवबलाच् च, जगर्ज च ब्रह्म-विद्यायां दृढ-निश्चयतां दर्शयन्न् आत्मनः। कथम्? इति_उच्यते – ‘यः यः कश्चिद् नः अस्माकं स-ब्रह्मचारिणां मध्ये तद् मद्-उक्तं वचनं तत्त्वतो वेद, सः तद् ब्रह्म वेद’।
किं पुनस् तद् वचनम् इति_अत आह – _उ न वेद_इति वेद च इति। यद् एव “अन्यद् एव तद् विदिताद् अथो अविदिताद् अधि” (KenU.1.3) इति_उक्तम्, तद् एव वस्तु अनुमानानुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण “न_उ न वेद_इति वेद च” इति_अवोचत् आचार्य-बुद्धि-संवादार्थं मन्द-बुद्धि-ग्रहण-व्यपोहार्थं च। तथा च गर्जितम् उपपन्नं भवति “यो नस् तद् वेद तद् वेद” इति॥
yad, a-mata, tad, mata, mata, yad, na, √vid, tad;
a-vijñāta, vijānat, vijñāta, a-vijānat.

यस्य [पुरुषस्य ब्रह्म विषयतया] अ-मतं [‘अविदितं ब्रह्म’ इति निश्चयं], तस्य [ब्रह्म] मतम्। यस्य [ब्रह्म विषयतया] मतं, सः न वेद। [यस्मात्] विजानतां [सतां] [ब्रह्म विषयतया] अ-विज्ञातम्, अ-विजानवतां [सतां] [ब्रह्म विषयतया] विज्ञातम्॥
शिष्याचार्य-संवादात् प्रतिनिवृत्य स्वेन रूपेण श्रुतिः समस्त-संवाद-निर्वृत्तम् अर्थम् एव बोधयति। “यस्य_अमतम्” इत्यादिना –
यस्य ब्रह्म-विदः अमतम् अविज्ञातम् ‘अविदितं ब्रह्म’_इति मतम् [=] अभिप्रायः निश्चयः, तस्य मतं ज्ञातं सम्यग् ब्रह्म_इति_अभिप्रायः। यस्य पुनः मतं ज्ञातं विदितं मया ब्रह्म_इति निश्चयः, न वेद_एव सः न ब्रह्म विजानाति सः
विद्वद्-अविदुषोर् यथोक्तौ पक्षाव् अवधारयति – “अविज्ञातं विजानताम्” इति, अविज्ञातम् अमतम् अविदितम् एव ब्रह्म विजानतां सम्यग्-विदितवताम् इत्येतत्। विज्ञातं विदितं ब्रह्म अविजानताम् असम्यग्-दर्शिनाम्, इन्द्रिय-मनो-बुद्धिष्व् एव_आत्म-दर्शिनाम् इत्यर्थः, न तु_अत्यन्तम् एव_अव्युत्पन्न-बुद्धीनाम्। न हि तेषां ‘विज्ञातम् अस्माभिर् ब्रह्म’_इति मतिर् भवति। इन्द्रिय-मनो-बुद्ध्युपाधिष्व् आत्म-दर्शिनां तु ब्रह्मोपाधि-विवेकानुपलम्भाद्, बुद्ध्याद्य्-उपाधेश् च विज्ञातत्वाद् – ‘विदितं ब्रह्म’_इति_उपपद्यते भ्रान्तिर् इति, अतः असम्यग्-दर्शनं पूर्व-पक्षत्वेन_उपन्यस्यते “विज्ञातम् अविजानताम्” इति।
अथवा हेत्व्-अर्थ उत्तरार्धोऽविज्ञातम् इत्यादिः॥
prati-bodha-vidita, mata, a-mṛtatva, hi, √vid;
ātman, √vid, vīrya, vidyā, √vid, a-mṛta.

‘प्रति-बोध-विदितं [ब्रह्म]’ मतं [ब्रह्मणः सम्यक्-दर्शनं अस्ति], अ-मृतत्वं [मोक्षं] हि [मतात् यस्मात् एव] [ज्ञानी] विन्दते। [यस्मात् प्रति-बोध-विदित-ब्रह्मणा अमृत-स्वरूपेण] आत्मना [एव] वीर्यं [अमृतत्वस्य सर्व-सामर्थ्यं] विन्दते, [अतः] विद्यया अ-मृतं विन्दते॥
“अविज्ञातं विजानताम्” (KenU.2.3) इति_अवधृतम्। यदि ब्रह्म_आत्यन्तम् एव_अविज्ञातम्, लौकिकानां ब्रह्म-विदां च_अविशेषः प्राप्तः। “अविज्ञातं विजानताम्” इति च परस्पर-विरुद्धम्। कथं तु तद् ब्रह्म सम्यग्-विदितं भवति? इति_एवम् अर्थम् आह –
प्रति-बोध-विदितं बोधं बोधं प्रति विदितम्। ‘बोध’-शब्देन बौद्धाः प्रत्यया उच्यन्ते। सर्वे प्रत्यया विषयी-भवन्ति यस्य स आत्मा – सर्व-बोधान् प्रति बुध्यते (प्रति-बुध्यते) [मनः अभिव्यञ्ज्यं आत्मा अभिव्यञ्जकः, एवम् आत्मा अभिव्यञ्ज्यः इति मनः अभिव्यञ्जकं, सूर्य-प्रकाश-चन्द्रवत्] सर्व-प्रत्यय-दर्शी चिच्-छक्ति-स्वरूपमात्रः प्रत्ययैर् एव प्रत्ययेष्व् अविशिष्टतया लक्ष्यते, न_अन्यद् द्वारम् अन्तर्-आत्मनो विज्ञानाय।
अतः प्रत्यय-प्रत्यग्-आत्मतया विदितं ब्रह्म यदा, तदा तद् मतं, तत् सम्यग्-दर्शनम् इत्यर्थः। सर्व-प्रत्यय-दर्शित्वे [ब्रह्मणः सति] च_उपजननापाय-वर्जित-दृक्-स्वरूपता, नित्यत्वं, विशुद्ध-स्वरूपत्वम्, आत्मत्वं [जाग्रदाद्यवस्थासु अतति इति आत्मा], निर्-विशेषता, एकत्वं च सर्व-भूतेषु सिद्धं भवेत्, लक्षण-भेदाभावाद् व्योम्न इव घट-गिरि-गुहादिषु। विदिताविदिताभ्याम् अन्यद् ब्रह्म_इति_आगम-वाक्यार्थ एवं परिशुद्ध एव_उपसंहृतो भवति। ‘दृष्टेर् द्रष्टा श्रुतेः श्रोता मतेर् मन्ता विज्ञातेर् विज्ञाता’ (BrhU.3.4.2) इति हि श्रुत्य्-अन्तरम्।
यदा पुनर् [आत्मा] बोध-क्रिया-कर्ता_इति बोध-क्रिया-लक्षणेन तत्-कर्तारं विजानाति_इति बोध-लक्षणेन विदितं “प्रति-बोध-विदितम्” इति व्याख्यायते, यथा यो वृक्ष-शाखाश् चालयति स वायुर् इति तद्वत्, तदा बोध-क्रिया-शक्तिमान् आत्मा द्रव्यं, न बोध-स्वरूप एव। बोधस् तु जायते विनश्यति च। यदा बोधो जायते, तदा बोध-क्रियया स-विशेषः। यदा बोधो नश्यति, तदा नष्ट-बोधो द्रव्यमात्रं निर्-विशेषः। तत्र_एवं सति [आत्मा] विक्रियात्मकः सावयवोऽनित्योऽशुद्ध इत्य्-आदयो दोषा न परिहर्तुं शक्यन्ते।
यद् अपि काणादानाम् – आत्म-मनः-संयोग-जो बोध आत्मनि समवैति, अत आत्मनि बोद्धृत्वं, न तु विक्रियात्मक आत्मा, द्रव्यमात्रस् तु भवति घट इव राग-समवायी। अस्मिन् पक्षेऽपि_अचेतनं द्रव्यमात्रं ब्रह्म_इति “विज्ञानम् आनन्दं ब्रह्म” (BrhU.3.9.28) “प्रज्ञानं ब्रह्म” (AitU.3.1.3) इत्य्-आद्याः श्रुतयो बाधिताः स्युः। आत्मनो निर्-अवयवत्वेन प्रदेशाभावाद्, नित्य-संयुक्तत्वाच् च मनसः स्मृत्य्-उत्पत्ति-नियमानुपपत्तिर् अपरिहार्या स्यात्। संसर्ग-धर्मित्वं च_आत्मनः श्रुति-स्मृति-न्याय-विरुद्धं कल्पितं स्यात्। “असङ्गो न हि सज्जते” (BrhU.3.9.26, BrhU.4.5.15) “असक्तं सर्व-भृत्” (BhG.13.14) इति हि श्रुति-स्मृती। न्यायश् च – गुणवद् गुणवता संसृज्यते, न_अतुल्य-जातीयम्। अतः निर्-गुणं निर्-विशेषं सर्व-विलक्षणं केनचिद् अपि_अतुल्य-जातीयेन संसृज्यते, इति_एतद् न्याय-विरुद्धं भवेत्। तस्माद् ‘नित्यालुप्त-ज्ञान-स्वरूप-ज्योतिर् आत्मा ब्रह्म’ इति_अयम् अर्थः सर्व-बोध-बोद्धृत्वे आत्मनः सिध्यति, न_अन्यथा। तस्मात् “प्रति-बोध-विदितं मतम्” इति यथा-व्याख्यात एव_ अर्थोऽस्माभिः।
यत् पुनः स्व-संवेद्यता “प्रति-बोध-विदित्यम्” इति अस्य वाक्यस्य_अर्थो वर्ण्यते, तत्र भवति ‘सोपाधिकत्वे आत्मनो बुद्ध्य्-उपाधि-स्वरूपत्वेन भेदं परिकल्प्य_आत्मना_आत्मानं वेत्ति’ इति संव्यवहारः – “आत्मनि_एव_आत्मानं पश्यति” (BrhU.4.4.23) “स्वयम् एव_आत्मना_आत्मानं वेत्थ त्वं पुरुषोत्तम” (BhG.10.15) इति। न तु निर्-उपाधिकस्य_आत्मन एकत्वे स्व-संवेद्यता पर-संवेद्यता वा सम्भवति, संवेदन-स्वरूपत्वात् संवेदनान्तरापेक्षा च न सम्भवति, यथा प्रकाशस्य प्रकाशान्तरापेक्षाया न सम्भवः तद्वत्।
बौद्ध-पक्षे स्व-संवेद्यतायां तु (BrS.2.2.25, 31) क्षण-भङ्गुरत्वं निर्-आत्मकत्वं च विज्ञानस्य स्याद्, “न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यतेऽविनाशित्वात्” (BrhU.4.3.30) “नित्यं विभुं सर्व-गतम्” (MunU.1.1.6) “स वा एष महान् अज आत्मा_अजरोऽमरोऽमृतोऽभयः” (BrhU.4.4.25) इत्य्-आद्याः श्रुतयो बाध्येरन्।
यत् पुनः ‘प्रति-बोध’-शब्देन निर्-निमित्तो बोधः प्रति-बोधः यथा सुप्तस्य इत्यर्थं परिकल्पयन्ति, सकृद् विज्ञानं प्रति-बोध इति_अपरे, निर्-निमित्तः स-निमित्तः सकृद् वा_असकृद् वा प्रति-बोध एव हि सः।
अमृतत्वम् अमरण-भावं स्वात्मनि_अवस्थानं मोक्षं हि यस्माद् विन्दते लभते यथोक्तात् प्रति-बोधात् प्रति-बोध-विदितात्मकात्, तस्मात् “प्रति-बोध-विदितम्” एव मतम् इत्यभिप्रायः। [अमृत-ब्रह्म-]बोधस्य हि प्रत्यग्-आत्म-विषयत्वं च मतम् [प्रत्यग्-आत्म-]अमृतत्वे हेतुः। न हि_आत्मनोऽनात्मत्वम् अमृतत्वं भवति। आत्मत्वाद् आत्मनोऽमृतत्वं निर्-निमित्तम् एव। एवं [तद्] मर्त्यत्वम् आत्मनो, यद् अविद्यया, अनात्मत्व-प्रतिपत्तिः।
कथं पुनर् यथोक्तया_आत्म-विद्यया_अमृतत्वं विन्दते? इति_अत आह – आत्मना स्वेन रूपेण विन्दते लभते वीर्यं बलं सामर्थ्यम्। धन-सहाय-मन्त्रौषधि-तपो-योग-कृतं वीर्यं मृत्युं न शक्नोति_अभिभवितुम्, अनित्य-वस्तु-कृतत्वात्। आत्म-विद्या-कृतं तु वीर्यम् आत्मना_एव विन्दते, न_अन्येन, इति_अतोऽनन्य-साधनत्वाद् आत्म-विद्या-वीर्यस्य तद् एव वीर्यं मृत्युं शक्नोति_अभिभवितुम्। यत एवम् आत्म-विद्या-कृतं वीर्यम् आत्मना_एव विन्दते, अतः विद्यया आत्म-विषयया विन्दतेऽमृतम् अमृतत्वम्। “न_अयम् आत्मा बल-हीनेन लभ्यः” (MunU.3.2.4) इति_आथर्वणे। अतः समर्थो हेतुः “अमृतत्वं हि विन्दते” इति॥
iha, ced, √vid, atha, satya, √as, na, ced, iha, √vid, mahatī, vinaṣṭi;
bhūta, bhūta, vicitya, dhīra, pretya, idam, loka, a-mṛta, √bhū.

इह [आत्म-ज्ञान-समर्थ-मनुष्य-शरीरे] चेद् [आत्मानम्] अवेदीत् [ज्ञातवान्], अथ [तदा] सत्यं [परम-अर्थ-सत्यम्] अस्ति [भवति]। इह चेद् न अवेदीत्, [तदा] महती [दीर्घा] विनष्टिः [जन्म-मरण-आदि-रूपा]। धीराः भूतेषु भूतेषु [चर-अ-चर-भूतेषु एकम् आत्म-तत्वं ब्रह्म] विचित्य [विज्ञाय], अस्मात् लोकात् प्रेत्य, अ-मृताः [अ-द्वैतम् आपन्नाः] भवन्ति॥
कष्टा खलु सुर-नर-तिर्यक्-प्रेतादिषु संसार-दुःख-बहुलेषु प्राणि-निकायेषु जन्म-जरा-मरण-रोगादि-संप्राप्तिर् अज्ञानात्। अतः –
इह एव चेद् मनुष्योऽधिकृतः समर्थः सन् यदि अवेदीद् आत्मानं यथोक्त-लक्षणं विदितवान् यथोक्तेन प्रकारेण, अथ तदा अस्ति सत्यं मनुष्य-जन्मनि_अस्मिन्न् अविनाशोऽर्थवत्ता वा सद्-भावो वा परमार्थता वा सत्यं विद्यते। “न चेद् इह_अवेदीद्” इति, न चेद् इह जीवंश् चेद् अधिकृतः अवेदीद् न विदितवान्, तदा महती दीर्घा अनन्ता विनष्टिः विनाशनं जन्म-जरा-मरणादि-प्रबन्धाविच्छेद-लक्षणा संसार-गतिः।
तस्माद् एवं गुण-दोषौ विजानन्तो ब्राह्मणाः भूतेषु भूतेषु सर्व-भूतेषु स्थावरेषु चरेषु च एकम् आत्म-तत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात् कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममाहं-भाव-लक्षणाद् अविद्या-रूपाद् अस्माल् लोकाद् उपरम्य सर्वात्मा_एक-भावम् अद्वैतम् आपन्नाः सन्तः अमृता भवन्ति ब्रह्म_एव भवन्ति_इत्यर्थः। “स यो ह वै तत् परं (परमं) ब्रह्म वेद ब्रह्म_एव भवति” (MunU.3.2.9) इति श्रुतेः॥

Go to Top ('Home' key on many Windows browsers)

Brahman, ha, deva, vi-√ji. Tad, ha, brahman, vijaya, deva, √mahīya (denominative).
ब्रह्म [‘विदिताद् अन्यद् अ-विदिताद् अधि’ इति यथा-उक्त-लक्षणं परं, ईश्वरः इत्यर्थः] ह [एव] देवेभ्यः [अर्थाय] विजिग्ये [जयं लब्धवत्]। तस्य ह ब्रह्मणः विजये [यद्यपि असुराणां जये सति] देवाः अमहियन्त [महिमा प्राप्तवन्तः]॥
“अविज्ञातं विजानतां विज्ञातम् अविजानताम्” (KenU.2.3) इत्यादि-श्रवणाद् ‘यद् अस्ति तद् विज्ञातं प्रमाणैः, यन् न_अस्ति तद् अविज्ञातं शश-विषाण-कल्पम् अत्यन्तम् एव_असद् दृष्टं’, तथा_‘इदं ब्रह्म_अविज्ञातत्वाद् असद् एव’_इति मन्द-बुद्धीनां व्यामोहो, मा भूद् इति, तद्-अर्था इयम् आख्यायिका आरभ्यते। तद् एव हि ब्रह्म सर्व-प्रकारेण प्रशास्तृ देवानाम् अपि परो देवः, ईश्वराणाम् अपि परमेश्वरः, दुर्-विज्ञेयः, देवानां जय-हेतुः, असुराणां परा-जय-हेतुः। तत् कथं न_अस्ति? इति_एतस्य_अर्थस्य_अनुकूलानि हि_उत्तराणि वचांसि दृश्यन्ते।
अथवा ब्रह्म-विद्यायाः स्तुतये। कथम्? ब्रह्म-विज्ञानाद् धि अग्न्य्-आदयो देवा देवानां श्रेष्ठत्वं जग्मुः। ततोऽपि_अतितराम् इन्द्र इति।
अथवा दुर्-विज्ञेयं ब्रह्म_इति_एतत् प्रदर्श्यते, येन_अग्न्य्-आदयोऽतितेजसोऽपि क्लेशेन_एव ब्रह्म विदितवन्तः, तथा_इन्द्रो देवानाम् ईश्वरोऽपि सन्न् इति।
वक्ष्यमाणोपनिषद्-विधि-परं वा सर्वम्।
‘ब्रह्म-विद्या-व्यतिरेकेण प्राणिनां कर्तृत्व-भोक्तृत्वाद्य्-अभिमानो मिथ्या’_इति_एतद् दर्शनार्थं वा आख्यायिका, यथा देवानां जयाद्य्-अभिमानः तद्वद् इति –

ब्रह्म यथोक्त-लक्षणं परं किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवद्। देवानाम् असुराणां च संग्रामेऽसुराञ् जित्वा जगद्-अरातीन् ईश्वर-सेतु-भेत्तॄन् देवेभ्यो जयं तत्-फलं च प्रायच्छज् जगतः स्थेम्ने। तस्य ह किल ब्रह्मणो विजये देवाः अग्न्य्-आदयः अमहीयन्त महिमानं प्राप्तवन्तः॥
Tad, √ikṣ, ‘asmad, eva, idam, vijaya; asmad, eva, idam, mahiman’, iti. Tad, ha, idam, vi-√jñā. Tad, ha, prādur-√bhū. Tad, na, vi-√jñā; kim, idam, yakṣa, iti.
ते [देवाः] ऐक्षन्त [ईक्षितवन्तः] ‘अस्माकम् एव अयं विजयः, अस्माकम् एव अयं महिमा’ इति। तद् [ब्रह्म, तद् दर्शनं वा] ह एषां [देवतानां मिथ्या-अभिमानं] विजज्ञौ [विज्ञातवत्]। तेभ्यः [देवेभ्यः] ह [किल] प्रादुर् बभूव [दृष्टि-गोचरम् आगतवत्, अवतारितवत्]। [ते देवाः] तद् [रूप-विशेषं ब्रह्म] न व्यजानत [विज्ञातवन्तः], “किम् इदं यक्षं [पूज्य-रूपं]?” इति॥
तदा आत्म-संस्थस्य प्रत्यग्-आत्मन ईश्वरस्य सर्व-ज्ञस्य सर्व-क्रिया-फल-संयोजयितुः प्राणिनां सर्व-शक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा च – इति यजानन्तः ते देवाः ऐक्षन्त ईक्षितवन्तः ‘अग्न्य्-आदि-स्वरूप-परिच्छिन्नात्म-कृतः अस्माकम् एव_अयं विजयः अस्माकम् एव_अयं महिमा अग्नि-वाय्व्-इन्द्रत्वादि-लक्षणो जय-फल-भूतोऽस्माभिर् अनुभूयते न_अस्मत्-प्रत्यग्-आत्म-भूतेश्वर-कृत’ इति
एवं मिथ्याभिमानेक्षणवतां तद् ह किल एषां मिथ्येक्षणं विजज्ञौ विज्ञातवद् ब्रह्म। सर्वेक्षितृ हि तत् सर्व-भूत-करण-प्रयोक्तृत्वाद्। देवानां च मिथ्या-ज्ञानम् उपलभ्य ‘मा_एव_असुरवद् देवा मिथ्याभिमानात् पराभवेयुर्’ इति तद्-अनुकम्पया ‘देवान् मिथ्याभिमानापनोदनेन_अनुगृह्णीयाम्’ इति तेभ्यः देवेभ्यः किल अर्थाय प्रादुर्-बभूव स्व-योग-माहात्म्य-निर्मितेन_अत्यद्भुतेन विस्मापनीयेन रूपेण देवानाम् इन्द्रिय-गोचरे प्रादुर्-बभूव प्रादुर्-भूतवत्। तत् प्रादुर्-भूतं ब्रह्म न व्यजानत न_एव विज्ञातवन्तः देवाः किम् इदं यक्षं पूज्यं महद्-भूतम् इति
Tad, agni, √bru, ‘jāta-vedas, etad, vi-√jñā, kim, etad, yakṣa’, iti. ‘Tathā’, iti.
ते [देवाः] अग्निम् अब्रुवन् [उक्तवन्तः], “जात-वेद, एतद् [यक्षं] विजानीहि – किम् एतद् यक्षम्” इति। [अग्निः उक्तवान्] “तथा” इति॥
ते तद् अजानन्तो देवाः सान्तर्-भयास् तद्-विजिज्ञासवः अग्निम् अग्र-गामिनं जात-वेदसं सर्व-ज्ञ-कल्पम् अब्रुवन् उक्तवन्तः। हे जात-वेदः एतद् अस्मद्-गोचर-स्थं यक्षं विजानीहि विशेषतो बुध्यस्व। त्वं नस् तेजस्वी, किम् एतद् यक्षम् इति। ‘तथा अस्तु’ इति
Tad, abhi-√dru. Tad, abhi-√vad, ‘kim, √as’, iti. ‘Agni, vai, asmad, √as’, iti, √bru; ‘jāta-vedas, vai, asmad, √as’, iti.
[अग्निः] तद् [यक्षम्] अभ्यद्रवत् [प्रति गतवान्]। [तद् यक्षं] तम् [अग्निम्] अवदत्, “कः असि?” इति। “अग्निः वै अहम् अस्मि,” इति अब्रवीत्। “जात-वेदा वै अहम् अस्मि” इति॥
तद् यक्षम् अभि अद्रवत् तत् प्रति गतवान् अग्निः। तं च गतवन्तं पिपृच्छिषुं तत्-समीपेऽप्रगल्भत्वात् तूष्णीं-भूतं तद् यक्षम् अभ्यवदत् अग्निं प्रति अभाषत – कोऽसि_इति। एवं ब्रह्मणा पृष्टोऽग्निः अब्रवीत् अग्निर् वै अग्निर् नाम_अहं प्रसिद्धो जात-वेदा इति च नाम-द्वयेन प्रसिद्धतया_आत्मानं श्लाघयन्न् इति॥
‘Tad, yuṣmad, kim, vīrya’, iti. ‘Api, idam, sarva, √dah, yad, idam, pṛthivī’, iti.
[अग्निम् उक्तवन्तं] “तस्मिन् [एवं प्रसिद्ध-गुण-नामवति] त्वयि किं वीर्यं [सामर्थ्यं]?” इति [यक्ष-रूपं ब्रह्म अवदत्]। [अग्निः] “अपि [किम्-चिद्] इदं सर्वं दहेयं [भस्मी-कुर्यां] यद् इदं पृथिव्याम्” इति॥
एवम् उक्तवन्तं ब्रह्म_अवोचत् तस्मिन् एवं प्रसिद्ध-गुण-नामवति त्वयि किं वीर्यं सामर्थ्यम् इति। सोऽब्रवीद् इदं जगत् सर्वं दहेयं भस्मी-कुर्यां यद् इदं स्थावरादि पृथिव्याम् इति। पृथिव्याम् इति_उपलक्षणार्थम्, यतोऽन्तरिक्ष-स्थम् अपि दह्यत एव_अग्निना॥
Tad, tṛṇa, ni-√dhā, ‘etad, √dah’, iti. Tad, upa-pra-√i, sarva-java. Tad, na, √śak, dagdhum. Tad, tatas, eva, ni-√vṛt. ‘Na, etad, √śak, vijñātum, yad, etad, yakṣa’, iti.
[ब्रह्म] तस्मै [अग्नये] तृणं निदधौ [स्थापितवत्], [उक्तवान् च] “एतद् [तृणं] दह” इति। [अग्निः] तद् [तृणं] सर्व-जवेन [सर्व-वेगन] उपप्रेयाय [तृण-समीपं गतवान्]। [अग्निः] तद् [तृणं] न दग्धुं शशाक [न समर्थः अभवत्]। सः [अग्निः] ततः [यक्षात्] एव निववृते [निवृतिम् अकुरुत]। [सः देवान् प्र्रति अवोचत्] “न, एतद् [अहम्] अशकं [न शक्तवान्] विज्ञातुं यद् एतद् यक्षम्” इति॥
तस्मै एवम् अभिमानवते ब्रह्म तृणं निदधौ पुरोऽग्नेः स्थापितवत्। ब्रह्मणा ‘एतत् तृणमात्रं मम_अग्रतः दह, न चेद् असि दग्धुं समर्थः, मुञ्च दग्धृत्वाभिमानं सर्वत्र’ इति_उक्तः तत् तृणम् उपप्रेयाय तृण-समीपं गतवान् सर्व-जवेन सर्वोत्साह-कृतेन वेगेन। गत्वा तद् न शशाक न_अशकत् दग्धुम्
सः जात-वेदाः तृणं दग्धुम् अशक्तो व्रीडितो हत-प्रतिज्ञः तत एव यक्षाद् एव तूष्णीं देवान् प्रति निववृते निवृत्तः प्रतिगतवान्। न एतद् यक्षम् अशकं शक्तवान् अहं विज्ञातुं विशेषतः यद् एतद् यक्षम् इति
Atha, vāyu, √bru, ‘vāyu, etad, vi-√jñā, kim, etad, yakṣa’, iti. ‘Tathā’, iti.
Tad, abhi-√dru. Tad, abhi-√vad, ‘kim, √as’, iti. ‘Vāyu, vai, asmad, √as’, iti, √bru; ‘mātari-śvan, vai, asmad, √as’, iti.
Tad, yuṣmad, ‘kim, vīrya’, iti. ‘Api, idam, sarva, ā-√dā, yad, idam, pṛthivī’, iti.
Tad, tṛṇa, ni-√dhā, ‘etad, ā-√dā’, iti. Tad, upa-pra-√i, sarva-java. Tad, na, √śak, ādātum. Tad, tatas, eva, ni-√vṛt. ‘na, etad, √śak, vijñātum, yad, etad, yakṣa’, iti.

अथ [अन्-अन्तरं ते देवाः] वायुम् अब्रुवन् [उक्तवन्तः], “वायो, एतद् [यक्षं] विजानीहि – किम् एतद् यक्षम्” इति। [वायुः उक्तवान्] “तथा” इति॥
[वायुः] तद् [यक्षम्] अभ्यद्रवत् [प्रति गतवान्]। [तद् यक्षं] तं [वायुम्म्] अवदत्, “कः असि?” इति। “वायुः वै अहम् अस्मि,” इति अब्रवीत्। “मातरि-श्वा वै अहम् अस्मि” इति॥
“तस्मिन [एवं प्रसिद्ध-गुण-नामवति] त्वयि किं वीर्यं [सामर्थ्यं]?” इति [ब्रह्म अवदत्]। [वायुः उक्तवान्] “अपि [किम्-चिद्] इदं सर्वम् आददीय [उद्गृह्णीयां] यद् इदं पृथिव्याम्” इति॥
[ब्रह्म] तस्मै [वायवे] तृणं निदधौ [स्थापितवत्], [उक्तवान् च] “एतद् [तृणम्] आदत्स्व” इति। [वायुः] तद् [तृणं] सर्व-जवेन उपप्रेयाय। [वायुः] तद् [तृणं] न आदातुं शशाक। सः [वायुः] ततः [यक्षात्] एव निववृते [निवृतिम् अकुरुत]। [सः देवान् प्र्रति अवोचत्] “न, एतद् [अहम्] अशकं विज्ञातुं यद् एतद् यक्षम्” इति॥

अथ अनन्तरं वायुम् अब्रुवन् “हे वायो_एतद् विजानीहि”_इत्यादि समानार्थं पूर्वेण। वानाद् गमनाद् गन्धनाद् वा ‘वायुः’। मातरि_अन्तरिक्षे श्वयति_इति ‘मातरि-श्वा’। “इदं सर्वम् अपि आददीय गृह्णीयां यद् इदं पृथिव्याम्” इत्यादि समानम् एव॥
Atha, indra, √bru, ‘maghvan, etad, vi-√jñā, kim, etad, yakṣa’, iti. ‘Tathā’, iti. Tad, abhi-√dru. Tad, tiras-√dhā.
अथ [देवाः] इन्द्रम् अब्रुवन् [उक्तवन्तः], “मघवन्, एतद् [यक्षं] विजानीहि – किम् एतद् यक्षम्” इति। [ईन्द्रः उक्तवान्] “तथा” इति। [इन्द्रः] तद् [यक्षम्] अभ्यद्रवत् [प्रति गतवान्]। तस्मात् [इन्द्रात् समीपं गतात् यक्षं] तिरस्-दधे [तिरस्-भूतम्]॥
अथ_इन्द्रम् अब्रुवन् मघवन्न् एतद् विजानीहि_इत्यादि पूर्ववत्। ‘इन्द्रः’ परमेश्वरो ‘मघवा’ बलवत्त्वात् तथा_इति तद् अभ्यद्रवत्तस्माद् इन्द्राद् आत्म-समीपं गतात् तद् ब्रह्म तिरो-दधे तिरो-भूतम्। इन्द्रस्य_इन्द्रत्वाभिमानोऽतितरां निराकर्तव्य इति_अतः संवादमात्रम् अपि न_अदाद् ब्रह्म_इन्द्राय॥
Tad, tad, eva, ākāśa strī, ā-√gam, bahu-śobhamāna, umā, haimavatī. Tad, ha, √vac, kim, etad, yakṣa, iti.
सः [इन्द्रः यस्मिन् प्रदेशे यक्षं तिरस्-दधे तत्र तं यक्षं ध्यानन्] तस्मिन् एव आकाशे [यदा विद्या स्त्री-रूपा प्रादुर्-अभूत् इन्द्रः] स्त्रियम् आजगाम [आगतः] बहु-शोभमानाम् [अधिक-कान्ती] उमां [नाम, पार्वती], [ब्रह्म-विद्यां श्रुतिं] हैमवतीं [हिरण्य-कृत-आभरणवतीम् इव], [अथवा हिमवतः दुहिता तां] तां ह [सः] उवाच [च] “किम् एतद् यक्षम्?” इति॥
तद् यक्षं यस्मिन्न् आकाशे आकाश-प्रदेशे आत्मानं दर्शयित्वा तिरो-भूतम् इन्द्रश् च ब्रह्मणस् तिरो-धान-काले यस्मिन्न् आकाशे आसीत्, सः इन्द्रः तस्मिन्न् एव आकाशे तस्थौ ‘किं तद् यक्षम्?’ इति ध्यायन्, न निववृतेऽग्न्य्-आदिवत्।
तस्य_इन्द्रस्य यक्षे भक्तिं बुद्ध्वा विद्या उमा-रूपिणी प्रादुर् अभूत् स्त्री-रूपा। सः इन्द्रः ताम् उमां बहु-शोभमानां, सर्वेषां हि शोभमानानां शोभनतमा विद्या। तदा बहु-शोभमाना_इति विशेषणम् उपपन्नं भवति। हैमवतीं हेम-कृताभरणवतीम् इव बहु शोभमानाम् इत्यर्थः। अथवा उमा एव हिमवतो दुहिता हैमवती। नित्यम् एव सर्व-ज्ञेन_ईश्वरेण सह वर्तत, इति ज्ञातुं समर्था_इति कृत्वा ताम् उप-जगाम इन्द्रः। तां ह_उमां किल उवाच पप्रच्छ ब्रूहि ‘किम् एतद् दर्शयित्वा तिरो-भूतं यक्षम्’ इति

Go to Top ('Home' key on many Windows browsers)

Tad, ‘brahman’, iti, ha, √vac, ‘brahman, vai, etad, vijaya, √mah’, iti. Tatas, ha, eva, √vid, ‘brahman’, iti.
सा [उमा] ह उवाच “ब्रह्म” इति। “ब्रह्मणः वै एतद् [=एवं] विजये महीयध्वं [महिमानं प्राप्नुथ]” इति। ततः [तस्मात् उमा वचनात् इन्द्रः] ह एव विदां-चकार [वेद] “ब्रह्म [एव यक्षम्]” इति॥
साब्रह्मइति ह_उवाच ह किल, ब्रह्मणः वै_ईश्वरस्य_एव विजये – ईश्वरेण_एव जिता असुराः, यूयं तत्र निमित्तमात्रं, तस्य_एव विजये – यूयं महीयध्वं महिमानं प्राप्नुथ। एतद् इति क्रिया-विशेषणार्थम्। मिथ्याभिमानस् तु युष्माकम् – ‘अस्माकम् एव_अयं विजयोऽस्माकम् एव_अयं महिमा’ इतिततः तस्माद् उमा-वाक्याद् ह_एव विदां-चकार ब्रह्म_इति इन्द्रः, अवधारणात् “ततो ह_एव इति”, न स्वा-तन्त्र्येण॥
Tad, vai, etad, deva, atitarām, iva, anya, deva. Yad, agni, vāyu, indra, tad, hi, enad, nediṣṭha, √spṛś, tad, hi, enad, prathama, √vid, ‘brahman’, iti.
तस्मात् वै, यद् अग्निः वायुः इन्द्रः [च], एते देवाः अन्यान् दवान् अतितराम् [अत्यन्तम् एव श्रेष्ठत्वेन वर्तन्ते] इव [=एव]। ते [देवाः] हि [यस्मात्] एनद् [ब्र्रह्म प्रति] नेदिष्ठम् [अन्तिकतमं] पस्पृशुः (पस्पर्शुः) [स्पृशवन्तः], ते हि [यस्मात् च] एनद् [ब्र्रह्म] प्रथमः [=प्रथमं] विदां-चकार “ब्रह्म” इति॥
यस्माद् अग्नि-वाय्व्-इन्द्रा एते देवा ब्रह्मणः संवाद-दर्शनादिना सामीप्यम् उपगताः –
तस्मात् स्वैर् गुणैः अतितराम् इव शक्ति-गुणादि-महा-भाग्यैः अन्यान् देवान् अतितराम् अतिशयेन (अतिशेरते) इव एते देवाः। ‘इव’-शब्दोऽनर्थकोऽवधारणार्थो वा। यद् अग्निः वायुः इन्द्रः ते हि देवा यस्माद् एनद् ब्रह्म नेदिष्ठम् अन्तिकतमं प्रियतमं पस्पृशुः (पस्पर्शुः) स्पृष्टवन्तो यथोक्तैर् ब्रह्मणः संवादादि-प्रकारैः, ते हि यस्माच् च हेतोः एनद् ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इति_एतद् विदां-चकार विदां-चक्रुर् इत्येतत्, ब्रह्म_इति
Tad, vai, indra, atitarām, iva, anya, deva, tad, hi, enad, nediṣṭha, √spṛś. Tad, hi, enad, prathama, √vid, ‘brahman’, iti.
तस्मात् वै इन्द्रः अतितराम् इव [एव] अन्यान् दवान्, सः [इन्द्रः] हि [यस्मात्] एनद् [ब्रह्म] नेदिष्ठं पस्पर्श, सः [च] हि एनद् प्रथमः विदां-चकार “ब्रह्म” इति॥
यस्माद् अग्नि-वायू अपि इन्द्र-वाक्याद् एव विदां-चक्रतुः, इन्द्रेण हि उमा-वाक्यात् प्रथमं श्रुतं ब्रह्म_इति –
तस्माद् वै_इन्द्रः अतितराम् इव अतिशेते_इव अन्यान् देवान्स हि_एनन् नेदिष्ठं पस्पर्श यस्मात् स हि_एनत् प्रथमो विदां-चकार ब्रह्म_इति_उक्तार्थं वाक्यम्॥
Tad, etad, ādeśa, yad, etad, vidyut, vi-√dyut, ā, iti, id, ni-√miṣ, ā, iti, adhi-daivata.
तस्य [यक्ष-रूप-ब्रह्मणः] एषः आदेशः [उपमानेन उपदेशः]। यद् एतद् [प्रकृतं ब्रह्मं] [रात्रौ] विद्युतः व्यद्युतत् [विद्योतनं इत्यर्थः, तेजस् व्यद्युतत् वा flashing, instantaneous appearing of bright celestial lightning in the world] आ [=इव] इति। इद् [च] न्यमीमिषत् [चक्षुस्-निमेषं कृतवत् blink of eye, प्रकाश-तिरो-भूतं instaneous disappearing of the bright internal light of the eye from the world] आ इति अधि-दैवतम् [अग्नि-आदि-देवता-आख्यायिका-विषयम् अधिकृत्य ब्रह्मणः उपमान-दर्शनम्]॥
तस्य प्रकृतस्य ब्रह्मणः एषः आदेशः उपमोपदेशः। निरुपम् अस्य ब्रह्मणो येन_उपमानेन_उपदेशः सोऽयम् आदेश इति_उच्यते। किं तत्? यद् एतत् प्रसिद्धं लोके विद्युतः व्यद्युतद् विद्योतनं कृतवद् इति_एतद् अनुपपन्नम् इति विद्युतो विद्योतनम् इति कल्प्यते। आ३ इति_उपमार्थः। विद्युतो विद्योतनम् इव_इत्यर्थः, “यथा सकृद् विद्युत्तम्” (BrhU.2.3.6) इति श्रुत्य्-अन्तरे च दर्शनात्। विद्युद् इव हि सकृद् आत्मानं दर्शयित्वा तिरो-भूतं ब्रह्म देवेभ्यः।
अथवा विद्युतः ‘तेजः’ इति_अध्याहार्यम्। व्यद्युतद् विद्योतितवत् आ३ इव। विद्युतस् तेजः सकृद् विद्योतितवद् इव_इत्यभिप्रायः। ‘इति’-शब्दः आदेश-प्रतिनिर्देशार्थः – इति_अयम् आदेश इति।
इच्-छब्दः समुच्चयार्थः। अयं च_अपरस् तस्य_आदेशः। कोऽसौ? न्यमीमिषद्। यथा चक्षुः न्यमीमिषद् निमेषं कृतवत्। स्वार्थे णिच्। उपमार्थ एव ‘आ’-कारः। चक्षुषो विषयं प्रति प्रकाश-तिरो-भाव इव च_इत्यर्थः। इति अधि-दैवतं देवता-विषयं ब्रह्मण उपमान-दर्शनम्॥
Atha, adhy-ātma. Yad, etad, √gam, iva, ca, manas, idam, ca, etad, upa-√smṛ, abhīkṣṇam, saṅkalpa.
अथ अधि-आत्मं [प्रत्यक्-आत्म-विषयम् अधिकृत्य]। यद् एतद् [प्रकृतं ब्रह्मं] गच्छति [विषयी-करोति उपासनेन] इव च मनस्। अनेन [मनसा] च [उपासकः] एतद् [ब्रह्म] उपस्मरति अभीक्ष्णं [स-ततम्] – [इति] सङ्कल्पः [अभीष्ट-सिद्धिः स्यात् उपासकस्य]॥
अथ अनन्तरम् अध्यात्मं प्रत्यग्-आत्म-विषय आदेश उच्यते। यद् एतद् गच्छति_इव च मनःएतद् ब्रह्म ढौकत इव विषयी-करोति_इव। यच् च अनेन मनसा एतद् ब्रह्म उपस्मरति समीपतः स्मरति साधकः। अभीक्ष्णं भृशं सङ्कल्पश् च मनसो ब्रह्म-विषयः। मनौपाधिकत्वाद् धि मनसः सङ्कल्प-स्मृत्यादि-प्रत्ययैर् अभिव्यज्यते ब्रह्म, विषयी-क्रियमाणम् इव। अतः स एष ब्रह्मणोऽध्यात्मम् आदेशः।
विद्युन् निमेषणवद् अधि-दैवतं द्रुत-प्रकाशन-धर्मि, अध्यात्मं च मनः-प्रत्यय-सम-कालाभिव्यक्ति-धर्मि, इति_एष आदेशः। एवम् आदिश्यमानं हि ब्रह्म मन्द-बुद्धि-गम्यं भवति_इति ब्रह्मण आदेशोपदेशः। न हि निर्-उपाधिकम् एव ब्रह्म मन्द-बुद्धिभिर् आकलयितुं शक्यम्॥
Tad, ha, tad-vana, nāma. ‘Tad-vana’, iti, upāsitavya. Tad, yad, etad, evam, √vid, abhi, ha, enad, sarva, bhūta, sam-√vāñch.
तद् [ब्रह्म] ह ‘तद्-वनं’ नाम। [अतः] तद्-वनं [तस्य सर्वस्य वनं वननीयम्] इति उपासितव्यम्। सः यः [उपासकः] एतद् [ब्रह्म] एवं [यथा-उक्तं वनं] वेद [जानाति उपास्ते च] अभि [अभितः] ह, एनम् [उपासकं] सर्वाणि भूतानि संवाञ्छन्ति [अभिसेवन्ते]॥
किञ्च –
तद् ब्रह्म किल तद्-वनं नाम तस्य वनं तद्-वनं तस्य प्राणि-जातस्य प्रत्यग्-आत्म-भूतत्वाद् वनं वननीयं सम्भजनीयम्। अतः तद्-वनं नाम प्रख्यातं ब्रह्म तद्-वनम् इति यतः, तस्मात् तद्-वनम् इति अनेन_एव गुणाभिधानेन उपासितव्यं चिन्तनीयम्।
अनेन नाम्ना_उपासनस्य फलम् आह – स यः कश्चिद् एतद् यथोक्तं ब्रह्म एवं यथोक्त-गुणं वेद उपास्ते अभि ह_एनम् उपासकं सर्वाणि भूतानि अभि संवाञ्छन्ति ह प्रार्थयन्त एव, यथा ब्रह्म॥
‘Upaniṣad, bhavat, √bru’, iti. ‘Uktā, yuṣmad, upaniṣad. Brāhmī, vāva, yuṣmad, upaniṣad, √bru’, iti.
[शिष्यः आह] “उपनिषदं भो [भगवन्] ब्रूहि [कथय]” इति। [आचार्यः आह] “उक्ता ते [तुभ्यम्] उपनिषद्। [इयम् उपनिषद्] ब्राह्मी [ब्रह्म-परम-आत्म-विषयी] वाव [एव अहं] ते [तुभ्यम्] उपनिषदं [ब्रह्म-ज्ञानम्] अब्रूम [उक्तवान्]” इति॥
एवम् अनुशिष्टः शिष्य आचार्यम् उवाच –
उपनिषदं रहस्यं यच् चिन्त्यं भो भगवन् ब्रूहि_इति
एवम् उक्तवति शिष्ये आह_आचार्यः – उक्ता अभिहिता ते तव उपनिषत्। का पुनः सा_इति_आह – ब्राह्मीं ब्रह्मणः परमात्मन इयं ब्राह्मी ताम्, परमात्म-विषयत्वाद् अतीत-विज्ञानस्य, वाव एव ते उपनिषदम् अब्रूम_इति उक्ताम् एव परमात्म-विषयाम् उपनिषदम् अब्रूम_इति_अवधारयति_उत्तरार्थम्।
परमात्म-विषयाम् उपनिषदं श्रुतवतः उपनिषदं भो ब्रूहि_इति पृच्छतः शिष्यस्य कोऽभिप्रायः? यदि तावच् छ्रुतस्य_अर्थस्य प्रश्नः कृतः, ततः पिष्ट-पेषणवत् पुनर्-उक्तोऽनर्थकः प्रश्नः स्यात्। अथ सा_अवशेषोक्तोपनिषत् स्यात्, ततस् तस्याः फल-वचनेन_उपसंहारो न युक्तः “प्रेत्य_अस्माल् लोकाद् अमृता भवन्ति” (KenU.2.5) इति। तस्माद् उक्तोपनिषच्-छेष-विषयोऽपि प्रश्नोऽनुपपन्न एव, अनवशेषितत्वात्। कस् तर्हि_अभिप्रायः प्रष्टुर् इति। उच्यते।
किं पूर्वोक्तोपनिषच्-छेषतया तत्-सहकारि-साधनान्तरापेक्षा, अथ निर्-अपेक्षा_एव? सापेक्षा चेद् अपेक्षित-विषयाम् उपनिषदं ब्रूहि। अथ निर्-अपेक्षा चेद् अवधारय पिप्पलादवन् “न_अतः परम् अस्ति”_इति (PrasU.6.7) एवम् अभिप्रायः। एतद् उपपन्नम् आचार्यस्य_अवधारण-वचनम् “उक्ता त उपनिषद्” इति।
ननु न_अवधारणम् इदम्, यतोऽन्यद् वक्तव्यम् आह “तस्यै तपो दमः” (KenU.4.8) इत्यादि।
सत्यम्, वक्तव्यम् उच्यते आचार्येण। न तु_उक्तोपनिषच्-छेषतया तत्-सहकारि-साधनान्तराभिप्रायेण वा, किंतु ब्रह्म-विद्या-प्राप्त्य्-उपायाभिप्रायेण वेदैस् तद्-अङ्गैश् च सह-पाठेन समी-करणात् तपः-प्रभृतीनाम्। न हि वेदानां शिक्षाद्य्-अङ्गानां च साक्षाद् ब्रह्म-विद्या-शेषत्वं तत्-सहकारि-साधनत्वं वा सम्भवति।
सह-पठितानाम् अपि यथा-योगं विभज्य विनियोगः स्याद् इति चेद्, यथा सूक्त-वाकानुमन्त्रण-मन्त्राणां यथा-दैवतं विभागः, तथा तपो-दम-कर्म-सत्यादीनाम् अपि ब्रह्म-विद्या-शेषत्वं तत्-सहकारि-साधनत्वं वा_इति कल्प्यते। वेदानां तद्-अङ्गानां च_अर्थ-प्रकाशकत्वेन कर्मात्म-ज्ञानोपायत्वम् इति_एवं हि_अयं विभागो युज्यते अर्थ-सम्बन्धोपपत्ति-सामर्थ्याद् इति चेत्।
न, अयुक्तेः। न हि_अयं विभागो घटनां प्राञ्चति। न हि सर्व-क्रिया-कारक-फल-भेद-बुद्धि-तिरस्-कारिण्या ब्रह्म-विद्यायाः शेषापेक्षा सहकारि-साधन-सम्बन्धो वा युज्यते। सर्व-विषय-व्यावृत्त-प्रत्यग्-आत्म-विषय-निष्ठत्वाच् च ब्रह्म-विद्यायास् तत्-फलस्य च निःश्रेयसस्य। “मोक्षम् इच्छन् सदा कर्म त्यजेद् एव स-साधनम्। त्यजत_एव हि तज् ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्” (?) तस्मात् कर्मणां सहकारित्वं कर्म-शेषापेक्षा वा न ज्ञानस्य_उपपद्यते। ततोऽसद् एव सूक्त-वाकानुमन्त्रणवद् यथा-योगं विभाग इति। तस्माद् अवधारणार्थता_एव प्रश्न-प्रतिवचनस्य_उपपद्यते। एतावत् या एव_इयम् उपनिषद् उक्ता_अन्य-निर्-अपेक्षा अमृतत्वाय॥
Tad, tapas, dama, karman, iti, pratiṣṭhā; veda, sarva-aṅga; satya, āyatana.
तस्यै [तस्याः उपनिषदः ब्रह्म-विद्यायाः] तपस् दमः कर्म [च] इति प्रतिष्ठाः [पादाः भवन्ति]। [उपनिषदः] वेदाः सर्व-अङ्गानि [अन्य-अङ्गानि अथवा शिक्षा-आदिनि षट् अङ्गानि च भवन्ति]। सत्यम् [अ-कौटिल्यं वाच्-मनस्-कायानाम्] आयतनम् [एव यत्र उपनिषद् तिष्ठति]॥
याम् इमां ब्राह्मीम् उपनिषदं तव_अग्रेऽब्रूम_इति तस्यै तस्या उक्ताया उपनिषदः प्राप्त्य्-उपाय-भूतानि तप-आदीनि। तपः कायेन्द्रिय-मनसां समाधानम्। दमः उपशमः। कर्म अग्नि-होत्रादि। एतैर् हि संस्कृतस्य सत्त्व-शुद्धि-द्वारा तत्त्व-ज्ञानोत्पत्तिर् दृष्टा। दृष्टा हि_अ-मृदित-कल्मषस्य_उक्तेऽपि ब्रह्मणि_अप्रतिपत्तिर् विपरीत-प्रतिपत्तिश् च, यथा_इन्द्र-विरोचन-प्रभृतीनाम्।
तस्माद् इह वा_अतीतेषु वा बहुषु जन्मान्तरेषु तप-आदिभिः कृत-सत्त्व-शुद्धेर् ज्ञानं समुत्पद्यते यथा-श्रुतम्, “यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ। तस्य_एते कथिता हि_अर्थाः प्रकाशन्ते महात्मनः” (ChanU.8.7.1, SvetU.6.23) इति मन्त्र-वर्णात्। “ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः” (MBhSan.204.8) इति स्मृतेश् च।
इति-शब्दः उपलक्षणत्व-प्रदर्शनार्थः। इति एवम्-आद्य्-अन्यद् अपि ज्ञानोत्पत्तेर् उपकारकम् “अमानित्वम् अदम्भित्वम्” (BhG.13.7) इति_आद्य्-उपदर्शितं भवति। प्रतिष्ठा पादौ पादाव् इव_अस्याः, तेषु हि सत्सु प्रतितिष्ठति ब्रह्म-विद्या प्रवर्तते, पद्भ्याम् इव पुरुषः। वेदाश् चत्वारः [सर्वाङ्गानि] सर्वाणि च_अङ्गानि शिक्षादीनि षट् कर्म-ज्ञान-प्रकाशकत्वाद् वेदानां तद्-रक्षणार्थत्वाद् अङ्गानां प्रतिष्ठात्वम्।
अथवा, प्रतिष्ठा-शब्दस्य पाद-रूप-कल्पनार्थत्वाद् वेदास् तु_इतराणि “सर्वाङ्गानि” शिर-आदीनि। अस्मिन् पक्षे शिक्षादीनां वेद-ग्रहणेन_एव ग्रहणं कृतं प्रत्येतव्यम्। अङ्गिनि हि गृहीतेऽङ्गानि गृहीतानि_एव भवन्ति, तद्-आयत्तत्वाद् अङ्गानाम्।
सत्यम् आयतनं यत्र तिष्ठति_उपनिषत् तद्-आयतनम्। सत्यम् इति अमायिता अकौटिल्यं वाङ्-मनः-कायानाम्। तेषु हि_आश्रयति विद्या ये अमायाविनः साधवः, न_असुर-प्रकृतिषु मायाविषु, “न येषु जिह्मम् अनृतं न माया च” (PrasU.1.16) इति श्रुतेः। तस्मात् सत्यम् आयतनम् इति कल्प्यते। तप-आदिषु_एव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनर् आयतनत्वेन ग्रहणं साधनातिशयत्व-ज्ञापनार्थम्। “अश्व-मेध-सहस्रं च सत्यं च तुलया धृतम्। अश्व-मेध-सहस्राच् च सत्यम् एकं विशिष्यते” (MBhAsv.74.103) इति स्मृतेः॥
Yad, vai, etad, evam, √vid, apahatya, pāpman, an-anta, svar-ga, loka, jyeya, prati-√sthā, prati-√sthā.
यः [पुरुषः] वै [एव] एतां [ब्र्रह्म-विद्यां केन-उपनिषद्] एवं [यथा-उक्तं] वेद [जानाति]। [सः पुरुषः] अपहत्य [नष्ट्वा] पाप्मानम्, अन्-अन्ते स्वर्गे [सुख-आत्मके] लोके [इह-लोके एव] ज्येये [सर्व-महत्तरे ब्रह्मणि] प्रतितिष्ठति [न पुनर् संसारम् आपद्यते]। प्रतितिष्ठति॥
यो वै_एतां ब्रह्म-विद्याम् “केन_इषितम्” (KenU.1.1) इत्य्-आदिना यथोक्ताम् एवं महा-भागाम् “ब्रह्म ह देवेभ्यः” (KenU.3.1) इत्य्-आदिना स्तुतां सर्व-विद्या-प्रतिष्ठां वेद। “अमृतत्वं हि विन्दते” (KenU.2.4) इति_उक्तम् अपि ब्रह्म-विद्या-फलम् अन्ते निगमयति – अपहत्य पाप्मानम् अविद्या-काम-कर्म-लक्षणं संसार-बीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखात्मके ब्रह्मणि_इत्येतत्। अनन्ते इति विशेषणान् न त्रि-विष्टपे अनन्त-शब्द औपचारिकोऽपि स्याद् इति_अत आह – ज्येये इति। ज्येये ज्यायसि सर्व-महत्तरे स्वात्मनि मुख्ये एव प्रतितिष्ठति। न पुनः संसारम् आपद्यत इत्यभिप्रायः॥

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति केन-उपनिषद् समाप्ता॥