Sorry, your browser does not support JavaScript!
Go
Top
कठ उपनिषद्
with शङ्कर-भाष्यम्


Vallī 1.1 (1) Vallī 1.2 (2) Vallī 1.3 (3) Vallī 2.1 (4) Vallī 2.2 (5) Vallī 2.3 (6)

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Kaṭha-Upaniṣad (also called Kāṭhaka-Upaniṣad), from the Kṛṣṇa Yajur Veda, presents a story dialogue between Lord Death and the young student Naciketas. What is important to know before one dies is taught as Brahma Vidyā, with Nacikata showing the necessity of the student choosing this teaching over any distracting temptation.

ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.
सः ह नै अवतु। सः ह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनौ [=तेजस्विनोः आवयोः] अधीतं अस्तु (अथवा, नौ अधीतं तेजस्वि अस्तु)। मा विद्विषावहै। ओम् शान्तिः शान्तिः शान्तिः॥
(शङ्कर-भाष्यम्)

ओम् नमो भगवते वैवस्वताय मृत्यवे ब्रह्म-विद्याचार्याय नचिकेतसे च॥

अथ काठकोपनिषद्-वल्लीनां सुखार्थ-प्रबोधनार्थम् अल्प-ग्रन्था वृत्तिर् आरभ्यते। सदेर् धातोर् विशरण-गत्य्-अवसादनार्थस्य उप-नि-पूर्वस्य क्विप्-प्रत्ययान्तस्य रूपम् उपनिषद् इति। उपनिषच्-छब्देन च व्याचिख्यासित-ग्रन्थ-प्रतिपाद्य-वेद्य-वस्तु-विषया विद्योच्यते। केन पुनर् अर्थ-योगेन उपनिषच्-छब्देन विद्योच्यते इत्य् उच्यते। ये मुमुक्षवो दृष्टानुश्रविक-विषय-वितृष्णाः सन्त उपनिषच्-छब्द-वाच्यां वक्ष्यमाण-लक्षणां विद्याम् उपसद्योपगम्य तन्-निष्ठतया निश्चयेन शीलयन्ति तेषाम् अ-विद्यादेः संसार-बीजस्य विशरणाद् धिंसनाद् विनाशनाद् इत्य् अनेनार्थ-योगेन विद्या उपनिषद् इति उच्यते। तथा च वक्ष्यति निचाय्य तं मृत्यु-मुखात् प्रमुच्यते (KathU.1.3.15)। पूर्वोक्त-विशेषणान् मुमुक्षून् वा परं ब्रह्म गमयतीति ब्रह्म-गमयितृत्वेन योगाद् ब्रह्म-विद्योपनिषत्। तथा च वक्ष्यति ब्रह्म-प्राप्तो विरजोऽभूद् वि-मृत्युः (KathU.2.3.18) इति।
लोकादिर् ब्रह्म-ज-ज्ञो योऽग्निस् तद्-विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्ग-लोक-फल-प्राप्ति-हेतुत्वेन गर्भ-वास-जन्म-जराद्य्-उपद्रव-वृन्दस्य लोकान्तरे पौनः-पुन्येन प्रवृत्तस्य अवसादयितृत्वेन शैथिल्या-पादनेन धात्व्-अर्थ-योगाद् अग्नि-विद्याप्य् उपनिषद् इत्य् उच्यते। तथा च वक्ष्यति “स्वर्ग-लोका अ-मृतत्वं भजन्ते” (KathU.1.1.13) इत्यादि।
ननु च उपनिषच्-छब्देन अध्येतारः ग्रन्थम् अप्य् अभिलपन्ति, ‘उपनिषदम् अधीमहे, अध्यापयामः’ इति च। एवं नैष दोषः। अ-विद्यादि-संसार-हेतु-विशरणादेः सदि-धात्व्-अर्थस्य ग्रन्थ-मात्रे अ-सम्भवाद् विद्यायां च सम्भवात्। ग्रन्थस्यापि ताद्-अर्थ्येन तच्-छब्दत्वोपपत्तेः। “आयुर् वै घृतम्” (TaitSam.2.3.11) इत्य्-आदिवत्। तस्माद् विद्यायां मुख्यया वृत्त्या उपनिषच्-छब्दो वर्त्तते, ग्रन्थे तु भक्त्या इति।
एवम् उपनिषच्-छब्द-निर्वचनेनैव विशिष्टोऽधिकारी विद्यायाम् उक्तः। विषयश् च विशिष्ट उक्तः विद्यायाः परं ब्रह्म प्रत्यग्-आत्म-भूतम्। प्रयोजनं च अस्या उपनिषदः आत्यन्तिकी संसार-निवृत्तिर् ब्रह्म-प्राप्ति-लक्षणा। सम्बन्धश् च एवं-भूत-प्रयोजनेन उक्तः। अतो यथोक्ताधिकारि-विषय-प्रयोजन-सम्बन्धाया विद्यायाः कर-तल-न्यस्तामलकवत् प्रकाशकत्वेन विशिष्टाधिकारि-विषय-प्रयोजन-सम्बन्धा एता वल्ल्यो भवन्ति इत्य् अतस् ता यथा-प्रतिभानं व्याचक्ष्महे॥

Go to Top ('Home' key on many Windows browsers)

uśat, ha, vai, vāja-śravas [-śravasa], sarva-vedas, √dā. tad, ha, naciketas, nāma, putra, √as.
[स्वर्-गं] उशन् ह वै, वाज-श्रवसः [नाम] सर्व-वेदसं ददै। तस्य ह नचिकेताः नाम पुर्त्रः आस॥
तत्र आख्यायिका विद्या-स्तुत्यर्था –
उशन् कामयमानः ह वा इति वृत्तार्थ-स्मरणार्थौ निपातौ। वाजम् अन्नं तद्-दानादि-निमित्तं श्रवो यशो यस्य स वाज-श्रवा, रूढितो वा। तस्यापत्यं वाज-श्रवसः किल विश्वजिता सर्व-मेधेन ईजे तत्-फलं कामयमानः। स तस्मिन् क्रतौ सर्व-वेदसं सर्व-स्वं धनं ददौ दत्तवान्। तस्य यजमानस्य ह नचिकेता नाम पुत्रः किल आस बभूव॥
tad, ha, kumāra, sat, dakṣiṇā, nīyamānā, śrad-dhā, ā-√viś, tad, √man.
तं कुमारं सन्तं दक्षिनासु नीयमानासु श्रद्-धा आविवेश। सः [नचिकेताः] अमन्यत॥
तं ह नचिकेतसं कुमारं प्रथम-वयसं सन्तम् अ-प्राप्त-प्रजनन-शक्तिं बालम् एव श्रद्धा आस्तिक्य-बुद्धिः, पितुर् हित-काम-प्रयुक्ता आविवेश प्रविष्टवती। कस्मिन् काले इत्य् आह – ऋत्विग्भ्यः सदस्येभ्यश् च दक्षिणासु नीयमानासु विभागेन उपनीयमानासु दक्षिणार्थासु गोषु। आविष्ट-श्रद्धो नचिकेता अमन्यत
pīta-udakā, jagdha-tṛṇā, dugdha-dohā, nis-indriyā;
a-nanda, nāma, tad, loka, tad, tad, √gam, tad, √dā.

[यः] ताः पीत-उदकाः जग्ध-तृणाः दुग्ध-दोहाः निर्-इन्द्रियाः ददत्, सः तान् गच्छति [ये] “ते लोकाः अ-नन्दाः” नाम॥
कथम् इत्य् उच्यते? –
“पीतोदका” इत्य्-आदिना दक्षिणार्था गावो विशेष्यन्ते। पीतोदकाः पीतम् उदकं याभिस् ताः पीतोदकाः। जग्ध-तृणा जग्धं भक्षितं तृणं याभिस् ता जग्ध-तृणाः। दुग्ध-दोहा दुग्धो दोहः क्षीराख्यो यासां ता दुग्ध-दोहाः। निर्-इन्द्रिया अ-प्रजनन-समर्था जीर्णा निष्-फला गाव इत्य् अर्थः। यास् ता एवं-भूता गा ऋत्विग्भ्यो दक्षिणा-बुद्ध्या ददत् प्रयच्छन्न् अ-नन्दा अन्-आनन्दा अ-सुखा नाम इत्य् एतत्। ये ते लोकास् तान् स यजमानो गच्छति
tad, ha, √vac, pitṛ, tata, kim, asmad, √dā?, iti;
dvitīyam, tṛtīyam, tad, pitṛ, ha, √vac. mṛtyu, yuṣmad, √dā, iti.

सः ह पितरं उवाच “तत कस्मै मां दास्यसि” इति द्वितीयं तृतीयम्। [पिता] तं ह उवाच “मृत्यवे त्वा ददामि” इति॥
तद् एवं क्रत्व्-अ-सम्पत्ति-निमित्तं पितुर् अन्-इष्टं फलं मया पुत्रेण सता निवारणीयम् आत्म-प्रदानेनापि क्रतु-सम्पत्तिं कृत्वा इत्य् एवं मत्वा पितरम् उपगम्य स होवाच पितरम्। हे तत तात, कस्मै ऋत्विग्-विशेषाय दक्षिणार्थं मां दास्यसि प्रयच्छसि इति एतत्। एवम् उक्तेन पित्रा उपेक्ष्यमाणोऽपि द्वितीयं तृतीयम् अपि उवाच ‘कस्मै मां दास्यसि, कस्मै मां दास्यसि’ इति। ‘नायं कुमार-स्व-भाव’ इति क्रुद्धः सन् पिता तं ह पुत्रं किल उवाचमृत्यवे वैवस्वताय त्वा त्वां ददामिइति
bahu, √i, prathama, bahu, √i, madhyama;
kim-svid, yama, kartavya, yad, asmad, adya, √kṛ.

बहूनां प्रथमः एमि, बहूनां मध्यमः एमि, किं-स्विद् यमस्य कर्तव्यं यद् [पिता] मया [दत्तेन] अद्य करिष्यति?
स [नचिकेताः] एवम् उक्तः पुत्र एकान्ते परिदेवयाञ्चकार – कथम्? इत्य् उच्यते –
बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन् मुख्यया शिष्यादि-वृत्त्या इत्य् अर्थः। मध्यमानां च बहूनां मध्यमः मध्यमयैव वृत्त्या एमि। न_अधमया कदाचिद् अपि। तम् एवं विशिष्ट-गुणम् अपि पुत्रं मां ‘मृत्यवे त्वा ददामि’ इत्य् उक्तवान् पिता। स किंस्विद् यमस्य कर्त्तव्यं प्रयोजनं मया प्रत्तेन करिष्यति यत् कर्त्तव्यम् अद्य। नूनं प्रयोजनम् अन्-अपेक्ष्यैव क्रोध-वशाद् उक्तवान् पिता॥
anu-√dṛś, yathā, pūrva, prati-√dṛś, tathā, apara;
sasya, iva, martya, √pac, sasya, iva, ā-√jan, punar.

यथा पूर्वे [वृतान्] अनुपश्य, तथा अपरे [वर्तमानान्] प्रतिपश्य। सस्यम् इव मर्त्यः पच्यते, सस्यम् इव पुनः आजायते॥
तथापि तत् पितुः वचो मृषा मा भूद् इत्य् एवं मत्वा परिदेवना-पूर्वकम् आह पितरं शोकाविष्टं किं मयोक्तम् इति –
अनुपश्य आलोचय निभालय अनु क्रमेण यथा येन प्रकारेण वृत्ताः पूर्वे अतिक्रान्ताः पितृ-पिता-महादयस् तव। तान् दृष्ट्व च तेषां वृत्तम् आस्थातुम् अर्हसि। वर्त्तमानाश् च अपरे साधवो यथा वर्त्तन्ते तांश् च प्रतिपश्य आलोचय तथा। न च तेषु मृषा-करणं वृत्तं वर्त्तमानं वा अस्ति। तद्-विपरीतम् अ-सतां च वृत्तं मृषा-करणम्। न च मृषा कृत्वा कश्चिद् अ-जरामरो भवति। यतः सस्यम् इव मर्त्यो मनुष्यः पच्यते जीर्णो म्रियते। मृत्वा च सस्यम् इव आजायते आविर्भवति पुनः। एवम् अ-नित्ये जीव-लोके किं मृषा-करणेन। पालय आत्मनः सत्यम्, प्रेषय मां यमाय इत्य् अभिप्रायः॥
vaiśvā-nara, pra-√viś, a-tithi, brāhmaṇa, gṛha;
tad, etad, śānti, √kṛ, √hṛ, vaivasvata, udaka.

वैश्वा-नरः ब्राह्मणः अ-तिथिः गृहान् प्रविशति, तस्य एतां शान्तिं कुर्वन्ति, वैवस्वत उदकं हर॥
स एवम् उक्तः पिता आत्मनः सत्यतायै प्रेषयाम्-आस। स च यम-भवनं गत्वा तिस्रो रात्रीर् उवास यमे प्रोषिते। प्रोष्यागतं यमम् अमात्या भार्या वा ऊचुर् बोधयन्तः –
वैश्वा-नरोऽग्निर् एव साक्षात् प्रविशति अ-तिथिः सन् ब्राह्मणो गृहान् दहन्न् इव। तस्य दाहं शमयन्त इव अग्नेर् एतां पाद्यासनादि-दान-लक्षणां शान्ति कुर्वन्ति सन्तोऽतिथर् यतः, अतो हर आहर हे वैवस्वत उदकम् नचिकेतसे पाद्यार्थम्। यतश् च अ-करणे प्रत्यवायः श्रूयते॥
āśā-pratīkṣa, saṅ-gata, sū-nṛtā, ca, iṣṭā-pūrta, putra-paśya, ca, sarva;
etad, √vṛj, puruṣa, alpa-medhas, yad, an-aśnat, √vas, brāhmaṇa, gṛha.

यस्य अल्प-मेधसः पुरुषस्य गृहे ब्राह्मणः अन्-अश्नन् वसति, सर्वान् आशा-प्रतीक्षे सङ्गतं सू-नृतां इष्टा-पूर्ते च पुत्र-पशून् च – एतद् वृङ्क्ते॥
आशा-प्रतीक्षे अ-निर्ज्ञात-प्राप्येष्टार्थ-प्रार्थना आशा, निर्ज्ञात-प्राप्यार्थ-प्रतीक्षणं प्रतीक्षा, ते आशा-प्रतीक्षे। सङ्गतं सत्-संयोग-जं फलम्। सू-नृतां च सू-नृता हि प्रिया-वाक्, तन्-निमित्तं च। इष्टा-पूर्त्ते* इष्टं याग-जं, पूर्त्तम् आरामादि-क्रिया-जं फलम्। पुत्र-पशूंश् च पुत्रांश् च पशूंश् च सर्वान् एतत् सर्वं यथोक्तं वृङ्क्ते आवर्जयति विनाशयति इत्य् एतत्। पुरुषस्य अल्प-मेधसोऽल्प-प्रज्ञस्य यस्य अन्-अश्नन्न् अ-भुञ्जानो ब्राह्मणो गृहे वसति। तस्माद् अन्-उपेक्षणीयः सर्वावस्थास्व् अप्य् अ-तिथिर् इत्य् अर्थः॥
(*वापी-कूप-तडागादि देवतायतनानि च।
अन्न-प्रदानम् आरामः पूर्तम् इत्य् अभिधीयते॥
अग्नि-होत्रं तपः सत्यं वेदानां चानुपालनम्।
आ-तिथ्यं वैश्व-देवं च इष्टम् इत्य् अभिधीयते॥)
tisṛ, rātrī, yad, √vas, gṛha, asmad, an-aśnat, brahman, a-tithi, namasya;
namas, yuṣmad, √as, brahman, su-asti, asmad, √as, tad, prati, tri, vara, √vṛ.

ब्रह्मन्, यद् [=यस्मात्] नमस्यः अ-तिथिः अन्-अश्नन् मे गृहे तिस्रः रात्रीः अवात्सीः, नमस् ते अस्तु। ब्रह्मन्, तस्मात् [प्रत्यवाय-दोषात्] सु-अस्ति मे अस्तु। [तिस्रः रात्रीः] प्रति त्रीन् वरान् वृणीष्व॥
एवम् उक्तो मृत्युर् उवाच नचिकेतसं समुपगम्य पूजा-पुरस्सरम् –
तिस्रो रात्रीः यद् यस्माद् अवात्सीर् उषितवान् असि गृहे मे मम अन्-अश्नन् हे ब्रह्मन्न् अ-तिथिः सन् नमस्यो नमस्कारार्हश् च। तस्माद् नमस् ते तुभ्यम् अस्तु भवतु। हे ब्रह्मन् स्व्-अस्ति भद्रं मेऽस्तुतस्माद् भवतोऽन्-अशनेन मद्-गृह-वास-निमित्ताद् दोषात् तत्-प्राप्त्य्-उपशमेन। यद्य्-अपि भवद् अनुग्रहेण सर्वं मम स्व्-अस्ति स्यात् तथापि त्वद्-अधिक-सम्प्रसादनार्थम् अन्-अशनेन उषिताम् एकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व अभिप्रेतार्थ-विशेषान् प्रार्थयस्व मत्तः॥
śānta-saṅkalpa, su-manas, yathā, √as, vīta-manyu, gautama, asmad, abhi, mṛtu;
tvad-prasṛṣṭa, asmad, abhi-√vad, pratīta, etad, traya, prathama, vara, √vṛ.

मृत्यो, [मम पिता] गौतमः मा अभि शान्त-सङ्कल्पः, सु-मनाः, वीत-मन्युः यथा स्यात्। प्रतीतः त्वद्-प्रसृष्टं मा अभिवदेत्। एतद् त्रयाणां प्रथमं वरं वृणे॥
नचिकेतास् त्व् आह, यदि दित्सुर् वरान् भगवन् –
शान्त-सङ्कल्प उपशान्तः सङ्कल्पो यस्य मां प्रति यमं प्राप्य किं नु करिष्यति मम पुत्र इति स शान्त-सङ्कल्पः। सु-मनाः प्रसन्न-मनाश् च यथा स्याद् वीत-मन्युर् विगत-रोषश् च गौतमो मम पिता मा अभि मां प्रति हे मृत्यो। किञ्च त्वत्-प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मा माम् अभिवदेत् प्रतीतो लब्ध-स्मृतिः स एवायं पुत्रो ममागत इत्य् एवं प्रत्यभिजानन्न् इत्य् अर्थः। एतत् प्रयोजनं त्रयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये, यत् पितुः परितोषणम्॥
yathā, purastāt, √bhū, pratīta, auddālaki āruṇi [vāja-śravas], mad-prasṛṣṭa;
sukham, rātrī, √śī, vīta-manyu, yuṣmad, dadṛśivas, mṛtu-mukha, pramukta.

यथा पुरस्तात् [तथा] भविता। त्वां मृत्यु-मुखात् प्रमुक्तं ददृशिवान्, प्रतीतः मद्-प्रसृष्टः [मयानुज्ञातः इत्य् अर्थः] वीत-मन्युः [च] औद्दालकिः आरुणिः रात्रीः सुखं शयिता॥
ततो मुत्युर् उवाच –
यथा बुद्धिस् त्वयि पुरस्तात् पूर्वम् आसीत् स्नेह-समन्विता पितुस् तव भविता प्रीति-समन्वितस् तव पिता तथैव प्रतीतः प्रतीतवान् सन्न् औद्दालकिर् उद्दालक एव औद्दालकिः। अरुणस्यापत्यम् आरुणिर्, द्व्य्-आमुष्यायणो वा। मत्-प्रसृष्ठो मयानुज्ञातः सन्न् इतरा अपि रात्रीः सुखं प्रसन्न-मनाः शयिता स्वप्ता। वीत-मन्युर् विगत-मन्युश् च भविता स्यात्, त्वां पुत्रं ददृशिवान् दृष्टवान् सन् मृत्यु-मुखाद् मृत्यु-गोचरात् प्रमुक्तं सन्तम्॥
svar-ga, loka, na, bhaya, kim-cana, √as, na, tatra, yuṣmad, na, jarā, √bhī;
ubha, tīrtvā, aśanāyā-pipāsā, śoka-atiga, √mud, svar-ga-loka.

न किञ्चन भयं स्वर्गे लोके अस्ति। न त्वं तत्र, जरया [विना] न [त्वतस्] बिभेति। उभे अशनाया-पिपासे तीर्त्वा शोक-अतिगः स्वर्ग-लोके मोदते॥
नचिकेता उवाच –
स्वर्गे लोके रोगादि-निमित्तं भयं किञ्चन किञ्चिद् अपि न अस्तितत्र त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह-लोकवत् त्वत्तो न बिभेति कुतश्चित् तत्र। किञ्च उभे अशनाया-पिपासे तीर्त्वा अतिक्रम्य शोकम् अतीत्य गच्छति इति शोकाति-गः सन् मानसेन दुःखेन च वर्जितो मोदते हृष्यति स्वर्ग-लोके दिव्ये॥
tad, yuṣmad, agni, svar-gya, adhi-√i, mṛtyu, pra-√brū, yuṣmad, śrad-dadhāna, asmad;
svar-ga-loka, a-mṛtatva, √bhaj, etad, dvitīya, √vṛ, vara.

मृत्यो, सः त्वं स्वर्ग्यम् अग्निं अध्येषि। त्वं मह्यं श्रद्-दधानाय प्रब्रूहि। स्वर्ग-लोकाः अ-मृतत्वं भजन्ते। एतद् द्वितीयेन वरेण वृणे॥
एवं-गुण-विशिष्टस्य स्वर्ग-लोकस्य प्राप्ति-साधन-भूतम् अग्निं स्वर्ग्यं स त्वं मृत्युर् अध्येषि स्मरसि जानासि इत्य् अर्थः हे मृत्यो यतस्, त्वं प्रब्रूहि कथय श्रद्-दधानाय श्रद्-धावते मह्यम् स्वर्गार्थिने। येनाग्निना चितेन स्वर्ग-लोकाः स्वर्गो लोको येषां ते स्वर्ग-लोका यजमाना अ-मृतत्वम् अ-मरणतां देवत्वं भजन्ते प्राप्नुवन्ति। तद् एतद् अग्नि-विज्ञानं द्वितीयेन वरेण वृणे
pra, yuṣmad, √brū, tad, u, asmad, ni-√budh, svar-gya, agni, naciketas, prajānat;
an-anta-loka-āpti, atha-u, pratiṣṭhā, √vid, yuṣmad, etad, nihita, guḥā.

नचिकेतस्, स्वर्गम् अग्निं प्रजानन् ते प्र ब्रवीमि। तद् उ मे निबोध। अन्-अन्त-लोक-आप्तिम् अथो प्रतिष्ठां, एतं त्वं गृहायां निहितं विद्धि॥
मृत्योः प्रतिज्ञेयम् –
ते तुभ्यं प्रब्रवीमि यत् त्वया प्रार्थितं तद् उ मे मम वचसो निबोध बुध्यस्व एकाग्र-मनाः सन्, स्वर्ग्यं स्वर्गाय हितं स्वर्ग-साधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञातवान् सन्न् अहम् इत्य् अर्थः। “प्रब्रवीमि” “तन् निबोध” इति च शिष्य-बुद्धि-समाधानार्थं वचनम्। अधुनाग्निं स्तौति – अन्-अन्त-लोकाप्तिं स्वर्ग-लोक-फल-प्राप्ति-साधनम् इत्य् एतत्। अथो अपि प्रतिष्ठाम् आश्रयं जगतो विराड्-रूपेण, तम् एतम् अग्निं मयोच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायां विदुषां बुद्धौ निविष्टम् इत्य् अर्थः॥
loka-ādi, agni, tad, √vac, tad, yad, iṣṭakā, yāvatī, vā, yathā, vā;
tad, ca, api, tad, prati-√vad, yathā-ukta, atha, idam, mṛtyu, punar, eva, √ah, tuṣṭa.

तस्मै तम् अग्निं लोक-आदिं, याः इष्टकाः यावतीः वा, यथा वा उवाच। सः [नचिकेताः] च अपि तद् यथा-उक्तं प्रत्यवदत्। अथ अस्य तुष्टः मृत्युः पुनर् एव आह॥
इदं श्रुतेर् वचनम् –
लोकादिं लोकानाम् आदिं प्रथम-शरीरित्वाद् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच उक्तवान् मृत्युस् तस्मै नचिकेतसे। किञ्च, या इष्टकाश् चेतव्याः स्व-रूपेण, यावतीर् वा सङ्ख्यया, यथा वा चीयते अग्निर् येन प्रकारेण, सर्वम् एतद् उक्तवान् इत्य् अर्थः। स चापि नचिकेताः तद् मृत्युना उक्तं यथावत् प्रत्य्-अयेन_अवदत् प्रत्युच्चारितवान्। अथास्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनर् एवाह वर-त्रय-व्यतिरेकेणान्यं वरं दित्सुः॥
tad, √brū, prīyamāna, mahā-ātman,
vara, yuṣmad, iha, adya, √dā, bhūya;
yuṣmad, eva, nāman, √bhū, idam, agni, sṛṅkā, ca, idam, an-eka-rūpa, √grah.

महा-आत्मा प्रीयमाणः तम् अब्रवीत् – तव इह अद्य भूयः वरं ददामि। अयं अग्निः तव एव नाम्ना भविता, इमां च अन्-एक-रूपां सृङ्कां गृहाण॥
कथम्? –
तं नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्य-योग्यतां पश्यन् प्रीयमाणः प्रीतिम् अनुभवन् महात्मा अ-क्षुद्र-बुद्धिः। वरं तव चतुर्थम् इह प्रीति-निमित्तम् अद्य इदानीं ददामि भूयः पुनः प्रयच्छामि। तवैव नचिकेतसो नाम्ना अभिधानेन प्रसिद्धो भविता मयोच्यमानोऽयम् अग्निः। किञ्-, सृङ्कां शब्दवतीं रत्नमयीं मालाम् इमाम् अन्-एक-रूपां विचित्रां गृहाण स्वी-कुरु। यद्-वा, सृङ्काम् अ-कुत्सितां गतिं कर्ममयीं गृहाण। अन्यद् अपि कर्म-विज्ञानम् अन्-एक-फल-हेतुत्वात् स्वी-कुरु इत्य् अर्थः॥
tri-nāciketas, tri, etya, sandhi, tri-karma-krt, √tṝ, janma-mṛtyu;
brahma-ja-jña, deva, īḍya, viditvā, nicāyya, idam, śānti, ati-anta, √i.

त्रिभिः सन्धिं एत्य त्रि-नाचिकेतस् त्रि-कर्म-कृत् जन्म-मृत्यू तरति। ब्रह्म-ज-ज्ञं ईड्यं देवं विदित्वा निचाय्य [च], इमां शान्तिम् अति-अन्तम् एति॥
पुनर्-अपि कर्म-स्तुतिम् एवाह –
त्रि-णाचिकेतस् त्रिः कृत्वो नाचिकेतोऽग्निश् चितो येन स त्रि-णाचिकेतस्, तद्-विज्ञानस् तद्-अध्ययनस् तद्-अनुष्ठानवान् वा। त्रिभिर् मातृ-पित्राचार्यैर् एत्य प्राप्य सन्धिं सन्धानं सम्बन्धम्। मात्राद्य्-अनुशासनं यथावत् प्राप्य इत्य् एतत्। तद् धि प्रामाण्य-कारणं श्रुत्य्-अन्तराद् अवगम्यते “यथा मातृमान् पितृमान् आचर्यवान् ब्रूयाद्” इत्य्-आदेः (BrhU.4.1.2)। वेद-स्मृति-शिष्टैर्वा, प्रत्यक्षानुमानागमैर् वा। तेभ्यो हि विशुद्धिः प्रत्यक्षा। त्रि-कर्म-कृद् इज्याध्ययन-दानानां कर्त्ता तरति अतिक्रामति जन्म-मृत्यू। किञ्च, ब्रह्म-ज-ज्ञं ब्रह्मणो हिरण्य-गर्भाज् जातो ब्रह्म-जो, ब्रह्म-जश् चासौ ज्ञश् चेति ब्रह्म-ज-ज्ञः। सर्व-ज्ञो ह्य् असौ। तं देवं द्योतनाज् ज्ञानादि-गुणवन्तम्, ईड्यं स्तुत्यं विदित्वा शास्त्रतो, निचाय्य दृष्ट्वा च आत्म-भावेन इमां स्व-बुद्धि-प्रत्यक्षां शान्तिम् उपरतिम् अत्यन्तम् एति अतिशयेन एति। वैराजं पदं ज्ञान-कर्म-समुच्चयानुष्ठानेन प्राप्नोति इत्य् अर्थः॥
tri-nāciketas, traya, etad, viditvā, yad, evam, vidvas, √ci, nāciketa;
tad, mṛtyu-pāśa, puratas, praṇodya, śoka-atiga, √mud, svar-ga-loka.

यः एतद् त्रयं विदित्वा, एवं विद्वान्, नाचिकेतं चिनुते, सः त्रि-नाचिकेतस् मृत्यु-पाशान् पुरतस् प्रणोद्य, शोक-अतिगः, स्वर्ग-लोके मोदते॥
इदानीम् अग्नि-विज्ञान-चयन-फलम् उपसंहरति, प्रकरणं च –
त्रि-णाचिकेतस् त्रयं यथोक्तम् या इष्टका, यावतीर् वा, यथा वा इति एतद् विदित्वा अवगम्य यश्एवम् आत्म-रूपेण अग्निं विद्वान् चिनुते निर्वर्त्तयति नाचिकेतम् अग्निं क्रतुम्, स मृत्यु-पाशान् अ-धर्माज्ञान-राग-द्वेषादि-लक्षणान् पुरतोऽग्रतः, पूर्वम् एव शरीर-पाताद् इत्य् अर्थः। प्रणोद्य अपहाय, शोकातिगो मानसैर् दुःखैर् वर्जित इत्य् एतत्। मोदते स्वर्ग-लोके वैराजे विराडात्म-स्व-रूप-प्रतिपत्त्या॥
etad, yuṣmad, agni, nacitatas, svar-gya, yad, √vṛ, dvitīya, vara;
etad, agni, yuṣmad, eva, pra-√vac, janas, tṛtīya, vara, naciketas, √vṛ.

नचिकेतस्, एषः स्वर्ग्यः अग्निः ते, यं द्वितीयेन वरेण अवृणीथाः। जनासः एतम् अग्निं तव एव प्रवक्ष्यन्ति। नचिकेतस्, तृतीयं वरं वृणीष्व॥
एष ते तुभ्यम् अग्निर् वरो हे नचिकेतः स्वर्ग्यः स्वर्ग-साधनः। यम् अग्निं वरम् अवृणीथा वृतवान् प्रार्थितवान् असि द्वितीयेन वरेण, सोऽग्निर् वरो दत्त इत्य् उक्तोपसंहारः। किञ्च, एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासो जना इत्य् एतत्। एष वरो दत्तो मया चतुर्थस् तुष्टेन। तृतीयं वरं नचिकेतो वृणीष्व। तस्मिन् ह्य् अ-दत्ते ‘ऋणवान् अहम्’ इत्य् अभिप्रायः।
एतावद् धि अतिक्रान्तेन विधि-प्रतिषेधार्थेन मन्त्र-ब्राह्मणेन अवगन्तव्यं यद् वर-द्वय-सूचितं वस्तु, नात्म-तत्त्व-विषय-याथात्म्य-विज्ञानम्। अतो विधि-प्रतिषेधार्थ-विषयस्य आत्मनि क्रिया-कारक-फलाध्यारोपण-लक्षणस्य स्वा-भाविकस्य_अज्ञानस्य संसार-बीजस्य निवृत्त्य्-अर्थं तद्-विपरीत-ब्रह्मात्मैकत्व-विज्ञानं क्रिया-कारक-फलाध्यारोपण-लक्षण-शून्यम् आत्यन्तिक-निःश्रेयस-प्रयोजनं वक्तव्यम् इत्य् उत्तरो ग्रन्थ आरभ्यते। तम् एतम् अर्थं द्वितीय-वर-प्राप्त्या_अप्य् अ-कृतार्थत्वं तृतीय-वर-गोचरम् आत्म-ज्ञानम् अन्तरेण इत्य् आख्यायिकया प्रपञ्चयति। यतः पूर्वस्मात् कर्म-गोचरात् साध्य-साधन-लक्षणाद् अ-नित्याद् विरक्तस्य आत्म-ज्ञानेऽधिकार इति तन्-निन्दार्थं पुत्राद्य्-उपन्यासेन प्रलोभनं क्रियते॥
yad, idam, preta, vicikitsā, manuṣya, √as, iti, eka, na, idam, √as, iti, ca, eka;
etad, √vid, anuśiṣṭa, yuṣmad, asmad, vara, etad, vara, tṛtīya.

या इयं विचिकित्सा – मनुष्ये प्रेते, “[कथंचित्-देह-आदि-व्यतिरिक्त-आत्मा] अस्ति” इति एके, “अयं न अस्ति” इति च एके। त्वया अनुशिष्टः अहं एतद् विद्याम्। एषः वराणां तृतीयः वरः॥
नचिकेता उवाच तृतीयं वरं नचिकेतो वृणीष्व इत्य् उक्तः सन् –
येयं विचिकित्सा संशयः प्रेते मृते मनुष्ये, अस्ति इत्य् एके अस्ति शरीरेन्द्रिय-मनो-बुद्धि-व्यतिरिक्तो देहान्तर-सम्बन्ध्य् आत्मा इत्य् एके मन्यन्ते। नायम् अस्ति इति चैके नायम् एवं-विधोऽस्ति इति चैके। अतश् चास्माकं न प्रत्यक्षेण नापि वा अनुमानेन निर्णय-विज्ञानम्। ‘एतद् विज्ञानाधीनो हि परः पुरुषार्थ’ इत्य् अत एतद् विद्यां विजानीयाम् अहम् अनुशिष्टो ज्ञापितस् त्वयावराणाम् एष वरस् तृतीयोऽवशिष्टः॥
deva, atra, api, vicikitsita, purā, na, hi, su-vijñeya, aṇu, etad, dharma;
anya, vara, naciketas, √vṛ, mā, asmad, upa-√rudh, ati, asmad, √sṛj, enad.

अत्र देवैः अपि पुरा विचिकित्सितम्। एषः हि धर्मः अणुः। न सु-विज्ञेयम्। नचिकेतस्, अन्यं वरं वृणीष्व। मा मा उपरोत्सीः। मा [प्रति] एनं अति सृज॥
किम् अयम् एकान्ततो निःश्रेयस-साधनात्म-ज्ञानार्हो, न वा, इत्य् एतत् परीक्षणार्थम् आह –
देवैर् अपि अत्र एतस्मिन् वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम्। न हि सु-विज्ञेयं सुष्ठु विज्ञेयं श्रुतम् अपि प्राकृतैर् जनैः। यतोऽणुः सूक्ष्म एष आत्माख्यो धर्मः। अतोऽन्यम् अ-सन्दिग्ध-फलं वरं नचिकेतो वृणीष्वमा मां मा उपरोत्सीर् उपरोधं मा कार्षीर् अधमर्णम् इव उत्तमर्णः [अधम-ऋणम् इव उत्तम-ऋणः]। अतिसृज विमुञ्च एनं वरं मा मां प्रति॥
deva, atra, api, vicikitsita, kila, yuṣmad, ca, mṛtyu, yad, na, su-jñeya, √ah;
vaktṛ, ca, idam, tvā-dṛś, anya, na, labhya, na, anya, vara, tulya, etad, ka-cid.

देवैः अपि अत्र विचिकित्सितं किल। मृत्यो, यद् च त्वं न सु-ज्ञेयम् आत्थ, अस्य च अन्यः वक्ता त्वा-दृक् न लभ्यः, [तस्माद्] न कश्चिद् अन्यः वरः एतस्य तुल्यः॥
एवम् उक्तो नचिकेता उवाच –
“देवैर् अत्रापि एतस्मिन् वस्तुनि विचिकित्सितं किल” इति भवत एव नः श्रुतम्। त्वं च मृत्यो यद् यस्मान् न सु-विज्ञेयम् आत्म-तत्त्वम् आत्थ कथयसि, अतः पण्डितैर् उपदेशनीयत्वाद् (अप्य् अ-वेदनीयत्वाद्) वक्ता च अस्य धर्मस्य त्वा-दृक् त्वत्-तुल्योऽन्यः पण्डितश् च न लभ्योऽन्विष्यमाणोऽपि। अयं तु वरो निःश्रेयस-प्राप्ति-हेतुः। अतो नान्यो वरस् तुल्यः स-दृशोऽस्ति एतस्य कश्चिद् अपि। अ-नित्य-फलत्वाद् अन्यस्य सर्वस्यैव इत्य् अभिप्रायः॥
śata-āyus, putra-pautra, √vṛ, bahu, paśu, hasti-hiraṇya, aśva;
bhūmi, mahat, āyatana, √vṛ, svayam, ca, √jīv, śarad, yāvat, √iṣ.

शत-आयुषः पुत्र-पौत्रान्, बहून् पशून्, हस्ति-हिरण्यम्, अश्वान् [च] वृणीष्व। भूमेः महत् आयतनं वृणीष्व। यावत् च शरदः इच्छसि, [तावत् त्वं] स्वयं जीव॥
एवम् उक्तोऽपि पुनः प्रलोभयन्न् उवाच मृत्युः –
शतायुषः शतं वर्षाणि आयूंषि येषां ताञ् छतायुषः पुत्र-पौत्रान् वृणीष्व। किञ्च, गवादि-लक्षणान् बहून् पशून्हस्ति-हिरण्यं हस्ती च हिरण्यं च हस्ति-हिरण्यम्। अश्वांश् च। किञ्च, भूमेः पृथिव्या महद् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व। किञ्च, सर्वम् अप्य् एतद् अन्-अर्थकं स्वयं चेद् अल्पायुर् इत्य् अत आह – स्वयं च त्वं जीव धारय शरीरं समग्रेन्द्रिय-कलापं शरदो वर्षाणि यावद् इच्छसि जीवितुम्॥
etad-tulya, yadi, √man, vara, √vṛ, vitta, cira-jīvikā, ca;
mahā-bhūmi, naciketas, yuṣmad, √as, kāma, yuṣmad, kāma-bhāj, √kṛ.

यदि एतत्-तुल्यं वरं मन्यसे – वित्तं चिर-जीविकां च वृणीष्व। नचिकेतस्, त्वं महा-भूमौ एधि। त्वा कामानां काम-भाजं करोमि॥
एतत्-तुल्यम् एतेन यथोपदिष्टेन स-दृशम् अन्यम् अपि यदि मन्यसे वरम्, तम् अपि वृणीष्व। किञ्च, वित्तं प्रभूतं हिरण्य-रत्नादि चिर-जीविकां च सह वित्तेन वृणीष्व इत्य् एतत्। किं बहुना महा-भूमौ महत्यां भूमौ राजा नचिकेतस् त्वम् एधि भव। किञ्चान्यत्। कामानां दिव्यानां मानुषाणां च त्वा त्वां काम-भाजं काम-भागिनं कामार्हं करोमि। सत्य-सङ्कल्पो ह्य् अहं देवः॥
yad, yad, kāma, dus-labha, martya-loka, sarva, kāma, chandatas, pra-√arth;
idam, rāmā, sa-rathā, sa-tūryā, na, hi, ī-dṛśā, lambhanīyā, manuṣya;
idam, mad-prattā, pari-√car, naciketas, maraṇa, mā, anu-√prach.

ये ये कामाः मर्त्य-लोके दुस्-लभाः, सर्वान् कामान् छन्दतस् प्रार्थयस्व। इमाः रामाः स-रथाः स-तूर्याः। ईदृशाः मनुष्यैः न हि लम्भनीयाः। आभिः मद्-प्रत्ताभिः परिचारयस्व। नचिकेतस्, मरणं मा अनुप्राक्षीः॥
ये ये कामाः प्रार्थनीयाः दुर्-लभाःमर्त्य-लोके, सर्वान् तान् कामांश् छन्दत इच्छातः प्रार्थयस्व। किञ्च, इमा दिव्या अप्सरसो, रमयन्ति पुरुषान् इति रामाः, सह रथैर् वर्त्तन्त इति स-रथाः, स-तूर्याः स-वादित्राः। ताश् च न हि लम्भनीयाः प्रापणीया ई-दृशा एवं-विधा मनुष्यैर् मर्त्यैर् अस्मद्-आदि-प्रसादम् अन्तरेण। आभिर् मत्-प्रत्ताभिर् मया प्रदत्ताभिः परिचारिणीभिः परिचारयस्व आत्मानम्, पाद-प्रक्षालनादि-शुश्रूषां कारय आत्मन इत्य् अर्थः। हे नचिकेतो मरणं मरण-सम्बद्धं प्रश्नं “प्रेते अस्ति नास्ति” इति (KathU.1.1.20) काक-दन्त-परीक्षा-रूपं मा_अनुप्राक्षीर् मैवं प्रष्टुम् अर्हसि॥
śvas-bhāva, martya, yad, antaka, etad, sarva-indriya, √jṝ, tejas;
api, sarva, jīvita, alpa, eva, yuṣmad, eva, vāha, yuṣmad, nṛtya-gīta.

अन्तक, यद् मर्त्यस्य सर्व-इन्द्रियाणां तेजस्, [ते भोगाः] श्वस्-भावाः एतद् जरयन्ति। सर्वम् अपि जीवितम् अल्पम् एव। वाहाः तव एव [तिष्टन्तु], नृत्य-गीते तव॥
मृत्युना एवं प्रलोभ्यमानोऽपि नचिकेता महा-ह्रदवद् अ-क्षोभ्य आह –
श्वो-भावाः ‘श्वो भविष्यन्ति, न भविष्यन्ति वा’ इति संदिह्यमानः एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वो-भावाः। किञ्च, मर्त्यस्य मनुष्यस्य अन्तक, हे मृत्यो, यद् एतत् सर्वेन्द्रियाणां तेजस्, तद् जरयन्ति अपक्षपयन्ति। अप्सरः-प्रभृतयो भोगा अन्-अर्थायैव एते। धर्म-वीर्य-प्रज्ञा-तेजो-यशः-प्रभृतीनां क्षपयितृत्वात्। यां च अपि दीर्घ-जीविकां त्वं दित्ससि तत्रापि श्रृणु। सर्वं यद् ब्रह्मणोऽपि जीवितम् आयुर् अल्पम् एव, किम् उत अस्मद्-आदि-दीर्घ-जीविका। अतस् तवैव तिष्ठन्तु वाहा रथादयः, तथा तव नृत्य-गीते च॥
na, vitta, tarpanīya, manuṣya, √labh, vitta, √dṛś, ced, yuṣmad;
√jīv, yāvat, √īś, yuṣmad, vara, tu, asmad, varaṇīya, tad, eva.

मनुष्यः न वित्तेन तर्पणीयः। त्वा अद्राक्ष्म चेद्, वित्तं लप्स्यामहे। यावत् त्वं ईशिष्यसि, [तावत्] जीविष्यामः। वरः तु मे वरणीयः, सः एव॥
प्रभूतेन वित्तेन तर्पणीयो मनुष्यः। न हि लोके वित्त-लाभः कस्यचित् तृप्ति-करो दृष्टः। यदि नाम अस्माकं वित्त-तृष्णा स्याद्, लप्स्यामहे प्राप्स्यामहे इत्य् एतद् वित्तम्, अद्राक्ष्म दृष्टवन्तो वयं चेत् त्वा त्वाम्। जीवितम् अपि तथैव। जीविष्यामो यावद् याम्ये पदे त्वम् ईशिष्यसि ईशिष्यसे, प्रभुः स्याः। कथं हि मर्त्यस् त्वया समेत्य अल्प-धनायुर् भवेद्? वरस् तु मे वरणीयः स एव यद् आत्म-विज्ञानम्॥
a-jīryatā, a-mṛta, upetya, jīryat, martya, ku-adhas-stha (kva tad-āstha), prajānat;
abhidhyāyat, varṇa-rati-pramoda, ati-dīrdha, jīvita, kim, √ram.

कः [विवेकी] [यः] अ-जीर्यताम् अ-मृतानाम् उपेत्य प्रजानन्, जीर्यन् [च], मर्त्यः [सन्], कु-अधस्-स्थः [अधः पृथिवी-स्थः सन्], वर्ण-रति-प्रमोदान् अभिध्यायन् [च] अति-दीर्धे जीविते रमेत?
यतश् च –
अ-जीर्यतां वयो-हानिम् अ-प्राप्नुवताम् अ-मृतानां स-काशम् उपेत्य उपगम्य आत्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन्न् उपलभमानः, स्वयं तु जीर्यन् मर्त्यः जरा-मरणवान् क्व्-अधः-स्थः कुः पृथिवी अधश् च अन्तर्-इक्षादि-लोकापेक्षया तस्यां तिष्ठतीति क्व्-अधः-स्थः सन् कथम् एवम् अ-विवेकिभिः प्रार्थनीयं पुत्र-वित्त-हिरण्याद्य् अ-स्थिरं वृणीते।
क्व तद्-आस्थः?” इति वा पाठान्तरम्। अस्मिन् पक्षे चैवम् अ-क्षर-योजना – तेषु पुत्रादिषु आस्था आस्थितिः तात्-पर्येण वर्त्तनं यस्य स तद्-आस्थः। ततोऽधिकतरं पुरुषार्थं दुष्-प्रापम् अपि प्रापिपयिषुः क्व तद्-आस्थो भवेद्? न कश्चित् तद्-अ-सार-ज्ञस् तद्-अर्थी स्याद् इत्य् अर्थः। सर्वो ह्य् उपर्य् उपरि एव बुभूषति लोकः। तस्मान् न पुत्र-वित्तादि-लोभैः प्रलोभ्योऽहम्। किञ्च, अप्सरः-प्रमुखान् वर्ण-रति-प्रमोदान् अन्-अवस्थित-रूपतया अभिध्यायन् निरूपयन् यथावद् अति-दीर्घे जीविते को विवेकी रमेत
yad, idam, vi-√cit, mṛtyu, yad, sāmparāya, √mah, √brū, asmad, tad;
yad, idam, vara, gūḍha, anupraviṣṭa, na, anya, tad, naciketas, √vṛ.

मृत्यो, यस्मिन् इदं विचिकित्सन्ति, यद् तद् साम्पराये [=पर-लोक-साधने] नः महति ब्रूहि। यः अयं वरः गूढम् अनुप्रविष्टः, तस्मात् अन्यं नचिकेताः न वृणीते॥
अतो विहाय अ-नित्यैः कामैः प्रलोभनम्, यन् मया प्रार्थितम् –
यस्मिन् प्रेते इदं विचिकित्सनं विचिकित्सन्ति अस्ति नास्ति इत्य् एवं-प्रकारं, हे मृत्यो, साम्पराये पर-लोक-विषये महति महत्-प्रयोजन-निमित्ते आत्मनो निर्णय-विज्ञानं यत् तत् ब्रूहि कथय नोऽस्मभ्यम्।
किं बहुना, ‘योऽयं प्रकृत आत्म-विषयो वरो गूढं गहनं दुर्-विवेचनं प्राप्तोऽनुप्रविष्टः, तस्माद् वराद् अन्यम् अ-विवेकिभिः प्रार्थनीयम् अ-नित्य-विषयं वरं नचिकेता न वृणीते मनसापि’ इति श्रुतेर् वचनम् इति॥

॥इति प्रथमेऽध्याये प्रथमा वल्ली॥

Go to Top ('Home' key on many Windows browsers)

anya, śreyas, anya, uta, eva, preyas, tad, ubha, nānā-artha, puruṣa, √si;
tad, śreyas, ādadāna, sādhu, √bhū, √hā, artha, yad, u, preyas, √vṛ.

अन्यद् श्रेयस्, अन्यद् उत एव प्रेयस्। ते उभे नाना-अर्थे पुरुषं सिनीतः। तयोः श्रेयस् आददानस्य साधु भवति। यः उ प्रेयस् वृणीते, [परम-]अर्थात् हीयते॥
परीक्ष्य शिष्यं विद्या-योग्यतां चावगम्याह –
अन्यत् पृथग् एव श्रेयो निःश्रेयसम्। तथा अन्यद् उत अपि एव प्रेयः प्रियतरम् अपि। ते श्रेयः-प्रेयसी उभे नानार्थे भिन्न-प्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादि-विशिष्टं सिनीतो बध्नीतः। ताभ्यां विद्याविद्याभ्याम् आत्म-कर्त्तव्यतया प्रयुज्यते सर्वः पुरुषः। श्रेयः-प्रेयसोर् हि अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते। अतः श्रेयः-प्रेयः-प्रयोजन-कर्त्तव्यतया ताभ्यां ‘बद्ध’ इत्य् उच्यते सर्वः पुरुषः।
ते यद्य् अप्य् एकैक-पुरुषार्थ-सम्बन्धिनी विद्याविद्या-रूपत्वाद् विरुद्धे इति अन्यतरापरित्यागेनैकेन पुरुषेण सहानुष्ठातुम्-अ-शक्यत्वात्, तयोः हित्वाऽविद्या-रूपं प्रेयः श्रेयः एव केवलम् आददानस्य उपादानं कुर्वतः साधु शोभनं शिवं भवति। यस् त्व् अ-दूर-दर्शी विमूढो हीयते वियुज्यते। कस्माद् अर्थात् पुरुषार्थात् पारमार्थिकात् प्रयोजनान् नित्यात् प्रच्यवते इत्य् अर्थः। कोऽसौ? य उ प्रेयो वृणीते उपादत्ते इत्य् एतत्॥
śreyas, preyas, ca, manuṣya, ā-√i, tad, samparitya, √vic, dhīra;
śreyas, hi, dhīra, abhi, preyas, √vṛ, preyas, manda, yoga-kṣema, √vṛ.

श्रेयस् च प्रेयस् च मनुष्यम् एतः। तौ सम्परीत्य, धीरः विविनक्ति। प्रेयसः धीरः श्रेयस् हि अभि वृणीते। योग-क्षेमात् मन्दः प्रेयस् वृणीते॥
यद्य् उभे अपि कर्तुं स्वायत्ते पुरुषेण, किम् अर्थं प्रेय एवादत्ते बाहुल्येन लोकः? इत्य् उच्यते –
सत्यं स्वायत्ते। तथापि साधनतः फलतश् च मन्द-बुद्धीनां दुर्-विवेक-रूपे सती व्यामिश्री-भूते इव मनुष्यं पुरुषम् एतः प्राप्नुतः श्रेयश् च प्रेयश् च। अतो हंस इव अम्भसः पयः, तौ श्रेयः-प्रेयः-पदार्थौ सम्परीत्य सम्यक्-परिगम्य मनसा आलोच्य गुरु-लाघवं विविनक्ति पृथक् करोति धीरो धीमान्। विविच्य च श्रेयो हि श्रेय एव अभिवृणीते प्रेयसः अभ्यर्हितत्वाच् छ्रेयसः। कोऽसौ? धीरः
यस् तु मन्दः अल्प-बुद्धिः स विवेकासामर्थ्याद् योग-क्षेमात् योग-क्षेम-निमित्तं शरीराद्य्-उपचय-रक्षण-निमित्तम् इत्य् एतत् प्रेयः पशु-पुत्रादि-लक्षणं वृणीते
tad, yuṣmad, priya, priya-rūpa, ca, kāma, abhidhyāyat, naciketas, ati-√sṛj;
na, etad, sṛṅkā, vittamayī, avāpta, yad, √majj, bahu, manuṣya.

नचिकेतस्, प्रियान् प्रिय-रूपान् च कामान् अभिध्यायन्, सः त्वं [तान्] अत्यस्राक्षीः। यस्यां बहवः मनुष्याः मज्जन्ति, एतां वित्तमयीं सृङ्कां [त्वं] न अवाप्तः॥
स त्वं पुनः पुनो मया प्रलोभ्यमानोऽपि प्रियान् पुत्रादीन् प्रिय-रूपांश् च अप्सरः-प्रभृति-लक्षणान् कामान् अभिध्यायन् चिन्तयन् तेषाम् अ-नित्यत्वासारत्वादि-दोषान् हे नचिकेतः अत्यस्राक्षीः अतिसृष्टवान् परित्यक्तवान् असि। अहो बुद्धिमत्ता तव। न एताम् अवाप्तवान् असि सृङ्कां (KathU.1.1.16) सृतिं कुत्सितां मूढ-जन-प्रवृत्तां वित्तमयीं धन-प्रायाम्, यस्यां सृतौ मज्जन्ति सीदन्ति बहवः अन्-एके मूढा मनुष्याः
dūram, etad, viparīta, viṣvañc, a-vidyā, yad, ca, vidyā, iti, jñātā;
vidyā-abhīpsina, naciketas, √man, na, yuṣmad, kāma, bahu, √lup.

अविद्या विद्या च इति या ज्ञाता, एते दूरं विपरीते विषूची। त्वा नचिकेतसं विद्या-अभीप्सिनं मन्ये, [यस्मात्] बहवः कामाः न अलोलुपन्त॥
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते इति ह्य् उक्तम्। तत् कस्माद्? यतः –
दूरं दूरेण महतान्तरेण एते विपरीते अन्योन्य-व्यावृत्त-रूपे विवेकाविवेकात्मकत्वात् तमः-प्रकाशौ इव। विषूची विषूच्यौ नाना-गती, भिन्न-फले संसार-मोक्ष-हेतुत्वेन इत्य् एतत्।
के ते इत्य् उच्यते – या च अ-विद्या प्रेयो-विषया विद्येति च श्रेयो-विषया ज्ञाता निर्ज्ञाताऽवगता पण्डितैः। तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वाम् अहं मन्ये। कस्मात्? यस्माद् अ-विद्वद्-बुद्धि-प्रलोभिनः कामाः अप्सरः-प्रभृतयः बहवः अपि त्वा त्वां न अ-लोलुपन्त न विच्छेदं कृतवन्तः श्रेयो-मार्गाद् आत्मोपभोगाभिवाञ्छा-सम्पादनेन। अतो विद्यार्थिनं श्रेयो-भाजनं मन्ये इत्य् अभिप्रायः॥
a-vidyā, antare, vartamāna, svayam, dhīra, paṇḍitam-manyamāna;
dandramyamāṇa, pari-√i, mūḍha, andha, eva, nīyamāna, yathā, andha.

अविद्यायाम् अन्तरे वर्तमानाः, स्वयं “पण्डितम्”-मन्यमानाः धीराः, मूढाः दन्द्रम्यमाणाः परियन्ति, यथा अन्धाः अन्धेन एव नीयमानाः॥
ये तु संसार-भाजो जनाः –
अ-विद्यायाम् अन्तरे मध्ये घनी-भूते इव तमसि वर्त्तमानाः वेष्ट्यमानाः पुत्र-पश्वादि-तृष्णा-पाश-शतैः, स्वयं वयं धीराः प्रज्ञावन्तः पण्डितः शास्त्र-कुशलाश् चेति मन्यमानाः। ते दन्द्रम्यमाणाः अत्य्-अर्थं कुटिलाम् अन्-एक-रूपां गतिं गच्छन्तो जरा-मरण-रोगादि-दुःखैः परियन्ति परिगच्छन्ति मूढा अ-विवेकिनः, अन्धेनैव दृष्टि-विहीनेनैव नीयमाना विषमे पथि यथा बहवः अन्धा, महान्तम् अन्-अर्थम् ऋच्छन्ति तद्वत्॥
na, sāmparāya, prati, √bhā (prati-√bhā), bāla, pramādyat, vitta-moha, mūḍha;
idam, loka, na, √as, para, iti, mānin, punar, punar, vasa, ā-√pad, asmad.

साम्परायः वित्त-मोहेन मूढं प्रमाद्यन्तं बालं न प्रति भाति। “अयं लोकः अस्ति, न परः” इति मानी पुनर् पुनर् मे वशम् आपद्यते॥
अत एव मूढत्वात् –
न साम्परायः प्रति भाति। सम्परे ईयते इति सम्परायः पर-लोकः, तत्-प्राप्ति-प्रयोजनः साधन-विशेषः शास्त्रीयः साम्परायः। स च बालम् अ-विवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठते इत्य् एतत्।
प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्र-पश्वादि-प्रयोजनेष्व् आसक्त-मनसम्। तथा वित्त-मोहेन वित्त-निमित्तेनाविवेकेन मूढं तमस्-आच्छन्नं सन्तम्। अयम् एव लोको योऽयं दृश्यमानः स्त्र्य्-अन्न-पानादि-विशिष्टः, नास्ति परः अ-दृष्टो लोकः, इत्य् एवं मनन-शीलः मानीपुनः पुनो जनित्वा वशं मद्-अधीनताम् आपद्यते मे मृत्योर् मम। जनन-मरणादि-लक्षण-दुःख-प्रबन्धारूढ एव भवतीत्य् अर्थः। प्रायेण ह्य् एवं-विध एव लोकः॥
śravaṇa, api, bahu, yad, na, labhya, śṛṇvat, api, bahu, yad, na, √vid;
āścarya, vaktṛ, kuśala, idam, labdhṛ, āścarya, jñātṛ, kuśala, anuśiṣṭa.

यः [आत्मा] बहुभिः न श्रवणाय अपि लभ्यः, यं बहवः शृण्वन्तः अपि न विद्युः, अस्य वक्ता आश्चर्यः, कुशलः लब्धा आश्चार्यः कुशल-अनुशिष्टः ज्ञाता [च]॥
यस् तु श्रेयोर्-अथी स सहस्रेषु कश्चिद् एवात्म-विद् भवति त्वद्-विधः यस्मात् –
श्रवणायापि श्रवणार्थं श्रोतुम् अपि यो न लभ्यः आत्मा बहुभिः अन्-एकैः। शृण्वन्तोऽपि बहवोऽन्-एकेऽन्ये यम् आत्मानं न विद्युर् न विदन्ति, अ-भागिनोऽसंस्कृतात्मानो न विजानीयुः। किञ्च, अस्य वक्ता अपि आश्चर्यः अद्भुतवद् एव, अन्-एकेषु कश्चिद् एव भवति। तथा श्रुत्वापि अस्य आत्मनः कुशलः निपुण एवानेकेषु लब्धा कश्चिद् एव भवति। यस्माद् आश्चर्यो ज्ञाता कश्चिद् एव कुशलानुशिष्टः कुशलेन निपुणेनाचार्येण अनुशिष्टः सन्॥
na, nara, avara, prokta, etad, su-vijñeya, bahudhā, cintyamāna;
an-anya-prokta, (a-)gati, atra, na, √as, aṇīyas, hi, a-tarkya, aṇu-pramāṇa.

अवरेण नरेण प्रोक्तः एषः न सु-विज्ञेयः, बहुधा चिन्त्यमानः, अन्-अन्य-प्रोक्ते अत्र (अ-)गतिः न अस्ति, अ-तर्क्यम् अणीयान् हि अणु-प्रमानात्॥
कस्मात् –
हि नरेण मनुष्येण अवरेण प्रोक्तः – अवरेण हीनेन प्राकृत-बुद्धिनेत्य् एतद् – उक्त एष आत्मा यं त्वं मां पृच्छसि, न हि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः। यस्माद् बहुधा ‘अस्ति नास्ति’ कर्ताकर्ता शुद्धोऽशुद्धः इत्य्-आद्य्-अन्-एकधा चिन्त्यमानो वादिभिः।
कथं पुनः सु-विज्ञेय इत्य् उच्यते –
१) अन्-अन्य-प्रोक्ते अन्-अन्येन अ-पृथग्-दर्शिना आचार्येण प्रतिपाद्य-ब्रह्मात्म-भूतेन प्रोक्ते उक्ते आत्मनि गतिर् अन्-एकधा अस्ति-नास्तीत्य्-आदि-लक्षणा चिन्ता गतिः अत्र अस्मिन्न् आत्मनि नास्ति न विद्यते। सर्व-विकल्प-गति-प्रत्यस्त-मितत्वाद् आत्मनः।
२) अथवा स्वात्म-भूते अन्-अन्यस्मिन् आत्मनि प्रोक्ते अन्-अन्य-प्रोक्ते गतिर् अत्र अन्यावगतिर् नास्ति ज्ञेयस्यान्यस्याभावात्। ज्ञानस्य ह्य् एषा परा काष्ठा (निष्ठा) यद् आत्मैकत्व-विज्ञानम्। अतः अवगन्तव्याभावान् न गतिर् अत्रावशिष्यते।
३) संसार-गतिर् वा अत्र नास्ति, अन्-अन्ये आत्मनि प्रोक्ते न-अन्तरीयकत्वात् तद्-विज्ञान-फलस्य मोक्षस्य।
४) अथवा प्रोच्यमान-ब्रह्मात्म-भूतेन आचार्येण अन्-अन्यतया प्रोक्ते आत्मनि अ-गतिः अन्-अवबोधः अ-परिज्ञानम् अत्र नास्ति। भवत्य् एव_अवगतिस् तद्-विषया श्रोतुः, ‘तद् अस्म्य् अहम्’ इत्य्, आचार्यस्य इव इत्य् अर्थः।
एवं सु-विज्ञेयः आत्मा आगमवता_आचार्येण अन्-अन्यतया प्रोक्तः।
इतरथा हि अणीयान् अणुतरः अणु-प्रमाणाद् अपि सम्पद्यते आत्मा। अ-तर्क्यम् अ-तर्क्यः स्व-बुद्ध्या अभ्यूहेन केवलेन तर्केण। तर्क्यमाणेऽणु-परिमाणे केनचित् स्थापिते आत्मनि, ततो ह्य् अणुतरम् अन्योऽभ्यूहति, ततोऽप्य् अन्योऽणुतमम् इति। न हि कु-तर्कस्य निष्ठा क्वचिद् विद्यते॥
na, etad, tarka, mati, āpaneya, proktā, anya, eva, su-jñāna, preṣṭha;
yad, yuṣmad, √āp, satya-dhṛti, bata, √as, tvā-dṛś, asmad, √bhū, naciketas, praṣṭṛ.

एषा मतिः न तर्केण आपनेया। प्रेष्ठ, प्रोक्ता अन्येन एव सु-ज्ञानाय। यां आपः त्वं सत्य-धृतिः बत असि। नचिकेतस्, नः प्रष्टा त्वा-दृक् भूयात्॥
अतोऽन्-अन्य-प्रोक्ते आत्मन्य् उत्पन्ना या, इयम् आगम-प्रतिपाद्या आत्म-मतिः नैषा तर्केण स्व-बुद्ध्य्-अभ्यूह-मात्रेण आपनेया न प्रापणीयेत्य् अर्थः। न अपनेतव्या वा, न हातव्या। तार्किको हि अन्-आगम-ज्ञः स्व-बुद्धि-परिकल्पितं यत् किञ्चिद् एव कथयति। अत एव च येयम् आगम-प्रभूता मतिः अन्येनैव आगमाभिज्ञेनाचार्येण एव तार्किकात् प्रोक्ता सती सु-ज्ञानाय भवति हे प्रेष्ठ प्रियतम।
का पुनः सा तर्कागम्या मतिः इत्य् उच्यते –
यां त्वं मतिं मद्-वर-प्रदानेन आपः प्राप्तवान् असि। सत्या अ-वि-तथ-विषया धृतिर् यस्य तव स त्वं सत्य-धृतिर् बत असि इत्य् अनुकम्पयन्न् आह मृत्युर् नचिकेतसं वक्ष्यमाण-विज्ञान-स्तुतये। त्वा-दृक् त्वत्-तुल्यः नः अस्मभ्यं भूयात् भवतात् भवत्व् अन्यः पुत्रः शिष्यो वा प्रष्टा। की-दृक्? या-दृक् त्वं हे नचिकेतः प्रष्टा
√jñā, asmad, śeva-dhi, iti, a-nitya, na, hi, a-dhruva, pra-√āp, hi, dhṛuvam, tad;
tatas, asmad, nāciketa, cita, agni, a-nitya, dravya, prāptavat, √as, nitya.

शेव-धिः अ-नित्यं इति अहं जानामि, अ-ध्रुवैः हि तद् ध्रुवं न हि प्राप्यते। ततस् मया नाचिकेतः अग्निः अ-नित्यैः द्रव्यैः चितः। नित्यं [याम्यं स्थानं] प्राप्तवान् अस्मि॥
पुनर् अपि तुष्ट आह –
जानाम्य् अहं शेव-धिः निधिः कर्म-फल-लक्षणः, निधिः इव प्रार्थ्यत इति। असौ अ-नित्यम् अ-नित्य इति जानामि। न हि यस्माद् अ-नित्यैः अ-ध्रुवैः नित्यं ध्रुवं तत् प्राप्यते परमात्माख्यः शेव-धिः। यस् त्व् अ-नित्य-सुखात्मकः शेव-धिः स एवानित्यैर् द्रव्यैः प्राप्यते हि यतः, ततः तस्मान् मया जानतापि ‘नित्यम् अ-नित्य-साधनैः न प्राप्यते’ इति नाचिकेतश् चितोऽग्निर् अ-नित्यैर् द्रव्यैः पश्वादिभिः स्वर्ग-सुख-साधन-भूतोऽग्निः निर्वर्त्तित इत्य् अर्थः। तेनाहम् अधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यम् आपेक्षिकं प्राप्तवान् अस्मि
kāma, āpti, jagat, pratiṣṭhā, kratu, an-antya, a-bhaya, pāra;
stoma-mahat, uru-gāya, pratiṣṭhā, dṛṣṭvā, dhṛti, dhīra, naciketas, ati-√sṛj.

नचिकेतस्, कामस्य आप्तिं, जगतः प्रतिष्ठां, क्रतोः [फलम्] अन्-अन्त्यं, अ-भयस्य पारं, स्तोम-महत्, उरु-गायं, [स्वं] प्रतिष्ठां दृष्ट्वा – धृत्या धीरः अत्यस्राक्षीः॥
त्वं तु कामस्य आप्तिं समाप्तिम्, अत्रैव इहैव सर्वे कामाः परिसमाप्ताः। जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठाम् आश्रयं सर्वात्मकत्वात्। क्रतोर् उपासनायाः फलं हैरण्य-गर्भं पदम् अन्-अन्त्यम् आन्-अन्त्यम्। अ-भयस्यपारं परां निष्ठाम्। स्तोमं स्तुत्यम्, महद् अणिमाद्य्-ऐश्वर्याद्य्-अन्-एक-गुण-संहतम्, स्तोमं च तन् महच् च निर्-अतिशयत्वात् स्तोम-महत्उरु-गायं विस्तीर्णां गतिम्। प्रतिष्ठां स्थितिम् आत्मनोऽन्-उत्तमाम् अपि दृष्ट्वा धृत्या धैर्येण धीरो धीमान् सन् नचिकेतः अत्य्-अस्राक्षीः परम् एवाकाङ्क्षन्न् अति-सृष्टवान् असि सर्वम् एतत् संसार-भोग-जातम्। अहो बत अन्-उत्तम-गुणोऽसि॥
tad, dus-darśa, gūḍha, anupraviṣṭa, guhā-hita, gahvare-stha, purāṇa;
adhi-ātma-yoga-adhigama, deva, matvā, dhīra, harṣa-śoka, √hā.

तं दुर्-दर्शं, गूढम् अनुप्रविष्टं, गुहा-हितं, गह्वरे-ष्ठं [दुर्-गहन-स्थः], पुराणं देवं अध्यात्म-योग-अधिगमेन मत्वा, धीरः हर्ष-शोकौ जहाति॥
यं त्वं ज्ञातुम् इच्छस्य् आत्मानम् – तं दुर्-दर्शं दुःखेन दर्शनम् अस्येति दुर्-दर्शः, अति-सूक्ष्मत्वात्, तम्। गूढं गहनम् अनुप्रविष्टं प्राकृत-विषय-विकार-विज्ञानैः प्रच्छन्नम् इत्य् एतत्। गुहा-हितं गुहायां बुद्धौ (निहितं) स्थितं तत्रोपलभ्यमानत्वात्। गह्वरे-ष्ठं गह्वरे विषमे अन्-एकानर्थ-सङ्कटे तिष्ठतीति गह्वरे-ष्ठम्। यत एवं गूढम् अनुप्रविष्टो गुहा-हितश् च, अतोऽसौ गह्वरे-ष्ठः। अतो दुर्-दर्शः।
तं पुराणं पुरा-तनम् अध्य्-आत्म-योगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानम् अध्य्-आत्म-योगः, तस्याधिगमः तेन, मत्वा देवम् आत्मानं धीरः (धीमान्) हर्ष-शोकौ आत्मनः उत्कर्षापकर्षयोर् अ-भावाद् जहाति
etad, śrutvā, samparigṛhya, martya, pravṛhya, dharmya, aṇu, etad, āpya;
tad, √mud, modanīya, hi, labdhvā, vivṛta, sadman, naciketas, √man.

एतद् श्रुत्वा सम्परिगृह्य प्रवृह्य, एतं (m.) धर्म्यम् अणुम् आप्य – सः मर्त्यः मोदते, मोदनीयं हि लब्ध्वा। सद्म [ब्रह्म-भवनं] विवृतं नचिकेतसं मन्ये॥
किञ्च –
एतद् आत्म-तत्त्वं यद् अहं वक्ष्यामि, तत् श्रुत्वा आचार्य-प्रसादात्(-स-काशात्) समयग् आत्म-भावेन परिगृह्य उपादाय मर्त्यो मरण-धर्मा, धर्माद् अन्-अपेतं धर्म्यं प्रवृह्य उद्यम्य पृथक्-कृत्य शरीरादेः अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य मर्त्यो विद्वान् मोदते मोदनीयं हर्षणीयम् आत्मानं लब्ध्वा। तद् एतद् एवं-विधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रति अपावृत-द्वारं विवृतम् अभिमुखी-भूतं मन्ये। मोक्षार्हं त्वां मन्ये इत्य् अभिप्रायः॥
anyatra, dharma, anyatra, a-dharma, anyatra, idam, kṛta-a-kṛta;
anyatra, bhūta, ca, bhavya, ca, yad, tad, √dṛś, tad, √vad.

यद् धर्मात् अन्यत्र, अ-धर्मात् अन्यत्र, अस्मात् कृत-अकृतात् अन्यत्र, भूतात् च भव्यात् च अन्यत्र, तद् पश्यसि। तद् वद॥
एतच् छ्रुत्वा नचिकेताः पुनर् (KathU.1.1.20) आह –
यद्य् अहं योग्यः प्रसन्नश् चासि भगवन् मां प्रति – अन्यत्र धर्मात् शास्त्रीयाद् धर्मानुष्ठानात् तत्-फलात् तत्-कारकेभ्यश् च पृथग्-भूतम् इत्य् अर्थः। तथा अन्यत्र अ-धर्मात्। तथा अन्यत्रास्मात् कृताकृतात् कृतं कार्यम् अ-कृतं कारणम् अस्माद् अन्यत्र। किञ्च, अन्यत्र भूताच् च अतिक्रान्तात् कालाद् भव्याच् च भविष्यतश् च, तथा वर्त्तमानात्। काल-त्रयेण यन् न परिच्छिद्यते इत्य् अर्थः। यद् ई-दृशं वस्तु सर्व-व्यवहार-गोचरातीतं पश्यसि जानासि तद् वद मह्यम्॥
sarva, veda, yad, pada, ā-√mnā, tapas, sarva, ca, yad, √vad;
yad, icchat, brahma-carya, √car, tad, yuṣmad, pada, saṅgraha, √brū, om, iti, etad.

यद् पदं सर्वे वेदाः आमनन्ति, यद् च सर्वाणि तपांसि वदन्ति, यद् इच्छन्तः ब्रह्म-चर्यं चरन्ति, तद् पदं ते सङ्ग्रहेण ब्रवीमि – ओम् इति एतद्॥
इत्य् एवं पृष्टवते मृत्युर् उवाच, पृष्टं वस्तु विशेषणान्तरं च विवक्षन् –
सर्वे वेदा यत् पदं पदनीयं गमनीयम् अ-विभागेन (अ-विरोधेन) आमनन्ति प्रतिपादयन्ति। तपांसि सर्वाणि च यद् वदन्ति यत्-प्राप्त्य्-अर्थानीत्य् अर्थः। यद् इच्छन्तो ब्रह्म-चर्यं गुरु-कुल-वास-लक्षणम् अन्यद् वा ब्रह्म-प्राप्त्य्-अर्थं चरन्तितत् ते तुभ्यं पदं यज् ज्ञातुम् इच्छसि सङ्ग्रहेण संक्षेपतो ब्रवीमिओम् इत्य् एतत्। तद् एतत् पदं यद् बुभुत्सितं त्वया तद् एतद् ‘ओम्’ इति, ओं-शब्द-वाच्यम्, ओं-शब्द-प्रतीकं च॥
etad, hi, eva, a-kṣara, brahman, etad, hi, eva, a-kṣara, para;
etad, hi, eva, a-kṣara, jñātvā, yad, yad, √iṣ, tad, tad.

एतद् हि अ-क्षरं [ओम्] एव ब्रह्म। एतद् हि अ-क्षरं एव परम्। एतद् हि अ-क्षरं एव ज्ञात्वा, यः यद् [परम् अ-परं वा] इच्छति तस्य [ज्ञानिनः उपासकस्य वा] तद् [पदं आप्नोति]॥
अतः –
एतद् ध्य् एवाक्षरं ब्रह्म अ-परम्। एतद् ध्य् एवाक्षरं परं च। तयोर् हि प्रतीकम् एतद् अ-क्षरम्। एतद् ध्य् एवाक्षरं ज्ञात्वा उपास्य ब्रह्मेति यः यद् इच्छति परम् अ-परं वा तस्य तद् भवति। परं चेज् ज्ञातव्यम्। अ-परं चेत् प्राप्तव्यम्॥
etad, ālambana, śreṣṭha, etad, ālambana, para;
etad, ālambana, jñātvā, brahma-loka, √mahat.

एतद् आलम्बनं श्रेष्ठम्। एतद् आलम्बनं परम्। एतद् आलम्बनं ज्ञात्वा, ब्रह्म-लोके महीयते॥
यत एवम् अतः –
एतद् ब्रह्म-प्राप्त्य्-आलम्बनानां श्रेष्ठं प्रशस्यतमम्। एतद् आलम्बनं परम् अ-परं च, परापर-ब्रह्म-विषयत्वात्। एतद् आलम्बनं ज्ञात्वा ब्रह्म-लोके महीयते। परस्मिन् ब्रह्मण्य् अ-परस्मिंश् च ब्रह्म-भूतो ब्रह्मवद् उपास्यो भवतीत्य् अर्थः॥
na, √jan, √mṛ, vā, vipas-cit, na, idam, kutas-cid, na, √bhū, ka-cid;
a-ja, nitya, śāśvata, idam, purāṇa, na, √han, hanyamāna, śarīra.

विपस्-चिद् न जायते म्रियते वा। अयं न कुतस्-चिद्, न कः-चिद् बभूव। अयं अ-जः, नित्यः, शाश्वतः, पुराणः। शरीरे हन्यमाने न हन्यते॥ (BhG.2.20)
“अन्यत्र धर्माद्” (KathU.1.2.14) इत्य्-आदिना पृष्टस्यात्मनः अ-शेष-विशेष-रहितस्य आलम्बनत्वेन प्रतीकत्वेन च ओङ्कारो निर्दिष्टः, अ-परस्य च ब्रह्मणः, मन्द-मध्यम-प्रतिपत्तॄन् प्रति। अथेदानीं तस्य ओङ्कारालम्बनस्यात्मनः साक्षात् स्व-रूप-निर्दिधारयिषया इदम् उच्यते –
न जायते नोत्पद्यते म्रियते वा न म्रियते च। उत्पत्तिमतो वस्तुनोऽनित्यस्य_अन्-एका विक्रियाः। तासाम् आद्य्-अन्ते जन्म-विनाश-लक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं, सर्व-विक्रिया-प्रतिषेधार्थं “न जायते म्रियते वा” इति। विपश्-चिद् मेधावी, अ-विपरिलुप्त-चैतन्य-स्व-भावत्वात्।
किञ्च, न अयम् आत्मा कुतश्चित् कारणान्तराद् बभूव, न प्रभूतः। स्वस्माच् चात्मनो न बभूव कश्चिद् अर्थान्तर-भूतः।
अतोऽयम् आत्मा अ-जो नित्यः शाश्वतोऽपक्षय-विवर्जितः। यो ह्य् अ-शाश्वतः सोऽपक्षीयते, अयं तु शाश्वतः। अत एव पुराणः पुरापि नव एवेति। यो ह्य् अवयवोपचय-द्वारेणाभिनिर्वर्त्यते, स इदानीं नवः, यथा कुम्भादिः। तद्-विपरीतस् त्व् आत्मा पुराणो वृद्धि-विवर्जित इत्य् अर्थः।
यत एवम्, अतो न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे, तत्-स्थोऽपि आकाशवद् एव॥
hantṛ, ced, √man, hantum, hata, ced, √man, hata;
ubha, tad, na, vi-√jñā, na, idam, √han, na, √han.

हन्ता चेद् हन्तुं मन्यते, हतः चेद् हतं मन्यते, उभौ तौ न विजानीतः। अयं न हन्ति, न हन्यते॥ (BhG.2.19)
एवं-भूतम् अप्य् आत्मानं शरीर-मात्रात्म-दृष्टिर् हन्ता चेद् यदि मन्यते चिन्तयति हन्तुं ‘हनिष्याम्य् एनम्’ इति। योऽप्य् अन्यो हतः सोऽपि चेद् मन्यते हतम् आत्मानं ‘हतोऽहम्’ इति। उभौ अपि तौ न विजानीतः स्वम् आत्मानम्। यतो नायं हन्ति अ-विक्रियत्वाद् आत्मनः। तथा न हन्यते आकाशवद् अ-विक्रियत्वाद् एव। अतोऽन्-आत्म-ज्ञ-विषय एव धर्माधर्मादि-लक्षणः संसारः, न_आत्म-ज्ञस्य (ब्रह्म-ज्ञस्य)। श्रुति-प्रामाण्याद्, न्यायाच् च धर्माधर्माद्य्-अन्-उपपत्तेः॥
aṇu, aṇīyas, mahat, mahīyas, ātman, idam, jantu, nihita, guhā;
tad, a-kratu, √dṛś, vīta-śoka, dhātu-prasāda, mahiman, ātman.

आत्मा अणोः अणीयान् महतः महीयान् [च] अस्य जन्तोः गुहायां निहितः। अ-क्रतुः तम् आत्मनः महिमानं धातु-प्रसादात् पश्यति, [ततः] वीत-शोकः॥
कथं पुनर् आत्मानं जानाति इत्य् उच्यते –
अणोः सूक्ष्माद् अणीयान् श्यामाकादेर् अणुतरः। महतः महत्-परिमाणान् महीयान् महत्तरः पृथिव्यादेः। अणु महद् वा यद् अस्ति लोके वस्तु, तत् तेनैवात्मना नित्येनात्मवत् सम्भवति। तद् आत्मना विनिर्मुक्तम् अ-सत् सम्पद्यते। तस्माद् असाव् एवात्मा अणोर् अणीयान् महतो महीयान्, सर्व-नाम-रूप-वस्तूपाधिकत्वात्। स च आत्मा अस्य जन्तोर् ब्रह्मादि-स्तम्ब-पर्यन्तस्य प्राणि-जातस्य गुहायां हृदये निहित आत्म-भूतः स्थित इत्य् अर्थः।
तम् आत्मानं दर्शन-श्रवण-मनन-विज्ञान-लिङ्गम् अ-क्रतुर् अ-कामः, दृष्टादृष्ट-बाह्य-विषयेभ्य उपरत-बुद्धिर् इत्य् अर्थः। यदा चैवं तदा – मन-आदीनि करणानि धातवः शरीरस्य धारणात्, प्रसीदन्तीत्य् एषां धातूनां प्रसादाद् आत्मनः महिमानं कर्म-निमित्त-वृद्धि-क्षय-रहितं पश्यति ‘अयम् अहम् अस्मि’ इति साक्षाद् विजानाति। ततो वीत-शोको भवति॥
āsīna, dūram, √vraj, śayāna, √yā, sarvatas;
kim, tad, mada-a-mada, deva, mad-anya, jñātum, √arh.

आसीनः दूरं व्रजति। शयानः सर्वतस् याति। मद्-अन्यः कः तं मद-अमदं [विरुद्ध-लक्षणं] देवं ज्ञातुम् अर्हति॥
अन्यथा दुर्-विज्ञेयोऽयम् आत्मा कामिभिः प्राकृत-पुरुषैर् यस्मात् –
आसीनोऽवस्थितोऽचल एव सन् दूरं व्रजतिशयानो याति सर्वतः। एवम् असाव् आत्मा देवो मदामदः समदोऽमदश्च, सहर्षोऽहर्षश् च, विरुद्ध-धर्मवान्। अतोऽशक्यत्वाज् ज्ञातुं कस् तं मदामदं देवं मद्-अन्यो ज्ञातुम् अर्हति?
अस्मद्-आदेर् एव सूक्ष्म-बुद्धेः पण्डितस्य कस्यचित् सु-विज्ञेयोऽयम् आत्मा, स्थिति-गति-नित्यानित्यादि-विरुद्धानेक-धर्मोपाधिकत्वाद्, विरुद्ध-धर्मवत्त्वाद् विश्व-रूप इव चिन्ता-मणिवद् अवभासते। अतो दुर्-विज्ञेयत्वं दर्शयति – “कस् तं मद्-अन्यो ज्ञातुम् अर्हति”_इति।
करणानाम् उपशमः शयनम्। करण-जनितस्यैक-देश-विज्ञानस्य उपशमः शयानस्य भवति। यदा चैवं केवल-सामान्य-विज्ञानत्वात् सर्वतो याति इव। यदा विशेष-विज्ञान-स्थः स्वेन रूपेण स्थित एव सन् मन-आदि-गतिषु तद्-उपाधिकत्वाद् दूरं व्रजति इव। स च इहैव वर्त्तते॥
a-śarīra, śarīra, an-avastha, avasthita;
mahat, vibhu, ātman, matvā, dhīra, na, √śuc.

शरीरेषु अ-शरीरम्, अन्-अवस्थेषु अवस्थितं, महान्तं विभुम् [च] आत्मानं मत्वा, धीरः न शोचति॥ (cf. BhG.2.11)
तद्-विज्ञानाच् च शोकात्यय इत्य् अपि दर्शयति –
अ-शरीरं स्वेन रूपेणाकाश-कल्प आत्मा तम् अ-शरीरं शरीरेषु देव-पितृ-मनुष्यादि-शरीरेषु। अन्-अवस्थेषु अवस्थिति-रहितेष्व् अ-नित्येषु अवस्थितं नित्यम् अ-विकृतम् इत्य् एतद्। महान्तम् महत्त्वस्य_आपेक्षिकत्व-शङ्कायाम् आह विभुं व्यापिनम्। आत्मानम् आत्म-ग्रहणं स्वतोऽन्-अन्यत्व-प्रदर्शनार्थम्। आत्म-शब्दः प्रत्यग्-आत्म-विषये एव मुख्यः। तम् ई-दृशम् आत्मानं मत्वा ‘अयम् अहम्’ इति, धीरो धीमान् न शोचति। न ह्य् एवं-विधस्यात्म-विदः शोकोपपत्तिः॥
na, idam, ātman, pravacana, labhya, na, medhā, na, bahu, śruta;
yad, eva, etad, √vṛ, tad, labhya, tad, etad, ātman, vi-√vṛ, tanū, svā.

अयम् आत्मा प्रवचनेन न लभ्यः, न मेधया, न बहुना श्रुतेन। यम् [आत्मानं] एव एषः [धीरः] [विज्ञातुं] वृणुते [KathU.1.2.2], तेन [स्वात्मना धीर-वरितृ-रूपेन] [अयम् आत्मा] लभ्यः। तस्य एषः आत्मा स्वां तनूं विवृणुते॥ (MunU.3.2.3)
यद्य् अपि दुर्-विज्ञेयोऽयम् आत्मा तथाप्य् उपायेन सु-विज्ञेय एवेत्य् आह –
नायम् आत्मा प्रवचनेन अन्-एक-वेद-स्वी-करणेन लभ्यो ज्ञेयः। अपि मेधया ग्रन्थार्थ-धारण-शक्त्या। न बहुना श्रुतेन केवलेन। केन तर्हि लभ्य इत्य् उच्यते –
यम् एव स्वम् आत्मानम् एष साधको वृणुते प्रार्थयते, तेन एवात्मना वरित्रा स्वयम् आत्मा लभ्यो ज्ञायते (एवम्) इत्य् एतत्। निष्कामस्यात्मानम् एव प्रार्थयत आत्मनैवात्मा लभ्यते इत्य् अर्थः।
कथं लभ्यते इत्य् उच्यते – तस्य आत्म-कामस्य एष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं तनूं स्वां स्वकीयां स्व-याथात्म्यम् इत्य् अर्थः॥
na, a-virata, dus-carita, na, a-śānta, na, a-samāhita;
na, a-śānta-mānasa, va, api, prajñāna, enad, √āp.

न दुस्-चरितात् अ-विरतः, न अ-शान्तः, न अ-समाहितः, न अ-शान्त-मानसः वा अपि – एनं प्रज्ञानेन आप्नुयात्॥
किञ्चान्यत् –
न दुश्-चरितात् प्रतिषिद्धाच् छ्रुति-स्मृत्य्-अविहितात् पाप-कर्मणोऽविरतः अन्-उपरतः। अपि इन्द्रिय-लौल्याद् अ-शान्तोऽन्-उपरतः। अपि अ-समाहितोऽन्-एकाग्र-मना विक्षिप्त-चित्तः। समाहित-चित्तोऽपि सन् समाधान-फलार्थित्वान् न अपि अ-शान्त-मानसो व्यापृत-चित्तो वा प्रज्ञानेन ब्रह्म-विज्ञानेन एनं प्रकृतम् आत्मानम् आप्नुयात्
यस् तु दुश्-चरिताद् विरतः, इन्द्रिय-लौल्याच् च, समाहित-चित्तः, समाधान-फलाद् अप्य् उपशान्त-मानसश् च, आचार्यवान् प्रज्ञानेन यथोक्तम् आत्मानं प्राप्नोतीत्य् अर्थः॥
yad, brahman, ca, kṣatra, ca, ubha, √bhū, odana;
mṛtyu, yad, upasecana, kim, itthā, √vid, yatra, tad.

यस्य ब्रह्म च क्षत्रं च उभे ओदनः भवतः, यस्य मृत्युः उपसेचनं [भवति] – कः इत्था [सन्] ‘यत्र सः [आत्मा]’ वेद?
यस् त्व् अन्-एवं-भूतः –
यस्य आत्मनो ब्रह्म च क्षत्रं च ब्रह्म-क्षत्रे सर्व-धर्म-विधारकेऽपि सर्व-त्राण-भूते उभे ओदनोऽशनं भवतः स्याताम्। सर्व-हरोऽपि मृत्युर् यस्य उपसेचनम् एव (इव) ओदनस्य, अशनत्वेऽप्य् अ-पर्याप्तः। तं [सर्व-संहारिकम् आत्मानं] प्राकृत-बुद्धिर् यथोक्त-साधन-रहितः सन् क इत्था इत्थम् एवं यथोक्त-साधनवान् इव इत्य् अर्थः वेद विजानाति ‘यत्र स आत्मा’ इति? (ChanU.7.24.1)॥
॥इति प्रथमेऽध्याये द्वितीया वल्ली॥

Go to Top ('Home' key on many Windows browsers)

Distinction of experiencer and the self. The chariot analogy.

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11 mn.12 mn.13 mn.14 mn.15 mn.16 mn.17

ṛta, pibat, su-kṛta, loka, guhā, praviṣṭa, parama, para-ardha;
chāyā-ātapa, brahma-vid, √vad, pañca-agni, yad, ca, tri-nāciketas.

ब्रह्म-विदः पञ्च-अग्नयः ये त्रि-नाचिकेताः च छाया-आतपौ [इव] वदन्ति – लोके सु-कृतस्य ऋतं पिबन्तौ, परमे पर-अर्धे गुहां प्रविष्टौ॥
“ऋतं पिबन्तौ” इत्य् अस्या वल्ल्याः सम्बन्धो –
विद्याविद्ये नाना-विरुद्ध-फले इत्य् उपन्यस्ते। न तु स-फले ते यथावन् निर्णीते। तन्-निर्णयार्था रथ-रूपक-कल्पना। तथा च प्रतिपत्ति-सौ-कर्यम्। एवं च प्राप्तृ-प्राप्य-गन्तृ-गन्तव्य-विवेकार्थं द्वौ आत्मानौ उपन्यस्येते –
ऋतं सत्यम् अ-वश्यं-भावित्वात् कर्म-फलं पिबन्तौ। एकस् तत्र कर्म-फलं पिबति भुङ्क्ते न इतरः। तथापि पातृ-सम्बन्धात् “पिबन्ताव्” इत्य् उच्यते छत्रि-न्यायेन। सु-कृतस्य स्वयं-कृतस्य कर्मणः “ऋतम्” इति पूर्वेण सम्बन्धः। लोकेऽस्मिन् शरीरे, गुहां गुहायां बुद्धौ प्रविष्टौपरमे बाह्य-पुरुषाकाश-संस्थानापेक्षया परमम्। परार्धे परस्य ब्रह्मणोऽर्धं स्थानं परार्धं हार्द्-आकाशम्। तस्मिन् हि परं ब्रह्मोपलभ्यते। अतस् तस्मिन् परमे परार्धे हार्द्-आकाशे प्रविष्टाव् इत्य् अर्थः।
तौ च च्छायातपौ इव वि-लक्षणौ संसारित्वासंसारित्वेन ब्रह्म-विदः वदन्ति कथयन्ति। न केवलम् अ-कर्मिण एव वदन्ति, पञ्चाग्नयो गृह-स्थाः, ये च त्रि-णाचिकेताः त्रिः-कृत्वो नाचिकेतोऽग्निश् चितो यैस् ते त्रि-णाचिकेताः॥
yad, setu, ījāna, a-kṣara, brahman, yad, para;
a-bhaya, titīrṣat, pāra, nāciketa, √śak.

यः ईजानानां सेतुः [इव], [तं] नाचिकेतं [विराट्-आत्मिकं अग्निं] शकेमहि, यद् अ-क्षरं परं ब्रह्म अ-भयं, [तद्] [संसारस्य] पारं तितीर्षतां [शकेमहि]॥
यः सेतुः सेतुर् इव सेतुर् ईजानानां यजमानानां कर्मिणां, दुःख-सन्तरणार्थत्वात्, नाचिकेतं नाचिकेतोऽग्निः तं, वयं ज्ञातुं चेतुं च शकेमहि शक्नुवन्तः। किञ्च, यच् च अ-भयं भय-शून्यं, संसारस्य पारं तितीर्षतां तर्तुम् इच्छतां ब्रह्म-विदां यत् परम् आश्रयम् अ-क्षरम् आत्माख्यं ब्रह्म, तच् च ज्ञातुं शकेमहि। परापरे ब्रह्मणी कर्म-ब्रह्म-विद्-आश्रये वेदितव्ये इति वाक्यार्थः। तयोर् एव ह्य् उपन्यासः कृतः “ऋतं पिबन्तौ” इति (KathU.1.3.1)॥
ātman, rathin, √vid, śarīra, ratha, eva, tu;
buddhi, tu, sā-rathi, √vid, manas, pragraha, eva, ca.

आत्मानं रथिनं विद्धि, शरीरं तु रथम् एव। बुद्धिं तु सा-रथिं विद्धि, मनः च प्रग्रहम् एव॥
तत्र यः उपाधि-कृतः संसारी विद्याविद्ययोर् अधिकृतः मोक्ष-गमनाय संसार-गमनाय च, तस्य तद्-उभय-गमने साधनो रथः कल्प्यते –
तत्र तम् आत्मानम् ऋत-पं संसारिणं रथिनं रथ-स्वामिनं विद्धि जानीहि। शरीरं रथम् एव तु रथ-बद्ध-हय-स्थानीयैर् इन्द्रियैर् आकृष्यमाणत्वात् शरीरस्य। बुद्धिं तु अध्यवसाय-लक्षणां सा-रथिं विद्धि। बुद्धि-नेतृ-प्रधानत्वात् शरीरस्य, सा-रथि-नेतृ-प्रधान इव रथः। सर्वं हि देह-गतं कार्यं बुद्धि-कर्त्तव्यम् एव प्रायेण। मनः सङ्कल्प-विकल्पादि-लक्षणं प्रग्रहम् रशनां विद्धि। मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्त्तन्ते रशनया इव अश्वाः॥
indriya, haya, √ah, viṣaya, tad, go-cara;
ātma-indriya-manas-yukta, bhoktṛ, iti, √ah, manīṣin.

इन्द्रियाणि हयान् आहुः, तेषु विषयान् गोचरान्; मनीषिणः आत्म-इन्द्रिय-मनस्-युक्तं [आत्मानं] “भोक्ता” इति आहुः॥
इन्द्रियाणि चक्षुर्-आदीनि हयान् आहू रथ-कल्पना-कुशलाः, शरीर-रथाकर्षण-सामान्यात्। तेषु एव इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन् विषयान् विद्धि। आत्मेन्द्रिय-मनो-युक्तं शरीरेन्द्रिय-मनोभिः सहितं संयुक्तम् आत्मानं भोक्तेति संसारीति आहुः मनीषिणो विवेकिनः।
न हि केवलस्यात्मनो भोक्तृत्वम् अस्ति। बुद्ध्य्-आद्य्-उपाधि-कृतम् एव तस्य भोक्तृत्वम्। तथा च श्रुत्य्-अन्तरं केवलस्याभोक्तृत्वम् एव दर्शयति – “ध्यायति इव लेलायति इव” इत्य्-आदि (BrhU.4.3.7)। एवं च सति वक्ष्यमाण-रथ-कल्पनया (KathU.1.3.9) वैष्णवस्य पदस्यात्मतया प्रतिपत्तिर् उपपद्यते, नान्यथा, स्व-भावानतिक्रमात्॥
yad, tu, a-vijñānavat, √bhū, a-yukta, manas, sadā;
tad, indriya, a-vaśya, dus-aśva, iva, sā-rathi.

यः [सा-रथिः] तु सदा अ-युक्तेन मनसा अ-विज्ञानवान् भवति, तस्य सा-रथेः इन्द्रियाणि अ-वश्यानि दुष्ट-अश्वाः इव॥
तत्रैवं सति –
यस् तु बुद्ध्य्-आख्यः सा-रथिर् अ-विज्ञानवान् अ-निपुणोऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथा इतरो रथ-चर्यायाम्, अ-युक्तेन अ-प्रगृहीतेन अ-समाहितेन मनसा प्रग्रह-स्थानीयेन सदा युक्तो भवति, तस्य अ-कुशलस्य बुद्धि-सा-रथेर् इन्द्रियाणि अश्व-स्थानीयानि अ-वश्यानि अ-शक्य-निवारणानि दुष्टाश्वा अ-दान्ताश्वा इव इतर-सा-रथेर् भवन्ति॥
yad, tu, vijñānavat, √bhū, yukta, manas, sadā;
tad, indriya, vaśya, sat-aśva, iva, sā-rathi.

यः तु सदा युक्तेन मनसा विज्ञानवान् भवति, तस्य सा-रथेः इन्द्रियाणि वश्यानि सत्-अश्वाः इव॥
यस् तु पुनः पूर्वोक्त-विपरीतः सा-रथिः भवति विज्ञानवान् निपुणः विवेकवान् युक्तेन मनसा प्रगृहीत-मनाः समाहित-चित्तः सदा, तस्य अश्व-स्थानीयानि इन्द्रियाणि प्रवर्त्तयितुं निवर्त्तयितुं वा शक्यानि वश्यानि दान्ताः सद्-अश्वा इव इतर-सा-रथेः
yad, tu, a-vijñānavat, √bhū, a-manaska, sadā, a-śuci;
na, tad, tad, pada, √āp, saṃsāra, ca, adhi-√gam.

यः तु अ-विज्ञानवान् अ-मनस्कः [च], [सः सा-रथी] सदा अ-शुचिः भवति। [तेन सा-रथिना] सः [रथी] तद् पदं न आप्नोति, संसारं च अधिगच्छति॥
तत्र पूर्वोक्तस्याविज्ञानवतो बुद्धि-सा-रथेर् इदं फलम् आह –
यस् त्व् अ-विज्ञानवान् भवतिअ-मनस्कोऽप्रगृहीत-मनस्कः। स तत एव अ-शुचिः सदा एव। न स रथी तत् पूर्वोक्तम् “अ-क्षरं यत् परं” (KathU.1.3.2) पदम् आप्नोति तेन सा-रथिना। न केवलं कैवल्यं नाप्नोति, संसारं च जन्म-मरण-लक्षणम् अधिगच्छति
yad, tu, vijñānavat, √bhū, sa-manaska, sadā, śuci;
tad, tu, tad, pada, √āp, yad, bhūyas, na, √jan.

यः तु [रथी] विज्ञानवान् स-मनस्कः [च], [सः] सदा शुचिः भवति। सः [रथी] तु तद् पदम् आप्नोति, यस्मात् न भूयस् जायते॥
यस् तु द्वितीयो विज्ञानवान् विज्ञानवत्-सारथ्य्-उपेतो रथी, विद्वान् इत्य् एतत्। युक्त-मनाः स-मनस्कः। स तत एव सदा शुचिःस तु तत् पदम् आप्नोति, यस्माद् आप्तात् पदाद् अ-प्रच्युतः सन् भूयः पुनर् न जायते संसारे॥
vijñāna-sā-rathi, yad, tu, manas-pragrahavat, nara;
tad, adhvan, pāra, √āp, tad, viṣṇu, parama, pada.

यः तु नरः विज्ञान-सा-रथिः मनस्-प्रग्रहवान् [च], सः [रथी] अध्वनः पारम् आप्नोति, तद् विष्णोः परमं पदम्॥
किं तत् पदम् इत्य् आह –
विज्ञान-सा-रथिर् यस् तु यो विवेक-बुद्धि-सा-रथिः पूर्वोक्तो मनः-प्रग्रहवान् प्रगृहीत-मनाः समाहित-चित्तः सन् शुचिर् नरो विद्वान्, सोऽध्वनः संसार-गतेः पारं परम् एव अधिगन्तव्यम्, इत्य् एतत् आप्नोति मुच्यते सर्व-संसार-बन्धनैः। तद् विष्णोर् व्यापन-शीलस्य ब्रह्मणः परमात्मनो वासु-देवाख्यस्य परमं प्रकृष्टं पदं स्थानम्, स-तत्त्वम् इत्य् एतत्। यद् असाव् आप्नोति विद्वान्॥
indriya, para, hi, artha, artha, ca, para, manas;
manas, tu, parā, buddhi, buddhi, ātman, mahat, para.

[पृथक्-पञ्च-महा-भूतानि] अर्थाः हि [तत्-कार्येभ्यः] इन्द्रियेभ्यः पराः [समष्टितः कारणतः च] [अथवा अर्थाः प्रवर्तकाः इन्द्रियाणां अतः पराः], मनः च अर्थेभ्यः परं [यस्मात् उभय-ग्रहकं अतः उभय-परं], बुद्धिः तु मनसः परा, महान् आत्मा बुद्धेः परः [समष्टितः]॥ (cf. BhG.3.42)
अधुना यत् पदं गन्तव्यं तस्य इन्द्रियाणि स्थूलान्य् आरभ्य सूक्ष्म-तारतम्य-क्रमेण प्रत्यग्-आत्मतया अधिगमः कर्त्तव्य इत्य् एवम् अर्थम् इदम् आरभ्यते –
स्थूलानि तावद् इन्द्रियाणि। तानि यैर् अर्थैर् आत्म-प्रकाशनाय आरब्धानि तेभ्य इन्द्रियेभ्यः स्व-कार्येभ्यस् ते पराः हि अर्थाः सूक्ष्मा महान्तश् च प्रत्यग्-आत्म-भूताश् च। तेभ्योऽपि अर्थेभ्यश् च परं सूक्ष्मतरं महत् प्रत्यग्-आत्म-भूतं च मनो, मनः-शब्द-वाच्यं मनस आरम्भकं भूत-सूक्ष्मं सङ्कल्प-विकल्पाद्य्-आरम्भकत्वात्। मनसोऽपि परा सूक्ष्म-तरा महत्-तरा प्रत्यग्-आत्म-भूता च बुद्धिर्, बुद्धि-शब्द-वाच्यम् अध्यवसायाद्य्-आरम्भकं भूत-सूक्ष्मम्। बुद्धेर् आत्मा सर्व-प्राणि-बुद्धीनां प्रत्यग्-आत्म-भूतत्वाद् आत्मा महान्, सर्व-महत्त्वाद्, अ-व्यक्ताद् यत् प्रथमं जातं, हैरण्य-गर्भं तत्त्वं, बोधाबोधात्मकं, महान् आत्मा बुद्धेः परः इत्य् उच्यते॥
mahat, para, a-vyakta, a-vyakta, puruṣa, para;
puruṣa, na, para, ka-cid, tad, kāṣṭhā, tad, parā, gati.

अ-व्यक्तं महतः परं, पुरुषः अ-व्यक्तात् परः [समष्ठितः], पुरुषात् न किञ्चिद् परं, सा काष्ठा सा परा गतिः॥
महतोऽपि परं सूक्ष्मतरं प्रत्यग्-आत्म-भूतं सर्व-महत्तरं च अ-व्यक्तं सर्वस्य जगतो बीज-भूतम्, अ-व्याकृत-नाम-रूप-सतत्त्वं, सर्व-कार्य-कारण-शक्ति-समाहार-रूपम्, अ-व्यक्ताव्याकृताकाशादि-नाम-वाच्यं, परमात्मन्य् ओत-प्रोत-भावेन समाश्रितं (BrhU.3.6.1) वट-कणिकायाम् इव वट-वृक्ष-शक्तिः।
तस्माद् अ-व्यक्तात् परः सूक्ष्म-तरः सर्व-कारण-कारणत्वात् प्रत्यग्-आत्मत्वाच् च महांश् च, अत एव पुरुषः सर्व-पूरणात्। ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्न् आह – “पुरुषान् न परं किञ्चिद्” इति। यस्मान् अस्ति पुरुषाच् चिन्-मात्र-घनात् परं किञ्चिद् अपि वस्त्व्-अन्तरम्, तस्मात् सूक्ष्मत्व-महत्त्व-प्रत्यग्-आत्मत्वानां सा काष्ठा निष्ठा पर्यवसानम्।
अत एव च गन्तॄणां सर्व-गतिमतां संसारिणां सा परा प्रकृष्टा गतिः, “यद् गत्वा न निवर्त्तन्ते” इति (BhG.15.6) स्मृतेः॥
etad, sarva, bhūta, gūḍha, ātman, na, pra-√kāś;
√dṛś, tu, agryā, buddhi, sūkṣmā, sūkṣma-darśin.

एषः सर्वेषु भूतेषु गूढः आत्मा न प्रकाशते, सूक्ष्म-दर्शिभिः तु अग्र्यया सूक्ष्मया बुद्ध्या दृश्यते॥
ननु गतिश् चेद् आगत्यापि भवितव्यम्, कथं “यस्माद् भूयो न जायते” इति (KathU.1.3.8)?
नैष दोषः। सर्वस्य [पुरुषस्य] प्रत्यग्-आत्मत्वाद् अवगतिर् एव गतिर् इत्य् उपचर्यते। प्रत्यग्-आत्मत्वं च दर्शितम् इन्द्रिय-मनो-बुद्धि-परत्वेन। यो हि गन्ता सोऽगतम् अ-प्रत्यग्-रूपं गच्छति अन्-आत्म-भूतं, न विपर्ययेण। तथा च श्रुतिर् “अन्-अध्वगा अध्वसु पारयिष्णवः” इत्य्-आद्या (ItHasU.18)। तथा च दर्शयति प्रत्यग्-आत्मत्वं सर्वस्य –
एषः पुरुषः सर्वेषु ब्रह्मादि-स्तम्ब-पर्यन्तेषु भूतेषु गूढः संवृतः दर्शन-श्रवणादि-कर्मा अ-विद्या-मायाच्छन्नः। अत एव आत्मा न प्रकाशते आत्मत्वेन कस्यचित्। अहो अति-गम्भीरा दुर्-अवगाह्या विचित्रा माया चेयं, यद् अयं सर्वो जन्तुः परमार्थतः परमार्थ-स-तत्त्वोऽप्य् एवं बोध्यमानो ‘अहं परमात्मा’ इति न गृह्णाति, अन्-आत्मानं देहेन्द्रियादि-सङ्गातम् आत्मनो दृश्यमानम् अपि घटादिवद् आत्मत्वेन ‘अहम् अमुष्य पुत्र’ इत्य् अनुच्यमानोऽपि गृह्णाति।
नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोको बम्भ्रमीति। तथा च स्मरणम् – “नाहं प्रकाशः सर्वस्य योग-माया-समावृतः” (BhG.7.25) इत्य्-आदि।
ननु विरुद्धम् इदम् उच्यते – “मत्वा धीरो न शोचति” (KathU.1.2.22), “न प्रकाशते” इति च।
नैतद् एवम्। अ-संस्कृत-बुद्धेर् अ-विज्ञेयत्वान् “न प्रकाशते” इत्य् उक्तम्। दृश्यते तु संस्कृतया अग्र्यया, अग्रम् इव अग्र्या तया, एकाग्रतयोपेतया इत्य् एतत्। सूक्ष्मया सूक्ष्म-वस्तु-निरूपण-परया। कैः? सूक्ष्म-दर्शिभिर् “इन्द्रियेभ्यः परा ह्य् अर्थाः” (KathU.1.3.10) इत्य् आदि-प्रकारेण सूक्ष्मता-पारम्पर्य-दर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्म-दर्शिनः, तैः सूक्ष्म-दर्शिभिः, पण्डितैर् इत्य् एतत्॥
√yam, vāc, manas, prājña, tad, √yam, jñāna, ātman;
jñāna, ātman, mahat, ni-√yam, tad, √yam, śānta, ātman.

प्राज्ञः [=विवेकी] वाच् मनसी [=वाग्-आदि-करणं वाचं वा मनसि] यच्छेत्, तद् [मनस्] ज्ञाने आत्मनि [=बुद्धौ] यच्छेत्, ज्ञानं महति आत्मनि नियच्छेत्, तद् शान्ते आत्मनि यच्छेत्॥
तत्-प्रतिपत्त्य् उपायम् आह –
यच्छेद् नियच्छेद् उपसंहरेत् प्राज्ञो विवेकी। किम्? वाग् वाचम्। वाग् अत्रोपलक्षणार्था सर्वेषाम् इन्द्रियाणाम् (BrhU.1.5.3)। क्व? मनसी मनसि। छान्दसं दैर्घ्यम्। तच् च मनो यच्छेज् ज्ञाने प्रकाश-स्वरूपे बुद्धाव् आत्मनि। बुद्धिर् हि मन-आदि-करणान्य् आप्नोतीत्य् आत्मा प्रत्यक् तेषाम्। ज्ञानं बुद्धिम् आत्मनि महति प्रथम-जे नियच्छेत्। प्रथम-जवत् स्वच्छ-स्व-भावकम् आत्मनो विज्ञानम् आपादयेद् इत्य् अर्थः। तद् तं च महान्तम् आत्मानं यच्छेत् शान्ते सर्व-विशेष-प्रत्यस्तमित-रूपेऽविक्रिये सर्वान्तरे सर्व-बुद्धि-प्रत्यय-साक्षिणि मुख्ये आत्मनि
ud-√sthā, √jāgṛ, prāpya, vara, ni-√budh;
kṣura, dhārā, niśitā, dus-atyaya, dus-ga, panthan, tad, kavi, √vad.

उत्तिष्ठत, जाग्रत, वरान् [आचार्यान्] प्राप्य निबोधत। [यथा] क्षुरस्य निशिता धारा दुर्-अत्यया, कवयः पथः [=ज्ञान-मार्गस्य] तद् [तं पन्थानं वा] “दुर्-गं” वदन्ति॥
एवं पुरुषे आत्मनि सर्वं प्रविलाप्य – नाम-रूप-कर्म-त्रयं (BrhU.1.6.1), यन् मिथ्याज्ञान-विजृम्भितं, क्रिया-कारक-फल-लक्षणं स्वात्म-याथात्म्य-ज्ञानेन, मरीच्य्-उदक-रज्जु-सर्प-गगन-मलानि इव मरीचि-रज्जु-गगन-स्व-रूप-दर्शनेनैव – स्व-स्थः प्रशान्तात्मा कृत-कृत्यो भवति यतः, अतस् तद्-दर्शनार्थम् –
अनाद्य्-अ-विद्या-प्रसुप्ता उत्तिष्ठत हे जन्तवः, आत्म-ज्ञानाभिमुखा भवत। जाग्रत अ-ज्ञान-निद्राया घोर-रूपायाः सर्वानर्थ-बीज-भूतायाः क्षयं कुरुत।
कथम्? प्राप्य उपगम्य वरान् प्रकृष्टान् आचार्यांस् तद्-विदः, तद्-उपदिष्टं सर्वान्तरम् आत्मानम् ‘अहम् अस्मि’ इति निबोधत अवगच्छत। ‘न हि उपेक्षितव्यम्’ इति श्रुतिर् अनुकम्पया आह मातृवत्, अति-सूक्ष्म-बुद्धि-विषयत्वाज् ज्ञेयस्य। किम् इव सूक्ष्म-बुद्धि? इत्य् उच्यते – क्षुरस्य धारा अग्रं निशिता तीक्ष्णी-कृता दुर्-अत्यया दुःखेनात्ययो यस्याः सा दुर्-अत्यया। यथा सा पद्भ्यां दुर्-गमनीया, तथा दुर्-गं दुः-सम्पाद्यम् इत्य् एतत्। पथः पन्थानं तत् तं ज्ञान-लक्षणं मार्गं कवयो मेधाविनो वदन्ति। ज्ञेयस्याति-सूक्ष्मत्वात्, तद्-विषयस्य ज्ञान-मार्गस्य दुः-सम्पाद्यत्वं वदन्ति इत्य् अभिप्रायः॥
a-śabda, a-sparśa, a-rūpa, a-vyaya, tathā, a-rasa, nitya, a-gandhavat, ca, yad;
an-ādi, an-anta, mahat, para, dhruva, nicāyya, tad, mṛtyu-mukha, pra-√muc.

यद् अ-शब्दम्, अ-स्पर्शम्, अ-रूपम्, अ-व्ययं, तथा अ-रसं, नित्यम्, अ-गन्धवत् च, अन्-आदि, अन्-अन्तं, महतः परं, ध्रुवं, तद् [ब्रह्म] निचाय्य मृत्यु-मुखात् प्रमुच्यते॥
तत् कथम् अति-सूक्ष्मत्वं ज्ञेयस्य? इत्य् उच्यते। स्थूला तावद् इयं मेदिनी शब्द-स्पर्श-रूप-रस-गन्धोपचिता सर्वेन्द्रिय-विषय-भूता तथा शरीरम्। तत्रैकैक-गुणापकर्षेण गन्धादीनां सूक्ष्मत्व-महत्त्व-विशुद्धत्व-नित्यत्वादि-तारतम्यं दृष्टम् अ-बादिषु यावद् आकाशम् इति, ते गन्धादयः सर्वे एव स्थूलत्वाद् कारणाः शब्दान्ता यत्र न सन्ति, किम्-उ तस्य सूक्ष्मत्वादि-निरतिशयत्वं वक्तव्यम् इत्य् एतद् दर्शयति श्रुतिः –
अ-शब्दम् अ-स्पर्शम् अ-रूपम् अ-व्ययं तथा अ-रसं नित्यम् अ-गन्धवच् च यद् एतद् व्याख्यातं ब्रह्म अ-व्ययम्। यद् धि शब्दादिमत्, तद् व्येति। इदं त्व् अ-शब्दादिमत्त्वाद् अ-व्ययं, न व्येति न क्षीयते। अत एव च नित्यम्। यद् धि व्येति, तद् अ-नित्यम्। इदं तु न व्येति, अतो नित्यम्। इतश् च नित्यम् – अन्-आदि अ-विद्यमान आदिः कारणम् अस्य तद् इदम् अन्-आदि। यद् ध्य् आदिमत् तत् कार्यत्वाद् अ-नित्यं कारणे प्रलीयते यथा पृथिव्य्-आदि। इदं तु सर्व-कारणत्वाद् अ-कार्यम्। अ-कार्यत्वान् नित्यम्। न तस्य कारणम् अस्ति यस्मिन् प्रलीयेत।
तथा अन्-अन्तम् अ-विद्यमानोऽन्तः कार्यम् अस्य तद् अन्-अन्तम्। यथा कदल्यादेः फलादि-कार्योत्पादनेन अप्य् अ-नित्यत्वं दृष्टम्, न च तथापि अन्तवत्त्वं ब्रह्मणः। अतोऽपि नित्यम्।
महतो महत्-तत्त्वाद् बुद्ध्य्-आख्यात् परं विलक्षणं नित्य-विज्ञप्ति-स्व-रूपत्वात्। सर्व-साक्षि हि सर्व-भूतात्मत्वाद् ब्रह्म। उक्तं हि “एष सर्वेषु भूतेषु” (KathU.1.3.12) इत्य्-आदि। ध्रुवं च कूट-स्थं नित्यं, न पृथिव्य्-आदिवद् आपेक्षिकं नित्यत्वम्। तद् एवं-भूतं ब्रह्मात्मानं निचाय्य अवगम्य तम् आत्मानं, मृत्यु-मुखान् मृत्यु-गोचराद् अ-विद्या-काम-कर्म-लक्षणात् प्रमुच्यते वियुज्यते॥
nāniketas, upākhyāna, mṛtyu-prokta, sanā-tana;
uktvā, śrutvā, ca, medhāvin, brahma-loka, √mahat.

सना-तनं उपाख्यानं नाचिकेतं मृत्यु-प्रोक्तं श्रुत्वा उक्त्वा च मेधावी ब्रह्म-लोके महीयते॥
प्रस्तुत-विज्ञान-स्तुत्य्-अर्थम् आह श्रुतिः –
नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं, मृत्युना प्रोक्तं मृत्यु-प्रोक्तम् इदम् आख्यानम् उपाख्यानं वल्ली-त्रय-लक्षणं सना-तनं चिरन्-तनं वैदिकत्वाद् उक्त्वा ब्राह्मणेभ्यः श्रुत्वा च आचार्येभ्यो मेधावी ब्रह्मैव लोको ब्रह्म-लोकस् तस्मिन् ब्रह्म-लोके महीयते आत्म-भूत उपास्यो भवतीत्य् अभिप्रायः॥
yad, idam, parama, guhya, √śru, brahma-saṃsad;
prayata, śrāddha-kāla, vā, tad, ān-antya, √kḷp, tad, ān-antya, √kḷp.

यः प्रयतः ब्रह्म-संसदि श्राद्ध-काले वा इमं परमं गुह्यं श्रावयेत्, तद् [कथनं श्राद्धं वा] आन्-अन्त्याय कम्पते। तद् आन्-अन्त्याय कल्पते इति॥
यः कश्चिद् इमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेद् ग्रन्थतोऽर्थतश् च ब्राह्मणानां संसदि ब्रह्म-संसदि प्रयतः शुचिर् भूत्वा श्राद्ध-काले वा श्रावयेद् भुञ्जानानां, तत् श्राद्धम् अस्य आन्-अन्त्याय अन्-अन्त-फलाय कल्पते सम्पद्यते। द्विर्-वचनम् अध्याय-परिसमाप्त्य्-अर्थम्॥
॥इति प्रथमेऽध्याये तृतीया वल्ली॥
॥इति श्रीमत्-परम-हंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ काठकोपनिषद्-भाष्ये प्रथमोऽध्यायः॥

Go to Top ('Home' key on many Windows browsers)

parāc, kha, vi-√tṛd, svayam-bhū, tad, parāc, √dṛś, na, antar-ātman;
ka-cid, dhīra, pratyac-ātman, √īkṣ, āvṛta-cakṣus, a-mṛtatva, icchat.

स्वयम्-भूः पराञ्चि खानि व्यतृणत् [इव]। तस्मात् पराङ् पश्यति, न अन्तर्-आत्मन् [=-आत्मानम्]। अ-मृतत्वम् इच्छन् कः-चिद् धीरः आवृत-चक्षुर् प्रत्यच्-आत्मानम् ऐक्षत्॥
“एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते। दृश्यते त्व् अग्र्यया बुद्ध्या” इत्य् (KathU.1.3.12) उक्तम्। कः पुनः प्रतिबन्धोऽग्र्यायाः बुद्धेः, येन तद्-अभावाद् आत्मा न दृश्यते इति तद्-अदर्शन-कारण-प्रदर्शनार्था वल्ल्य् आरभ्यते। विज्ञाते हि श्रेयः-प्रतिबन्ध-कारणे तद्-अपनयनाय यत्नः आरब्धुं शक्यते, नान्यथेति –
पराञ्चि पराग् अञ्चन्ति गच्छन्तीति। खानि तद्-उपलक्षितानि श्रोत्रादीनीन्द्रियाणि खानि इत्य् उच्यन्ते। तानि पराञ्च्य् एव शब्दादि-विषय-प्रकाशनाय प्रवर्त्तन्ते। यस्माद् एवं-स्व-भावकानि तानि व्यतृणद् हिंसितवान् हननं कृतवान् इत्य् अर्थः। कोऽसौ स्वयं-भूः परमेश्वरः स्वयम् एव स्व-तन्त्रो भवति सर्व-दा, न पर-तन्त्र इति। तस्मात् पराङ् पराग् रूपान् अन्-आत्म-भूतान् शब्दादीन् पश्यति उपलभते उपलब्धा नान्तर्-आत्मन् न अन्तर्-आत्मानम् इत्य् अर्थः।
एवं-स्व-भावेऽपि सति लोकस्य, कश्चित् नद्याः प्रतिस्रोतः-प्रवर्त्तनम् इव धीरः धीमान् विवेकी प्रत्यग्-आत्मानं प्रत्यक् च असाव् आत्मा चेति प्रत्यग्-आत्मा। प्रतीच्य् एवात्म-शब्दो रूढो लोके, न अन्यस्मिन्। व्युत्पत्ति-पक्षेऽपि तत्रैव आत्म-शब्दो वर्त्तते।
यच् चाप्नोति यद् आदत्ते यच् चात्ति विषयान् इह।
यच् चास्य सन्ततो भावस् तस्माद् आत्मेति कीर्त्त्यते॥(LinPur.70.13)
इत्य् आत्म-शब्द-व्युत्पत्ति-स्मरणात्।
तं प्रत्यग्-आत्मानं स्वं स्व-भावम् ऐक्षद् अपश्यत् पश्यतीत्य् अर्थः, छन्दसि कालानियमात्। कथं पश्यति इत्य् उच्यते – आवृत्त-चक्षुर् आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकम् इन्द्रिय-जातम् अ-शेष-विषयाद् यस्य स आवृत्त-चक्षुः। स एवं संस्कृतः प्रत्यग्-आत्मानं पश्यति। न हि बाह्य-विषयालोचन-परत्वं प्रत्यग्-आत्मेक्षणं च एकस्य सम्भवति। किम् अर्थं पुनर् इत्थं महता प्रयासेन स्व-भाव-प्रवृत्ति-निरोधं कृत्वा धीरः प्रत्यग्-आत्मानं पश्यति? इत्य् उच्यते – अ-मृतत्वम् अ-मरण-धर्मत्वं नित्य-स्व-भावताम् इच्छन्न् आत्मन इत्य् अर्थः॥
parāc, kāma, anu-√i, bāla, tad, mṛtyu, √i, vitata, pāśa;
atha, dhīra, a-mṛtatva, viditvā, dhruva, a-dhruva, iha, na, pra-√arth.

बालाः पराचः कामान् अनुयन्ति। ते विततस्य मृत्योः पाशं यन्ति। अथ धीराः अ-मृतत्वं ध्रुवं विदित्वा, न इह अ-ध्रुवेषु प्रार्थयन्ते॥
यत् तावत् स्वा-भाविकं पराग् एव अन्-आत्म-दर्शनं तद् आत्म-दर्शनस्य प्रतिबन्ध-कारणम् अ-विद्या तत्-प्रतिकूलत्वाद्, या च पराक्षु एव अ-विद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा, ताभ्याम् अ-विद्या-तृष्णाभ्यां प्रतिबद्धात्म-दर्शनाः –
पराचः बहिर्-गतान् एव कामान् काम्यान् विषयान् अनुयन्ति अनुगच्छन्ति बाला अल्प-प्रज्ञाः। ते तेन कारणेन मृत्योर् अविद्या-काम-कर्म-समुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रियादि-संयोग-वियोग-लक्षणम्। अनवरतं जन्म-मरण-जरा-रोगाद्यनेकानर्थ-व्रातं प्रतिपद्यन्त इत्य् अर्थः।
यत एवम् अथ तस्माद् धीरा विवेकिनः प्रत्यगात्म-स्व-रूपावस्थान-लक्षणम् अ-मृतत्वं ध्रुवं विदित्वा। देवाद्य्-अमृतत्वं हि अ-ध्रुवम्। इदं तु प्रत्यग्-आत्म-स्व-रूपावस्थान-लक्षणं “न कर्मणा वर्धते नो कनीयान्” इति (BrhU.4.4.23) ध्रुवम्। तद् एवं-भूतं कूट-स्थम् अ-विचाल्यम् अ-मृतत्वं विदित्वा अ-ध्रुवेषु सर्व-पदार्थेषु अ-नित्येषु निर्धार्य, ब्राह्मणाः इह संसारेऽनर्थ-प्राये न प्रार्थयन्ते किञ्चिद् अपि, प्रत्यग्-आत्म-दर्शन-प्रतिकूलत्वात्। पुत्र-वित्त-लोकैषणाभ्यो व्युत्तिष्ठन्त्य् एवेत्य् अभिप्रायः॥
yad, rūpa, rasa, gandha, śabda, sparśa, ca, maithuna;
etad, eva, vi-√jñā, kim, atra, pari-√śiṣ. etad, vai, tad.

येन एतेन एव रूपं रसं गन्धं शब्दान् स्पर्शान् [च, तेषां] मैथुनान् च विजानाति, अत्र किं परिशिष्यते? एतद् [ब्रह्म] वै तद् [“अन्यत्र धर्मात् अन्यत्र अ-धर्मात्” इति (KathU.1.2.14)]॥
यद्-विज्ञानान् न किञ्चिद् अन्यत् प्रार्थयन्ते ब्राह्मणाः, कथं तद्-अधिगमः? इत्य् उच्यते –
येन विज्ञान-स्व-भावेनात्मना रूपं रसं गन्धं शब्दान् स्पर्शांश् च मैथुनान् मैथुन-निमित्तान् सुख-प्रत्ययान् विजानाति विस्पष्टं जानाति सर्वो लोकः।
ननु नैवं प्रसिद्धिर् लोकस्य ‘आत्मना देहादि-विलक्षणेन अहं विजानामि’ इति। ‘देहादि-सङ्गातोऽहं विजानामि’ इति तु सर्वो लोकोऽवगच्छति।
न त्व् एवम्। देहादि-सङ्गातस्य अपि शब्दादि-स्व-रूपत्वाविशेषाद् विज्ञेयत्वाविशेषाच् च न युक्तं विज्ञातृत्वम्। यदि हि देहादि-सङ्गातो रूपाद्य्-आत्मकः सन् रूपादीन् विजानीयात्, तर्हि बाह्या अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च विजानीयुः। न चैतद् अस्ति। तस्माद् देहादि-लक्षणांश् च रूपादीन् एतेनैव देहादि-व्यतिरिक्तेनैव विज्ञान-स्व-भावेनात्मना विजानाति लोकः। यथा येन लोहो दहति सोऽग्निर् इति तद्वत्।
आत्मनोऽविज्ञेयम् किम् अत्र अस्मिँल् लोके परिशिष्यते? न किञ्चित् परिशिष्यते। सर्वम् एव त्व् आत्मना विज्ञेयम्। यस्यात्मनोऽविज्ञेयं न किञ्चित् परिशिष्यते, स आत्मा सर्व-ज्ञः। एतद् वै तत्। किं तद्? यन् नचिकेतसा पृष्टं (KathU.1.1.20), देवादिभिः अपि विचिकित्सितं (KathU.1.1.21), धर्मादिभ्योऽन्यत् (KathU.1.2.14), विष्णोः परमं पदं (KathU.1.3.9), यस्मात् परं नास्ति (KathU.1.3.11), तद् वै एतद् अधिगतम् इत्य् अर्थः॥
svapna-anta, jāgarita-anta, ca, ubha, yad, anu-√dṛś;
mahat, vibhu, ātman, matvā, dhīra, na, √śuc.

येन [लोकः] उभौ स्वप्न-अन्तं जागरित-अन्तं च अनुपश्यति, [तम्] आत्मानं महान्तं विभुं मत्वा, धीरः न शोचति॥
अति-सूक्ष्मत्वाद् दुर्-विज्ञेयम् इति मत्वैतम् एवार्थं पुनः पुनर् आह –
स्वप्नान्तं स्वप्न-मध्यं, स्वप्न-विज्ञेयम् इत्य् एतत्। तथा जागरितान्तं जागरित-मध्यं जागरित-विज्ञेयं उभौ स्वप्न-जागरितान्तौ येन आत्मना अनुपश्यति लोक इति सर्वं पूर्ववत्। तं महान्तं विभुम् आत्मानं मत्वा अवगम्य आत्म-भावेन साक्षाद् ‘अहम् अस्मि परमात्मा’ इति धीरो न शोचति
yad, idam, madhu-ad, √vid, ātman, jīva, antikāt;
īśāna, bhūta-bhavya, na, tatas, vi-√gup. etad, vai, tad.

यः इमं मधु-अदं जीवम् आत्मानं भूत-भव्यस्य ईशानं अन्तिकात् वेद, ततस् [सः धीरः आत्मानं] न विजुगुप्सते। एतद् वै तद्॥
किञ्च –
यः कश्चिद् इमं मध्व्-अदं कर्म-फल-भुजं जीवं प्राणादि-कलापस्य धारयितारम् आत्मानं वेद विजानाति अन्तिकाद् अन्तिके समीपे ईशानम् ईशितारं भूत-भव्यस्य काल-त्रयस्य, ततः तद्-विज्ञानाद् ऊर्ध्वम् आत्मानं न विजुगुप्सते न गोपायितुम् इच्छति, अ-भय-प्राप्तत्वात्। यावद् धि भय-मध्य-स्थोऽनित्यम् आत्मानं मन्यते तावद् गोपायितुम् इच्छति आत्मानम्। यदा तु नित्यम् अ-द्वैतम् आत्मानं विजानाति, तदा कः किं कुतो वा गोपायितुम् इच्छेत्। एतद् वै तद् इति पूर्ववत्॥
yad, pūrva, tapas, jāta, ap, pūrvam, √jan;
guhā, praviśya, tiśṭhat, yad, bhūta, vi-√dṛś. etad, vai, tad.

यः व्यपश्यत [तं] तपसः पूर्वं जातं [हिरण्य-गर्भं] अद्भ्यः [च] पूर्वं अजायत – यः [च] [सर्व-प्राणिं] गुहां प्रविश्य, भूतेभिः तिष्ठन्तं, [सः पश्यति –] एतद् वै तद्॥
यः प्रत्यग्-आत्मा_ईश्वर-भावेन निर्दिष्टः, स सर्वात्मेत्य् एतद् दर्शयति –
यः कश्चिन् मुमुक्षुः पूर्वं प्रथमं तपसो ज्ञानादि-लक्षणाद् ब्रह्मण [=ईश्वरस्य] इत्य् एतद् जातम् उत्पन्नं हिरण्य-गर्भम्। किम् अपेक्ष्य पूर्वम्? इत्य् आह – अद्भ्यः पूर्वम् अप्-सहितेभ्यः पञ्च-भूतेभ्यः, न केवलाभ्योऽद्भ्य इत्य् अभिप्रायः, अजायत उत्पन्नः। यस् तं प्रथम-जं देवादि-शरीराणि उत्पाद्य सर्व-प्राणि-गुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीन् उपलभमानं भूतेभिर् भूतैः कार्य-करण-लक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्य् एतत्। य एवं पश्यति, स एतद् एव पश्यति यत् तत् प्रकृतं ब्रह्म॥
yad, prāṇa, sam-√bhū, aditi, devatāmayī;
guhā, praviśya, tiśṭhat, yad, bhūta, vi-√jan. etad, vai, tad.

या अदितिः [नाम हिरण्य-गर्भः] देवतामयी प्राणेन [हिरण्य-गर्भ-रूपेण] सम्भवति, गुहां प्रविश्य, या भूतेभिः तिष्ठन्तीं व्यजायत, [तां सः पश्यति –] एतद् वै तद्॥
किञ्च –
या सर्व-देवतामयी सर्व-देवतात्मिका प्राणेन हिरण्य-गर्भ-रूपेण परस्माद् ब्रह्मणः सम्भवति, शब्दादीनाम् अदनाद् अदितिः [इति], तां पूर्ववद् गुहां प्रविश्य तिष्ठन्तीम् अदितिम्। ताम् एव विशिनष्टि – या भूतेभिर् भूतैः समन्विता व्यजायत उत्पन्ना इत्य् एतत्॥
araṇi, nihita, jāta-vedas, garbha, iva, su-bhṛta, garbhiṇī;
dive, dive, īḍya, jāgṛvas, haviṣmat, manuṣya, agni. etad, vai, tad.

जात-वेदाः अग्निः [विराट्] अरण्योः निहितः, गर्भः इव गर्भिणीभिः सु-भृतः, जागृवद्भिः मनुष्येभिः हविष्मद्भिः दिवे दिवे ईड्यः। एतद् वै तद्॥
किञ्च –
योऽधि-यज्ञ उत्तराधर-अरण्योर् निहितः स्थितो जात-वेदाः अग्निः पुनः सर्व-हविषां भोक्ता अध्य्-आत्मं च योगिभिर् गर्भ इव गर्भिणीभिर् अन्तर्-वत्नीभिर् अ-गर्हितान्न-पान-भोजनादिना यथा गर्भः सु-भृतः सुष्ठु सम्यग्-भृतो लोके इव (इति), इत्थम् एव ऋत्विग्भिः योगिभिश् च सु-भृत इत्य् एतत्। किञ्च, दिवे दिवे अहन्य् अहनि ईड्यः स्तुत्यो वन्द्यश् च कर्मिभिर् योगिभिश् च अध्वरे हृदये च जागृवद्भिर् जागरण-शीलवद्भिर् अ-प्रमत्तैर् इत्य् एतत्। हविष्मद्भिर् आज्यादिमद्भिर् ध्यान-भावनावद्भिश् च मनुष्येभिर् मनुष्यैर् अग्निःएतद् वै तत्, तद् एव प्रकृतं ब्रह्म॥
yatas, ca, ud-√i, sūrya, astam, yatra, ca, √gam;
tad, deva, sarva, arpita, tad, u, na, ati-√i, ka-cana. etad, vai, tad.

यतस् च सूर्यः उदेति, यत्र च अस्तं गच्छति, तं [प्राण-आत्मानं] सर्वे देवाः अर्पिताः [अराः इव रथ-नाभौ]। न कश्चन उ तद् अत्येति। एतद् वै तद्॥
किञ्च –
यतश् च यस्मात् प्राणाद् उदेति उत्तिष्ठति सूर्यः, अस्तं निम्लोचनं यत्र यस्मिन्न् एव प्राणे अहन्य् अहनि गच्छति, तं प्राणम् आत्मानं देवाः सर्वे अग्न्य्-आदयः अधि-दैवं, वाग्-आदयश् च अध्य्-आत्मं, सर्वे विश्वे अरा इव रथ-नाभौ अर्पिताः सम्प्रवेशिताः स्थिति-काले। सोऽपि ब्रह्मैव। तद् एतत् सर्वात्मकं ब्रह्म, तद् उ न अत्येति न अतीत्य तद् आत्मकतां तद्-अन्यत्वं गच्छति, कश्चन कश्चिद् अपि। एतद् वै तत्
yad, eva, iha, tad, amutra, yad, amutra, tad, anu, iha;
mṛtyu, tad, mṛtyu, √āp, yad, iha, nana, iva, √dṛś.

यद् एव इह, तद् अमुत्र। यद् अमुत्र, तद् इह अनु [=सादृशेन]। यः इह नाना इव पश्यति, सः मृत्योः मृत्युम् आप्नोति॥
यद् ब्रह्मादि-स्थावरान्तेषु वर्त्तमानं तत्-तद्-उपाधिकत्वाद् अ-ब्रह्मवद् अवभासमानं संसारी अन्यत् परस्माद् ब्रह्मणः, इति मा भूत् कस्यचिद् आशङ्का इतीदम् आह –
यद् एवेह कार्य-करणोपाधि-समन्वितं संसार-धर्मवद् अवभासमानम् अ-विवेकिनाम्, तद् एव स्वात्म-स्थम् अमुत्र नित्य-विज्ञान-घन-स्व-भावं सर्व-संसार-धर्म-वर्जितं ब्रह्म। यच्अमुत्र अमुष्मिन् आत्मनि स्थितम्, तद् अनु इह तद् एव इह नाम-रूप-कार्य-करणोपाधिम् अनु-विभाव्यमानं नान्यत्। तत्रैवं सति उपाधि-स्व-भाव-भेद-दृष्टि-लक्षणया अ-विद्यया मोहितः सन् य इह ब्रह्मणि अ-नाना-भूते ‘परस्माद् अन्योऽहं, मत्तोऽन्यत् परं ब्रह्म’ इति नाना इव भिन्नम् इव पश्यति उपलभते, स मृत्योर् मरणाद् मरणं मृत्युं पुनः पुनो जन्म-मरण-भावम् आप्नोति प्रतिपद्यते। तस्मात् तथा न पश्येत्। विज्ञानैक-रसं नैर्-अन्तर्येण आकाशवत् ‘परिपूर्णं ब्रह्मैवाहम् अस्मि’ इति पश्येद् इति वाक्यार्थः॥
manas, eva, idam, āptavya, na, iha, nānā, √as, ka-cid;
mṛtyu, tad, mṛtyu, √gam, yad, nānā, iva, √dṛś.

इदं [ब्रह्म] मनसा एव आप्तव्यं। किञ्चन नाना इह न अस्ति। यः इह नाना इव पश्यति, सः मृत्योः मृत्युं गच्छति॥
प्राग् एकत्व-विज्ञानाद् आचार्यागम-संस्कृतेन मनसैव इदं ब्रह्म एक-रसम् आप्तव्यम् आत्मैव नान्यद् अस्ति इति। आप्ते च नानात्व-प्रत्युपस्थापिकाया अ-विद्याया निवृत्तत्वाद् इह ब्रह्मणि नाना न अस्ति किञ्चन अणु-मात्रम् पि। यः तु पुनर् अ-विद्या-तिमिर-दृष्टिं न मुञ्चति इह ब्रह्मणि नाना इव पश्यति, स मृत्योर् मृत्युं गच्छति एव स्वल्पम् अपि भेदम् अध्यारोपयन्न् इत्य् अर्थः॥
aṅguṣṭha-mātra, puruṣa, madhye, ātman, √sthā;
īśāna, bhūta-bhavya, na, tatas, vi-√gup. etad, vai, tad.

अङ्गुष्ठ-मात्रः पुरुषः आत्मनि [=शरीरे] मध्ये [=अन्तरे, हृदये वा] तिष्ठति। भूत-भव्यस्य ईशानः, ततस् न विजुगुप्सते। एतद् वै तद्॥
पुनर् अपि तद् एव प्रकृतं ब्रह्माह –
अङ्गुष्ठ-मात्रः अङ्गुष्ठ-परिमाणः। अङ्गुष्ठ-परिमाणं हृदय-पुण्डरीकं तच्-छिद्र-वर्त्य्-अन्तः-करणोपाधिः अङ्गुष्ठ-मात्रः, अङ्गुष्ठ-मात्र-वंश-पर्व-मध्य-वर्त्य्-अम्बरवत्। पुरुषः पूर्णम् अनेन सर्वम् इति। मध्ये आत्मनि शरीरे तिष्ठति यस् तम् आत्मानम् ईशानं भूत-भव्यस्य विदित्वा, न ततः इत्य्-आदि पूर्ववत् (KathU.2.1.5)॥
aṅguṣṭhamātra, puruṣa, jyotis, iva, a-dhūmaka;
īśāna, bhūta-bhavya, tad, eva, adya, tad, u, śvas. etad, vai, tad.

अङ्गुष्ठ-मात्रः पुरुषः अ-धूमकः ज्योतिः इव। [सः पुरुषः] भूत-भव्यस्य ईशानः। सः एव अद्य। सः उ श्वस्। एतद् वै तद्॥
किञ्च –
अङ्गुष्ठ-मात्रः पुरुषः ज्योतिः इव अ-धूमकः, अ-धूमकम् इति युक्तं ज्योतिः-परत्वात्। यस् त्व् एवं लक्षितो योगिभिर् हृदये, ईशानो भूत-भव्यस्य स एव नित्यः कूट-स्थोऽद्य इदानीं प्राणिषु वर्त्तमानः स उ श्वोऽपि वर्तिष्यते। न अन्यस् तत्-समोऽन्यश् च जनिष्यते इत्य् अर्थः। अनेन ‘नायम् अस्तीति चैके’ इत्य् अयं पक्षो न्यायतोऽप्राप्तोऽपि स्व-वचनेन श्रुत्या प्रत्युक्तः। तथा क्षण-भङ्ग-वादश् च॥
yathā, udaka, dus-ga, parvata, vi-√dhāv;
evam, dharma, pṛthak, paśyat, tad, eva, anu-vi-dhāv.

यथा दुस्-गे [पर्वत-अग्रे] वृष्टं उदकं पर्वतेषु विधावति, एवं धर्मान् पृथक् पश्यन्, तान् एव अनुविधावति॥
पुनर् अपि भेद-दर्शनापवादं ब्रह्मण आह –
यथा उदकं दुर्-गे दुर्-गमे देशे उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्न-प्रदेशेषु विधावति विकीर्णं सद् विनश्यति, एवं धर्मान् आत्मनो भिन्नान् (ऽभिन्नान्) पृथक् पश्यन् पृथग् एव प्रतिशरीरं पश्यन् तान् एव शरीर-भेदानुवर्तिनोऽनुविधावति – शरीर-भेदम् एव पृथक् पुनः पुनः प्रतिपद्यत इत्य् अर्थः॥
yathā, udaka, eka, śuddha, śuddha, āsikta, tā-dṛś, eva, √bhū;
evam, muni, vijānat, ātman, √bhū, gautama.

यथा शुद्धम् उदकं शुद्धे आसिक्तं ता-दृक् [एक-रसं] एव भवति, एवम् [एकत्वं] आत्मा भवति मुतेः विजानतः, गौतम [नचिकेतस्]॥
यस्य पुनर् विद्यावतो विध्वस्तोपाधि-कृत-भेद-दर्शनस्य विशुद्ध-विज्ञान-घनैक-रसम् अ-द्वयम् आत्मानं पश्यतो (विजानतो मुनेर् मनन-शीलस्य) आत्म-स्व-रूपं कथं भवति इत्य् उच्यते –
यथा उदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एक-रसम् एव न अन्यथा ता-दृग् एव भवति, आत्मा अपि एवम् एव भवति एकत्वं विजानतो मुनेर् मनन-शीलस्य हे गौतम। तस्मात् कु-तार्किक-भेद-दृष्टिं नास्तिक-कु-दृष्टिं च उज्झित्वा मातृ-पितृ-सहस्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टम् आत्मैकत्व-दर्शनं शान्त-दर्पैर् आदरणीयम् इत्य् अर्थः॥

Go to Top ('Home' key on many Windows browsers)

Dwelling and pervading like sun, fire, air

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11 mn.12 mn.13 mn.14 mn.15

pura, ekā-daśā-dvāra, a-ja, a-vakra-cetas;
anuṣṭhāya, na, √śuc, vimukta, ca, vi-√muc. etad, vai, tad.

अ-जस्य अ-वक्र-चेतसः [आत्मनः] पुरं एका-दश-द्वारम्। [तम्] अनुष्ठाय, [सः] न शोचति। विमुक्तः [सन्] च विमुच्यते। एतद् वै तद्॥
पुनर् अपि प्रकारान्तरेण ब्रह्म-तत्त्व-निर्धारणार्थोऽयम् आरम्भो, दुर्-विज्ञेयत्वाद् ब्रह्मणः –
पुरं पुरम् इव पुरम्। द्वार-(द्वार-)पालाधिष्ठात्राद्य्-अन्-एक-पुरोपकरण-सम्पत्ति-दर्शनात् शरीरं पुरम्। पुरं च सोपकरणं स्वात्मना_अ-संहत-स्व-तन्त्र-स्वाम्य्-अर्थं दृष्टम्। तथेदं पुर-सामान्याद् अन्-एकोपकरण-संहतं शरीरं स्वात्मना_अ-संहत-राज-स्थानीय-स्वाम्य्-अर्थं भवितुम् अर्हति।
तच् चेदं शरीराख्यं पुरम् एका-दश-द्वारम् एका-दश द्वाराण्य् अस्य – सप्त शीर्षण्यानि, नाभ्या सह_अर्वाञ्चि त्रीणि, शिरस्येकम्, तैर् एका-दश-द्वारं पुरम्।
कस्य? अ-जस्य जन्मादि-विक्रिया-रहितस्य आत्मनो राज-स्थानीयस्य पुर-धर्म-विलक्षणस्य। अ-वक्र-चेतसोऽवक्रम् अ-कुटिलम् आदित्य-प्रकाशवद् नित्यम् एव अवस्थितम् एक-रूपं चेतो विज्ञानम् अस्येति अ-वक्र-चेताः, तस्यावक्र-चेतसः राज-स्थानीयस्य ब्रह्मणः।
यस्येदं पुरं तं परमेश्वरं पुर-स्वामिनम् अनुष्ठाय ध्यात्वा। ध्यानं हि तस्यानुष्ठानं सम्यग्-विज्ञान-पूर्वकं तं, सर्वैषणा-विनिर्मुक्तः सन् समं सर्व-भूत-स्थं ध्यात्वा न शोचति। तद्-विज्ञानाद् अ-भय-प्राप्तेः शोकावसराभावात् कुतो भयेक्षा। इहैवाविद्या-कृत-काम-कर्म-बन्धनैर् विमुक्तो भवति। विमुक्तश् च सन् विमुच्यते। पुनः शरीरं न गृह्णातीत्य् अर्थः॥
haṃsa, śuci-sad, vasu, antarikṣa-sad, hotṛ, vedi-sad, a-tithi, duroṇa-sad;
nṛ-sad, vara-sad, ṛta-sad, vyoma-sad, ap-ja, go-ja, ṛta-ja, adri-ja, ṛta, bṛhat.

[सः परम-ईश्वरः] हंसः शुचि-सद्, वसुः अन्तरिक्ष-सद्, होता वेदि-सद्, अतिथिः दुरोण-सद्, नृ-सद्, वर-सद्, ऋत-सद्, व्योम-सद्, अब्-जाः, गो-जाः, ऋत-जाः, अद्रि-जाः, ऋतं, बृहत् [च]॥
स तु नैक-शरीर-पुर-वर्त्य् एवात्मा। किं तर्हि? सर्व-पुर-वर्ती। कथम्? –
हंसः हन्ति गच्छतीति, शुचि-षत् शुचौ दिवि आदित्यात्मना सीदतीति। वसुर् वासयति सर्वान् इति, वाय्व्-आत्मना अन्तर्-इक्षे सीदतीति अन्तर्-इक्ष-सत्होता अग्निः, अग्निर् वै होता (CitU.3.1) इति श्रुतेः, वेद्यां पृथिव्यां सीदतीति वेदि-षद्, “इयं वेदिः परोऽन्तः पृथिव्याः” इति (RgV.2.3.20) मन्त्र-वर्णात्। अ-तिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोण-सत्। ब्राह्मणोऽतिथि-रूपेण वा दुरोणेषु गृहेषु सीदतीति।
नृ-षद् नृषु मनुष्येषु सीदतीति नृषत्। वर-सद् वरेषु देवेषु सीदतीति। ऋत-सद् ऋतं सत्यं यज्ञो वा, तस्मिन् सीदतीति। व्योम-सद् व्योम्नि आकाशे सीदतीति व्योम-सत्। अब्-जाः अप्सु शङ्ख-शुक्ति-मकरादि-रूपेण जायत इति। गो-जाः गवि पृथिव्यां व्रीहि-यवादि-रूपेण जायत इति। ऋत-जाः यज्ञाङ्ग-रूपेण जायत इति। अद्रि-जाः पर्वतेभ्यो नद्य्-आदि-रूपेण जायत इति।
सर्वात्मापि सन् ऋतम् अ-वि-तथ-स्व-भाव एव। बृहद् महान्, सर्व-कारणत्वात्। यदाप्य् आदित्य एव मन्त्रेणोच्यते तदापि अस्य आत्म-स्व-रूपत्वम् आदित्यस्याङ्गी-कृतत्वाद् ब्राह्मण-व्याख्यानेऽप्य् अ-विरोधः। सर्वथापि (सर्व-व्पापी) एक एवात्मा जगतो, नात्म-भेद इति मन्त्रार्थः॥
ūrdhva, prāṇa, ud-√nī, apāna, prayak, √as;
madhya, vāmana, āsīna, viśva, deva, upa-√ās.

[यः आत्मा] प्राणम् ऊर्ध्वं उन्नयति, अपानं प्रत्यक् अस्यति, [यं आत्मानं] मध्ये वामनं [बुद्धौ] आसीनं, [तं] विश्वे देवाः उपासते॥
आत्मनः स्व-रूपाधिगमे लिङ्गम् उच्यते –
ऊर्ध्वं हृदयात् प्राणं प्राण-वृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति। तथा अपानं प्रत्यग् अधोऽस्यति क्षिपति, य इति वाक्य-शेषः। तं मध्ये हृदय-पुण्डरीकाकाशे आसीनं बुद्धाव् अभिव्यक्त-विज्ञान-प्रकाशं वामनं [वननीयं] सम्भजनीयं विश्वे सर्वे देवाश् चक्षुर्-आदयः प्राणा रूपादि-विज्ञानं बलिम् उपाहरन्तो विश इव राजानम् उपासते। ताद्-अर्थ्येन अन्-उपरत-व्यापारा भवन्तीत्य् अर्थः। यद् अर्था यत् प्रयुक्ताश् च सर्वे वायु-करण-व्यापाराः, सोऽन्यः सिद्ध इति वाक्यार्थः॥
idam, visraṃsamāna, śarīra-stha, dehin;
deha, vimucyamāna, kim, atra, pari-√śiṣ. etad, vai, tad.

अस्य देहिनः [आत्मानः], शरीर-स्थस्य विस्रंसमानस्य देहात् विमुच्यमानस्य [च], अत्र किं परिशिष्यते? एतद् वै तद्॥
किञ्च –
अस्य शरीर-स्थस्य आत्मनो विस्रंसमानस्य अवस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः। विस्रंसन-शब्दार्थम् आह – देहाद् विमुच्यमानस्य इति। किम् अत्र परिशिष्यते प्राणादि-कलापे? न किञ्चन परिशिष्यते। अत्र देहे, पुर-स्वामिनो वि-द्रवणे इव पुर-वासिनां, यस्यात्मनोऽपगमे क्षण-मात्रात् कार्य-करण-कलाप-रूपं सर्वम् इदं हत-बलं विध्वस्तं भवति, विनष्टं भवति, सोऽन्यः सिद्ध आत्मा॥
na, prāṇa, na apāna, martya, √jīv, ka-cana;
itara, tu, √jīv, yad, etad, upāśrita.

न प्राणेन न अपानेन कश्चन मर्त्यः जीवति। यस्मिन् तु एतौ उपाश्रितौ, इतरेण [आत्मना] जीवन्ति॥
स्यान् मतं – प्राणापानाद्य्-अपगमाद् एवेदं विध्वस्तं भवति, न तु तद्-व्यतिरिक्तात्मापगमात्, प्राणादिभिर् एव हि मत्र्यो जीवति इति।
नैतद् अस्ति –
न प्राणेन नापानेन चक्षुर्-आदिना वा मर्त्यो मनुष्यो देहवान् कश्चन जीवति – न कोऽपि जीवति। न हि एषां परार्थानां संहत्य-कारित्वाज् जीवन-हेतुत्वम् उपपद्यते। स्वार्थेन अ-संहतेन परेण केनचिद् अ-प्रयुक्तं संहतानाम् अवस्थानं न दृष्टं यथा गृहादीनां लोके। तथा प्राणादीनाम् अपि संहतत्वाद् भवितुम् अर्हति।
अत इतरेण एव संहत-प्राणादि-विलक्षणेन तु सर्वे संहताः सन्तः जीवन्ति प्राणान् धारयन्ति। यस्मिन् संहत-विलक्षणे आत्मनि सति परस्मिन् एतौ प्राणापानौ चक्षुर्-आदिभिः संहतौ उपाश्रितौ। यस्य अ-संहतस्यार्थे प्राणापानादिः स्व-व्यापारं कुर्वन् वर्त्तते संहतः सन्, स ततोऽन्यः सिद्ध इत्य् अभिप्रायः॥
hanta, yuṣmad, idam, pra-√vac, guhya, brahman, sanā-tana;
yathā, ca, maraṇa, prāpya, ātman, √bhū, gautama.

हन्त, इदं गुह्यं सना-तनं ब्रह्म ते प्रवक्ष्यामि, मरणं च प्राप्य यथा आत्मा भवति, गौतम॥
हन्त इदानीं पुनर् अपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सना-तनं चिरन्-तनं प्रवक्ष्यामि। यद्-विज्ञानात् सर्व-संसारोपरमो भवति, अ-विज्ञानाच् यस्य मरणं प्राप्य यथा आत्मा भवति यथा संसरति, तथा श्रृणु हे गौतम
yoni, anya, pra-√pad, śarīratva, dehin;
sthāṇu, anya, anu-sam-√i, yathā-karman, yathā-śruta.

अन्ये देहिनः शरीरत्वाय योनिं प्रपद्यन्ते, अन्ये स्थाणुं अनुसंयन्ति – यथा-कर्म यथा-श्रुतम्॥
योनिं योनि-द्वारं शुक्र-बीज-समन्विताः सन्तोऽन्ये केचिद् अ-विद्यावन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीर-ग्रहणार्थं देहिनो देहवन्तो योनिं प्रविशन्तीत्य् अर्थः। स्थाणुं वृक्षादि-स्थावर-भावम् अन्ये अत्य्-अन्ताधमा मरणं प्राप्य अनुसंयन्ति अनुगच्छन्ति। यथा-कर्म यद् यस्य कर्म तद् यथा-कर्म, यैर् या-दृशं कर्म इह जन्मनि कृतं तद्-वशेनेत्य् एतत्। तथा यथा-श्रुतं या-दृशं च विज्ञानम् उपार्जितं तद्-अनु-रूपम् एव शरीरं प्रतिपद्यन्ते इत्य् अर्थः। “यथा-प्रज्ञं हि सम्भवाः” इति (AitAr.2.3.2) श्रुत्य्-अन्तरात् [“स-विज्ञानो भवति। स-विज्ञानम् एव अन्ववक्रामति। तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च” (BṛhUp.4.4.2)]॥
yad, etad, supta, √jāgṛ, kāma, kāma, puruṣa, nirmimāṇa;
tad, eva, śukra, tad, brahman, tad, eva, a-mṛta, √vac;
tad, loka, śrita, sarva, tad, u, na, ati-√i, ka-cana. etad, vai, tad.

[प्राण-आदिषु] सुप्तेषु एषः पुरुषः यः कामं कामं निर्मिमाणः जागर्ति, तद् एव शुक्रं, तद् ब्रह्म, तद् एव अ-मृतम् उच्यते। तस्मिन् सर्वे लोकाः श्रिताः। तद् [ब्रह्म] उ न कश्चन अत्येति। एतद् वै तद्॥
यत् “प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामि” इति (KathU.2.2.6) तद् आह –
य एषः सुप्तेषु प्राणादिषु जागर्ति न स्वपिति। कथम्? कामं कामं तं तम् अभिप्रेतं स्त्र्य्-आद्य्-अर्थम् अ-विद्यया निर्मिमाणः निष्पादयन्, जागर्ति पुरुषो यः, तद् एव शुक्रं शुभ्रं शुद्धं तद् ब्रह्म नान्यद् गुह्यं ब्रह्मास्ति। तद् एव अ-मृतम् अ-विनाशी उच्यते सर्व-शास्त्रेषु। किञ्च, पृथिव्य्-आदयो लोकास् तस्मिन्न् एव सर्वे ब्रह्मणि आश्रिताः, सर्व-लोक-कारणत्वात् तस्य। तद् उ न अत्येति कश्चन इत्य्-आदि पूर्ववद् एव (KathU.2.1.9)॥
agni, yathā, eka, bhuvana, praviṣṭha, rūpa, rūpa, prati-rūpa, √bhū;
eka, tathā, sarva-bhūta-antar-ātman, rūpa, rūpa, prati-rūpa, bahis, ca.

यथा एकः अग्निः भुवनं प्रविष्टः रूपं रूपं प्रति-रूपः बभूव, तथा एकः सर्व-भूत-अन्तर्-आत्मा रूपं रूपं प्रति-रूपः, बहिस् च [भवति]॥
अन्-अक-तार्किक-कु-बुद्धि-विचालितान्तःकरणानां प्रमाणोपपन्नम् अप्य् आत्मैकत्व-विज्ञानम् अ-स-कृद् उच्यमानम् अपि अन्-ऋजु-बुद्धीनां ब्राह्मणानां चेतसि न अधीयते इति तत्-प्रतिपादने आदरवती पुनः पुनर् आह श्रुतिः –
अग्निर् यथा एक एव प्रकाशात्मा सन् भुवनं ‘भवन्त्य् अस्मिन् भूतानि’ इति भुवनम्, अयं लोकः, तम् इमं प्रविष्टोऽनुप्रविष्टो, रूपं रूपं प्रति, दार्व्-आदि-दाह्य-भेदं प्रति इत्यर्थः। प्रति-रूपः तत्र तत्र प्रति-रूपवान् दाह्य-भेदेन बहु-विधो बभूवएक एव तथा सर्व-भूतान्त्-आ<ा>त्मा सर्वेषां भूतानाम् अभ्यन्तर आत्मा अति-सूक्ष्मत्वाद् दार्व्-आदिषु इव सर्व-देहं प्रति प्रविष्टत्वात् प्रति-रूपो बभूव, बहिश् च स्वेनाविकृतेन रूपेण आकाशवत्॥
agni, yathā, eka, bhuvana, praviṣṭha, rūpa, rūpa, prati-rūpa, √bhū;
eka, tathā, sarva-bhūta-antar-ātman, rūpa, rūpa, prati-rūpa, bahis, ca.

यथा एकः वायुः भूवनं प्रविष्टः रूपं रूपं प्रति-रूपः बभूव, तथा एकः सर्व-भूत-अन्तर्-आत्मा रूपं रूपं प्रति-रूपः, बहिस् च॥
तथान्यो दृष्टान्तः –
वायुर् यथैकः इत्य्-आदि। प्राणात्मना देहेष्व् अनुप्रविष्टः “रूपं रूपं प्रतिरूपो बभूव” इत्य्-आदि समानम् (KathU.2.2.9)॥
sūrya, yathā, sarva-loka, cakṣus, na, √lip, cākṣus, bāhya-doṣa;
eka, tathā, sarva-bhūta-antar-ātman, na, √lip, loka-duḥkha, bāhya.

यथा सूर्यः सर्व-लोकस्य चक्षुर् न चाक्षुषैः बाह्य-दोषैः [च] लिप्यते, तथा एकः सर्व-भूत-अन्तर्-आत्मा न लोक-दुःखेन लिप्यते, बाह्यः [सन्]॥
एकस्य सर्वात्मत्वे संसार-दुःखित्वं परस्यैव स्याद् इति प्राप्तम्। अत इदम् उच्यते –
सूर्यो यथा चक्षुष आलोकेनोपकारं कुर्वन् मूत्र-पुरीषाद्य्-अ-शुचि-प्रकाशनेन तद्-दर्शिनः सर्व-लोकस्य चक्षुर् अपि सन् न लिप्यते, चाक्षुषैर् अ-शुच्य्-आदि-दर्शन-निमित्तैर् आध्य्-आत्मिकैः पाप-दोषैर्, बाह्यश् च अ-शुच्य्-आदि-संसर्ग-दोषैःएकः सन् तथा सर्व-भूतान्तर्-आत्मा न लिप्यते लोक-दुःखेन बाह्यः
लोको हि अ-विद्यया स्वात्मन्य् अध्यस्तया काम-कर्मोद्भवं दुःखम् अनुभवति। न तु सा परमार्थतः स्वात्मनि। यथा रज्जु-शुक्तिकोषर-गगनेषु सर्प-रजतोदक-मलानि न रज्ज्व्-आदीनां स्वतो दोष-रूपाणि सन्ति, संसर्गिणि विपरीत-बुद्ध्य्-अध्यास-निमित्तात् तद्-दोषवद् विभाव्यन्ते, न तद्-दोषैस् तेषां लेपः। विपरीत-बुद्ध्य्-अध्यास-बाह्या हि ते।
तथा आत्मनि सर्वो लोकः क्रिया-कारक-फलात्मकं विज्ञानं सर्पादि-स्थानीयं विपरीतम् अध्यस्य तन्-निमित्तं जन्म-मरणादि-दुःखम् अनुभवति। न त्व् आत्मा सर्व-लोकात्मापि सन् विपरीताध्यारोप-निमित्तेन लिप्यते लोक-दुःखेन। कुतो बाह्यो रज्ज्व्-आदिवद् एव विपरीत-बुद्ध्य्-अध्यास-बाह्यो हि स इति॥
eka, vaśin, sarva-bhūta-antar-ātman, eka, rūpa, bahudhā, yad, √kṛ;
tad, ātma-stha, yad, anu-√dṛś, dhīra, tad, sukha, śāśvata, na, itara.

यः एकं रूपं बहुधा करोति, [सः] एकः सर्व-भूत-अन्तर्-आत्मा वशी। ये धीराः तं आत्म-स्थं अनुपशन्ति, तेषां सुखं शाश्वतं, न इतरेषाम् [अ-विवेकिनाम्]॥
किञ्च –
स हि परमेश्वरः सर्व-गतः स्व-तन्त्र एकः। न तत्-समोऽभ्यधिको वाऽन्योऽस्ति। वशी सर्वं हि अस्य जगद् वशे वर्त्तते। कुतः? सर्व-भूतान्तर्-आत्मा। यत एकम् एव सदैकरसम् आत्मानं विशुद्ध-विज्ञान-रूपं नाम-रूपाद्य्-अ-शुद्धोपाधि-भेद-वशेन बहुधा अन्-एक-प्रकारं यः करोति स्वात्म-सत्ता-मात्रेण अ-चिन्त्य-शक्तित्वात् [“अजायमानो बहुधा विजायते” PurSuk.21]। तम् आत्म-स्थं स्व-शरीर-हृदयाकाशे बुद्धौ चैतन्याकारेण अभिव्यक्तम् इत्य् एतत्। न हि शरीरस्य आधारत्वम् आत्मनः, आकाशवद् अ-मूर्त्तत्वात्। आदर्श-स्थं मुखम् इति यद्वत्।
तम् एतम् ईश्वरम् आत्मानं ये निवृत्त-बाह्य-वृत्तयोऽनुपश्यन्ति आचार्यागमोपदेशम् अनु साक्षाद् अनुभवन्ति धीरा विवेकिनः, तेषां परमेश्वर-भूतानां शाश्वतं नित्यं सुखम् आत्मानन्द-लक्षणं भवति। _इतरेषां बाह्यासक्त-बुद्धीनाम् अ-विवेकिनां स्वात्म-भूतम् अपि, अ-विद्या-व्यवधानात्॥
nitya, a-nitya, cetana, cetana, eka, bahu, yad, vi-√dhā, kāma;
tad, ātma-stha, yad, anu-√dṛś, dhīra, tad, śānti, śāśvatī, na, itara.

यः अ-नित्यानां नित्यः, चेतनानां चेतनः [च], [सः] एकः बहूनां कामान् विदधाति। तम् आत्म-स्थं ये धीराः अनुपशन्ति, तेषां शान्तिः शाश्वती, न इतरेषाम्॥
किञ्च –
नित्योऽविनाशी अ-नित्यानां विनाशिनाम्। चेतनश् चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम्। अग्नि-निमित्तम् इव दाहकत्वम् अन्-अग्नीनाम् उदकादीनाम्, आत्म-चैतन्य-निमित्तम् एव चेतयितृत्वम् अन्येषाम्। किञ्च, स सर्व-ज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्म-फलानि स्वानुग्रह-निमित्तांश् च कामान् य एको बहूनाम् अन्-एकेषाम् अन्-आयासेन विदधाति प्रयच्छति इत्य् एतत्। तम् आत्म-स्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिर् उपरतिः शाश्वती नित्या स्वात्म-भूतैव स्यात्। न इतरेषाम् अन्-एवं-विधानाम्॥
tad, etad, iti, √man, a-nirdeśya, parama, sukha;
katham, nu, tad, vi-√jñā, kim, u, √bhā, vi-√bhā, vā.

[यद्] तद् परमं सुखम् अ-निर्देश्यं, “एतद् [अ-परोक्षतया]” इति मन्यन्ते। कथं नु तद् [आत्म-सुकं] विजानीयां? किम् उ [स्वयं] भाति, [विस्पष्टं] विभाति [च], [न] वा?
यत् तद् आत्म-विज्ञानं [आत्म-चैतन्यं] सुखम् अ-निर्देश्यं निर्देष्टुम् अ-शक्यं परमं प्रकृष्टं प्राकृत-पुरुष-वाङ्-मनसयोर् अ-गोचरम् अपि सन् निवृत्तैषणा ये ब्राह्मणास् ते तद् ‘एतत् प्रत्यक्षम् एव’ इति मन्यन्तेकथं नु केन प्रकारेण तत् सुखम् अहं विजानीयाम् ‘इदम्’-इत्य्-आत्म-बुद्धि-विषयम् आपादयेयं, यथा निवृत्त-विषयैषणा यतयः? किम् उ तद् भाति दीप्यते – प्रकाशात्मकं तद् यतः, अस्मद्-बुद्धि-गोचरत्वेन विभाति विस्पष्टं दृश्यते, किं वा न इति॥
na, tatra, sūrya, √bhā, na, candra-tāraka, na, idam, vidyut, √bhā, kutas, idam, agni;
tad, eva, bhāt, anu-√bhā, sarva, tad, bhās, sarva, idam, vi-√bhā.

तत्र सूर्यः न भाति। न चन्द्र-तारकं, न इमाः विद्युतः भान्ति। कुतस् अयम् अग्निः। तम् एव भान्तं, सर्वं अनुभाति (न स्वतः)। तस्य (स्व-प्रकाश-रूपस्य) भासा इदं सर्वं विभाति (विस्पष्टं दृश्यते, विविधं प्रकाश्यते)। (MunU.2.2.10)॥
अत्रोत्तरम् इदं – ‘भाति च, विभाति च’ इति। कथम्? –
न तत्र तस्मिन् स्वात्म-भूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति तद् ब्रह्म न प्रकाशयतीत्य् अर्थः। तथा न चन्द्र-तारकम्न_इमा विद्युतो भान्तिकुतोऽयम् अस्मद्-दृष्टि-गोचरः अग्निः। किं बहुना? यद् इदम् आदित्यादिकं सर्वं भाति तत् तम् एव परमेश्वरं भान्तं दीप्यमानम् अनुभाति अनुदीप्यते। यथा जलोल्मुकादि अग्नि-संयोगाद् अग्निं दहन्तम् अनु दहति न स्वतः, तद्वत्। तस्य एव भासा दीप्त्या सर्वम् इदं सूर्यादि विभाति
यत एवं तद् एव ब्रह्म भाति च विभाति च। कार्य-गतेन विविधेन भासा तस्य ब्रह्मणो भा-रूपत्वं स्वतोऽवगम्यते। न हि स्वतोऽविद्यमानं भासनम् अन्यस्य कर्त्तुं शक्यम्। घटादीनाम् अन्यावभासकत्वाद् अ-दर्शनात्। भा-रूपाणां च आदित्यादीनां तद्-दर्शनात्॥

Go to Top ('Home' key on many Windows browsers)

Brahma-ātma as the superior root of the manifest universe

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11 mn.12 mn.13 mn.14 mn.15 mn.16 mn.17 mn.18

ūrdhva-mūla, avāc-śākha, etad, aśva-ttha, sanā-tana;
tad, eva, śukra, tad, brahman, tad, eva, a-mṛta, √vac;
tad, loka, śrita, sarva, tad, u, na, ati-√i, ka-cana. etad, vai, tad.

एषः अ-श्व-त्थः ऊर्ध्व-मूलः अवाक्-शाखः सना-तनः (cf. BhG.15.1)। तद् एव शुक्रं, तद् ब्रह्म, तद् एव अ-मृतं उच्यते। तस्मिन् सर्वे लोकाः श्रिताः। तद् उ न कश्चन अत्येति (KathU.2.2.8)। एतद् वै तद् (KathU.1.2.14)॥
तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके, एवं संसार-कार्य-वृक्षावधारणेन तन्-मूलस्य ब्रह्मणः स्व-रूपावदिधारयिषया इयं षष्ठी वल्ल्य् आरभ्यते –
ऊर्ध्व-मूल ऊर्ध्वं मूलं यत् तद् विष्णोः परमं पदम् अस्य इति सोऽयम् अ-व्यक्तादि-स्थावरान्तः संसार-वृक्ष ऊर्ध्व-मूलः। वृक्षश् च व्रश्चनाद् (विनश्वरत्वात्)।
(अ-विच्छिन्न-)जन्म-जरा-मरण-शोकाद्य्-अन्-एकानर्थात्मकः,
प्रति-क्षणम् अन्यथा-स्व-भावो माया-मरीच्य्-उदक-गन्धर्व-नगरादिवद् दृष्ट-नष्ट-स्व-रूपत्वाद्,
अवसाने च वृक्षवद् अ-भावात्मकः,
कदली-स्तम्भवन् निः-सारः,
अन्-एक-शत-पाषण्ड-(पाखण्ड-)बुद्धि-विकल्पास्पदः,
तत्त्व-विजिज्ञासुभिर् अ-निर्धारितेदं-तत्त्वः,
वेदान्त-निर्धारित-पर-ब्रह्म-मूल-सारः,
अ-विद्या-काम-कर्माव्यक्त-बीज-प्रभवः,
अपर-ब्रह्म-विज्ञान-क्रिया-शक्ति-द्वयात्मक-हिरण्य-गर्भाङ्कुरः,
सर्व-प्राणि-लिङ्ग-भेद-स्कन्धः,
तत्-तत्-तृष्णा-जलासेकोद्भूत-दर्पः,
बुद्धीन्द्रिय-विषय-प्रवालाङ्कुरः,
श्रुति-स्मृति-न्याय-[अपर]-विद्योपदेश-पलाशः,
यज्ञ-दान-तप-आद्य्-अन्-एक-क्रिया-सुपुष्पः,
सुख-दुःख-वेदनानेक-रसः,
प्राण्य्-उपजीव्यानन्त-फलः,
तत्-तत्-तृष्णा-सलिलावसेक-प्ररूढ-जटिली-कृत-दृढ-बद्ध-मूलः,
सत्य-नामादि-सप्त-लोक-ब्रह्मादि-भूत-पक्षि-कृत-नीडः,
प्राणि-सुख-दुःखोद्भूत-हर्ष-शोक-जात-नृत्य-गीत-वादित्र-क्ष्वेलितास्फोटित-हसिताक्रुष्ट-रुदित-हाहा-मुञ्च-मुञ्चेत्य्-आद्य्-अन्-एक-शब्द-कृत-तुमुली-भूत-महा-रवः,
[पर-विद्या-]वेदान्त-विहित-ब्रह्मात्म-दर्शनासङ्ग-शस्त्र-कृतोच्छेद –
एषः संसार-वृक्षोऽश्व-त्थोऽश्व-त्थवत् काम-कर्म-वातेरित-नित्य-प्रचलित-स्व-भावः। स्वर्ग-नरक-तिर्यक्-प्रेतादिभिः शाखाभिर् अवाक्-शाखः (अवाञ्चः शाखा यस्य सः)। सना-तनोऽन्-आदित्वाच् चिर-प्रवृत्तः।
यद् अस्य संसार-वृक्षस्य मूलं तद् एव शुक्रं शुभ्रं शुद्धं ज्योतिष्मच् चैतन्यात्म-ज्योतिः-स्व-भावं तद् एव ब्रह्म सर्व-महत्त्वात्। तद् एव अ-मृतम् अ-विनाश-स्व-भावम् उच्यते कथ्यते सत्यत्वात्। वाचारम्भणं विकारो नामधेयम् (ChanU.6.1.4) अन्-ऋतम् अन्यद् अतो मर्त्यम्। तस्मिन् परमार्थ-सत्ये ब्रह्मणि लोका गन्धर्व-नगर-मरीच्य्-उदक-माया-समाः परमार्थ-दर्शनाभावावगमनाः श्रिता आश्रिताः सर्वे समस्ता उत्पत्ति-स्थिति-लयेषु। तद् उ तद् ब्रह्म नात्येति न अतिवर्त्तते मृद्-आदिम् इव घटादि-कार्यं कश्चन कश्चिद् अपि विकारः। एतद् व तत्
yad, idam, kim-ca, jagat, sarva, prāṇa, √ej, niḥsṛta;
mahat-bhaya, vajra, udyata, yad, etad, √vid, a-mṛta, tad, √bhū.

यद् किञ्-च इदं सर्वं जगत् निःसृतम् एजति [च], प्राणे [सति]। महत्-भयं [इव], उद्यतं वज्रं [इव]। ये एतद् विदुः, ते अ-मृताः भवन्ति॥
यद्-विज्ञानाद् अ-मृता भवन्तीत्य् उच्यते, जगतो मूलं तद् एव नास्ति ब्रह्म। अ-सत एवेदं निःसृतम् इति, तन् न –
यद् इदं किञ्च यत् किञ्चेदं जगत् सर्वं प्राणे परस्मिन् ब्रह्मणि सति एजति कम्पते, तत एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते। यद् एवं जगद्-उत्पत्त्य्-आदि-कारणं ब्रह्म तद् महद्-भयं महच् च तद् भयं च, बिभेत्य् अस्माद् इति महद्-भयम्। वज्रम् उद्यतम् उद्यतम् इव वज्रम्। यथा वज्रोद्यत-करं स्वामिनम् अभिमुखी-भूतं दृष्ट्वा भृत्या नियमेन तच्-छासने वर्त्तन्ते, तथेदं चन्द्रादित्य-ग्रह-नक्षत्र-तारकादि-लक्षणं जगत् सेश्वरं [स-देवतं] नियमेन क्षणम् अपि अ-विश्रान्तं वर्त्तते इत्य् उक्तं भवति। ये एतद् विदुः स्वात्म-प्रवृत्ति-साक्षि-भूतम् एकं ब्रह्म अ-मृता अ-मरण-धर्माणः ते भवन्ति
bhaya, idam, agni, √tap, bhaya, √tap, sūrya;
bhaya, indra, ca, vāyu, ca, mṛtyu, √dhāv, pañcama.

अस्य भयात् [इव] अग्निः तपति। भयात् सूर्यः तपति। भयात् इन्द्रः च वायुः च मृत्युः पञ्चमः [च] धावति (TaitU.2.8.1)॥
कथं तद्-भयाज् जगद् वर्त्तत इति, आह –
भयाद् भीत्या अस्य परमेश्वरस्य अग्निस् तपतिभयात् तपति सूर्यःभयाद् इन्द्रश् च वायुश् च, मृत्युर् धावति पञ्चमः। न हि ईश्वराणां लोक-पालानां समर्थानां सतां नियन्ता चेद् वज्रोद्यत-करवन् न स्यात्, स्वामि-भय-भीतानाम् इव भृत्यानां नियता प्रवृत्तिर् उपपद्यते॥
iha, ced, √śak, boddhum, prāk, śarīra, visrasa;
tatas, sarga, loka, śarīratva, √kḷp.

इह चेद् शरीरस्य विस्रसः प्राक् बोद्धुं अशकत् [एषः विद्वान् विमुच्यते]। ततः [अ-विदुषः] सर्गेषु लोकेषु शरीरत्वाय कल्पते॥
तच् च (–) इह जीवन्न् एव चेद् यदि अशकत् (शक्नोति) शक्तः सन् जानात्य् एतद् भय-कारणं ब्रह्म बोद्धुम् अवगन्तुं प्राक् पूर्वं शरीरस्य विस्रसोऽवस्रंसनात् पतनात्, संसार-बन्धनाद् विमुच्यते। न चेद् अशकद् बोद्धुम्, ततोऽन्-अवबोधात् सर्गेषु सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः, पृथिव्य्-आदयो लोकाः, तेषु सर्गेषु लोकेषु शरीरत्वाय शरीर-भावाय कल्पते समर्थो भवति, शरीरं गृह्णातीत्य् अर्थः। तस्माच् छरीर-विस्रंसनात् प्राक् आत्म-बोधाय यत्न आस्थेयः॥
yathā, ādarśa, tathā ātman, yathā, svapna, tathā, pitṛ-loka;
yathā, ap, pari, iva, √dṛś, tathā, gandharva-loka, chāyā-ātapa, iva, brahma-loka.

यथा आदर्शे, तथा आत्मनि। यथा स्वप्ने, तथा पितृ-लोके। यथा अप्सु परि ददृशे इव, तथा गन्धर्व-लोके। छाया-आतपयोः इव ब्रह्म-लोके॥
यस्माद् इहैवात्मनो दर्शनम् आदर्श-स्थस्य इव मुखस्य स्पष्टम् उपपद्यते, न लोकान्तरेषु ब्रह्म-लोकाद् अन्यत्र – स [ब्रह्म-लोकः] च दुष्प्रापः। कथम् इत्य् उच्यते –
यथा आदर्शे प्रतिबिम्ब-भूतम् आत्मानं पश्यति लोकोऽत्य्-अन्त-विविक्तम्, तथा इह आत्मनि स्व-बुद्धाव् आदर्शवद् निर्-मली-भूतायां विविक्तम् आत्मनो दर्शनं भवतीत्य् अर्थः।
यथा स्वप्ने अ-विविक्तं जाग्रद्-वासनोद्भूतम्, तथा पितृ-लोके अ-विविक्तम् एव दर्शनम् आत्मनः, कर्म-फलोपभोगासक्तत्वात्। यथा च अप्सु अ-विविक्तावयवम् आत्म-रूपं परीव ददृशे परिदृश्यत इव, तथा गन्धर्व-लोके अ-विविक्तम् एव दर्शनम् आत्मनः। एवं च लोकान्तरेषु अपि शास्त्र-प्रामाण्याद् अवगम्यते। छाया-तपयोर् इव अत्य्-अन्त-विविक्तं ब्रह्म-लोके एव एकस्मिन्। स च दुष्-प्रापः, अत्य्-अन्त-विशिष्ट-कर्म-ज्ञान-साध्यत्वात्। तस्माद् आत्म-दर्शनाय इहैव यत्नः कर्त्तव्य इत्य् अभिप्रायः॥
indriya, pṛthak-bhāva, udaya-astamaya, ca, yad;
pṛthak-utpadyamāna, matvā, dhīra, na, √śuc.

यद् [=यस्मात् यं वा] पृथक्-उत्पद्यमानाम् इन्द्रियाणां [आत्मनः] पृथक्-भावम्, उदय-अस्तमयौ च मत्वा, धीरः न शोचति॥
कथम् असौ बोद्धव्यः किं वा तद्-अवबोधे प्रयोजनम् इत्य् उच्यते –
इन्द्रियाणां श्रोत्र्-आदीनां स्व-स्व-विषय-ग्रहण-प्रयोजनेन स्व-कारणेभ्य आकाशादिभ्यः पृथग्-उत्पद्यमानानाम् अत्य्-अन्त-विशुद्धात् केवलाच् चिन्मात्रात्म-स्व-रूपात् पृथग्-भावं स्व-भाव-विलक्षणात्मकतां तथा, तेषाम् एवेन्द्रियाणाम् उदयास्तमयौ च उत्पत्ति-प्रलयौ जाग्रत्-स्वापावस्थापेक्षया न आत्मन इति मत्वा ज्ञात्वा विवेकतो धीरो धीमान् न शोचति। आत्मनो नित्यैक-स्व-भावस्य अ-व्यभिचाराच् छोक-कारणत्वानुपपत्तेः। तथा च श्रुत्य्-अन्तरम् “तरति शोकम् आत्म-विद्” इति (ChanU.7.1.3)॥
indriya, para, manas, manas, sattva, uttama;
sattva, adhi, mahat, ātman, mahat, a-vyakta, uttama.

इन्द्रियेभ्यः परं मनस्, मनसः उत्तमं सत्त्वं [=बुद्धिः], सत्त्वात् अधि महान् आत्मा [=हिरण्य-गर्भः], महतः उत्तमम् अ-व्यक्तम्॥
यस्माद् आत्मन इन्द्रियाणां पृथग्-भाव उक्तो, न असौ बहिर् अधिगन्तव्यो, यस्मात् प्रत्यग्-आत्मा स सर्वस्य। तत् कथम्? इत्य् उच्यते –
इन्द्रियेभ्यः परं मन इत्य्-आदि। अर्थानाम् इह इन्द्रिय-समान-जातीयत्वाद् इन्द्रिय-ग्रहणेनैव ग्रहणम्। पूर्ववद् अन्यत् (KathU.1.3.10)। सत्त्व-शब्दाद् बुद्धिर् इह उच्यते॥
a-vyakta, tu, para, puruṣa, vyāpaka, a-liṅga, eva, ca;
yad, jñātvā, √muc, jantu, a-mṛtatva, ca, √gam.

अ-व्यक्तात् तु परः पुरुषः व्यापकः अ-लिङ्गः एव च। यं ज्ञात्वा, जन्तुः मुच्यते, अ-मृतत्वं च गच्छति॥
अव्यक्तात् तु परः पुरुषः, व्यापको व्यापकस्य अप्य् आकाशादेः सर्वस्य कारणत्वात्, अ-लिङ्गो लिङ्ग्यते गम्यते येन तल् लिङ्गं बुद्ध्य्-आदि तद् अ-विद्यमानं यस्य सोऽयम् अ-लिङ्ग एव च, सर्व-संसार-धर्म-वर्जित इत्य् एतत्। यं ज्ञात्वा आचार्यतः शास्त्रतश् च मुच्यते जन्तुर् अ-विद्यादि-हृदय-ग्रन्थिभिर् जीवन्न् एव, पतितेऽपि शरीरे अ-मृतत्वं च गच्छति। सः ‘अ-लिङ्गः परोऽव्यक्तात् पुरुष’ इति पूर्वेणैव [“यं ज्ञात्वा…” इति] सम्बन्धः॥
na, sandṛśa, √sthā, rūpa, idam, na, cakṣus, √dṛś, ka-cana, enad;
hṛd, manīṣ, manas, abhikḷpta, yad, etad, √vid, a-mṛta, tad, √bhū.

अस्य रूपं न सन्दृशे तिष्ठति, न कश्चन एनं चक्षुषा पश्यति। मनीषा हृदा [च, =मनसः नियन्तृत्वेन हृद्-आकाश--स्थया बुद्ध्या च] मनसा [=मनन-रूपेण] अभिकॢप्तः। ये एतद् विदुः, ते अ-मृताः भवन्ति॥
कथं तर्हि अ-लिङ्गस्य दर्शनम् उपपद्यते इत्य् उच्यते –
न सन्दृशे सन्दर्शन-विषये न तिष्ठति प्रत्यग्-आत्मनोऽस्य रूपम्। अतो न चक्षुषा सर्वेन्द्रियेण, चक्षुर्-ग्रहणस्य उपलक्षणार्थत्वात्, पश्यति नोपलभते कश्चन कश्चिद् अप्य् एनं प्रकृतम् आत्मानम्।
कथं तर्हि तं पश्येद् इत्य् उच्यते – हृदा हृत्-स्थया बुद्ध्या। मनीषा मनसः सङ्कल्पादि-रूपस्य ईष्टे नियन्तृत्वेन इति मनीट् तया हृदा मनीषा अ-विकल्पयित्र्या बुद्ध्या। मनसा मनन-रूपेण सम्यग्-दर्शनेन। अभिकॢप्तोऽभिसमर्थितोऽभि-प्रकाशित इत्य् एतत्। आत्मा ज्ञातुं शक्यते इति वाक्य-शेषः। तम् आत्मानं ब्रह्म एतद् ये विदुर् अ-मृतास् ते भवन्ति
yadā, pañca, ava-√sthā, jñāna, manas, saha;
buddhi, ca, na, vi-ceṣṭ, tad, √ah, paramā, gati.

यदा पञ्च ज्ञानानि [=इन्द्रियाणि] मनसा सह अवतिष्ठन्ते, बुद्धिः च न विचेष्टति, तां परमां गतिं आहुः॥
सा हृन्-मनीट् कथं प्राप्यत इति तद्-अर्थो योग उच्यते –
यदा यस्मिन् काले स्व-विषयेभ्यो निवर्तितान्य् आत्मन्य् एव पञ्च ज्ञानानि – ज्ञानार्थत्वात् श्रोत्रादीनीन्द्रियाणि ‘ज्ञानान्य्’ उच्यन्ते – अवतिष्ठन्ते सह मनसा यद्-अनुगतानि तेन सङ्कल्पादि-व्यावृत्तेनान्तःकरणेन, बुद्धिश् च अध्यवसाय-लक्षणा न विचेष्टति स्व-व्यापारेषु न विचेष्टते, न व्याप्रियते – ताम् आहुः परमां गतिम्
tad, yoga, iti, √man, sthira, indriya-dhāraṇā;
a-pramatta, tadā, √bhū, yoga, hi, prabhava-apyaya.

ताम् इन्द्रिय-धारणां स्थिरां ‘योगम्’ इति मन्यन्ते। तदा अ-प्रमत्तः भवति, योगः हि प्रभव-अप्ययौ॥
ताम् ईदृशीं तद्-अवस्थां ‘योगम्इति मन्यन्ते, वियोगम् एव सन्तम्। सर्वानर्थ-संयोग-वियोग-लक्षणा हि इयम् अवस्था योगिनः (BhG.6.23)। एतस्यां हि अवस्थायाम् अ-विद्याध्यारोपण-वर्जितः स्व-रूप-प्रतिष्ठ आत्मा। स्थिराम् इन्द्रिय-धारणां स्थिराम् अ-चलाम् इन्द्रिय-धारणां, बाह्यान्तः-करणानां धारणम् इत्य् अर्थः।
अ-प्रमत्तः प्रमाद-वर्जितः, समाधानं प्रति नित्यं यत्नवान्। तदा तस्मिन् काले, यदैव प्रवृत्त-योगो भवति इति सामर्थ्याद् अवगम्यते। न हि बुद्ध्य्-आदि-चेष्टाभावे प्रमाद-सम्भवोऽस्ति, तस्मात् प्राग् एव बुद्ध्य्-आदि-चेष्टोपरमाद् अ-प्रमादो विधीयते। अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीम् एव निर्-अङ्कुशम् अ-प्रमत्तत्वम् इत्य् अतोऽभिधीयते अ-प्रमत्तस् तदा भवतीति। कुतो योगो हि यस्मात् प्रभवाप्ययौ उपजनापाय-धर्मक इत्य् अर्थः। अतोऽपाय-परिहाराय अ-प्रमादः कर्त्तव्य इत्य् अभिप्रायः॥
na, eva, vāc, na, manas, prāptum, śakya, na cakṣus;
√as, iti, bruvat, anyatra, katham, tad, upa-√labh.

न एव वाचा, न मनसा, न चक्षुषा प्राप्तुं शक्यः। [जगद्-मूल-सत्ता] अस्ति इति ब्रुवतः अन्यत्र, कथं तद् उपलभ्यते?
बुद्ध्य्-आदि-चेष्टा-विषयं चेद् ब्रह्म ‘इदं तद्’ इति विशेषतो गृह्येत, बुद्ध्य्-आद्य्-उपरमे च ग्रहण-कारणाभावाद् अन्-उपलभ्यमानं न अस्त्य् एव ब्रह्म। यद् धि करण-गोचरं तद् अस्तीति प्रसिद्धं लोके, विपरीतं च अ-सद् इति। अतश् च अन्-अर्थको योगः, अन्-उपलभ्यमानत्वाद् वा ‘न अस्ति’ इत्य् उपलब्धव्यं ब्रह्म इत्य् एवं प्राप्ते, इदम् उच्यते –
सत्यम्। नैव वाचा न मनसा न चक्षुषा न अन्यैर् अपीन्द्रियैः प्राप्तुं शक्यते इत्य् अर्थः। तथापि सर्व-विशेष-रहितोऽपि ‘जगतो मूलम्’ इत्य् अवगतत्वाद् ‘अस्त्य् एव’, कार्य-प्रविलापनस्य अस्तित्व-निष्ठत्वात्। तथा हि इदं कार्यं सूक्ष्म-तारतम्य-पारम्पर्येण अनुगम्यमानं सद्-बुद्धि-निष्ठाम् एव अवगमयति। यदापि विषय-प्रविलापनेन प्रविलाप्यमाना बुद्धिः, तदापि सा सत्-प्रत्यय-गर्भैव विलीयते। बुद्धिर् हि नः प्रमाणं सद्-अ-सतोर् याथात्म्यावगमे।
मूलं चेज् जगतो न स्याद्, अ-सद्-अन्वितम् एवेदं कार्यम् ‘अ-सद् अ-सद्’ इत्य् एव गृह्येत, न त्व् एतद् अस्ति। ‘सत् सद्’ इत्य् एव तु गृह्यते। यथा मृद्-आदि-कार्यं घटादि मृद्-आद्य्-अन्वितम्। तस्माज् जगतो मूलम् आत्मा ‘अस्ति’ इत्य् एवोपलब्धव्यः। कस्माद्? अस्तीति ब्रुवतोऽस्तित्व-वादिन आगमार्थानुसारिणः श्रद्-दधानाद् अन्यत्र नास्तिक-वादिनि ‘न अस्ति जगतो मूलम् आत्मा, निर्-अन्वयम् एवेदं कार्यम् अ-भावान्तं प्रविलीयते’ इति मन्यमाने विपरीत-दर्शिनि, कथं तद् ब्रह्म तत्त्वतः उपलभ्यते न कथञ्चनोपलभ्यत इत्य् अर्थः॥
√as, iti, eva, upalabdhavya, tattva-bhāva, ca, ubha;
√as, iti, eva, upalabdha, tattva-bhāva, pra-√sad.

[आत्मा] ‘अस्ति [कारणम्]’ इति एव उपलब्धव्यः, [पश्चात्] तत्त्व-भावेन च [उपलब्धव्यः]। उभयोः, ‘अस्ति’ इति एव उपलब्धस्य तत्त्व-भावः प्रसीदति॥
तस्माद् अपोह्य अ-सद्-वादि-पक्षम् आसुरम् –
अस्तीत्य् एव आत्मा उपलब्धव्यः सत्-कार्यो बुद्ध्य्-आद्य्-उपाधिः। यदा तु तद्-रहितोऽविक्रिय आत्मा, कार्यं च कारण-व्यतिरेकेण नास्ति “वाच्-आरम्भणं विकारो नामधेयं, मृत्तिका इत्य् एव सत्यम्” इति (ChanU.6.1.4) श्रुतेः, तदा तस्य निर्-उपाधिकस्य अ-लिङ्गस्य सद्-अ-सद्-आदि-प्रत्यय-विषयत्व-वर्जितस्य आत्मनस् तत्त्व-भाव भवति। तेन रूपेण आत्मा उपलब्धव्य इत्य् अनुवर्त्तते।
तत्रापि उभयोः सोपाधिक-निर्-उपाधिकयोर् अस्तित्व-तत्त्व-भावयोः – निर्धारणार्था षष्ठी – पूर्वम् अस्तीत्य् एव उपलब्धस्य आत्मनः सत्-कार्योपाधि-कृतास्तित्व-प्रत्ययेन उपलब्धस्येत्य् अर्थः। पश्चात् प्रत्यस्तमित-सर्वोपाधि-रूप आत्मनस् तत्त्व-भावो ‘विदिताविदिताभ्याम् अन्यः’ (KenU.1.4) अ-द्वय-स्व-भावो “नेति नेति” इति (BrhU.4.4.22), “अ-स्थूलम् अन्-अण्व्-अ-ह्रस्वम्” (BrhU.3.8.8) “अ-दृश्येऽन्-आत्म्ये निर्-उक्तेऽनिलयने” (TaitU.2.7.1) इत्य्-आदि-श्रुति-निर्दिष्टः प्रसीदति अभिमुखी-भवति आत्म-प्रकाशनाय, पूर्वम् अस्तीत्य् उपलब्धवत इत्य् एतत्॥
yadā, sarva, pra-√muc, kāma, yad, idam, hṛd, śrita;
atha, martya, a-mṛta, √bhū, atra, brahman, sam-√aś.

यदा ये अस्य हृदि श्रिताः सर्वे कामाः प्रमुच्यन्ते, अथ मर्त्यः अ-मृतः भवति। अत्र ब्रह्म समश्नुते॥
एवं परमार्थात्म-दर्शिनः –
यदा यस्मिन् काले सर्वे कामाः कामयितव्यस्य अन्यस्य अ-भावात् प्रमुच्यन्ते विशीर्यन्ते, ये अस्य प्राक् प्रतिबोधाद् विदुषो हृदि बुद्धौ श्रिता आश्रिताः। बुद्धिर् हि कामानाम् आश्रयो न आत्मा, “कामः सङ्कल्पः…[इत्येतत् सर्वं मन एव]” (BrhU.1.5.3) इत्य्-आदि-श्रुत्य्-अन्तराच् च।
अथ तदा मर्त्यः प्राक् प्रबोधाद् आसीत् स प्रबोधोत्तर-कालम् अ-विद्या-काम-कर्म-लक्षणस्य मृत्योर् विनाशाद् अ-मृतो भवति। गमन-प्रयोजकस्य मृत्योर् विनाशाद् गमनानुपपत्तेः, अत्र इहैव प्रदीप-निर्वाणवत् सर्व-बन्धनोपशमात् ब्रह्म समश्नुते ब्रह्मैव भवतीत्य् अर्थः॥
yadā, sarva, pra-√bhid, hṛdaya, iha, grantha;
atha, martya, a-mṛta, √bhū, etāvat, hi, anuśāsana.

यदा सर्वे इह हृदयस्य ग्रन्थयः प्रभिद्यन्ते (MunU.2.2.8), अथ मर्त्यः अ-मृतः भवति। एतावत् हि अनुशासनम्॥
कदा पुनः कामानां मूलतो विनाशः? इत्य् उच्यते –
यदा सर्वे प्रभिद्यन्ते भेदम् उपयान्ति विनश्यन्ति हृदयस्य बुद्धेः इह जीवत एव ग्रन्थयः ग्रन्थिवद् दृढ-बन्धन-रूपा अ-विद्या-प्रत्यया इत्य् अर्थः – ‘अहम् इदं शरीरं, ममेदं धनं, सुखी दुःखी च अहम्’ इत्य् एवम्-आदि-लक्षणाः, तद्-विपरीत-ब्रह्मात्म-प्रत्ययोपजननाद् ‘ब्रह्मैव अहम् अस्म्य् अ-संसारी’ इति, विनष्टेष्व् अ-विद्या-ग्रन्थिषु तन्-निमित्ताः कामा मूलतो विनश्यन्ति। अथ मत्र्योऽमृतो भवतिएतावद् धि एतावद् एव एतावन्-मात्रं, न ‘अधिकम् अस्ति’ इत्य् आशङ्का कर्त्तव्या। अनुशासनम् अनुशिष्टिः उपदेशः ‘सर्व-वेदान्तानाम्’ इति वाक्य-शेषः॥
śata, ca, ekā, ca, hṛdaya, nāḍī, tad, mūrdhan, abhiniḥsṛtā, ekā;
tad, ūrdhvam, āyat, a-mṛtatva, √i, viṣvac, anyā, utkramaṇa, √bhū.

हृदयस्य नाड्यः शतं च एका च। तासां एका मूर्धानम् अभिनिःसृता। तया ऊर्ध्वम् आयन्, अ-मृतत्वम् एति। [याः] विष्वङ् [=विषूच्यः] अन्याः, [ताः] उत्क्रमणे भवन्ति॥
निरस्ताशेष-विशेष-व्यापि-ब्रह्मात्म-प्रतिपत्त्या प्रभिन्न-समस्ताविद्यादि-ग्रन्थेर् जीवत एव ब्रह्म-भूतस्य विदुषो न गतिर् विद्यते, “अत्र ब्रह्म समश्नुते” (KathU.2.3.14) इत्य् उक्तम्। “न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति” इति (BrhU.4.4.6) श्रुत्य्-अन्तराच् च। ये पुनर् मन्द-ब्रह्म-विदो विद्यान्तर-शीलिनश् च ब्रह्म-लोक-भाजो, ये च तद्-विपरीताः संसार-भाजः, तेषाम् एष (एव) गति-विशेष उच्यते प्रकृतोत्कृष्ट-ब्रह्म-विद्या-फल-स्तुतये।
किञ्च अन्यत्, अग्नि-विद्या पृष्टा प्रत्युक्ता च, तस्याश् च फल-प्राप्ति-प्रकारो वक्तव्य इति मन्त्रारम्भः। तत्र –

शतं च शत-सङ्ख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयद् विनिःसृताः नाड्यः शिराः। तासां मध्ये मूर्धानं भित्त्वा अभिनिःसृता निर्गता सुषुम्ना नाम। तया अन्त-काले हृदये आत्मानं वशी-कृत्य योजयेत्। तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्य-द्वारेण अ-मृतत्वम् अ-मरण-धर्मत्वम् आपेक्षिकम् – “आ-भूत-सम्प्लवं स्थानम् अ-मृतत्वं हि भाष्यते” इति (VisPur.2.8.97) स्मृतेः, ब्रह्मणा वा सह कालान्तरेण मुख्यम् अ-मृतत्वम् – एति भुक्त्वा भोगान् अन्-उपमान् ब्रह्म-लोक-गतान्। विष्वङ् नाना-विध-गतयोऽन्या नाड्य उत्क्रमणे निमित्तं भवन्ति। संसार-प्रतिपत्त्य्-अर्था एव भवन्तीत्य् अर्थः॥
aṅguṣṭha-mātra, puruṣa, antar-ātman, sadā, jana, hṛdaya, sanniviṣṭha;
tad, sva, śarīra, pra-√vṛh, muñca, iva, iṣīkā, dhairya;
tad, √vid, śukra, a-mṛta, tad, √vid, śukra, a-mṛta, iti.

अन्तर्-आत्मा पुरुषः अङ्गुष्ठ-मात्रः, जनानां हृदये सदा सन्निविष्टः। स्वात् शरीरात् तं धैर्येण प्रवृहेत्, मुञ्जात् इषीकां इव। तं शुक्रम् अ-मृतं विद्यात् तं शुक्रम् अ-मृतं विद्यात् इति॥
इदानीं सर्व-वल्ल्य्-अर्थोपसंहारार्थम् आह –
अङ्गुष्ठ-मात्रः पुरुषः अन्तर्-आत्मा सदा जनानां सम्बन्धिनि हृदये सन्निविष्टो यथा-व्याख्यातः (KathU.2.1.12)। तं स्वाद् आत्मीयात् शरीरात् प्रवृहेद् उद्यच्छेद् निष्कर्षेत् पृथक् कुर्याद् इत्य् अर्थः। किम् इव? इत्य् उच्यते – मुञ्जाद् इव इषीकाम् अन्तः-स्थां धैर्येण अ-प्रमादेन (KathU.1.2.6 KathU.2.3.11)।
तं शरीरान् निष्कृष्टं चिन्मात्रं विद्याद् विजानीयात् शुक्रम् अ-मृतं यथोक्तं ‘ब्रह्म’ इति (KathU.2.2.8)। द्विर्-वचनम् उपनिषत्-परिसमाप्त्य् अर्थम्, इति-शब्दश् च॥
mṛtyu-prokta, naciketas, atha, labdhvā, vidyā, etad, yoga-vidhi, ca, kṛtsnam;
brahma-prāpta, vi-rajas, √bhū, vi-mṛtyu, anya, api, evam, yad, vid, adhi-ātma, eva.

अथ एतां मृत्यु-प्रोक्तां [ब्रह्म-]विद्यां योग-विधिं च कृत्स्नं लब्ध्वा, वि-रजस् वि-मृत्युः [सन्] नचिकेतस् ब्रह्म-प्राप्तः अभूत्। यः अन्यः अपि अध्यात्मं एव एवं-विद्, [सः अपि ब्रह्म-प्राप्तः भवति]॥
विद्या-स्तुत्य्-अर्थोऽयम् आख्यायिकार्थोपसंहारोऽधुनोच्यते –
मृत्यु-प्रोक्ताम् यथोक्ताम् एतां ब्रह्म-विद्यां योग-विधिं च कृत्स्नं समस्तं सोपकरणं स-फलम् इत्य् एतत्। नचिकेतो वर-प्रदानाद् मृत्योर् लब्ध्वा प्राप्य इत्य् अर्थः। किम्? ब्रह्म-प्राप्तोऽभूद् मुक्तोऽभवद् इत्य् अर्थः। कथम्? विद्या-प्राप्त्या वि-रजो विगत-धर्माधर्मो वि-मृत्युर् विगत-कामाविद्यश् च सन् पूर्वम् इत्य् अर्थः।
न केवलं नचिकेता एव, अन्योऽपि नचिकेतोवद् आत्म-विद् अध्य्-आत्मम् एव निर्-उपचरितं प्रत्यक्-स्व-रूपं प्राप्य तत्त्वम् एव इत्य् अभिप्रायः, न अन्यद् रूपम् अ-प्रत्यग् रूपम्, तद् एवम् अध्य्-आत्मम् एवम् उक्त-प्रकारेण यो वेद विजानातीति एवं-वित् – सोऽपि वि-रजः सन् ब्रह्म प्राप्य (प्राप्त्या) वि-मृत्युर् भवति इति वाक्य-शेषः॥

Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.
सः ह नै अवतु। सः ह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनौ [=तेजस्विनोः आवयोः] अधीतं अस्तु (अथवा, नौ अधीतं तेजस्वि अस्तु)। मा विद्विषावहै। ओम् शान्तिः शान्तिः शान्तिः॥
विद्या-स्तुत्य्-अर्थोऽयम् आख्यायिकार्थोपसंहारोऽधुनोच्यते –
स ह (सह) आवाम् अवतु पालयतु विद्या-स्व-रूप-प्रकाशनेन। कः? स एव परमेश्वर उपनिषत्-प्रकाशितः। किञ्च स ह (सह) नौ भुनक्तु तत्-फल-प्रकाशनेन नौ पालयतु। सह एव आवां विद्या-कृतं वीर्यं सामर्थ्यं करवावहै निष्पादयावहै। किञ्च तेजस्विनौ तेजस्विनोर् आवयोर् यद् अधीतं तत् स्व्-अधीतम् अस्तु। अथवा तेजस्वि नौ आवाभ्यां यद् अधीतं तद् अतीव तेजस्वि वीर्यवद् अस्तु इत्य् अर्थः। मा विद्विषावहै शिष्याचार्यौ अन्योन्यं प्रमाद-कृतान्यायाध्ययनाध्यापन-दोष-निमित्तं द्वेषं मा करवावहै इत्य् अर्थः। शान्तिः शान्तिः शान्तिः इति त्रिर्-वचनं सर्व-दोषोपशमनार्थम् इति ओम् इति (KathU.1.2.15)॥

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति कठ-उपनिषद् समाप्ता॥
॥इति श्रीमत्-परम-हंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ कठोपनिषद्-भाष्यम् सम्पूर्णम्॥