Sorry, your browser does not support JavaScript!
Go
Top
ईशावास्य-उपनिषद्
with शङ्कर-भाष्यम्


Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Īśāvāsya Upaniṣad from the Vājasaneyi Saṃhitā of the Śukla-Yajur Veda, consists of 18 mantras (verses). It shares a similar terminology in teaching as found in the Bṛhad-āraṇyaka Upaniṣad of the same Śukla-Yajur Veda.

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om, pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

Go to Top ('Home' key on many Windows browsers)

‘ईशा वास्यम्’ इत्यादयो मन्त्राः कर्मस्वविनियुक्ताः, तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात्। याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम्। तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः। न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात्; सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात्, गीतानां मोक्षधर्माणां चैवंपरत्वात्। तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि। यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च द्विजातिरहं न काणत्वकुणित्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति। तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविककर्मविज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्तीति। एवमुक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान्मन्त्रान्संक्षेपतो व्याख्यास्यामः –
ईशा ईष्टे इति ईट्, तेन ईशा। ईशिता परमेश्वरः परमात्मा सर्वस्य। स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया। तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम्। किम्? इदं सर्वं यत्किं च यत्किंचित् जगत्यां पृथिव्यां जगत् तत्सर्वम्। स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना। यथा चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं पृथिव्याम्, जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात्। एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु। तेन त्यक्तेन त्यागेनेत्यर्थः। न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्मसम्बन्धिताभावादात्मानं पालयति। अतस्त्यागेनेत्ययमेवार्थः भुञ्जीथाः पालयेथाः एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविषयाम् कस्य स्वित् कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः स्विदित्यनर्थको निपातः अथवा, मा गृधः कस्मात्? कस्य स्विद्धनम् इत्याक्षेपार्थः न कस्यचिद्धनमस्ति, यद्गृध्येत आत्मैवेदं सर्वमितीश्वरभावनया सर्वं त्यक्तम् अत आत्मन एवेदं सर्वम्, आत्मैव च सर्वम् अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः॥
एवमात्मविदः पुत्राद्येषणात्रयसंन्यासेनात्मज्ञाननिष्ठतया आत्मा रक्षितव्य इत्येष वेदार्थः अथेतरस्य अनात्मज्ञतयात्मग्रहणाशक्तस्य इदमुपदिशति मन्त्रः –
कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शतसंख्याकाः समाः संवत्सरान् तावद्धि पुरुषस्य परमायुर्निरूपितम् तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारात् अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेणाशुभं कर्म न लिप्यते; कर्मणा न लिप्यस इत्यर्थः अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत्।
कथं पुनरिदमवगम्यते – पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति? उच्यते – ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम्? इहाप्युक्तम् – यो हि जिजीविषेत्स कर्माणि कुर्वन्नेव इति; ‘ईशा वास्यमिदं सर्वम्’, ‘तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्विद्धनम्’ इति च ‘न जीविते मरणे वा गृधिं कुर्वीतारण्यमियात् इति पदं ततो न पुनरेयात्’ (?) इति च संन्यासशासनात् उभयोः फलभेदं च वक्ष्यति ‘इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्च’ (?); तयोः संन्यास एवातिरेचयति – ‘न्यास एवात्यरेचयत्’ (तै. नारा. ७८) इति तैत्तिरीयके ‘द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभाषितः’ (मो. ध. २४१-६) इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता विभागं चानयोः प्रदर्शयिष्यामः॥
अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते –
असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुराः तेषां च स्वभूता लोका असुर्याः नाम नामशब्दोऽनर्थको निपातः ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः तान् स्थावरान्तान्, प्रेत्य त्यक्त्वेमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् ये के च आत्महनः आत्मानं घ्नन्तीत्यात्महनः के? ते जनाः येऽविद्वांसः कथं ते आत्मानं नित्यं हिंसन्ति? अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात् विद्यमानस्यात्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनादिलक्षणम्, तत् हतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते तेन ह्यात्महननदोषेण संसरन्ति ते॥
यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण विद्वांसो मुच्यन्तेऽनात्महनः, तत्कीदृशमात्मतत्त्वमित्युच्यते –
अनेजत् न एजत् ‘एजृ कम्पने’, कम्पनं चलनं स्वावस्थाप्रच्युतिः, तद्वर्जितम्, सर्वदा एकरूपमित्यर्थः तच्च एकं सर्वभूतेषु मनसः सङ्कल्पादिलक्षणात् जवीयो जववत्तरम् कथं विरुद्धमुच्यते – ध्रुवं निश्चलमिदम्, मनसो जवीय इति च? नैष दोषः, निरुपाध्युपाधिमत्त्वेनोपपत्तेः तत्र निरुपाधिकेन स्वेन रूपेणोच्यते – अनेजदेकम् इति मनसः अन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्योपाधेरनुवर्तनात् इह देहस्थस्य मनसो ब्रह्मलोकादिदूरस्थसङ्कल्पनं क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम् तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवात्मचैतन्याभासो गृह्यते अतः मनसो जवीयः इत्याह नैनद्देवाः, द्योतनाद् देवाः चक्षुरादीनीन्द्रियाणि, एनत् प्रकृतमात्मतत्त्वं नाप्नुवन् न प्राप्तवन्तः तेभ्यो मनो जवीयः मनोव्यापारव्यवहितत्वादाभासमात्रमप्यात्मनो नैव देवानां विषयीभवति; यस्माज्जवनान्मनसोऽपि पूर्वम् अर्षत् पूर्वमेव गतम्, व्योमवद्व्यापित्वात् सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सत्, उपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह – तत् धावतः द्रुतं गच्छतः अन्यान् आत्मविलक्षणान्मनोवागिन्द्रियप्रभृतीन् अत्येति अतीत्य गच्छतीव इवार्थं स्वयमेव दर्शयति – तिष्ठद् इति, स्वयमविक्रियमेव सदित्यर्थः तस्मिन् आत्मतत्त्वे सति नित्यचैतन्यस्वभावे, मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत्क्रियात्मकः, यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा, अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि, दधाति विभजतीत्यर्थः, धारयतीति वा; ‘भीषास्माद्वातः पवते’ इत्यादिश्रुतिभ्यः सर्वा हि कार्यकरणविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः॥
न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह –
तद् आत्मतत्त्वं यत्प्रकृतम् एजति चलति तद् एव च नैजति स्वतो नैव चलति, स्वतः अचलमेव सत् चलतीवेत्यर्थः किञ्च, तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर इव तद् उ अन्तिके समीपे अत्यन्तमेव विदुषाम्, आत्मत्वात् न केवलं दूरे, अन्तिके च तत् अन्तः अभ्यन्तरे अस्य सर्वस्य, ‘य आत्मा सर्वान्तरः’ इति श्रुतेः, अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तद् उ सर्वस्य अस्य बाह्यतः; व्यापित्वादाकाशवन्निरतिशयसूक्ष्मत्वादन्तः; ‘प्रज्ञानघन एव’ (BrhU.4.5.13) इति शासनान्निरन्तरं च॥
यस्तु परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति, आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः सर्वभूतेषु तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन – यथास्य देहस्य कार्यकरणसंघातस्यात्मा अहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति, सः ततः तस्मादेव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति प्राप्तस्यैवानुवादोऽयम् सर्वा हि घृणा आत्मनोऽन्यद्दुष्टं पश्यतो भवति; आत्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेव – ततो न विजुगुप्सत इति॥
इममेवार्थमन्योऽपि मन्त्र आह –
यस्मिन्सर्वाणि भूतानि यस्मिन् काले यथोक्तात्मनि वा, तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनात् आत्मैवाभूत् आत्मैव संवृत्तः परमार्थवस्तु विजानतः, तत्र तस्मिन्काले तत्रात्मनि वा, को मोहः कः शोकः शोकश्च मोहश्च कामकर्मबीजमजानतो भवति, न त्वात्मा एकत्वं विशुद्धं गगनोपमं पश्यतः को मोहः कः शोक इति शोकमोहयोरविद्याकार्ययोराक्षेपेणासम्भवप्रकाशनात् सकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति॥
योऽयमतीतैर्मन्त्रैरुक्त आत्मा, स स्वेन रूपेण किंलक्षण इत्याह अयं मन्त्रः –
स पर्यगात्, सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान्, आकाशवद्व्यापीत्यर्थः शुक्रं शुभ्रं ज्योतिष्मत् दीप्तिमानित्यर्थः अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः अव्रणम् अक्षतम् अस्नाविरम् स्नावाः सिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् अव्रणमस्नाविरमित्येताभ्यां स्थूलशरीरप्रतिषेधः शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः अपापविद्धं धर्माधर्मादिपापवर्जितम् शुक्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि, स पर्यगात् इत्युपक्रम्य कविः मनीषी इत्यादिना पुंलिङ्गत्वेनोपसंहारात् कविः क्रान्तदर्शी सर्वदृक्, ‘नान्योऽतोऽस्ति द्रष्टा’ (BrhU.3.7.23) इत्यादिश्रुतेः मनीषी मनस ईषिता, सर्वज्ञ ईश्वर इत्यर्थः परिभूः सर्वेषां परि उपरि भवतीति परिभूः स्वयंभूः स्वयमेव भवतीति, येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयंभूः स नित्यमुक्त ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथातथाभावो याथातथ्यं तस्मात् यथाभूतकर्मफलसाधनतः अर्थान् कर्तव्यपदार्थान् व्यदधात् विहितवान्, यथानुरूपं व्यभजदित्यर्थः शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः॥
अत्राद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ‘ईशावास्यमिदं सर्वम्. . . मा गृधः कस्य स्विद्धनम्’ (IsU.1) इति अज्ञानां जिजीविषूणां ज्ञाननिष्ठासम्भवे ‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’ (IsU.2) इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः अनयोश्च निष्ठयोर्विभागो मन्त्रद्वयप्रदर्शितयोर्बृहदारण्यकेऽपि दर्शितः – ‘सोऽकामयत जाया मे स्यात्’ (BrhU.1.4.17) इत्यादिना अज्ञस्य कामिनः कर्माणीति ‘मन एवास्यात्मा वाग्जाया’ (BrhU.1.4.17, 1.5.2) इत्यादिवचनात् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनात्मस्वरूपावस्थानम् जायाद्येषणात्रयसंन्यासेन चात्मविदां कर्मनिष्ठाप्रातिकूल्येन आत्मस्वरूपनिष्ठैव दर्शिता – ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (BrhU.4.4.22) इत्यादिना ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्यः ‘असुर्या नाम ते’ (IsU.3) इत्यादिना अविद्वन्निन्दाद्वारेणात्मनो याथात्म्यम् ‘स पर्यगात्’ (IsU.8) इत्येतदन्तैर्मन्त्रैरुपदिष्टम् ते ह्यत्राधिकृता न कामिन इति तथा च श्वेताश्वतराणां मन्त्रोपनिषदि – ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्’ (SvetU.6.21) इत्यादि विभज्योक्तम् ये तु कामिनः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवः, तेभ्य इदमुच्यते – ‘ अन्धं तमः’ (IsU.9) इत्यादि कथं पुनरेवमवगम्यते, न तु सर्वेषाम् इति? उच्यते – अकामिनः साध्यसाधनभेदोपमर्देन ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (IsU.7) इति यत् आत्मैकत्वविज्ञानम्, तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः शास्त्रतो वा तदिहोच्यते तद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेनोपन्यस्तं न परमात्मज्ञानम्, ‘विद्यया देवलोकः’ (BrhU.1.5.16) इति पृथक्फलश्रवणात् तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिचीषया, न निन्दापरैव एकैकस्य, पृथक्फलश्रवणात् – ‘विद्यया तदारोहन्ति’ ‘विद्यया देवलोकः’ (BrhU.1.5.16) ‘न तत्र दक्षिणा यान्ति’ ‘कर्मणा पितृलोकः’ (BrhU.1.5.16) इति न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् तत्र –
अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति के? ये अविद्याम्, विद्याया अन्या अविद्या कर्मेत्यर्थः, कर्मणो विद्याविरोधित्वात्, तामविद्यामग्निहोत्रादिलक्षणामेव केवलाम् उपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः ततः तस्मादन्धात्मकात्तमसः भूय इव बहुतरमेव ते तमः प्रविशन्ति के? कर्म हित्वा ये उ ये तु विद्यायाम् एव देवताज्ञाने एव रताः अभिरताः॥
तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह अन्यथा फलवदफलवतोः संनिहितयोरङ्गाङ्गितया जामितैव स्यादिति –
अन्यत् पृथग् एव विद्यया क्रियते फलमिति आहुः वदन्ति, अन्यद् आहुः अविद्यया कर्मणा क्रियते फलमिति तथोक्तम् – ‘कर्मणा पितृलोकः, विद्यया देवलोकः’ (BrhU.1.5.16) इति इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः, तेषामयमागमः पारम्पर्यागत इत्यर्थः॥
यत एवमतः –
विद्यां च अविद्यां च देवताज्ञानं कर्म चेत्यर्थः यस्तद् एतद् उभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चयकारिण एकैकपुरुषार्थसम्बन्धः क्रमेण स्यादित्युच्यते – अविद्यया कर्मणा अग्निहोत्रादिना मृत्युम्, स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यम्, तदुभयं तीर्त्वा अतिक्रम्य विद्यया देवताज्ञानेन अमृतं देवतात्मभावम् अश्नुते प्राप्नोति तद्ध्यमृतमुच्यते, यद्देवतात्मगमनम्॥
अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते –
अन्धं तमः प्रविशन्ति ये असम्भूतिम्, सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः तस्या अन्या असम्भूतिः प्रकृतिः कारणम् अव्याकृताख्यम्, तामसम्भूतिमव्याकृताख्यां प्रकृतिं कारणमविद्यां कामकर्मबीजभूतामदर्शनात्मिकाम् उपासते ये ते तदनुरूपमेवान्धं तमः अदर्शनात्मकं प्रविशन्ति ततः तस्मादपि भूयो बहुतरम् इव तमः ते प्रविशन्ति ये उ सम्भूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः
अधुना उभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह –
अन्यदेव पृथग् एव आहुः फलं सम्भवात् सम्भूतेः कार्यब्रह्मोपासनात् अणिमाद्यैश्वर्यलक्षणम् आख्यातवन्त इत्यर्थः तथा च अन्यदाहुरसम्भवात् असम्भूतेः अव्याकृतात् अव्याकृतोपासनात् यदुक्तम् ‘अन्धं तमः प्रविशन्ति’ (IsU.9) इति, प्रकृतिलय इति च पौराणिकैरुच्यते इति एवं शुश्रुम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः॥
यत एवम्, अतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्तः एकैकपुरुषार्थत्वाच्चेत्याह –
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन, विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेनोच्यते ‘विनाशः’ इति तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्युं तीर्त्वा, हिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम्, तेनानैश्वर्यादिमृत्युमतीत्य, असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणम् अश्नुते ‘सम्भूतिं च विनाशं च’ इत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः, प्रकृतिलयफलश्रुत्यनुरोधात्॥
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम्; एतावती संसारगतिः अतः परं पूर्वोक्तम् ‘आत्मैवाभूद्विजानतः’ इति सर्वात्मभाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् निवृत्तिलक्षणस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकम् तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया, तदुक्तम् – ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (IsU.11) इति, तत्र सोऽधिकारी केन मार्गेणामृतत्वमश्नुते इत्युच्यते – ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ (BrhU.5.5.2) एतदुभयं सत्यं ब्रह्मोपासीनः यथोक्तकर्मकृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते –
हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयम्, ज्योतिर्मयमित्येतत्, तेन पात्रेणेव अपिधानभूतेन सत्यस्य आदित्यमण्डलस्थस्य ब्रह्मणः अपिहितम् आच्छादितं मुखं द्वारम्; तत् त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम्; अथवा, यथाभूतस्य धर्मस्यानुष्ठात्रे, दृष्टये तव सत्यात्मन उपलब्धये॥
हे पूषन् जगतः पोषणात्पूषा रविः तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे तथा सर्वस्य संयमनाद्यमः हे यम तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः हे सूर्य प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य व्यूह विगमय रश्मीन् स्वान् समूह एकीकुरु उपसंहर तेजः तावकं ज्योतिः यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम्, तत् ते तवात्मनः प्रसादात् पश्यामि किञ्च, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात्, पूर्णं वानेन प्राणबुद्ध्यात्मना जगत्समस्तमिति पुरुषः; पुरि शयनाद्वा पुरुषः सोऽहम् अस्मि भवामि॥
अथेदानीं मम मरिष्यतो वायुः प्राणः अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रात्मानं प्रतिपद्यतामिति वाक्यशेषः लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम्, मार्गयाचनसामर्थ्यात् अथ इदं शरीरम् अग्नौ हुतं भस्मान्तं भस्मावशेषं भूयात् ओम् इति यथोपासनम् ओंप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः, अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम्॥
पुनरन्येन मन्त्रेण मार्गं याचते –
हे अग्ने नय गमय सुपथा शोभनेन मार्गेण सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन; अतो याचे त्वां पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय राये धनाय, कर्मफलभोगायेत्यर्थः अस्मान् यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् किञ्च, युयोधि वियोजय विनाशय अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः किंतु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम्; भूयिष्ठां बहुतरां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः।
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (IsU.11) ‘विनाशेन मृत्युं तीर्त्वा असम्भूत्यामृतमश्नुते’ (IsU.14) इति श्रुत्वा केचित्संशयं कुर्वन्ति अतस्तन्निर्धारणार्थं सङ्क्षेपतो विचारणां करिष्यामः तत्र तावत्किंनिमित्तः संशय इति, उच्यते – विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते, अमृतत्वं च? ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः सत्यम् विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्रप्रमाणकत्वात्; यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकम्, तथा तद्विरोधाविरोधावपि यथा च ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ‘अध्वरे पशुं हिंस्यात्’ इति, एवं विद्याविद्ययोरपि स्यात्; विद्याकर्मणोश्च समुच्चयः न; ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ इति श्रुतेः ‘विद्यां चाविद्यां च’ इति वचनादविरोध इति चेत्, न; हेतुस्वरूपफलविरोधात् विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात् समुच्चयविधानादविरोध एवेति चेत्, न; सहसम्भवानुपपत्तेः क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत्, न; विद्योत्पत्तौ तदाश्रयेऽविद्यानुपपत्तेः; न हि अग्निरुष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम्, तस्मिन्नेवाश्रये शीतोऽग्निरप्रकाशो वा इत्यविद्याया उत्पत्तिः नापि संशयः अज्ञानं वा, ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (IsU.7) इति शोकमोहाद्यसम्भवश्रुतेः अविद्यासम्भवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवोचाम ‘अमृतमश्नुते’ इत्यापेक्षिकममृतम्; विद्याशब्देन परमात्मविद्याग्रहणे ‘हिरण्मयेन’ (IsU.15) इत्यादिना द्वारमार्गयाचनमनुपपन्नं स्यात् तस्मात् यथाव्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते॥

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति ईशवास्य-उपनिषद् समाप्ता॥