Sorry, your browser does not support JavaScript!
Go
Top
दृक्-दृश्य-विवेक

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view.
Dṛk-Dṛśya-Viveka (or Vākya-Suddhā) by Bhāratī-tīrtha.

ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.
सः ह नै अवतु। सः ह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनौ [=तेजस्विनोः आवयोः] अधीतं अस्तु (अथवा, नौ अधीतं तेजस्वि अस्तु)। मा विद्विषावहै। ओम् शान्तिः शान्तिः शान्तिः॥

rūpa, dṛśya, locana, dṛk, tad, dṛśya, dṛk, tu, mānasa;
dṛśyā, dhī-vṛtti, sa-akṣin, dṛk, eva, na, tu, √dṛś.

स्थूल-रूपं दृश्यं ग्रहक-योग्यं भवति यस्मात् एव लोचनं चक्षुस्-आदि-इन्द्रियं दृक्तद् लोचन-आदि-सूक्ष्म-इन्द्रियं तु दृश्यं भवति यस्मात् एव मानसं मनस् दृक्। सूक्ष्म-रूपाः धी-वृत्तयः दृश्या: भवन्ति यस्मात् एव साक्षी चैतन्य-आत्मा दृक् एव, न तु दृश्यते न एव दृश्यः॥
nīla-pīta-sthūla-sūkṣma-hrasva-dīrgha-ādi-bhedatas;
nānā-vidha, rūpa, √dṛś, locana, ekadhā.

नील-पीत-स्थूल-सूक्ष्म-ह्रस्व-दीर्घ-आदि-भेदतः नाना-विधानि रूपाणि भवन्ति, लोचनं चक्षुस्-इन्द्रियं तु एकधा एक-रूपेण एव तानि पश्येत्
āndhya-māndya-paṭutva, netra-dharma, ca, ekadhā;
sam-√kḷp, manas, śrotra-tvak-ādi, √yuj, idam.

आन्ध्य-मान्द्य-पटुत्वेषु च नेत्र-धर्मेषु लोचन-इन्द्रियस्य नाना-विध-धर्मेषु मनस् एकधा केवलं सङ्कल्पयेत्श्रोत्र-त्वच्-आदौ इन्द्रियेषु इदं दृश्-दृश्य-विवेकत्वं योज्यतां योगं कार्यताम्॥
kāma, saṅkalpa-sandeha, śrād-dhā-a-śrad-dhā, dhṛti-itara;
hrī, dhī, bhī, iti, evam, ādi, √bhās, ekadhā, citi.

कामः, सङ्कल्प-सन्देहौ, श्रद्-धा-अ-श्रद्-धे, धृति-इतरे धृति-स्व-विपरिते, ह्रीः, धीः, भीः इति एवम् आदीन् वृत्ति-विशेषान् चितिः चैतन्यं एकधा केवलं भासयति
na, ud-√i, na, astam, √i, etad, na vṛddhi, √yā, na, kṣaya;
svayaṃ, vi-√bhā, atha, anya, √bhās, sādhana, vinā.

एषा चितिः न उदेति, न अस्तम् एति, न वृद्धिं न क्षयंयाति। एषा स्वयं विभाति विविध-वृत्ति-रूपतस् भाति, अथ च अन्य-साधनं विना एषा अन्यानि भासयेत् प्रकाशयेत्॥
cit-chāyā-āveśatas, buddhi, bhāna, dhī, tu, dvidhā, sthitā;
eka-aham-kṛti, anyā, √as, antar-karaṇa-rūpin.

चित्-छाया-आवेशतस् चिति-प्रतिबिम्ब-अनुप्रवेशात् बुद्धौ भानं बुद्धिः स्वयम्-प्रकाशमाना इव वर्तते। धीः बुद्धिः तु द्विधा न एकधा स्थिताएका अहम्-कृतिः अहम्-विषय-अन्तर्-करण-रूपिणी, अन्या इदम्-विषय-अन्तर्-करण-रूपिणी स्यात्
chāyā-aham-kāra, aikya, tapta-ayas-piṇḍavat, mata;
tad-aham-kāra-tād-ātmya, deha, cetanatā, √gam.

छाया-अहङ्कारयोः चित्-छाया च अहम्-कृतिः च तयोः ऐक्यं विरुद्ध-धर्मि-तप्त-अयस्-पिण्डवत् मतम्तद्-अहङ्कार-ताद्-आत्म्यात् अ-चेतनः देहः चेतनताम् अगात् ज्ञान-स्व-रूपत्वम् प्राप्नुयात्॥
aham-kāra, tād-ātmya, cit-chāyā-deha-sa-akṣin;
saha-ja, karma-ja, bhrānti-janya, ca, tri-vidha, kramāt.

अहङ्कारस्य ताद्-आत्म्यं त्रि-विधं चित्-छाया-देह-साक्षिभिः चिति-छाया देहः प्रत्यक्-आत्मा च तेभिः – सह-जं, कर्म-जं, भ्रान्ति-जन्यं च क्रमात् अहङ्कारस्य चित्-छायया सह-जं ताद्-आत्म्यम् इत्यादि-क्रमात्॥
sambandhin, sat, na, √as, nivṛtti, saha-ja, tu;
karma-kṣaya, prabodha, ca, ni-√vṛt, kramād, ubha.

छाया-अहङ्कार-सम्बन्धिनोः सतोः यावत् सति, तावत् सह-जस्य तु ताद्-आत्म्यस्य निवृत्तिः न अस्ति, उभे कर्म-ज-भ्रान्ति-ज-ताद्-आत्म्ये कर्म-क्षयात् प्रबोधात् च क्रमात् निवर्तेते
aham-kāra-laya, supti, √bhū, deha, api, a-cetana;
aham-kāra-vikāsa-ardha, svapna, sarva, tu, jāgara.

अहङ्कार-लये सुप्तौ, तदा देहः अपि अ-चेतनः भवेत्अहङ्कार-विकास-अर्धःस्वप्नः’ नाम, सर्वः विकासः ‘जागरः’ नाम भवेत्॥
antar-karaṇa-vṛtti, ca, citi-chāyā-aikya, āgatā;
vāsana, √kḷp, svapna, bodha, akṣa, viṣaya, bahis.

इदं-विषय-अन्तर्-करण-वृत्तिः च अपि (DrDV.6) चिति-छाया-ऐक्यम् आगता तप्त-अयस्-पिण्डवत्। स्वप्ने सा वृत्तिः इमाः वासनाः कल्पयेत्बोधे जागरे सा वृत्तिः इमान् विषयान् अक्षैः इन्द्रियैः बहिस् कल्पयेत्॥
manas-aham-kṛti-upādāna, liṅga, eka, jaḍa-ātmaka;
avasthā-traya, anu-√i, √jan, √mṛ, tathā.

मनस्-अहम्-कृती-उपादानं इदं-विषय-अन्तर्-करणं च अहम्-वृत्तिः च तयोः उपादान-कारणं लिङ्गं सूक्ष्म-शरीरं एकं प्रत्येकं भवति। तद् लिङ्गं जडा-आत्मकं अपि। तद् लिङ्गं अवस्था-त्रयं जागर-आदि-त्रयं अन्वेति अनुभवति। तथा ‘इदं लिङ्गं, जीव-उपाधिः जायते म्रियते च’ इति अनुभवः॥
śakti-dvaya, hi, māyā, vikṣepa-āvṛti-rūpaka;
vikṣepa-śakti, liṅga-ādi-brahma-aṇḍa-anta, jagat, √sṛj.

मायायाः समष्टि-लिङ्गस्य शक्ति-द्वयं हि प्रसिद्धं श्रुत्या विक्षेप-आवृति-रूपकं विक्षेप-आवरण-रूपं। विक्षेप-शक्तिः जनिका-शक्तिः जगत् लिङ्ग-आदि-ब्रह्म-अण्ड-अन्तं व्यष्टि-आत्मक-लिङ्ग-शरीर-आदिं आ समष्टि-आत्मक-ब्रह्म-अण्डात् सृजेत्
sṛṣṭi, nāma, brahma-rūpa, sat-cit-ānanda-vastu;
abdhi, phena-ādivat, sarva-nāma-rūpa-prasāraṇā.

श्रुतितस् ‘सृष्टिःनाम ब्रह्म-रूपे सत्-चित्-आनन्द-वस्तुनि सर्व-नाम-रूप-प्रसारणा, अब्धै फेन-आदिवत् यथा एक-समुद्र-जले नाना-जल-रूपाणि॥
antar, dṛk-dṛśya, bheda, bahis, ca, brahma-sarga;
ā-√vṛ, aparā, śakti, tad, saṃsāra, kāraṇa.

अपरा शक्तिः आवरण-शक्तिः दृश्-दृश्ययोः भेदम् अन्तर् व्यष्टितस् आवृणोति, ब्रह्म-सर्गयोः भेदं च बहिस् समष्टितस् आवृणोतिसा आवरण-शक्तिः संसारस्य कारणं न तु विक्षेप-शक्तिः ईश्वर-सृष्ठि-कारणं॥
sa-akṣin, puratas, bhāta, liṅga, deha, saṃyuta;
citi-chāyā-samāveśa, jīva, √as, vyāvahārika.

यद् व्यष्टि-लिङ्गं देहेन संयुतं संयुक्तं कर्मेण चिति-छाया-समावेशात् साक्षिणः पुरतस् अग्रं भातं भासमानं, तद् लिङ्गं व्यावहारिकः जीवः स्यात्
idam, jīvatva, āropa, sa-akṣin, api, ava-√bhās;
āvṛtti, tu, vinaṣṭā, bheda, bhāta, apa-√yā, tad.

दृश्-दृश्य-अन्यस्-अन्य-धर्माणाम् आरोपात् अध्यासात् अस्य व्यावकारिक-जीवस्य जीवत्वं संसारित्वं साक्षिणि अपि अवभासतेआवृत्तौ विनष्टायां भ्रान्ति-अन्-उदये तु, भेदे अ-ताद्-आत्म्ये भाते स्पष्टं ज्ञाते विवेके सति , तद् जीवत्वं अपयाति अपगच्छति॥
tathā, sarga-brahman, ca, bheda, āvṛtya, √sthā;
yad, śakti, tad-vaśa, brahman, vikṛtatva, √bhās.

यथा व्यष्टि-आत्मके तथा समष्टि-आत्मके यावत् सर्ग-ब्रह्मणः भेदम् आवृत्य या आवरण-शक्तिः तिष्ठति, तावत् तद्-वशात् ब्रह्म विकृतत्वेन विकारिणा भासते
atra, api, āvṛti-nāśa, vi-√bhā, brahma-sarga;
bheda, tad, vikāra, √as, sarga, na, brahman, kva-cid.

अत्र अपि आवृति-नाशेन ब्रह्म-सर्गयोः भेदः अ-ताद्-आत्म्यं विभाति विवेकेन स्पष्टं ज्ञायते। तयोः ब्रह्म-सर्गयोः विकारः सर्गे एव स्यात्, न क्व-चिद् ब्रह्मणि
√as, √bhā, priya, rūpa, nāman, ca, iti, aṃśa-pañcaka;
ādya-traya, brahma-rūpa, jagat-rūpa, tatas, dvaya.

अस्ति, भाति, प्रियं, नाम, रूपं च इति सर्वस्य अंश-पञ्चकंआद्य-त्रयं अस्ति भाति प्रियं च इति-प्रथम-त्रयं ब्रह्म-रूपम्ततस् त्रयात् द्वयं नाम रूपं च इति-द्वयं जगत्-रूपम्
kha-vāyu-agni-jala-urvī, deva-tiryak-nara-ādi;
a-bhinna, sat-cit-ānanda, √bhid, rūpa-nāman.

ख-वायु-अग्नि-जल-उर्वीषु पञ्च-भूतेषु देव-तिर्यक्-नर-आदिषु शरीर-लक्षणेषु भौतिकेषु सत्-चित्-आनन्दाः अ-भिन्नाः। सर्वेषु रूप-नामनी भिद्येते अ-निर्वचनीय-माया-कार्यत्वेन॥
upekṣya, nāma-rūpa, dva, sat-cit-ānanda-tad-para;
samādhi, sarvadā, √kṛ, hṛdaya, vā, athavā, bahis.

द्वे नाम-रूपे उपेक्ष्य अवज्ञाय मानस-कायेन अ-परम-अर्थत्वेन, सत्-चित्-आनन्द-तत्-परः सन् हृदये अन्तर्-करण-विषये वा वक्ष्यमाण-स-दृशेन (DrDV.23–26) अथवा बहिस् बाह्य-वस्तु-विषये वक्ष्यमाण-स-दृशेन (DrDV.27–31) समाधिं सर्वदा कुर्यात्
sa-vikalpa, nis-vikalpa, samādhi, dvi-vidha, hṛd;
dṛśya-śabda-anuviddha, sa-vikalpa, punar, dvidhā.

हृदि व्यष्टौ समाधिः द्वि-विधःस-विकल्पः निस्-विकल्पः च। पुनर् भूयस् स-विकल्पः द्विधादृश्य-शब्द-अनुविद्धेन अनुभव-दृश्य-विषयेण श्रुति-शब्द-विषयेण च, अथवा ‘अनुविद्धः’ श्रुति-अनुरूपेण स्थापितः इत्यर्थः॥
kāma-ādi, citta-ga, dṛśya, tad-sa-akṣitva, cetana;
√dhyai, dṛśa-anuviddha, idam, samādhi, sa-vikalpaka.

चित्त-गाः हृदय-स्थाः दृश्याः काम-आद्याः भवन्ति। चेतनं आत्मानं चैतन्यं तद्-साक्षित्वेन काम-आदि-साक्षित्वेन ध्यायेत्अयं स-विकल्पकः दृश्य-अनुविद्धः समाधिः
a-saṅga, sat-cit-ānanda, sva-prabha, dvaita-varjita;
√as, iti, śabda-viddha, idam, samādhi, sa-vikalpaka.

“सः अ-सङ्गः, सत्-चित्-आनन्दः, स्व-प्रभः, द्वैत-वर्जितः आत्मा अहम् अस्मिइति, अयं स-विकल्पकः श्रुति-शब्द-विद्धः समाधिः
sva-anubhūti-rasa-āveśa, dṛśya-śabda, upekṣitṛ;
nis-vikalpa, samādhi, √as, ni-vāta-sthita-dīpavat.

दृश्य-शब्दान् उपेक्षितुः अवज्ञानिनः मानस-कायेन स्व-अनुभूति-रस-आवेशात् स्व-ज्ञानम् एव स्व-रूप-अनुभवः तस्य आवेशात् अ-भेद-भावात्, समाधिः व्यष्टौ निस्-विकल्पः स्यात्, नि-वात-स्थित-दीपवत्
hṛd, iva, bāhya-deśa, api, yad, kim, ca, vastu;
samādhi, ādya, sat-mātra, nāma-rūpa-pṛthak-kṛti.

हृदि इव, यस्मिन् कस्मिन् वस्तुनि बाह्य-देशे समष्टौ अपि च, आद्यः स-विकल्पः दृश्य-अनुविद्धः समाधिः सत्-मात्रात् नाम-रूप-पृथक्-कृतिः नाम-रूप-विवेकः॥
a-khaṇḍa-eka-rasa, vastu, sat-cit-ānanda-lakṣaṇa;
iti, a-vicchinna-cintā, idam, samādhi, madhyama, √bhū.

“इदं वस्तु अ-खण्ड-एक-रसं सत्-चित्-आनन्द-लक्षणं अस्ति” इति इयं अ-विच्छिन्न-चिन्ता वि-जातीय-प्रत्यय-रहित-स-जातीय-प्रत्यय-प्रवाह-रूपा चिन्ता मध्यमः द्वितीयः स-विकल्पः श्रुति-शब्द-अनुविद्धः समाधिः भवेत्
stabdhī-bhāva, rasa-āsva, tṛtīya, pūravat, mata;
etad, samādhi, ṣaḍ, √nī, kāla, nis-antaram.

यः स्तब्धी-भावः स्थिर-भावः स्व-विज्ञानं रस-आस्वादात् पूर्ववत् रस-आवेशात् (DrDV.26), सः समाधिः तृतीयः समष्टौ निस्-विकल्पः मतःएतैः षड्भिः समाधिभिः व्यष्टि-समष्ठि-दृश्य-शब्द-चथुर्-स-विकल्प-समाधिभिः व्यष्टि-समष्ठि-द्वि-निस्-विकल्प-समाधिभ्यां च निस्-अन्तरं कालं नयेत्
deha-abhimāna, galita, vijñāta, parama-ātman;
yatra, yatra, manas, √yā, tatra, tatra, samādhi.

परम-आत्मनि विज्ञाते, तद्-फलं च देह-अभिमाने गलिते शिथिली-भूते यावत्, तावत् मुमुक्षोः यत्र यत्र मनस् याति, तत्र तत्र इमे षड् समाधयः स्युः॥
√bhid, hṛdaya-granthi, √chid, sarva-saṃśaya;
√kṣi, ca, idam, karman, tad, dṛsṭa, para-avara.

तस्मिन् पर-अवरे समष्टि-व्यष्टि-रूपे अथवा पर-अ-पर-तत्त्वे दृष्टे सति, हृदय-ग्रन्थिः भिद्यतेसर्व-शंशयाः छिद्यन्तेअस्य कर्माणि च क्षीयन्ते। (MunU.2.2.8)॥
avacchinna, cit-ābhāsa, tṛtīya, svapna-kalpita;
vijñeya, tri-vidha, jīva, tatra, ādya, pārama-arthika.

अवच्छिन्नः, चित्-आभासः, तृतीयः स्वप्न-कल्पितः इति जीवः त्रिविधः विज्ञेयःतत्र आद्यः अवच्छिन्नः इव जीवः पारम-अर्थिकः ब्रह्म-भूतः॥
avaccheda, kalpita, √as, avacchedya, tu, vāstava;
tad, jīvatva, āropa, brahmatva, tu, sva-bhāvatas.

अवच्छेदः परिच्छिन्नत्वं कल्पितः स्यात्, अवच्छेद्यं यद् कल्पनेन अवच्छेत्तुं शक्यं तु वास्तवं पारम-अर्थिकं सत्यं ब्रह्म एव। तस्मिन् पारम-अर्थिके जीवत्वं अवच्छिन्नत्वं आरोपात्, ब्रह्मत्वं अ-द्वैतं तु स्व-भावतस्
avacchinna, jīva, pūrṇa, brahman, ekatā;
tad, yuṣmad, √as, ādi-vākya, √gai, na, itara-jīva.

तद् त्वम् असि” इति आदि-वाक्यानि अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणा एकतां जगुः प्रख्यातवन्ति, न इतर-जीवयोः चित्-आभास-स्वप्न-कल्पित-जीवयोः – यस्मात् बिम्ब-प्रतिबिम्ब-एक-देशित्वं न शक्यं, यः च कल्पितः सः कल्पिनम् एव च॥
brahman, avasthitā, māyā, vikṣepa-āvṛti-rūpin;
āvṛtya, a-khaṇḍatā, tad, jagat-jīva, pra-√kḷp.

विक्षेप-आवृति-रूपिणी माया ब्रह्मणि अवस्थिता न पृथक्-स्थिता। अ-खण्डतां आवृत्य, अन्-आदिः माया तस्मिन् ब्रह्मणि जगत्-जीवौ प्रकल्पयेत् सृजेत् इव॥
jīva, dhī-stha, cit-ābhāsa, √bhū, bhoktṛ, hi, karma-kṛt;
bhogya-rūpa, idam, sarva, jagat, √as, bhūta-bhautika.

चित्-आभासः धी-स्थः, भोक्ता कर्म-कृत्हि यस्मात्, प्रसिद्धः व्यावहारिकः ‘जीवःभवेत्इदं सर्वं भूत-भौतिकं भोग्य-रूपंजगत्स्तात्
an-ādi-kālam, ārabhya, mokṣa, pūrvam, idam, dvayam;
vyavahāra, sthita, tasmāt, ubhaya, vyāvahārika.

मोक्षात् पूर्वं, इदं द्वयं जीव-जगत् अन्-आदि-कालं आरभ्य व्यवहारे स्थितंतस्मात् उभयं व्यावहारिकं
cit-ābhāsa-sthitā, nidrā, vikṣepa-āvṛti-rūpin;
āvṛtya, jīva-jagat, pūrva, nūtna, tu, √kḷp.

यथा माया ब्रह्मणि निद्रा चित्-आभास-स्थिता विक्षेप-आवृति-रूपिनीपूर्वे व्यावहारिके जीव-जगती आवृत्य, निद्रा नूत्ने तु प्रति-नवे स्वप्ने जीव-जगती कल्पयेत्
pratīti-kāla, eva, etad, sthitatva, prātibhāsika;
na, hi, svapna-prabuddha, punar-svapna, sthiti, tad.

प्रतीति-काले दृष्ट-काले एव स्थितत्वात्, एते नूत्ने जीव-जगती प्रातिभासिके, स्वप्न-प्रबुद्धस्य हि यस्मात् च पुनर्-स्वप्ने अपर-स्वप्ने तयोः पूर्व-जीव-जगतोः न स्थितिः अनुवृत्तिः, तस्मात् एते न सा-तत्य-व्यावहारिके॥
prātibhāsika-jīva, yad, tad, jagat, prātibhāsika;
vāstava, √man, anya, tu, mithyā, iti, vyāvahārika.

यः प्रातिभासिक-जीवः तद् प्रातभासिकं जगत् वास्तवं सत्यं मन्यते, अन्यः तु व्यावहारिकः जीवः उभे प्रातिभासिके मिथ्या अ-सत्यतया इति मन्यते॥
vyāvahārika-jīva, yad, tad, jagat, vyāvahārika;
satya, prati-√i, mithyā, iti, √man, pārama-arthika.

यः व्यावनारिक-जीवः तद् व्यावहारिकं जगत् सत्यं प्रत्येति मन्यते। पारमार्थिकः जीवः एभे व्यावहारिके मिथ्या इति मन्यते
pārama-arthika-jīva, tu, brahma-aikya, pārama-arthika;
prati-√i, vi-√īkṣ, na, anya, vi-√īkṣ, tu, an-ṛta-ātman.

पारमार्थिक-जीवः तु जीव-ब्रह्म-ऐक्यं पारमार्थिकं प्रत्येति। सः ज्ञानी अन्यद् भेद-वस्तु सत्यतया वीक्षते मन्यते, अन्-ऋत-आत्मना अ-सत्यतया तु वीक्षते
mādhurya-drava-śaitya, nīra-dharma, taram-gaka;
anugamya, atha, tad-niṣṭha, phena, api, anugata, yathā.
sa-akṣi-stha, sat-cit-ānanda, sambandha, vyāvahārika;
tad-dvāra, anu-√gam, tathā, eva, prāthibhāsika.

यथा माधुर्य-द्रव-शैत्यानि नीर-धर्माः जल-धर्माः तरम्-गके तरम्-गे अनुगम्य अन्तर् स्थित्वा, अथ इत्था च तद्-निष्ठे जल-निष्ठे फेने अपि अनुगताः, तथा एव सत्-चित्-आनन्दाः लक्षणानि साक्षि-स्थाः सम्बन्धात् स्व-अधिष्ठानेन नाम-रूप-दृश्यस्य मिथ्या-विवर्त-सम्बन्धात् नाम-धेयतया, न सत्य-परिणाम-सम्बन्धात् व्यावहारिके अनुगच्छन्ति, तद्-द्वारेण व्यावहारिक-सम्बन्धेन च प्रातिभासिके अनुगच्छन्ति॥
laya, phena, tad-dharma, drava-ādi, √as, taram-gaka;
tad, api, vilaya, nīra, √sthā, etad, yathā, purā.

यथा पुरा पूर्वं विपर्यासेन, फेनस्य लये प्रकृत्या ज्ञानेन वा सति, द्रव-आद्याः तद्-धर्माः फेन-अधिष्ठान-धर्माः तरम्-गके स्युः तिष्ठेयुः। तस्य तरम्-गस्य अपि विलये, एते अधिष्ठान-धर्माः नीरे जले तिष्ठन्ति
prātibhāsika-jīva, laya, √as, vyāvahārika;
tad-laya, sat-cit-ānanda, pari-ava-√so, sa-akṣin.

तथा प्रातिभासिक-जीवस्य तद्-जगतः च लये प्रबोधनेन सति, सत्-चित्-आनन्दाः लक्षणानि व्यावहारिके स्युः तिष्ठेयुः। तद्-लये व्यावहारिक-लये ज्ञानेन सति, सत्-चित्-आनन्दाः लक्षणानि साक्षिणि पर्यवस्यन्ति निष्ठां प्राप्नुवन्ति एषा ब्राह्मी स्थितिः (BhG.2.72); तदा द्रष्टुः स्व-रूपे अवस्थानम् (YS.1.3)॥

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति दृक्-दृश्य-विवेकः समाप्तः॥