Sorry, your browser does not support JavaScript!
Go
Top
छान्दोग्य उपनिषद्
with शङ्कर-भाष्यम्


Adhyāya 1 Adhyāya 2 Adhyāya 3 Adhyāya 4 Adhyāya 5 Adhyāya 6 Adhyāya 7 Adhyāya 8

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga.f run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Chāndogya-Upaniṣad, from the Sāma Veda, consists of brāhmaṇa (prose text) with some ṛks and ślokas (verses) as well as sāmans (songs) interspersed. It is considered, like the Bṛhad-āraṇyaka Upaniṣad, to be a source of teachings which other Upaniṣads often summarize or expound on. It especially contains the teachings of sage Uddālaka to his son Śvetaketu.

ओम्, आप्यायन्तु ममाङ्गानि वाक् प्राणश् चक्षुः श्रोत्रम् अथो बलम् इन्द्रियाणि च॑ सर्वा॒णि। सर्वं ब्रह्मौ॑पनि॒षदं। माहं ब्रह्म नि॑राकु॒र्यां। मा मा ब्रह्म नि॑राक॒रोद्। अनिराकरणम् अस्त्व् अनिराकरणं मे॑ अ॒स्तु। तदात्मनि निरते य उपनिषत्सु धर्मास् ते म॑यि स॒न्तु। ते म॑यि स॒न्तु। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; ā-√pyai, asmad, aṅga, vāc, prāṇa, cakṣus, śrotra, atha, u, bala, indriya, ca, sarva. Sarva, brahman, aupaniṣada. Mā, asmad, brahman, nir-ā-√kṛ. Mā, asmad, brahman, nir-ā-√kṛ. A-nirākaraṇa, √as, a-nirākaraṇa, asmad, √as. Tadā, ātman, nirata, yad, upaniṣad, dharma, tad, asmad, √as. Tad, asmad, √as. Om, śānti, śānti, śānti.

‘ओमित्येतदक्षरम्’ इत्याद्यष्टाध्यायी छान्दोग्योपनिषत्। तस्याः सङ्क्षेपतः अर्थजिज्ञासुभ्यः ऋजुविवरणमल्पग्रन्थमिदमारभ्यते। तत्र सम्बन्धः – समस्तं कर्माधिगतं प्राणादिदेवताविज्ञानसहितम् अर्चिरादिमार्गेण ब्रह्मप्रतिपत्तिकारणम्; केवलं च कर्म धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम्; स्वभाववृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टा अधोगतिरुक्ता; न च उभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिः – इत्यतः कर्मनिरपेक्षम् अद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमिति उपनिषदारभ्यते। न च अद्वैतात्मविज्ञानादन्यत्र आत्यन्तिकी निःश्रेयसप्राप्तिः। वक्ष्यति हि – ‘अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति’ (छा. उ. ७-२५-२); विपर्यये च – ‘स स्वराड् भवति’ (छा. उ. ७-२५-२) – इति। तथा – द्वैतविषयानृताभिसन्धस्य बन्धनम्, तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्राप्तिश्च इत्युक्त्वा – अद्वैतात्मसत्याभिसन्धस्य, अतस्करस्येव तप्तपरशुग्रहणे बन्धदाहाभावः, संसारदुःखनिवृत्तिर्मोक्षश्च – इति।
अत एव न कर्मसहभावि अद्वैतात्मदर्शनम्; क्रियाकारकफलभेदोपमर्देन ‘सत् . . . एकमेवाद्वितीयम्’ (छा. उ. ६-२-१), (छा. उ. ६-२-२) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः। कर्मविधिप्रत्यय इति चेत्, न; कर्तृभोक्तृस्वभावविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात्। अधिगतसकलवेदार्थस्य कर्मविधानात् अद्वैतज्ञानवतोऽपि कर्मेति चेत्, न; कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य ‘सत . . . एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इत्यनेनोपमर्दितत्वात्। तस्मात् अविद्यादिदोषवत एव कर्माणि विधीयन्ते; न अद्वैतज्ञानवतः। अत एव हि वक्ष्यति – ‘सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २-२३-१) इति।
अत एव न कर्मसहभावि अद्वैतात्मदर्शनम्; क्रियाकारकफलभेदोपमर्देन ‘सत् . . . एकमेवाद्वितीयम्’ (छा. उ. ६-२-१), (छा. उ. ६-२-२) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः। कर्मविधिप्रत्यय इति चेत्, न; कर्तृभोक्तृस्वभावविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात्। अधिगतसकलवेदार्थस्य कर्मविधानात् अद्वैतज्ञानवतोऽपि कर्मेति चेत्, न; कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य ‘सत . . . एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इत्यनेनोपमर्दितत्वात्। तस्मात् अविद्यादिदोषवत एव कर्माणि विधीयन्ते; न अद्वैतज्ञानवतः। अत एव हि वक्ष्यति – ‘सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २-२३-१) इति॥

Go to Top ('Home' key on many Windows browsers)

Go to Top ('Home' key on many Windows browsers)

ChanU.1.01

ओमित्येतदक्षरमुद्गीथमुपासीत –
ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्; तस्मिन्हि प्रयुज्यमाने स प्रसीदति, प्रियनामग्रहण इव लोकः; तदिह इतिपरं प्रयुक्तम् अभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते; तथा च अर्चादिवत् परस्यात्मनः प्रतीकं सम्पद्यते; एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम्; जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात् प्रसिद्धमस्य श्रैष्ठ्यम्; अतः तदेतत्, अक्षरं वर्णात्मकम्, उद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यम्, उपासीत – कर्माङ्गावयवभूते ओङ्कारेपरमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात्। स्वयमेव श्रुतिः ओङ्कारस्य उद्गीथशब्दवाच्यत्वे हेतुमाह – ओमिति ह्युद्गायति; ओमित्यारभ्य, हि यस्मात्, उद्गायति, अत उद्गीथ ओङ्कार इत्यर्थः॥
तस्य उपव्याख्यानम् – तस्य अक्षरस्य, उपव्याख्यानम् एवमुपासनमेवंविभूत्येवंफलमित्यादिकथनम् उपव्याख्यानम्, प्रवर्तत इति वाक्यशेषः –
एषां चराचराणां भूतानां पृथिवी रसः गतिः परायणमवष्टम्भः; पृथिव्या आपः रसः – अप्सु हि ओता च प्रोता च पृथिवी; अतः ताः रसः पृथिव्याः। अपाम् ओषधयः रसः, अप्परिणामत्वादोषधीनाम्; तासां पुरुषो रसः, अन्नपरिणामत्वात्पुरुषस्य; तस्यापि पुरुषस्य वाक् रसः – पुरुषावयवानां हि वाक् सारिष्ठा, अतो वाक् पुरुषस्य रस उच्यते; तस्या अपि वाचः, ऋक् सरः सारतरा; ऋचः साम रसः सारतरम्; तस्यापि साम्नः उद्गीथः प्रकृतत्वादोंकारः सारतरः॥
एवम् – स एषः उद्गीथाख्य ओङ्कारः, भूतादीनामुत्तरोत्तररसानाम्, अतिशयेन रसः रसतमः; परमः, परमात्मप्रतीकत्वात्; परार्ध्यः – अर्धं स्थानम्, परं च तदर्धं च परार्धम्, तदर्हतीति परार्ध्यः, – परमात्मस्थानार्हः, परमात्मवदुपास्यत्वादित्यभिप्रायः; अष्टमः – पृथिव्यादिरससङ्ख्यायाम्; यदुद्गीथः य उद्गीथः॥
वाच ऋग्रसः . . . इत्युक्तम्; कतमा सा ऋक्? कतमत्तत्सामः? कतमो वा स उद्गीथः? कतमा कतमेति वीप्सा आदरार्था। ननु ‘वा बहूनां जातिपरिप्रश्ने डतमच्’ (पा. सू. ५-३-९३) इति डतमच्प्रत्ययः इष्टः; न हि अत्र ऋग्जातिबहुत्वम्; कथं डतमच्प्रयोगः? नैष दोषः; जातौ परिप्रश्नो जातिपरिप्रश्नः – इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः, न तु जातेः परिप्रश्न इति विगृह्यते। ननु जातेः परिप्रश्नः – इत्यस्मिन्विग्रहे ‘कतमः कठः’ इत्याद्युदाहरणमुपपन्नम्, जातौ परिप्रश्न इत्यत्र तु न युज्यते – तत्रापि कठादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यदोषः। यदि जातेः परिप्रश्नः स्यात्, ‘कतमा कतमर्क्’ इत्यादावुपसङ्ख्यानं कर्तव्यं स्यात्। विमृष्टं भवति विमर्शः कृतो भवति॥
विमर्शे हि कृते सति, प्रतिवचनोक्तिरुपपन्ना – वागेव ऋक् प्राणः साम ओमित्येतदक्षरमुद्गीथः इति। वागृचोरेकत्वेऽपि न अष्टमत्वव्याघातः, पूर्वस्मात् वाक्यान्तरत्वात्; आप्तिगुणसिद्धये हि ओमित्येतदक्षरमुद्गीथः इति। वाक्प्राणौ ऋक्सामयोनी इति वागेव ऋक् प्राणः साम इत्युच्यते; यथा क्रमम् ऋक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात्; सर्वर्क्सामावरोधे च ऋक्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात्; तदवरोधे च सर्वे कामा अवरुद्धाः स्युः। ओमित्येतदक्षरम् उद्गीथः इति भक्त्याशङ्का निवर्त्यते। तद्वा एतत् इति मिथुनं निर्दिश्यते। किं तन्मिथुनमिति, आह – यद्वाक्च प्राणश्च सर्वर्क्सामकारणभूतौ मिथुनम्; ऋक्च साम चेति ऋक्सामकारणौ ऋक्सामशब्दोक्तावित्यर्थः; न तु स्वातन्त्र्येण ऋक्च साम च मिथुनम्। अन्यथा हि वाक्प्राणश्च इत्येकं मिथुनम्, ऋक्साम च अपरम्, इति द्वे मिथुने स्याताम्; तथा च तद्वा एतन्मिथुनम् इत्येकवचननिर्देशोऽनुपपन्नः स्यात्; तस्मात् ऋक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम्॥

तदेतत् एवंलक्षणं मिथुनम् ओमित्येतस्मिन्नक्षरे संसृज्यते; एवं सर्वकामाप्तिगुणविशिष्टं मिथुनम् ओङ्कारे संसृष्टं विद्यत इति ओङ्कारस्य सर्वकामाप्तिगुणवत्त्वं सिद्धम्; वाङ्मयत्वम् ओङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वम्। मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते – यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतः ग्राम्यधर्मतया संयुज्येयातां तदा आपयतः प्रापयतः अन्योन्यस्य इतरेतरस्य तौ कामम्, तथा स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वम् ओङ्कारस्य सिद्धमित्यभिप्रायः॥
तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याह –
आपयिता ह वै कामानां यजमानस्य भवति, य एतत् अक्षरम् एवम् आप्तिगुणवत् उद्गीथम् उपास्ते, तस्य एतद्यथोक्तं फलमित्यर्थः, ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १०-५-२-२०) इति श्रुतेः॥
समृद्धिगुणवांश्च ओङ्कारः; कथम्? तत् वै एतत् प्रकृतम्, अनुज्ञाक्षरम् अनुज्ञा च सा अक्षरं च तत्; अनुज्ञा च अनुमतिः, ओङ्कार इत्यर्थः। कथमनुज्ञेति, आह श्रुतिरेव – यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वा अनुजानाति विद्वान् धनी वा, तत्रानुमतिं कुर्वन् ओमित्येव तदाह; तथा च वेदे ‘त्रयस्त्रिंशदित्योमिति होवाच’ (बृ. उ. ३-९-१) इत्यादि; तथा च लोकेऽपि तवेदं धनं गृह्णामि इत्युक्ते ओमित्येव आह। अत एषा उ एव एषैव हि समृद्धिः यदनुज्ञा या अनुज्ञा सा समृद्धिः, तन्मूलत्वादनुज्ञायाः; समृद्धो हि ओमित्यनुज्ञां ददाति; तस्यात् समृद्धिगुणवानोङ्कार इत्यर्थः। समृद्धिगुणोपासकत्वात् तद्धर्मा सन् समर्धयिता ह वै कामानां यजमानस्य भवति; य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादि पूर्ववत्॥
अथ इदानीमक्षरं स्तौति, उपास्यत्वात्, प्ररोचनार्थम्; कथम्? तेन अक्षरेण प्रकृतेन इयम् ऋग्वेदादिलक्षणा त्रयीविद्या, त्रयीविद्याविहितं कर्मेत्यर्थः – न हि त्रयीविद्यैव – आश्रावणादिभिर्वर्तते। कर्म तु तथा प्रवर्तत इति प्रसिद्धम्; कथम्? ओमित्याश्रावयति ओमिति शंसति ओमित्युद्गायति; लिङ्गाच्च सोमयाग इति गम्यते। तच्च कर्म एतस्यैव अक्षरस्य अपचित्यै पूजार्थम्; परमात्मप्रतीकं हि तत्; तदपचितिः परमात्मन एवस्यात्, ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८-४६) इति स्मृतेः। किञ्च, एतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः; तथा एतस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः; यागहोमादि अक्षरेण क्रियते; तच्च आदित्यमुपतिष्ठते; ततो वृष्ट्यादिक्रमेण प्राणोऽन्नं च जायते; प्राणैरन्नेन च यज्ञस्तायते; अत उच्यते – अक्षरस्य महिम्ना रसेन इति॥
तत्र अक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाक्षिपति –
तेन अक्षरेण उभौ कुरुतः, यश्च एतत् अक्षरम् एवं यथाव्याख्यातं वेद, यश्च कर्ममात्रवित् अक्षरयाथात्म्यं न वेद, तावुभौ कुरुतः कर्म; तेयोश्च कर्मसामर्थ्यादेव फलं स्यात्, किं तत्राक्षरयाथात्म्यविज्ञानेन इति; दृष्टं हि लोके हरीतकीं भक्षयतोः तद्रसाभिज्ञेतरयोः विरेचनम् – नैवम्; यस्मात् नाना तु विद्या च अविद्या च, भिन्ने हि विद्याविद्ये, तु – शब्दः पक्षव्यावृत्त्यर्थः; न ओङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानम्; किं तर्हि? ततोऽभ्यधिकम्; तस्मात् तदङ्गाधिक्यात् तत्फलाधिक्यं युक्तमित्यभिप्रायः; दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात् फलाधिक्यम्; तस्मात् यदेव विद्यया विज्ञानेन युक्तः सन् करोति कर्म श्रद्धया श्रद्दधानश्च सन्, उपनिषदा योगेन युक्तश्चेत्यर्थः, तदेव कर्म वीर्यवत्तरम् अविद्वत्कर्मणोऽधिकफलं भवतीति; विद्वत्कर्मणो वीर्यवत्तरत्ववचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः। न च अविदुषः कर्मण्यनधिकारः, औषस्त्ये काण्डे अविदुषामप्यार्त्विज्यदर्शनात्। रसतमाप्तिसमृद्धिगुणवदक्षरमित्येकमुपासनम्, मध्ये प्रयत्नान्तरादर्शनात्; अनेकैर्हि विशेषणैः अनेकधा उपास्यत्वात् खलु एतस्यैव प्रकृतस्य उद्गीथाख्यस्य अक्षरस्य उपव्याख्यानं भवति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.02

देवासुराः देवाश्च असुराश्च; देवाः दीव्यतेर्द्योतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः; असुराः तद्विपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यः तमआत्मिका इन्द्रियवृत्तय एव; ह वै इति पूर्ववृत्तोद्भासकौ निपातौ; यत्र यस्मिन्निमित्ते इतरेतरविषयापहारलक्षणे संयेतिरे, संपूर्वस्य यततेः सङ्ग्रामार्थत्वमिति, सङ्ग्रामं कृतवन्त इत्यर्थः। शास्त्रीयप्रकाशवृत्त्यभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयः असुराः, तथा तद्विपरीताः शास्त्रार्थविषयविवेकज्योतिरात्मानः देवाः स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ताः इति अन्योन्याभिभवोद्भवरूपः सङ्ग्राम इव, सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामो अनादिकालप्रवृत्त इत्यभिप्रायः। स इह श्रुत्या आख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया। अतः उभयेऽपि देवासुराः, प्रजापतेरपत्यानीति प्राजापत्याः – प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः, ‘पुरुष एवोक्थमयमेव महान्प्रजापतिः’ (ऐ. आ. २-१-२) इति श्रुत्यन्तरात्; तस्य हि शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धाः अपत्यानीव, तदुद्भवत्वात्। तत् तत्र उत्कर्षापकर्षलक्षणनिमित्ते ह देवाः उद्गीथम् उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्म आजह्रुः आहृतवन्तः; तस्यापि केवलस्य आहरणासम्भवात् ज्योतिष्टोमाद्याहृतवन्त इत्यभिप्रायः। तत्किमर्थमाजह्रुरिति, उच्यते – अनेन कर्मणा एनान् असुरान् अभिभविष्याम इति एवमभिप्रायाः सन्तः॥
यदा च तदुद्गीथं कर्म आजिहीर्षवः, तदा –
ते ह देवाः नासिक्यं नासिकायां भवं प्राणं चेतनावन्तं घ्राणम् उद्गीथकर्तारम् उद्गातारम् उद्गीथभक्त्या उपासाञ्चक्रिरे उपासनं कृतवन्त इत्यर्थः; नासिक्यप्राणदृष्ट्या उद्गीथाख्यमक्षरमोङ्कारम् उपासाञ्चक्रिरे इत्यर्थः। एवं हि प्रकृतार्थपरित्यागः अप्रकृतार्थोपादानं च न कृतं स्यात् – ‘खल्वेतस्याक्षरस्य ’ इत्योङ्कारो हि उपास्यतया प्रकृतः। ननु उद्गीथोपलक्षितं कर्म आहृतवन्त इत्यवोचः; इदानीमेव कथं नासिक्यप्राणदृष्ट्या उद्गीथाख्यमक्षरमोङ्कारम् उपासाञ्चक्रिर इत्यात्थ? नैष दोषः; उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्या उद्गीथभक्त्यवयवश्च ओङ्कारः उपास्यत्वेन विवक्षितः, न स्वतन्त्रः; अतः तादर्थ्येन कर्म आहृतवन्त इति युक्तमेवोक्तम्। तम् एवं देवैर्वृतमुद्गातारं ह असुराः स्वाभाविकतमआत्मानः ज्योतीरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधर्मासङ्गरूपेण विविधुः विद्धवन्तः, संसर्गं कृतवन्त इत्यर्थः। स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव; स तेन दोषेण पाप्मसंसर्गी बभूव; तदिदमुक्तमसुराः पाप्मना विविधुरिति। यस्मादासुरेण पाप्मना विद्धः, तस्मात् तेन पाप्मना प्रेरितः प्राणः दुर्गन्धग्राहकः प्राणिनाम्। अतः तेन उभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च, पाप्मना हि एषः यस्मात् विद्धः। उभयग्रहणम् अविवक्षितम् – ‘यस्योभयं हविरार्तिमार्च्छति’ (तै. ब्रा. ३-७-१) इति यद्वत्; ‘यदेवेदमप्रतिरूपं जिघ्रति’ (बृ. उ. १-३-३) इति समानप्रकरणश्रुतेः॥
मुख्यप्राणस्य उपास्यत्वाय तद्विशुद्धत्वानुभवार्थः अयं विचारः श्रुत्या प्रवर्तितः। अतः चक्षुरादिदेवताः क्रमेण विचार्य आसुरेण पाप्मना विद्धा इत्यपोह्यन्ते। समानमन्यत् – अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि। अनुक्ता अप्यन्याः त्वग्रसनादिदेवताः द्रष्टव्याः, ‘एवमु खल्वेता देवताः पाप्मभिः’ (बृ. उ. १-३-६) इति श्रुत्यन्तरात्॥
आसुरेण पाप्मना विद्धत्वात् प्राणादिदेवताः अपोह्य, अथ अनन्तरम्, ह, य एवायं प्रसिद्धः, मुखे भवः मुख्यः प्राणः, तम् उद्गीथम् उपासाञ्चक्रिरे, तं ह असुराः पूर्ववत् ऋत्वा प्राप्य विदध्वंसुः विनष्टाः, अभिप्रायमात्रेण, अकृत्वा किञ्चिदपि प्राणस्य; कथं विनष्टा इति, अत्र दृष्टान्तमाह – यथा लोके अश्मानम् आखणम् – न शक्यते खनितुं कुद्दालादिभिरपि, टङ्कैश्च छेत्तुं न शक्यः अखनः, अखन एव आखणः, तम् – ऋत्वा सामर्थ्यात् लोष्टः पांसुपिण्डः, श्रुत्यन्तराच्च – अश्मनि क्षिप्तः अश्मभेदनाभिप्रायेण, तस्य अश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येत – एवं विदध्वंसुरित्यर्थः। एवं विशुद्धः असुरैरधर्षितत्वात् प्राणः इति॥
एवंविदः प्राणात्मभूतस्य इदं फलमाह – यथाश्मानमिति। एष एव दृष्टान्तः; एवं हैव स विध्वंसते विनश्यति; कोऽसाविति, आह – य एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तुं कामयते इच्छति यश्चापि एनम् अभिदासति हिनस्ति प्राणविदं प्रति आक्रोशताडनादि प्रयुङ्क्ते, सोऽप्येवमेव विध्वंसत इत्यर्थः; यस्मात् स एष प्राणवित् प्राणभूतत्वात् अश्माखण इव अश्माखणः अधर्षणीय इत्यर्थः। ननु नासिक्योऽपि प्राणः वाय्वात्मा, यथा मुख्यः; तत्र नासिक्यः प्राणः पाप्मना विद्धः – प्राण एव सन्, न मुख्यः – कथम्? नैष दोषः; नासिक्यस्तु स्थानकरणवैगुण्यात् असुरैः पाप्मना विद्धः, वाय्वात्मापि सन्; मुख्यस्तु तदसम्भवात् स्थानदेवताबलीयस्त्वात् न विद्ध इति श्लिष्टम् – यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति, न अन्यहस्तगताः, तद्वत् दोषवद्ध्राणसचिवत्वाद्विद्धा घ्राणदेवता, न मुख्यः॥
यस्मान्न विद्धः असुरैः मुख्यः, तस्मात् नैव एतेन सुरभि न दुर्गन्धि च विजानाति लोकः; घ्राणेनैव तदुभयं विजानाति; अतश्च पाप्मकार्यादर्शनात् अपहतपाप्मा अपहतः विनाशितः अपनीतः पाप्मा यस्मात् सोऽयमपहतपाप्मा हि एषः, विशुद्ध इत्यर्थः। यस्माच्च आत्मंभरयः कल्याणाद्यासङ्गवत्त्वात् घ्राणादयः – न तथा आत्मंभरिर्मुख्यः; किं तर्हि? सर्वार्थः; कथमिति, उच्यते – तेन मुख्येन यदश्नाति यत्पिबति लोकः तेन अशितेन पीतेन च इतरान् प्राणान् घ्राणादीन् अवति पालयति; तेन हि तेषां स्थितिर्भवतीत्यर्थः; अतः सर्वंभरिः प्राणः; अतो विशुद्धः। कथं पुनर्मुख्याशितपीताभ्यां स्थितिः इतरेषां गम्यत इति, उच्यते – एतमु एव मुख्यं प्राणं मुख्यप्राणस्य वृत्तिम्, अन्नपाने इत्यर्थः, अन्ततः अन्ते मरणकाले अवित्त्वा अलब्ध्वा उत्क्रामति, घ्राणादिप्राणसमुदाय इत्यर्थः; अप्राणो हि न शक्नोत्यशितुं पातुं वा; तदा उत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य; दृश्यते हि उत्क्रान्तौ प्राणस्याशिशिषा, यतः व्याददात्येव, आस्यविदारणं करोतीत्यर्थः; तद्धि अन्नालाभे उत्क्रान्तस्य लिङ्गम्॥
तं ह अङ्गिराः – तं मुख्यं प्राणं ह अङ्गिरा इत्येवङ्गुणम् उद्गीथम् उपासाञ्चक्रे उपासनं कृतवान्, बको दाल्भ्य इति वक्ष्यमाणेन सम्बध्यते; तथा बृहस्पतिरिति, आयास्य इति च उपासाञ्चक्रे बकः इत्येवं सम्बन्धं कृतवन्तः केचित्, एतमु एवाङ्गिरसं बृहस्पतिमायास्यं प्राणं मन्यन्ते – इति वचनात्। भवत्येवं यथाश्रुतासम्भवे; सम्भवति तु यथाश्रुतम् ऋषिचोदनायामपि – श्रुत्यन्तरवत् – ’ तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तम्’ ऋषिमपि; तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिः इत्यादीन् ऋषीनेव प्राणमापादयति श्रुतिः; तथा तानपि ऋषीन् प्राणोपासकान् अङ्गिरोबृहस्पत्यायास्यान् प्राणं करोत्यभेदविज्ञानाय – ‘प्राणो ह पिता प्राणो माता’ (छा. उ. ७-१५-१) इत्यादिवच्च। तस्मात् ऋषिः अङ्गिरा नाम, प्राण एव सन्, आत्मानमङ्गिरसं प्राणमुद्गीथम् उपासाञ्चक्रे इत्येतत्; यत् यस्मात् सः अङ्गानां प्राणः सन् रसः, तेनासौ अङ्गिरसः॥
तथा वाचो बृहत्याः पतिः तेनासौ बृहस्पतिः॥
तथा यत् यस्मात् आस्यात् अयते निर्गच्छति तेन आयास्यः ऋषिः प्राण एव सन् इत्यर्थः। तथा अन्योऽप्युपासकः आत्मानमेव आङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः॥
न केवलमङ्गिरःप्रभृतय उपासाञ्चक्रिरे; तं ह बको नाम दल्भस्यापत्यं दाल्भ्यः विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान्; विदात्वा च स ह नैमिशीयानां सत्रिणाम् उद्गाता बभूव; स च प्राणविज्ञानसामर्थ्यात् एभ्यः नैमिशीयेभ्यः कामान् आगायति स्म ह आगीतवान्किलेत्यर्थः॥
तथा अन्योऽप्युद्गाता आगाता ह वै कामानां भवति; य एतत् एवं विद्वान् यथोक्तगुणं प्राणम् अक्षरमुद्गीथमुपास्ते, तस्य एतद्दृष्टं फलम् उक्तम्, प्राणात्मभावसत्वदृष्टम् – ‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४-१-२) (बृ. उ. ४-१-३) (बृ. उ. ४-१-४) (बृ. उ. ४-१-५) (बृ. उ. ४-१-६) (बृ. उ. ४-१-७) इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः। इत्यध्यात्मम् – एतत् आत्मविषयम् उद्गीथोपासनम् इति उक्तोपसंहारः, अधिदैवतोद्गीथोपासने वक्ष्यमाणे, बुद्धिसमाधानार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.03

अथ अनन्तरम् अधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमित्यर्थः, अनेकधा उपास्यत्वादुद्गीथस्य; य एवासौ आदित्यः तपति, तम् उद्गीथमुपासीत आदित्यदृष्ट्या उद्गीथमुपासीतेत्यर्थः; तमुद्गीथम् इति उद्गीथशब्दः अक्षरवाची सन् कथमादित्ये वर्तत इति, उच्यते – उद्यन् उद्गच्छन् वै एषः प्रजाभ्यः प्रजार्थम् उद्गायति प्रजानामन्नोत्पत्त्यर्थम्; न हि अनुद्यति तस्मिन्, व्रीह्यादेः निष्पत्तिः स्यात्; अतः उद्गायतीवोद्गायति – यथैवोद्गाता अन्नार्थम्; अतः उद्गीथः सवितेत्यर्थः। किञ्च उद्यन् नैशं तमः तज्जं च भयं प्राणिनाम् अपहन्ति; तमेवङ्गुणं सवितारं यः वेद, सः अपहन्ता नाशयिता ह वै भयस्य जन्ममरणादिलक्षणस्य आत्मनः तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति॥
यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते, तथापि न स तत्त्वभेदस्तयोः। कथम् –
समान उ एव तुल्य एव प्राणः सवित्रा गुणतः, सविता च प्राणेन; यस्मात् उष्णोऽयं प्राणः उष्णश्चासौ सविता। किञ्च स्वर इति इमं प्राणमाचक्षते कथयन्ति, तथा स्वर इति प्रत्यास्वर इति च अमुं सवितारम्; यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति, सविता तु अस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति, अतः प्रत्यास्वरः; अस्मात् गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ। अतः तत्त्वाभेदात् एतं प्राणम् इमम् अमुं च आदित्यम् उद्गीथमुपासीत॥
अथ खलु इति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते; व्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषम् उद्गीथम् उपासीत। अधुना तस्य तत्त्वं निरूप्यते – यद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति, स प्राणाख्यो वायोर्वृत्तिविशेषः; यदपानिति अपश्वसिति ताभ्यामेवान्तराकर्षति वायुम्, सः अपानः अपानाख्या वृत्तिः। ततः किमिति, उच्यते – अथ यः उक्तलक्षणयोः प्राणापानयोः सन्धिः तयोरन्तरा वृत्तिविशेषः, सः व्यानः; यः साङ्ख्यादिशास्त्रप्रसिद्धः, श्रुत्या विशेषनिरूपणात् – नासौ व्यान इत्यभिप्रायः। कस्मात्पुनः प्राणापानौ हित्वा महता आयासेन व्यानस्यैवोपासनमुच्यते? वीर्यवत्कर्महेतुत्वात्। कथं वीर्यवत्कर्महेतुत्वमिति, आह – यः व्यानः सा वाक्, व्यानकार्यत्वाद्वाचः। यस्माद्व्याननिर्वर्त्या वाक्, तस्मात् अप्राणन्ननपानन् प्राणापानव्यापारावकुर्वन् वाचमभिव्याहरति उच्चारयति लोकः॥
तथा वाग्विशेषामृचम्, ऋक्संस्थं च साम, सामावयवं चोद्गीथम्, अप्राणन्ननपानन् व्यानेनैव निर्वर्तयतीत्यभिप्रायः॥
न केवलं वागाद्यभिव्याहरणमेव; अतः अस्मात् अन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि – यथा अग्नेर्मन्थनम्, आजेः मर्यादायाः सरणं धावनम्, दृढस्य धनुषः आयमनम् आकर्षणम् – अप्राणन्ननपानंस्तानि करोति; अतो विशिष्टः व्यानः प्राणादिवृत्तिभ्यः। विशिष्टस्योपासनं ज्यायः, फलवत्त्वाद्राजोपासनवत्। एतस्य हेतोः एतस्मात्कारणात् व्यानमेवोद्गीथमुपासीत, नान्यद्वृत्त्यन्तरम्। कर्मवीर्यवत्तरत्वं फलम्॥
अथ अधुना खलु उद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टि – उद्गीथ इति; उद्गीथनामाक्षराणीत्यर्थः – नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भवेत् अमुकमिश्रा इति यद्वत्। प्राण एव उत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः। कथं प्राणस्य उत्त्वमिति, आह – प्राणेन हि उत्तिष्ठति सर्वः, अप्राणस्यावसाददर्शनात्; अतोऽस्त्युदः प्राणस्य च सामान्यम्। वाक् गीः, वाचो ह गिर इत्याचक्षते शिष्टाः। तथा अन्नं थम्, अन्ने हि इदं सर्वं स्थितम्; अतः अस्त्यन्नस्य थाक्षरस्य च सामान्यम्॥
त्रयाणां श्रुत्युक्तानि सामान्यानि; तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि –
द्यौरेव उत् उच्चैःस्थानात्, अन्तरिक्षं गीः गिरणाल्लोकानाम्, पृथिवी थं प्राणिस्थानात्; आदित्य एव उत् ऊर्ध्वत्वात्, वायुः गीः अग्न्यादीनां गिरणात्, अग्निः थं याज्ञीयकर्मावस्थानात्; सामवेद एव उत् स्वर्गसंस्तुतत्वात्, यजुर्वेदो गीः यजुषां प्रत्तस्य हविषो देवतानां गिरणात्, ऋग्वेदः थम् ऋच्यध्यूढत्वात्साम्नः। उद्गीथाक्षरोपासनफलमधुनोच्यते – दुग्धे दोग्धि अस्मै साधकाय; का सा? वाक्; कम्? दोहम्; कोऽसौ दोह इति, आह – यो वाचो दोहः, ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायः, तत् वाचो दोहः तं स्वयमेव वाक् दोग्धि आत्मानमेव दोग्धि। किञ्च अन्नवान् प्रभूतान्नः अदश्च दीप्ताग्निर्भवति, य एतानि यथोक्तानि एवं यथोक्तगुणानि उद्गीथाक्षराणि विद्वान्सन् उपास्ते उद्गीथ इति॥
अथ खलु इदानीम्, आशीःसमृद्धिः आशिषः कामस्य समृद्धिः यथा भवेत् तदुच्यत इति वाक्यशेषः, उपसरणानि उपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः; कथम्? इत्युपासीत एवमुपासीत; तद्यथा – येन साम्ना येन सामविशेषेण स्तोष्यन् स्तुतिं करिष्यन् स्यात् भवेदुद्गाता तत्साम उपधावेत् उपसरेत् चिन्तयेदुत्पत्त्यादिभिः॥
यस्यामृचि तत्साम तां च ऋचम् उपधावेत् देवतादिभिः; यदार्षेयं साम तं च ऋषिम्; यां देवतामभिष्टोष्यन्स्यात् तां देवतामुपधावेत्॥
येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात् तच्छन्द उपधावेत्; येन स्तोमेन स्तोष्यमाणः स्यात्, स्तोमाङ्गफलस्य कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति, तं स्तोममुपधावेत्॥
यां दिशमभिष्टोष्यन्स्यात् तां दिशमुपधावेत् अधिष्ठात्रादिभिः॥
आत्मानम् उद्गाता स्वं रूपं गोत्रनामादिभिः – सामादीन् क्रमेण स्वं च आत्मानम् – अन्ततः अन्ते उपसृत्य स्तुवीत, कामं ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वन्। ततः अभ्याशः क्षिप्रमेव ह यत् यत्र अस्मै एवंविदे स कामः समृध्येत समृद्धिं गच्छेत्। कोऽसौ? यत्कामः यः कामः अस्य सोऽयं यत्कामः सन् स्तुवीतेति। द्विरुक्तिरादरार्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.04

ओमित्येतत् इत्यादिप्रकृतस्याक्षरस्य पुनरुपादानम् उद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम्; प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः। ओमित्यादि व्याख्यातम्॥
देवा वै मृत्योः मारकात् बिभ्यतः किं कृतवन्त इति, उच्यते – त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन् प्रविष्टवन्तः, वैदिकं कर्म प्रारब्धवन्त इत्यर्थः, तत् मृत्योस्त्राणं मन्यमानाः। किञ्च, ते कर्मण्यविनियुक्तैः छन्दोभिः मन्त्रैः जपहोमादि कुर्वन्तः आत्मानं कर्मान्तरेष्वच्छादयन् छादितवन्तः। यत् यस्मात् एभिः मन्त्रैः अच्छादयन्, तत् तस्मात् छन्दसां मन्त्राणां छादनात् छन्दस्त्वं प्रसिद्धमेव॥
तान् तत्र देवान्कर्मपरान् मृत्युः यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येत् बडिशोदकस्रावोपायसाध्यं मन्यमानः, एवं पर्यपश्यत् दृष्टवान्; मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेने इत्यर्थः। क्वासौ देवान्ददर्शेति, उच्यते – ऋचि साम्नि यजुषि, ऋग्यजुःसामसम्बन्धिकर्मणीत्यर्थः। ते नु देवाः वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तः मृत्योश्चिकीर्षितं विदितवन्तः; विदित्वा च ते ऊर्ध्वाः व्यावृत्ताः कर्मभ्यः ऋचः साम्नः यजुषः ऋग्यजुःसामसम्बद्धात्कर्मणः अभ्युत्थायेत्यर्थः। तेन कर्मणा मृत्युभयापगमं प्रति निराशाः तदपास्य अमृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः, ओङ्कारोपासनपराः संवृत्ताः; एव – शब्दः अवधारणार्थः सन् समुच्चयप्रतिषेधार्थः; तदुपासनपराः संवृत्ता इत्यर्थः॥
कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येति, उच्यते –
यदा वै ऋचम् आप्नोति ओमित्येवातिस्वरति एवं साम एवं यजुः; एष उ स्वरः; कोऽसौ? यदेतदक्षरम् एतदमृतम् अभयम्, तत्प्रविश्य यथागुणमेव अमृता अभयाश्च अभवन् देवाः॥
स यः अन्योऽपि देववदेव एतदक्षरम् एवम् अमृताभयगुणं विद्वान् प्रणौति स्तौति; उपासनमेवात्र स्तुतिरभिप्रेता, स तथैव एतदेवाक्षरं स्वरममृतमभयं प्रविशति; तत्प्रविश्य च – राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावत् न परस्य ब्रह्मणोऽन्तरङ्गबहिरङ्गताविशेषः – किं तर्हि? यदमृता देवाः येनामृतत्वेन यदमृता अभूवन्, तेनैवामृतत्वेन विशिष्टः तदमृतो भवति; न न्यूनता नाप्यधिकता अमृतत्वे इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.05

प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्ट्या अक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यते –
अथ खलु य उद्गीथः स प्रणवः बह्वृचानाम्, यश्च प्रणवः तेषां स एव च्छान्दोग्ये उद्गीथशब्दवाच्यः। असौ वा आदित्य उद्गीथः एष प्रणवः; प्रणवशब्दवाच्योऽपि स एव बह्वृचानाम्, नान्यः। उद्गीथ आदित्यः कथम्? उद्गीथाख्यमक्षरम् ओमिति एतत् एषः हि यस्मात् स्वरन् उच्चारयन्, अनेकार्थत्वाद्धातूनाम्; अथवा स्वरन् गच्छन् एति। अतः असावुद्गीथः सविता॥
तम् एतम् उ एव अहम् अभ्यगासिषम् आभिमुख्येन गीतवानस्मि, आदित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः। तेन तस्मात्कारणात् मम त्वमेकोऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाच उक्तवान्। अतः रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात् पर्यावर्तयेत्यर्थः, त्वंयोगात्। एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधिदैवतम्॥
अथ अनन्तरम् अध्यात्मम् उच्यते। य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत्। तथा ओमिति ह्येष प्राणोऽपि स्वरन्नेपि ओमिति ह्यनुज्ञां कुर्वन्निव वागादिप्रवृत्त्यर्थमेतीत्यर्थः। न हि मरणकाले मुमूर्षोः समीपस्थाः प्राणस्योंकरणं शृण्वन्तीति। एतत्सामान्यादादित्येऽप्योङ्करणमनुज्ञामात्रं द्रष्टव्यम्॥
एतमु एवाहमभ्यगासिषमित्यादि पूर्ववदेव। अतो वागादीन्मुख्यं च प्राणं भेदगुणविशिष्टमुद्गीथं पश्यन् भूमानं मनसा अभिगायतात्, पूर्ववदावर्तयेत्यर्थः; बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः। प्राणादित्यैकत्वोद्गीथ दृष्टेः एकपुत्रत्वफलदोषेणापोदितत्वात् रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यते अस्मिन्खण्डे बहुपुत्रफलत्वार्थम्॥
अथ खलु य उद्गीथ इत्यादि प्रणवोद्गीथैकत्वदर्शनमुक्तम्, तस्यैतत्फलमुच्यते – होतृषदनात् होता यत्रस्थः शंसति तत्स्थानं होतृषदनम्, हौत्रात्कर्मणः सम्यक्प्रयुक्तादित्यर्थः। न हि देशमात्रात्फलमाहर्तुं शक्यम्। किं तत्? ह एवापि दुरुद्गीतं दुष्टमुद्गीतम् उद्गानं कृतम् उद्गात्रा स्वकर्मणि क्षतं कृतमित्यर्थः; तदनुसमाहरति अनुसन्धत्त इत्यर्थः – चिकित्सयेव धातुवैषम्यसमीकरणमिति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.06

अथेदानीं सर्वफलसम्पत्त्यर्थम् उद्गीथस्य उपासनान्तरं विधित्स्यते –
इयमेव पृथिवी ऋक्; ऋचि पृथिविदृष्टिः कार्या। तथा अग्निः साम; साम्नि अग्निदृष्टिः। कथं पृथिव्यग्न्योः ऋक्सामत्वमिति, उच्यते – तदेतत् अग्न्याख्यं साम एतस्यां पृथिव्याम् ऋचि अध्यूढम् अधिगतम् उपरिभावेन स्थितमित्यर्थः; ऋचीव साम; तस्मात् अत एव कारणात् ऋच्यध्यूढमेव साम गीयते इदानीमपि सामगैः। यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यम्, तथैतौ पृथिव्यग्नी; कथम्? इयमेव पृथिवी सा सामनामार्धशब्दवाच्या; इतरार्धशब्दवाच्यः अग्निः अमः; तत् एतत्पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्वमापन्नं साम; तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव। तस्माच्च पृथिव्यग्न्योर्‌ऋक्सामत्वमित्यर्थः। सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव सा अग्निरम इति केचित्॥
अन्तरिक्षमेव ऋक् वायुः साम इत्यादि पूर्ववत्॥
नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम॥
अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैव ऋक्। अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्ष्ण्यं तत्साम। तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते॥
ते एवैते भासौ शुक्लकृष्णत्वे सा च अमश्च साम। अथ य एषः अन्तरादित्ये आदित्यस्यान्तः मध्ये हिरण्मयः हिरण्मय इव हिरण्मयः। न हि सुवर्णविकारत्वं देवस्य सम्भवति, ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात्; न हि सौवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति, येन प्रतिषिध्येत, चाक्षुषे च अग्रहणात्; अतः लुप्तोपम एव हिरण्मयशब्दः, ज्योतिर्मय इत्यर्थः। उत्तरेष्वपि समाना योजना। पुरुषः पुरि शयनात् पूरयति वा स्वेन आत्मना जगदिति; दृश्यते निवृत्तचक्षुर्भिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षैः। तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टि – हिरण्यश्मश्रुर्हिरण्यकेश इति; ज्योतिर्मयान्येवस्य श्मश्रूणि केशाश्चेत्यर्थः। आप्रणखात् प्रणखः नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः॥
तस्य एवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्विशेषः। कथम्? तस्य यथा कपेः मर्कटस्य आसः कप्यासः; आसेरुपवेशनार्थस्य करणे घञ्; कपिपृष्ठान्तः येनोपविशति; कप्यास इव पुण्डरीकम् अत्यन्ततेजस्वि एवम् देवस्य अक्षिणी; उपमितोपमानत्वात् न हीनोपमा। तस्य एवङ्गुणविशिष्टस्य गौणमिदं नाम उदिति; कथं गौणत्वम्? स एषः देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः, ‘य आत्मापहतपाप्मा’ (छा. उ. ८-७-१) इत्यादि वक्ष्यति, उदितः उत् इतः, उद्गत इत्यर्थः। अतः असौ उन्नामा। तम् एवङ्गुणसम्पन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सोऽप्येवमेव उदेति उद्गच्छति सर्वेभ्यः पाप्मभ्यः – ह वै इत्यवधारणार्थौ निपातौ – उदेत्येवेत्यर्थः॥
तस्योद्गीथत्वं देवस्य आदित्यादीनामिव विवक्षित्वा आह – तस्य ऋक्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी। सर्वात्मा हि देवः। परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्याद्यृक्सामगेष्णत्वम्, सर्वयोनित्वाच्च। यत एवमुन्नामा च असौ ऋक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वे प्राप्ते उद्गीथत्वमुच्यते परोक्षेण, परोक्षप्रियत्वाद्देवस्य, तस्मादुद्गीथ इति। तस्मात्त्वेव हेतोः उदं गायतीत्युग्दाता। यस्माद्धि एतस्य यथोक्तस्योन्नाम्नः गाता असौ अतो युक्ता उद्गीतेति नामप्रसिद्धिः उद्गातुः। स एषः देवः उन्नामा ये च अमुष्मात् आदित्यात् पराञ्चः परागञ्चनात् ऊर्ध्वा लोकाः तेषां लोकानां च ईष्टे न केवलमीशितृत्वमेव, च – शब्दाद्धारयति च, ‘स दाधार पृथिवीं द्यामुतेमाम्’ (ऋ. सं. मं. १०-१२१-१) इत्यादिमन्त्रवर्णात्। किञ्च, देवकामानामीष्टे इति एतत् अधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.07

अथ अधुना अध्यात्ममुच्यते – वागेव ऋक् प्राणः साम, अधरोपरिस्थानत्वसामान्यात्। प्राणो घ्राणमुच्यते सह वायुना। वागेव सा प्राणोऽम इत्यादि पूर्ववत्॥
चक्षुरेव ऋक् आत्मा साम। आत्मेति च्छायात्मा, तत्स्थत्वात्साम॥
श्रोत्रमेव ऋक् मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम्॥
अथ यदेतदक्ष्णः शुक्लं भाः सैव ऋक्। अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, पूर्ववत्। सैव ऋक् अध्यात्मं वागाद्या, पृथिव्याद्या च अधिदैवतम्; प्रसिद्धा च ऋक् पादबद्धाक्षरात्मिका; तथा साम; उक्थसाहचर्याद्वा स्तोत्रं साम ऋक शस्त्रम् उक्थादन्यत् तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुः तत्स एव। सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम। ऋगादिप्रकरणात् तद्ब्रह्मेति त्रयो वेदाः। तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते। किं तत्? यदमुष्य आदित्यपुरुषस्य – हिरण्मय इत्यादि यदधिदैवतमुक्तम्, यावमुष्य गेष्णौ पर्वणी, तावेवास्यापि चाक्षुषस्य गेष्णौ; यच्चामुष्य नाम उदित्युद्गीथ इति च तदेवास्य नाम। स्थानभेदात् रूपगुणनामातिदेशात् ईशितृत्वविषयभेदव्यपदेशाच्च आदित्यचाक्षुषयोर्भेद इति चेत्, न;’ अमुना’ ‘अनेनैव’ (छा. उ. १-७-८) इत्येकस्योभयात्मत्वप्राप्त्यनुपपत्तेः। द्विधाभावेनोपपद्यत इति चेत् – वक्ष्यति हि ‘स एकधा भवति त्रिधा भवति’ (छा. उ. ७-२६-२) इत्यादि, न; चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः। तस्मादध्यात्माधिदैवतयोरेकत्वमेव। यत्तु रूपाद्यतिदेशो भेदकारणमवोचः, न तद्भेदावगमाय; किं तर्हि, स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम्॥
स एषः चाक्षुषः पुरुषः ये च एतस्मात् आध्यात्मिकादात्मनः अर्वाञ्चः अर्वाग्गताः लोकाः तेषां चेष्टे मनुष्यसम्बन्धिनां च कामानाम्। तत् तस्मात् य इमे वीणायां गायन्ति गायकाः त एतमेव गायन्ति। यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयः धनलाभयुक्ताः, धनवन्त इत्यर्थः॥
अथ य एतदेवं विद्वान् यथोक्तं देवमुद्गीथं विद्वान् साम गायति उभौ स गायति चाक्षुषमादित्यं च। तस्यैवंविदः फलमुच्यते – सोऽमुनैव आदित्येन स एष ये च अमुष्मात्पराञ्चः लोकाः तांश्च आप्नोति, आदित्यान्तर्गतदेवो भूत्वेत्यर्थः, देवकामांश्च॥
अथ अनेनैव चाक्षुषेणैव ये च एतस्मादर्वाञ्चो लोकाः तांश्च आप्नोति, मनुष्यकामांश्च – चाक्षुषो भूत्वेत्यर्थः। तस्मादु ह एवंवित् उद्गाता ब्रूयात् यजमानम् – कम् इष्टं ते तव काममागायानीति। एष हि यस्मादुद्गाता कामागानस्य उद्गानेन कामं संपादयितुमीष्टे समर्थः इत्यर्थः। कोऽसौ? य एवं विद्वान् साम गायति। द्विरुक्तिरुपासनसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.08

अनेकधोपास्यत्वात् अक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्तरमानिनाय। इतिहासस्तु सुखावबोधनार्थः। त्रयः त्रिसङ्ख्याकाः, ह इत्यैतिह्यार्थः, उद्गीथे उद्गीथज्ञानं प्रति, कुशलाः निपुणा बभूवुः; कस्मिंश्चिद्देशेकाले च निमित्ते वा समेतानामित्यभिप्रायः। न हि सर्वस्मिञ्जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने। श्रूयन्ते हि उषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः। के ते त्रय इति, आह – शिलकः नामतः, शलावतोऽपत्यं शालावत्यः; चिकितायनस्यापत्यं चैकितायनः, दल्भगोत्रो दाल्भ्यः, द्व्यामुष्यायणो वा; प्रवाहणो नामतः, जीवलस्यापत्यं जैवलिः इत्येते त्रयः – ते होचुः अन्योन्यम् – उद्गीथे वै कुशलाः निपुणा इति प्रसिद्धाः स्मः। अतो हन्त यद्यनुमतिर्भवताम् उद्गीथे उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामः वादं कुर्म इत्यर्थः। तथा च तद्विद्यसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति। अतः तद्विद्यसंयोगः कर्तव्य इति च इतिहासप्रयोजनम्। दृश्यते हि शिलकादीनाम्॥
तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल। तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच इतरौ – भगवन्तौ पूजावन्तौ अग्रे पूर्वं वदताम्; ब्राह्मणयोरिति लिङ्गाद्राजा असौ; युवयोर्ब्राह्मणयोः वदतोः वाचं श्रोष्यामि; अर्थरहितामित्यपरे, वाचमिति विशेषणात्॥
उक्तयोः स ह शिलकः शालावत्यः चैकितायनं दाल्भ्यमुवाच – हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानि इत्युक्तः इतरः पृच्छेति होवाच॥
लब्धानुमतिराह – का साम्नः – प्रकृतत्वादुद्गीथस्य; उद्गीथो हि अत्र उपास्यत्वेन प्रकृतः; ‘परोवरीयांसमुद गीथम्’ इति च वक्ष्यति – गतिः आश्रयः, परायणमित्येतत्। एवं पृष्टो दाल्भ्य उवाच – स्वर इति, स्वरात्मकत्वात्साम्नः। यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तम्, मृदाश्रय इव घटादिः। स्वरस्य का गतिरिति, प्राण इति होवाच; प्राणनिष्पाद्यो हि स्वरः, तस्मात्स्वरस्य प्राणो गतिः। प्राणस्य का गतिरिति, अन्नमिति होवाच; अन्नावष्टम्भो हि प्राणः, ‘शुष्यति वै प्राण ऋतेऽन्नात्’ (बृ. उ. ५-१२-१) इति श्रुतेः, ‘अन्नं दाम’ (बृ. उ. २-२-१) इति च। अन्नस्य का गतिरिति, आप इति होवाच, अप्संभवत्वादन्नस्य॥
अपां का गतिरिति, असौ लोक इति होवाच; अमुष्माद्धि लोकाद्वृष्टिः सम्भवति। अमुष्य लोकस्य का गतिरिति पृष्टः दाल्भ्य उवाच – स्वर्गममुं लोकमतीत्य आश्रयान्तरं साम न नयेत्कश्चित् इति होवाच आह। अतो वयमपि स्वर्गं लोकं साम अभिसंस्थापयामः; स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः। स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावम्, हि यस्मात् स्वर्गो वै लोकः साम वेद इति श्रुतिः॥
तम् इतरः शिकलः शालावत्यः चैकितायनं दाल्भ्यमुवाच – अप्रतिष्ठितम् असंस्थितम्, परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः; वै इत्यागमं स्मारयति किलेति च, दाल्भ्य ते तव साम। यस्तु असहिष्णुः सामवित् एतर्हि एतस्मिन्काले ब्रूयात् कश्चिद्विपरीतविज्ञानम् – अप्रतिष्ठितं साम प्रतिष्ठितमिति – एवंवादापराधिनो मूर्धा शिरः ते विपतिष्यति विस्पष्टं पतिष्यतीति। एवमुक्तस्यापराधिनः तथैव तद्विपतेत् न संशयः; न त्वहं ब्रवीमीत्यभिप्रायः। ननु मूर्धपातार्हं चेदपराधं कृतवान्, अतः परेणानुक्तस्यापि पतेन्मूर्धा, न चेदपराधी उक्तस्यापि नैव पतति; अन्यथा अकृताभ्यागमः कृतनाशश्च स्याताम्। नैष दोषः, कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात्। तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेक्षत्वमिति॥
एवमुक्तो दाल्भ्य आह – हन्ताहमेतद्भगवत्तः भगवतः वेदानि यत्प्रतिष्ठं साम इत्युक्तः प्रत्युवाच शालावत्यः – विद्धीति होवाच। अमुष्य लोकस्य का गतिरिति पृष्टः दाल्भ्येन शालावत्यः अयं लोक इति होवाच; अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति; ‘अतः प्रदानं देवा उपजीवन्ति’ (?) इति हि श्रुतयः; प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति; अतः साम्नोऽप्ययं लोकः प्रतिष्ठैवेति युक्तम्। अस्य लोकस्य का गतिरित्युक्तः आह शालावत्यः – न प्रतिष्ठाम् इमं लोकमतीत्य नयेत् साम कश्चित्। अतो वयं प्रतिष्ठां लोकं साम अभिसंस्थापयामः; यस्मात्प्रतिष्ठासंस्तावं हि, प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः; ‘इयं वै रथंतरम्’ (तां. ब्रा. १८-६-११) इति च श्रुतिः॥
तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाच अन्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत्। ततः शालावत्य आह – हन्ताहमेतद्भगवत्तो वेदानीति; विद्धीति होवाच इतरः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.09

अनुज्ञातः आह – अस्य लोकस्य का गतिरिति, आकाश इति होवाच प्रवाहणः; आकाश इति च पर आत्मा, ‘आकाशो वै नाम’ (छा. उ. ८-१४-१) इति श्रुतेः; तस्य हि कर्म सर्वभूतोत्पादकत्वम्; तस्मिन्नेव हि भूतप्रलयः – ‘तत्तेजोऽसृजत’ (छा. उ. ६-२-३) ‘तेजः परस्यां देवतायाम्’ (छा. उ. ६-८-६) इति हि वक्ष्यति; सर्वाणि ह वै इमानि भूतानि स्थावरजङ्गमानि आकाशादेव समुत्पद्यन्ते तेजोबन्नादिक्रमेण, सामर्थ्यात्, आकाशं प्रति अस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण; हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यः ज्यायान् महत्तरः, अतः स सर्वेषां भूतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः॥
यस्मात् परं परं वरीयः वरीयसोऽप्येष वरः परश्च वरीयांश्च परोवरीयान् उद्गीथः परमात्मा सम्पन्न इत्यर्थः, अत एव स एषः अनन्तः अविद्यमानान्तः। तमेतं परोवरीयांसं परमात्मभूतमनन्तम् एवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते। तस्यैतत्फलमाह – परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं ह अस्य विदुषो भवति दृष्टं फलम्, अदृष्टं च परोवरीयसः उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्तान् लोकान् जयति – य एतदेवं विद्वानुद्गीथमुपास्ते॥
किं च तमेतमुद्गीथं विद्वान् अतिधन्वा नामतः, शुनकस्यापत्यं शौनकः, उदरशाण्डिल्याय शिष्याय एतम् उद्गीथदर्शनम् उक्त्वा उवाच – यावत् ते तव प्रजायाम्, प्रजासन्ततावित्यर्थः, एनम् उद्गीथं त्वत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति, तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्यः उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति॥
तथा अदृष्टेऽपि परलोके अमुष्मिन् परोवरीयांल्लोको भविष्यतीत्युक्तवान् शाण्डिल्याय अतिधन्वा शौनकः। स्यादेतत्फलं पूर्वेषां महाभाग्यानाम्, नैदंयुगीनानाम् – इत्याशङ्कानिवृत्तये आह – स यः कश्चित् एतमेवं विद्वान् उद्गीथम् एतर्हि उपास्ते, तस्याप्येवमेव परोवरीय एव ह अस्य अस्मिंल्लोके जीवनं भवति तथा अमुष्मिंल्लोके लोक इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.10

उद्गीथोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते; आख्यायिका तु सुखावबोधार्था। मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः। ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया सह जायया उषस्तिर्ह नामतः, चक्रस्यापत्यं चाक्रायणः; इभो हस्ती तमर्हतीति इभ्यः ईश्वरः, हस्त्यारोहो वा, तस्य ग्रामः इभ्यग्रामः तस्मिन्; प्रद्राणकः अन्नालाभात्, ‘द्रा कुत्सायां गतौ’, कुत्सितां गतिं गतः, अन्त्यावस्थां प्राप्त इत्यर्थः; उवास उषितवान् कस्यचिद्गृहमाश्रित्य॥
सः अन्नार्थमटन् इभ्यं कुल्माषान् कुत्सितान्माषान् खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान्। तम् उषस्तिं ह उवाच इभ्यः – न इतः, अस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते; यच्च ये राशौ मे मम उपनिहिताः प्रक्षिप्ताः इमे भाजने, किं करोमि; इत्युक्तः प्रत्युवाच उषस्तिः॥
एतेषाम् एतानित्यर्थः, मे मह्यं देहीति ह उवाच; तान् स इभ्यः अस्मै उषस्तये प्रददौ प्रदत्तवान्। पानाय समीपस्थमुदकं च गृहीत्वा उवाच – हन्त गृहाणानुपानम्; इत्युक्तः प्रत्युवाच – उच्छिष्टं वै मे मम इदमुदकं पीतं स्यात्, यदि पास्यामि; इत्युक्तवन्तं प्रत्युवाच इतरः॥
किं न स्विदेते कुल्माषा अप्युच्छिष्टाः, इत्युक्तः आह उषस्तिः – न वै अजीविष्यं नैव जीविष्यामि इमान् कुल्माषान् अखादन् अभक्षयन् इति होवाच। कामः इच्छातः मे मम उदकपानं लभ्यत इत्यर्थः। अतश्चैतामवस्थां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो न अघस्पर्श इत्यभिप्रायः। तस्यापि जीवितं प्रति उपायान्तरेऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय; ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः, प्रद्राणकशब्दश्रवणात्॥
तांश्च स खादित्वा अतिशेषान् अतिशिष्टान् जायायै कारुण्यादाजहार; सा आटिकी अग्रे एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिक्षा, लब्धान्नेत्येतत्, बभूव संवृत्ता; तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान् पत्युर्हस्तात्प्रतिगृह्य निदधौ निक्षिप्तवती॥
स तस्याः कर्म जानन् प्रातः उषःकाले सञ्जिहानः शयनं निद्रां वा परित्यजन् उवाच पत्न्याः शृण्वन्त्याः – यत् यदि बतेति खिद्यमानः अन्नस्य स्तोकं लभेमहि, तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम्; ततः अस्माकं जीवनं भविष्यतीति। धनलाभे च कारणमाह – राजासौ नातिदूरे स्थाने यक्ष्यते; यजमानत्वात्तस्य आत्मनेपदम्; स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैः ऋत्विक्कर्मभिः ऋत्विक्कर्मप्रयोजनायेत्यर्थः वृणीतेति॥
एवमुक्तवन्तं जायोवाच – हन्त गृहाण हे पते इमे एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति। तान्खादित्वा अमुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिः एयाय॥
तत्र च गत्वा, उद्गातॄन् उद्गातृपुरुषानागत्य, आ स्तुवन्त्यस्मिन्निति आस्तावः तस्मिन्नास्तावे स्तोष्यमाणान् उपोपविवेश समीपे उपविष्टस्तेषामित्यर्थः। उपविश्य च स ह प्रस्तोतारमुवाच॥
हे प्रस्तोतः इत्यामन्त्र्य अभिमुखीकरणाय, या देवता प्रस्तावं प्रस्तावभक्तिम् अनुगता अन्वायत्ता, तां चेत् देवतां प्रस्तावभक्तेः अविद्वान्सन् प्रस्तोष्यसि, विदुषो मम समीपे – तत्परोक्षेऽपि चेत् विपतेत्तस्य मूर्धा, कर्ममात्रविदामनधिकार एव कर्मणि स्यात्; तच्चानिष्टम्, अविदुषामपि कर्मदर्शनात्, दक्षिणमार्गश्रुतेश्च; अनधिकारे च अविदुषामुत्तर एवैको मार्गः श्रूयेत; न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः, ‘यज्ञेन दानेन’ (बृ. उ. ६-२-१६) इत्यादिश्रुतेः; ‘तथोक्तस्य मया’ (छा. उ. १-११-५), (छा. उ. १-११-७), (छा. उ. १-११-९) इति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारः, न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च; अनुज्ञायास्तत्र तत्र दर्शनात्, कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति – मूर्धा ते विपतिष्यतीति॥
एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत्। ते प्रस्तोत्रादयः कर्मभ्यः समारताः उपरताः सन्तः मूर्धपातभयात् तूष्णीमासाञ्चक्रिरे अन्यच्चाकुर्वन्तः, अर्थित्वात्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.11

अथ अनन्तरं ह एनम् उषस्तिं यजमानः राजा उवाच भगवन्तं पूजावन्तम् वै अहं विविदिषाणि वेदितुमिच्छामि; इत्युक्तः उषस्तिः अस्मि चाक्रायणः तवापि श्रोत्रपथमागतो यदि – इति ह उवाच उक्तवान्॥
स ह यजमानः उवाच – सत्यमेवमहं भगवन्तं बहुगुणमश्रौषम्, सर्वैश्च ऋत्विक्कर्मभिः आर्त्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि; अन्विष्य भगवतो वा अहम् अवित्त्या अलाभेन अन्यानिमान् अवृषि वृतवानस्मि॥
अद्यापि भगवांस्त्वेव मे मम सर्वैरार्त्विज्यैः ऋत्विक्कर्मार्थम् अस्तु, इत्युक्तः तथेत्याह उषस्तिः; किं तु अथैवं तर्हि एते एव त्वया पूर्वं वृताः मया समतिसृष्टाः मया संयक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम्; त्वया त्वेतत्कार्यम् – यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि, तावन्मम दद्याः; इत्युक्तः तथेति ह यजमानः उवाच॥
अथ ह एनम् औषस्त्यं वचः श्रुत्वा प्रस्तोता उपससाद उषस्तिं विनयेनोपजगाम। प्रस्तोतर्या देवतेत्यादि मा मां भगवानवोचत्पूर्वम् – कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति॥
पृष्टः प्राण इति ह उवाच; युक्तं प्रस्तावस्य प्राणो देवतेति। कथम्? सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेव अभिसंविशन्ति प्रलयकाले, प्राणमभिलक्षयित्वा प्राणात्मनैवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले; अतः सैषा देवता प्रस्तावमन्वायत्ता; तां चेतविद्वान् त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि, मूर्धा शिरः ते व्यपतिष्यत् विपतितमभविष्यत् यथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति। अतस्त्वा साधु कृतम्; मया निषिद्धः कर्मणो यदुपरमामकार्षिरित्यभिप्रायः॥
तथोद्गाता पप्रच्छ कतमा सा उद्गीथभक्तिमनुगता अन्वायत्ता देवतेति॥
पृष्टः आदित्य इति होवाच। सर्वाणि ह वा इमानि भूतानि आदित्यम् उच्चैः ऊर्ध्वं सन्तं गायन्ति शब्दयन्ति, स्तुवन्तीत्यभिप्रायः, उच्छब्दसामान्यात्, प्रशब्दसामान्यादिव प्राणः। अतः सैषा देवतेत्यादि पूर्ववत्॥
एवमेवाथ ह एनं प्रतिहर्ता उपससाद कतमा सा देवता प्रतिहारमन्वायत्तेति॥
पृष्टः अन्नमिति होवाच। सर्वाणि ह वा इमानि भूतान्यन्नमेव आत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति। सैषा देवता प्रतिशब्दसामान्यात्प्रतिहारभक्तिमनुगता। समानमन्यत्तथोक्तस्य मयेति। प्रस्तावोद्गीथप्रतिहारभक्तीः प्राणादित्यान्नदृष्ट्योपासीतेति समुदायार्थः। प्राणाद्यापत्तिः कर्मसमृद्धिर्वा फलमिति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.12

अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्ता उच्छिष्टोच्छिष्टपर्युषितभक्षणलक्षणा; सा मा भूदित्यन्नलाभाय अथ अनन्तरं शौवः श्वभिर्दृष्टः उद्गीथः उद्गानं साम अतः प्रस्तूयते। तत् तत्र ह किल बको नामतः, दल्भस्यापत्यं दाल्भ्यः; ग्लावो वा नामतः, मित्रायाश्चापत्यं मैत्रेयः; वाशब्दश्चार्थे; द्व्यामुष्यायणो ह्यसौ; वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः; द्विनामा द्विगोत्र इत्यादि हि स्मृतिः; दृश्यते च उभयतः पिण्डभाक्त्वम्; उद्गीथे बद्धचित्तत्वात् ऋषावनादराद्वा। वा – शब्दः स्वाध्यायार्थः। स्वाध्यायं कर्तुं ग्रामाद्बहिः उद्वव्राज उद्गतवान्विविक्तदेशस्थोदकाभ्याशम्। ‘उद वव्राज’ ‘प्रतिपालयाञ्चकार’ (छा. उ. १-१२-३) इति च एकवचनाल्लिङ्गात् एकोऽसौ ऋषिः। श्वोद्गीथकालप्रतिपालनात् ऋषेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायतः॥
स्वाध्यायेन तोषिता देवता ऋषिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः सन् तस्मै ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार। तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वानः उपसमेत्य ऊचुः उक्तवन्तः – अन्नं नः अस्मभ्यं भगवान् आगायतु आगानेन निष्पादयत्वित्यर्थः। मुख्यप्राणवागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तः अनुगृह्णीयुरेनं श्वरूपमादायेति युक्तमेवं प्रतिपत्तुम्। अशनायाम वै बुभुक्षिताः स्मो वै इति॥
एवमुक्ते श्वा श्वेत उवाच तान् क्षुल्लकान् शुनः, इहैव अस्मिन्नेव देशे मा मां प्रातः प्रातःकाले उपसमीयातेति। दैर्घ्यं छान्दसम्, समीयातेति प्रमादपाठो वा। प्रातःकालकरणं तत्काल एव कर्तव्यार्थम्, अन्नदस्य वा सवितुरपराह्णेऽनाभिमुख्यात्। तत् तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवानित्यर्थः॥
ते श्वानः तत्रैव आगत्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणाः उद्गातृपुरुषाः संरब्धाः संलग्नाः अन्योन्यमेव सर्पन्ति, एवं मुखेनान्योन्यस्य पुच्छं गृहीत्वा आससृपुः आसृप्तवन्तः, परिभ्रमणं कृतवन्त इत्यर्थः; त एवं संसृप्य समुपविश्य उपविष्टाः सन्तः हिं चक्रुः हिंकारं कृतवन्तः॥
ओमदामों पिबामों देवः, द्योतनात्; वरुणः वर्षणाज्जगतः; प्रजापतिः, पालनात्प्रजानाम्; सविता प्रसवितृत्वात्सर्वस्य आदित्य उच्यते। एतैः पर्यायैः स एवंभूतः आदित्यः अन्नम् अस्मभ्यम् इह आहरत् आहरत्विति। ते एवं हिं कृत्वा पुनरप्यूचुः – स त्वं हे अन्नपते; स हि सर्वस्यान्नस्य प्रसवितृत्वात्पतिः; न हि तत्पाकेन विना प्रसूतमन्नमणुमात्रमपि जायते प्राणिनाम्; अतोऽन्नपतिः। हे अन्नपते, अन्नमस्मभ्यमिहाहराहरेति; अभ्यासः आदरार्थः। ओमिति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.13

अयं वाव अयमेव लोकः हाउकारः स्तोभो रथंतरे साम्नि प्रसिद्धः – ‘इयं वै रथंतरम्’ (तां. ब्रा. १८-६-११) इत्यस्मात्संबन्धसामान्यात् हाउकारस्तोभोऽयं लोकः इत्येवमुपासीत। वायुर्हाइकारः; वामदेव्ये सामनि हाइकारः प्रसिद्धः; वाय्वप्संबन्धश्च वामदेव्यस्य साम्नो योनिः इत्यस्मात्सामान्यात् हाइकारं वायुदृष्ट्योपासीत। चन्द्रमा अथकारः; चन्द्रदृष्ट्या अथकारमुपासीत; अन्ने हीदं स्थितम्; अन्नात्मा चन्द्रः; थकाराकारसामान्याच्च। आत्मा इहकारः; इहेति स्तोभः; प्रत्यक्षो ह्यात्मा इहेति व्यपदिश्यते; इहेति च स्तोभः, तत्सामान्यात् अग्निरीकारः; ईनिधनानि च आग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात्॥
आदित्यः ऊकारः; उच्चैरूर्ध्वं सन्तमादित्यं गायन्तीति ऊकारश्चायं स्तोभः; आदित्यदैवत्ये साम्नि स्तोभ इति आदित्य ऊकारः। निहव इत्याह्वानम्; एकारः स्तोभः; एहीति च आह्वयन्तीति तत्सामान्यात्। विश्वेदेवा औहोयिकारः, वैश्वदेव्ये साम्नि स्तोभस्य दर्शनात्। प्रजापतिर्हिंकारः, आनिरुक्त्यात्, हिंकारस्य च अव्यक्तत्वात्। प्राणः स्वरः; स्वर इति स्तोभः; प्राणस्य च स्वरहेतुत्वसामान्यात्। अन्नं या या इति स्तोभः अन्नम्, अन्नेन हीदं यातीत्यतस्तत्सामान्यात्। वागिति स्तोभो विराट् अन्नं देवताविशेषो वा, वैराजे साम्नि स्तोभदर्शनात्॥
अनिरुक्तः अव्यक्तत्वादिदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः सञ्चरः विकल्प्यमानस्वरूप इत्यर्थः। कोऽसाविति, आह – त्रयोदशः स्तोभः हुंकारः। अव्यक्तो ह्ययम्; अतोऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः॥
स्तोभाक्षरोपासनाफलमाह –
दुग्धेऽस्मै वाग्दोहमित्याद्युक्तार्थम्। य एतामेवं यथोक्तलक्षणां साम्नां सामावयवस्तोभाक्षरविषयाम् उपनिषदं दर्शनं वेद, तस्य एतद्यथोक्तं फलमित्यर्थः। द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः। सामावयवविषयोपासनाविशेषपरिसमाप्त्यर्थः इति शब्द इति॥

Go to Top ('Home' key on many Windows browsers)

‘ओमित्येतदक्षरम्’ इत्यादिना सामावयवविषयमुपासनमनेकफलमुपदिष्टम्। अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् – सर्वथापि सामैकदेशसम्बद्धमेव तदिति। अथेदानीं समस्ते साम्नि समस्तसामविषयाण्युपासनानि वक्ष्यामीत्यारभते श्रुतिः। युक्तं हि एकदेशोपासनानन्तरमेकदेशिविषयमुपासनमुच्यत इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.01

समस्तस्य सर्वावयवविशिष्टस्य पाञ्चभक्तिकस्य साप्तभक्तिकस्य च इत्यर्थः। खल्विति वाक्यालङ्कारार्थः। साम्न उपासनं साधु। समस्ते साम्नि साधुदृष्टिविधिपरत्वान्न पुर्वोपासननिन्दार्थत्वं साधुशब्दस्य। ननु पूर्वत्राविद्यमानं साधुत्वं समस्ते साम्न्यभिधीयते। न, ‘साधु सामेत्युपास्ते’ (छा. उ. २-१-४) इत्युपसंहारात्। साधुशब्दः शोभनवाची। कथमवगंयत इति, आह – यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धम्, तत्सामेत्याचक्षते कुशलाः। यदसाधु विपरीतम्, तदसामेति॥
तत् तत्रैव साध्वसाधुविवेककरणे उताप्याहुः – साम्ना एनं राजानं सामन्तं च उपागात् उपगतवान्; कोऽसौ? यतः असाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः; शोभनाभिप्रायेण साधुना एनमुपागात् इत्येव तत् तत्र आहुः लौकिकाः बन्धनाद्यसाधुकार्यमपश्यन्तः। यत्र पुनर्विपर्ययेण बन्धनाद्यसाधुकार्यं पश्यन्ति, तत्र असाम्ना एनमुपागादिति असाधुनैनमुपागादित्येव तदाहुः॥
अथोताप्याहुः स्वसंवेद्यं साम नः अस्माकं बतेति अनुकम्पयन्तः संवृत्तमित्याहुः; एतत्तैरुक्तं भवति, यत्साधु भवति साधु बतेत्येव तदाहुः; विपर्यये जाते असाम नो बतेति; यदसाधु भवति असाधु बतेत्येव तदाहुः; तस्मात्सामसाधुशब्दयोरेकार्थत्वं सिद्धम्॥
अतः स यः कश्चित्साधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वान्, तस्यैतत्फलम् अभ्याशो ह क्षिप्रं ह, यत् इति क्रियाविशेषणार्थम्, एनम् उपासकं साधवः शोभनाः धर्माः श्रुतिस्मृत्यविरुद्धाः आ च गच्छेयुः आगच्छेयुश्च; न केवलमागच्छेयुः, उप च नमेयुः उपनमेयुश्च, भोग्यत्वेनोपतिष्ठेयुरित्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.02

कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानीति, इमानि तान्युच्यन्ते – लोकेषु पञ्चविधम् इत्यादीनि। ननु लोकादिदृष्ट्या तान्युपास्यानि साधुदृष्ट्या च इति विरुद्धम्; न, साध्वर्थस्य लोकादिकार्येषुकारणस्यानुगतत्वात् – मृदादिवद्धटादिविकारेषु। साधुशब्दवाच्योऽर्थो धर्मो ब्रह्म वा सर्वथापि लोकादिकार्येष्वनुगतम्। अतः यथा यत्र घटादिदृष्टिः मृदादिदृष्ट्यनुगतैव सा, तथा साधुदृष्ट्यनुगतैव लोकादिदृष्टिः – धर्मादिकार्यत्वाल्लोकादीनाम्। यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयोः, तथापि धर्म एव साधुशब्दवाच्य इति युक्तम्, साधुकारी साधुर्भवति इति धर्मविषये साधुशब्दप्रयोगात्। ननु लोकादिकार्येषु कारणस्यानुगतत्वादर्थप्राप्तैव तद्दृष्टिरिति ‘साधु सामेत्युपास्ते’ (छा. उ. २-१-४) इति न वक्तव्यम्; न, शास्त्रगम्यत्वात्तद्दृष्टेः; सर्वत्र हि शास्त्रप्रापिता एव धर्मा उपास्याः, न विद्यमाना अप्यशास्त्रीयाः।
लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधु समस्तं सामोपासीत। कथम्? पृथिवी हिंकारः। लोकेष्विति या सप्तमी, तां प्रथमात्वेन विपरिणमय्य पृथिवीदृष्ट्या हिंकारे पृथिवी हिंकार इत्युपासीत। व्यत्यस्य वा सप्तमीश्रुतिं लोकविषयां हिंकारादिषु पृथिव्यादिदृष्टिं कृत्वोपासीत। तत्र पृथिवी हिंकारः, प्राथम्यसामान्यात्। अग्निः प्रस्तावः। अग्नौ हि कर्माणि प्रस्तूयन्ते। प्रस्तावश्च भक्तिः। अन्तरिक्षमुद्गीथः। अन्तरिक्षं हि गगनम्। गकारविशिष्टश्चोद्गीथः। आदित्यः प्रतिहारः, प्रतिप्राण्यभिमुखत्वान्मां प्रति मां प्रतीति। द्यौर्निधनम्। दिवि निधीयन्ते हि इतो गता इत्यूर्ध्वेषूर्ध्वगतेषु लोकदृष्ट्या सामोपासनम्॥
अथ आवृत्तेषु अवाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम्। गत्यागतिविशिष्टा हि लोकाः। यथा ते, तथादृष्ट्यैव सामोपासनं विधीयते यतः, अत आवृत्तेषु लोकेषु। द्यौर्हिंकारः, प्राथम्यात्। आदित्यः प्रस्तावः, उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम्। अन्तरिक्षमुद्गीथः पूर्ववत्। अग्निः प्रतिहारः, प्राणिभिः प्रतिहरणादग्नेः। पृथिवी निधनम्, तत आगतानामिह निधनात्॥
उपासनफलं – कल्पन्ते समर्था भवन्ति ह अस्मै लोका ऊर्ध्वाश्च आवृत्ताश्च, गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः। य एतदेवं विद्वान् लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्ते इति सर्वत्र योजना पञ्चविधे सप्तविधे च॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.03

वृष्टौ पञ्चविधं साम उपासीत। लोकस्थितेः वृष्टिनिमित्तत्वादानन्तर्यम्। पुरोवातो हिंकारः। पुरोवाताद्युद्ग्रहणान्ता हि वृष्टिः, यथा साम हिंकारादिनिधनान्तम्; अतः पुरोवातो हिंकारः, प्राथम्यात्। मेघो जायते स प्रस्तावः; प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः; वर्षति स उद्गीथः, श्रैष्ठ्यात्; विद्योतते स्तनयति स प्रतिहारः, प्रतिहृतत्वात्; उद्गृह्णाति तत् निधनम्, समाप्तिसामान्यात्॥
फलमुपासनस्य – वर्षति ह अस्मै इच्छातः। तथा वर्षयति ह असत्यामपि वृष्टौ। य एतदित्यादि पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.04

सर्वास्वप्सु पञ्चविधं साम उपासीत। वृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम्। मेघो यत्संप्लवते एकीभावेनेतरेतरं घनीभवति मेघः यदा उन्नतः, तदा संप्लवते इत्युच्यते, तदा अपामारभ्भः स हिंकारः; यद्वर्षति स प्रस्तावः; आपः सर्वतो व्याप्तुं प्रस्तुताः। याः प्राच्यः स्यन्दन्ते स उद्गीथः, श्रौष्ठ्यात्; याः प्रतीच्यः स प्रतिहारः, प्रतिशब्दसामान्यात्; समुद्रो निधनम्, तन्निधनत्वादपाम्॥
न ह अप्सु प्रैतिं। नेच्छति चेत्। अप्सुमान् अंमान्भवति फलम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.05

ऋतुषु पञ्चविधं साम उपासीत। ऋतुव्यवस्थाया यथोक्तांबुनिमित्तत्वादानन्तर्यम्। वसन्तो हिंकारः, प्राथम्यात्; ग्रीष्मः प्रस्तावः; यवादिसङ्ग्रहः प्रस्तूयते हि प्रावृडर्थम्; वर्षा उद्गीथः, प्राधान्यात्; शरत् प्रतिहारः, रोगिणां मृतानां च प्रतिहरणात्; हेमन्तो निधनम्, निवाते निधनात्प्राणिनाम्॥
फलम् – कल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मै उपासकाय ऋतवः। ऋतुमान् आर्तवैर्भोगैश्च सम्पन्नो भवतीत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.06

पशुषु पञ्चविधं साम उपासीत। संयग्वृत्तेष्वृतुषु पशव्यः काल इत्यानन्तर्यम्। अजा हिंकारः, प्राधान्यात्, प्राथम्याद्वा – ‘अजः पशूनां प्रथमः’ (?) इति श्रुतेः; अवयः प्रस्तावः, साहचर्यदर्शनादजावीनाम्; गाव उद्गीथः, श्रैष्ठ्यात्; अश्वाः प्रतिहारः, प्रतिहारणात्पुरुषाणाम्; पुरुषो निधनम्, पुरुषाश्रयत्वात्पशूनाम्॥
फलम् – भवन्ति ह अस्य पशवः पशुमान्भवति, पशुफलैश्च भोगत्यागादिभिर्युज्यत इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.07

प्राणेषु पञ्चविधं परोवरीयः साम उपासीत, परं परं वरीयस्त्वगुणवत्प्राणदृष्टिविशिष्टं सामोपासीतेत्यर्थः। प्राणो हिंकारः, उत्तरोत्तरवरीयसां प्राथम्यात्; वाक् प्रस्तावः, वाचा हि प्रस्तूयते सर्वम्, वाग्वरीयसी प्राणात् – अप्राप्तमप्युच्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः; चक्षुरुद्गीथः, वाचो बहुतरविषयं प्रकाशयति चक्षुः, अतो वरीयो वाचः उद्गीथः, श्रैष्ठ्यात्; श्रोत्रं प्रतिहारः, प्रतिहृतत्वात्; वरीयश्चक्षुषः, सर्वतः श्रवणात्; मनो निधनम्, मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियाहृता विषयाः; वरीयस्त्वं च श्रोत्रान्मनसः, सर्वेन्द्रियविषयव्यापकत्वात्; अतीन्द्रियविषयोऽपि मनसो गोचर एवेति। यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वै एतानि॥
एतद्दृष्ट्या विशिष्टं यः परोवरीयः साम उपास्ते, परोवरीयो ह अस्य जीवनं भवतीत्युक्तार्थम्। इति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धिसमाधानार्थम्। निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुद्धिं समाधित्सति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.08

अथ अनन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते। वाचि इति सप्तमी पूर्ववत्, वाग्दृष्टिविशिष्टं सप्तविधं सामोपासीतेत्यर्थः। यत्किञ्च वाचः शब्दस्य हुमिति यो विशेषः स हिंकारः, हकारसामान्यात्। यत्प्रेति शब्दरूपं स प्रस्तावः, प्र – सामान्यात्। यत् आ इति स आदिः, आकारसामान्यात्। आदिरित्योङ्कारः, सर्वादित्वात्॥
यदुदिति स उद्गीथः, उत्पूर्वत्वादुद्गीथस्य; यत्प्रतीति स प्रतिहारः, प्रतिसामान्यात्; यदुपेति स उपद्रवः, उपोपक्रमत्वादुपद्रवस्य; यन्नीति तन्निधनम्, नि – शब्दसामान्यात्॥
दुग्धेऽस्मै इत्याद्युक्तार्थम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.09

अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये। अथ इदानीं खलु अमुमादित्यं समस्ते साम्न्यवयवविभागशोऽध्यस्य सप्तविधं सामोपासीत। कथं पुनः सामत्वमादित्यस्येति, उच्यते – उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः। कोऽसौ? सर्वदा समः वृद्धिक्षयाभावात्; तेन हेतुना साम आदित्यः। मां प्रति मां प्रतीति तुल्यां बुद्धिमुत्पादयति; अतः सर्वेण समः; अतः साम, समत्वादित्यर्थः। उद्गीथभक्तिसामान्यवचनादेव लोकादिषूक्तसामान्यात् हिंकारादित्वं गम्यत इति हिंकारादित्वे कारणं नोक्तम्। सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम्॥
तस्मिन् आदित्ये अवयवविभागशः इमानि वक्ष्यमाणानि सर्वाणि भूतानि अन्वायत्तानि अनुगतान्यादित्यमुपजीव्यत्वेन इति विद्यात्। कथम्? तस्य आदित्यस्य यत्पुरोदयात् धर्मरूपम्, स हिंकारः भक्तिः; तत्रेदं सामान्यम्, यत्तस्य हिंकारभक्तिरूपम्। तदस्यादित्यस्य साम्नः पशवः गवादयः अन्वायत्ताः अनुगताः तद्भक्तिरूपमुपजीवन्तीत्यर्थः। यस्मादेवम्, तस्मात्ते हिं कुर्वन्ति पशवः प्रागुदयात्। तस्माद्धिङ्कारभाजिनो हि एतस्य आदित्याख्यस्य साम्नः, तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते॥
अथ यत्प्रथमोदिते सवितृरूपम्, तदस्य आदित्याख्यस्य साम्नः स प्रस्तावः; तदस्य मनुष्या अन्वायत्ताः पूर्ववत्। तस्मात्ते प्रस्तुतिं प्रशंसां कामयन्ते, यस्मात्प्रस्तावभाजिनो हि एतस्य साम्नः॥
अथ यत् सङ्गववेलायां गवां रश्मीनां सङ्गमनं सङ्गवो यस्यां वेलायाम्, गवां वा वत्सैः सहः, सा सङ्गववेला तस्मिन्काले यत्सावित्रं रूपम्, स आदिः भक्तिविशेषः ओङ्कारः।
तदस्य वयांसि पक्षिणोऽन्वायत्तानि। यत एवम्, तस्मात् तानि वयांसि अन्तरिक्षे अनारम्बणानि अनालम्बनानि, आत्मानमादाय आत्मानमेव आलम्बनत्वेन गृहीत्वा, परिपतन्ति गच्छन्ति; अत आकारसामान्यादादिभक्तिभाजीनि हि एतस्य साम्नः॥
अथ यत् संप्रतिमध्यन्दिने ऋजुमध्यन्दिने इत्यर्थः, स उद्गीथभक्तिः, तदस्य देवा अन्वायत्ताः, द्योतनातिशयात्तत्काले। तस्मात्ते सत्तमाः विशिष्टतमाः प्राजापत्यानां प्रजापत्यपत्यानाम्, उद्गीथभाजिनो हि एतस्य साम्नः॥
अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् यद्रूपं सवितुः, स प्रतिहारः; तदस्य गर्भा अन्वायत्ताः। अतः ते सवितुः प्रतिहारभक्तिरूपेणोर्ध्वं प्रतिहृताः सन्तः नावपद्यन्ते नाधः पतन्ति, तद्द्वारे सत्यपीत्यर्थः। यतः प्रतिहारभाजिनो हि एतस्य साम्नो गर्भाः॥
अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवः, तदस्य आरण्याः पशवः अन्वायत्ताः। तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षम् अरण्यं श्वभ्रं भयशून्यमिति उपद्रवन्ति उपगच्छन्ति; दृष्ट्वोपद्रवणात् उपद्रवभाजिनो हि एतस्य साम्नः॥
अथ यत् प्रथमास्तमितेऽदर्शनं जिगमिषति सवितरि, तन्निधनम्, तदस्य पितरः अन्वायत्ताः; तस्मात्तान्निदधति – पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तान्; तदर्थं पिण्डान्वा स्थापयन्ति। निधनसम्बन्धान्निधनभाजिनो हि एतस्य साम्नः पितरः। एवमवयवशः सप्तधा विभक्तं खलु अमुमादित्यं सप्तविधं सामोपास्ते यः, तस्य तदापत्तिः फलमिति वाक्यशेषः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.10

मृत्युः आदित्यः, अहोरात्रादिकालेन जगतः प्रमापयितृत्वात्। तस्य अतितरणाय इदं सामोपासनमुपदिश्यते – –
अथ खलु अनन्तरम्, आदित्यमृत्युविषयसामोपासनस्य; आत्मसंमितं स्वावयवतुल्यतया मितम्, परमात्मतुल्यतया वा संमितम्, अतिमृत्यु, मृत्युजयहेतुत्वात्; यथा प्रथमेऽध्याये उद्गीथभक्तिनामाक्षराणि उद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह साम्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिस्त्रिभिः समतया सामत्वं परिकल्प्य उपास्यत्वेन उच्यन्ते। तदुपासनं मृत्युगोचराक्षरसङ्ख्यासामान्येन मृत्युं प्राप्य, तदतिरिक्ताक्षरेण तस्य आदित्यस्य मृत्योरतिक्तमणायैव सङ्क्रमणं कल्पयति। अतिमृत्यु सप्तविधं साम उपासीत, मृत्युमतिक्रान्तमतिरिक्ताक्षरसङ्ख्यया इत्यतिमृत्यु साम। तस्य प्रथमभक्तिनामाक्षराणि हिंकार इति; एतत् त्र्यक्षरं भक्तिनाम। प्रस्ताव इति च भक्तेस्त्र्यक्षरमेव नाम; तत् पूर्वेण समम्॥
आदिरिति द्व्यक्षरम्; सप्तविधस्य साम्नः सङ्ख्यापूरणे ओङ्कारः आदिरित्युच्यते। प्रतिहार इति चतुरक्षरम्। तत इहैकमक्षरमवच्छिद्य आद्यक्षरयोः प्रक्षिप्यते; तेन तत् सममेव भवति॥
उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति। अक्षरमतिशिष्यते अतिरिच्यते। तेन वैषंये प्राप्ते, साम्नः समत्वकरणाय आह – तदेकमपि सदक्षरमिति त्र्यक्षरमेव भवति। अतः तत् समम्॥
निधनमिति त्र्यक्षरं तत्सममेव भवति। एवं त्र्यक्षरसमतया सामत्वं संपाद्य यथाप्राप्तान्येवाक्षराणि सङ्ख्यायन्ते – तानि ह वा एतानि सप्तभक्तिनामाक्षराणि द्वाविंशतिः॥
तत्रैकविंशत्यक्षरसङ्ख्यया आदित्यमाप्नोति मृत्युम्। यस्मादेकविंशः इतः अस्माल्लोकात् असावादित्यः सङ्ख्यया। ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’ (ऐ. ब्रा. ४-५), (तां. ब्रा. १०-१-१०) इति श्रुतेः; अतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योः आदित्यात् जयति आप्नोतीत्यर्थः। यच्च तदादित्यात्परम्; किं तत्? नाकम्, कमिति सुखं तस्य प्रतिषेधोऽकं तन्न भवतीति नाकम्, कमेवेत्यर्थः, अमृत्युविषयत्वात्। विशोकं च तत् विगतशोकं मानसदुःखरहितमित्यर्थः – तदाप्नोतीति॥
उक्तस्यैव पिण्डितार्थमाह – एकविंशतिसङ्ख्यया आदित्यस्य जयमनु, परो ह, अस्य एवंविदः आदित्यजयात् मृत्युगोचरात् परो जयो भवति, द्वाविंशत्यक्षरसङ्ख्ययेत्यर्थः। य एतदेवं विद्वानित्याद्युक्तार्थम्, तस्यैतद्यथोक्तं फलमिति। द्विरभ्यासः साप्तविध्यसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.11

विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपासनमुक्तम्। अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफलानि सामोपासनान्तराण्युच्यन्ते। यथाक्रमं गायत्रादीनां कर्मणि प्रयोगः, तथैव मनो हिंकारः, मनसः सर्वकरणवृत्तीनां प्राथम्यात्। तदानन्तर्यात् वाक् प्रस्तावः; चक्षुः उद्गीथः, श्रैष्ठ्यात्। श्रोत्रं प्रतिहारः, प्रतिहृतत्वात्। प्राणो निधनम्, यथोक्तानां प्राणे निधनात्स्वापकाले। एतद्गायत्रं साम प्राणेषु प्रोतम्, गायत्र्याः प्राणसंस्तुतत्वात्॥
सः, य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति; अविकलकरणो भवतीत्येतत्। सर्वमायुरेति, शतं वर्षाणि सर्वमायुः पुरुषस्य इति श्रुतेः। ज्योक् उज्ज्वलः सन् जीवति। महान् भवति प्रजादिभिः। महांश्च कीर्त्या। गायत्रोपासकस्य एतत् व्रतं भवति, यत् महामनाः अक्षुद्रचित्तः स्यादित्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.12

अभिमन्थति स हिंकारः, प्राथंयात्। अग्नेर्धूमो जायते स प्रस्तावः, आनन्तर्यात्। ज्वलति स उद्गीथः, हविःसम्बन्धाच्छ्रैष्ठ्यं ज्वलनस्य। अङ्गारा भवन्ति स प्रतिहारः, अङ्गाराणां प्रतिहृतत्वात्। उपशमः, सावशेषत्वादग्नेः, संशमः निःशेषोपशमः; समाप्तिसामान्यान्निधनम्। एतद्रथंतरम् अग्नौ प्रोतम्। मन्थने हि अग्निर्गीयते॥
स य इत्यादि पूर्ववत्। ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम्। तेजस्तु केवलं त्विड्भावः। अन्नादो दीप्ताग्निः। न प्रत्यक्, अग्नेरभिमुखो न आचामेत् न भक्षयेत्किञ्चित्; न निष्ठीवेत् श्लेष्मनिरसनं च न कुर्यात्; तद्व्रतम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.13

उपमन्त्रयते सङ्केतं करोति, प्राथम्यात् स हिंकारः। ज्ञपयते तोषयति, स प्रस्तावः। सहशयनम् एकपर्यङ्कगमनम्, स उद्गीथः, श्रैष्ठ्यात्। प्रति स्त्रीं शयनं स्त्रिया अभिमुखीभावः, स प्रतिहारः। कालं गच्छति मैथुनेन, पारं समाप्तिं गच्छति तन्निधनम्; एतद्वामदेव्यं मिथुने प्रोतम्, वाय्वम्बुमिथुनसम्बन्धात्॥
स य इत्यादि पूर्ववत्। मिथुनीभवति अविधुरो भवतीत्यर्थः। मिथुनान्मिथुनात्प्रजायते इति अमोघरेतस्त्वमुच्यते। न काञ्चन, काञ्चिदपि स्त्रियं स्वात्मतल्पप्राप्तां न परिहरेत् समागमार्थिनीम्, वामदेव्यसामोपासनाङ्गत्वेन विधानात्। एतस्मादन्यत्र प्रतिषेधस्मृतयः। वचनप्रामाण्याच्च धर्मावगतेर्न प्रतिषेधशास्त्रेणास्य विरोधः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.14

उद्यन्सविता स हिंकारः, प्राथंयाद्दर्शनस्य। उदितः प्रस्तावः, प्रस्तवनहेतुत्वात्कर्मणाम्। मध्यन्दिन उद्गीथः, श्रैष्ठ्यात्। अपराह्णः प्रतिहारः, पश्वादीनां गृहान्प्रति हरणात्। यदस्तं यंस्तन्निधनम्, रात्रौ गृहे निधानात्प्राणिनाम्। एतद्बृहत् आदित्ये प्रोतम्, बृहतः आदित्यदैवत्यत्वात्॥
स य इत्यादि पूर्ववत्। तपन्तं न निन्देत्; तद्व्रतम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.15

अभ्राणि अब्भरणात्। मेघः उदकसेक्तृत्वात्। उक्तार्थमन्यत्। एतद्वैरूपं नाम साम पर्जन्ये प्रोतम्। अनेकरूपत्वात् अभ्रादिभिः पर्जन्यस्य, वैरूप्यम्॥
विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्यर्थः। वर्षन्तं न निन्देत् तद्व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.16

वसन्तो हिंकारः, प्राथम्यात्। ग्रीष्मः प्रस्तावः इत्यादि पूर्ववत्॥
एतद्वैराजमृतुषु प्रोतं वेद, विराजति ऋतुवत् – यथा ऋतवः आर्तवैर्धर्मैर्विराजन्ते, एवं प्रजादिभिर्विद्वानिति। उक्तमन्यम्। ऋतून्न निन्देत्, तद्व्रतम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.17

पृथिवी हिंकार इत्यादि पूर्ववत्। शक्वर्य इति नित्यं बहुवचनं रेवत्य इव। लोकेषु प्रोताः॥
लोकी भवति लोकफलेन युज्यत इत्यर्थः। लोकान्न निन्देत्, तद्व्रतम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.18

अजा हिंकार इत्यादि पूर्ववत्। पशुषु प्रोताः॥
पशून् न निन्देत्, तद्व्रतम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.19

लोम हिंकारः, देहावयवानां प्राथम्यात्। त्वक् प्रस्तावः, आनन्तर्यात्। मांसम् उद्गीथः, श्रैष्ठ्यात्। अस्थि प्रतिहारः, प्रतिहृतत्वात्। मज्जा निधनम्, आन्त्यात्। एतद्यज्ञायज्ञीयं नाम साम देहावयवेषु प्रोतम्॥
अङ्गी भवति समग्राङ्गो भवतीत्यर्थः। नाङ्गेन हस्तपादादिना विहूर्छति न कुटिलीभवति, पङ्गुः कुणी वा इत्यर्थः। संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयात् न भक्षयेत्। बहुवचनं मत्स्योपलक्षणार्थम्। मज्ज्ञो नाश्नीयात् सर्वदैव नाश्नीयादिति वा, तद्व्रतम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.20

अग्निः हिंकारः, प्रथमस्थानत्वात्। वायुः प्रस्तावः, आनन्तर्यसामान्यात्। आदित्यः उद्गीथः, श्रैष्ठ्यात्। नक्षत्राणि प्रतिहारः, प्रतिहृतत्वात्। चन्द्रमा निधनम्, कर्मिणां तन्निधनात्। एतद्राजनं देवतासु प्रोतम्, देवतानां दीप्तिमत्त्वात्॥
विद्वत्फलम् – एतासामेवाग्न्यादीनां देवतानां सलोकतां समानलोकतां सार्ष्टितां समानर्द्धित्वं सायुज्यं सयुग्भावम् एकदेहदेहित्वमित्येतत्, वा – शब्दोऽत्र लुप्तो द्रष्टव्यः; सलोकतां वा इत्यादि; भावनाविशेषतः फलविशेषोपपत्तेः। गच्छति प्राप्नोति; समुच्चयानुपपत्तेश्च। ब्राह्मणान् न निन्देत्, तद्व्रतम्। ‘एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः’ (?) इति श्रुतेः ब्राह्मणनिन्दा देवतानिन्दैवेति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.21

त्रयी विद्या हिंकारः। अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्यादिकार्यत्वश्रुतेः। हिंकारः प्राथंयात्सर्वकर्तव्यानाम्। त्रय इमे लोकास्तत्कार्यत्वादनन्तरा इति प्रस्तावः। अग्न्यादीनामुद्गीथत्वं श्रैष्ठ्यात्। नक्षत्रादीनां प्रतिहृतत्वात्प्रतिहारत्वम्। सर्पादीनां धकारसामान्यान्निधनत्वम्। एतत्साम नामविशेषाभावात्सामसमुदायः सामशब्दः सर्वस्मिन् प्रोतम्। त्रयीविद्यादि हि सर्वम्। त्रयीविद्यादिदृष्ट्या हिंकारादिसामभक्तय उपास्याः। अतीतेष्वपि सामोपासनेषु येषु येषु प्रोतं यद्यत्साम, तद्दृष्ट्या तदुपास्यमिति। कर्माङ्गानां दृष्टिविशेषेणेवाज्यस्य संस्कार्यत्वात्॥
सर्वविषयसामविदः फलम् – सर्वं ह भवति सर्वेश्वरो भवतीत्यर्थः। निरुपचरितसर्वभावे हि दिक्स्थेभ्यो बलिप्राप्त्यनुपपत्तिः॥
तत् एतस्मिन्नर्थे एषः श्लोकः मन्त्रोऽप्यस्ति। यानि पञ्चधा पञ्चप्रकारेण हिंकारादिविभागैः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि, तेभ्यः पञ्चत्रिकेभ्यः ज्यायः महत्तरं परं च व्यतिरिक्तम् अन्यत् वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः। तत्रैव हि सर्वस्यान्तर्भावः॥
यः तत् यथोक्तं सर्वात्मकं साम वेद, स वेद सर्वं स सर्वज्ञो भवतीत्यर्थः। सर्वा दिशः सर्वदिक्स्था अस्मै एवंविदे बलिं भोगं हरन्ति प्रापयन्तीत्यर्थः। सर्वम् अस्मि भवामि इति एवम् एतत्साम उपासीत, तस्य एतदेव व्रतम्। द्विरुक्तिः सामोपासनसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.22

सामोपासनप्रसङ्गेन गानविशेषादिसम्पत् उद्गातुरुपदिश्यते, फलविशेषसम्बन्धात्। विनर्दि विशिष्टो नर्दः स्वरविशेषः ऋषभकूजितसमोऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः। तच्च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्निदेवत्यं च उद्गीथः उद्गानम्। तदहमेवंविशिष्टं वृणे प्रार्थये इति कश्चिद्यजमानः उद्गाता वा मन्यते। अनिरुक्तः अमुकसमः इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स गानविशेषः, आनिरुक्त्यात्प्रजापतेः। निरुक्तः स्पष्टः। सोमस्य सोमदेवत्यः स उद्गीथ इत्यर्थः। मृदु श्लक्ष्णं च गानं वायोः वायुदेवत्यं तत्। श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपेतं च इन्द्रस्य ऐन्द्रं तद्गानम्। क्रौञ्चं क्रौञ्चपक्षिनिनादसमं बृहस्पतेः बार्हस्पत्यं तत्। अपध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्य एतद्गानम्। तान्सर्वानेवोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत्॥
अमृतत्वं देवेभ्य आगायानि साधयानि; स्वधां पितृभ्य आगायानि; आशां मनुष्येभ्यः, आशां प्रार्थनां प्रार्थितमित्येतत्; तृणोदकं पशुभ्यः; स्वर्गं लोकं यजमानाय; अन्नम् आत्मने मह्यम् आगायानि; इत्येतानि मनसा चिन्तयन् ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत॥
सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्य आत्मानः देहावयवस्थानीयाः। सर्वे ऊष्माणः शषसहादयः प्रजापतेर्विराजः कश्यपस्य वा आत्मानः। सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानः तमेवंविदमुद्गातारं यदि कश्चित् स्वरेषूपालभेत – स्वरस्त्वया दुष्टः प्रयुक्त इति, एवमुपालब्धः इन्द्रं प्राणमीश्वरं शरणम् आश्रयं प्रपन्नोऽभूवं स्वरान्प्रयुञ्जानोऽहम्, स इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात्॥
अथ यद्येनमूष्मसु तथैवोपालभेत, प्रजापतिं शरणं प्रपन्नोऽभूवम्, स त्वा प्रति पेक्ष्यति सञ्चूर्णयिष्यतीत्येनं ब्रूयात्। अथ यद्येनं स्पर्शेषूपालभेत, मृत्युं शरणं प्रपन्नोऽभूवम्, स त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात्॥
यत इन्द्राद्यात्मानः स्वरादयः, अतः सर्वे स्वराः घोषवन्तः बलवन्तो वक्तव्याः। तथा अहमिन्द्रे बलं ददानि बलमादधानीति। तथा सर्वे ऊष्माणः अग्रस्ताः अन्तरप्रवेशिताः अनिरस्ताः बहिरप्रक्षिप्ताः विवृताः विवृतप्रयत्नोपेताः। प्रजापतेरात्मानं परिददानि प्रयच्छानीति। सर्वे स्पर्शाः लेशेन शनकैः अनभिनिहिताः अनभिनिक्षिप्ता वक्तव्याः। मृत्योरात्मानं बालानिव शनकैः परिहरन् मृत्योरात्मानं परिहराणीति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.23

ओङ्कारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याद्यारभ्यते। नैवं मन्तव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्योंकारस्योपासनात्फलं प्राप्यत इति; किं तर्हि, यत्सर्वैरपि सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोङ्कारोपासनात्प्राप्यत इति। तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः। त्रयः त्रिसङ्ख्याका धर्मस्य स्कन्धाः धर्मस्कन्धाः धर्मप्रविभागा इत्यर्थः; के ते इति, आह – यज्ञः अग्निहोत्रादिः, अध्ययनं सनियमस्य ऋगादेरभ्यासः, दानं बहिर्वेदि यथाशक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः, इति एषः प्रथमः धर्मस्कन्धः गृहस्थसमवेतत्वात् तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते; प्रथमः एक इत्यर्थः, द्वितीयतृतीयश्रवणात् न आद्यार्थः। तप एव द्वितीयः; तप इति कृच्छ्रचान्द्रायणादि तद्वान् तापसः परिव्राड्वा, न ब्रह्मसंस्थः आश्रमधर्ममात्रसंस्थः, ब्रह्मसंस्थस्य तु अमृतत्वश्रवणात्; द्वितीयः धर्मस्कन्धः। ब्रह्मचारी आचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी। अत्यन्तं यावज्जीवम् आत्मानं नियमैः आचार्यकुले अवसादयन् क्षपयन् देहं तृतीयः धर्मस्कन्धः। अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते। उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वात् न पुण्यलोकत्वं ब्रह्मचर्येण। सर्व एते त्रयोऽप्याश्रमिणः यथोक्तैर्धर्मैः पुण्यलोका भवन्ति; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति। अवशिष्टस्त्वनुक्तः परिव्राट् तुरीयः ब्रह्मसंस्थाः ब्रह्मणि सम्यक्स्थितः, सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकम् एति, न आपेक्षिकम्, देवाद्यमृतत्ववत्, पुण्यलोकात्पृथक् अमृतत्वस्य विभागकरणात्।
यदि च पुण्यलोकातिशयमात्रममृतत्वमभविष्यत्, ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत्। विभक्तोपदेशाच्च आत्यन्तिकममृतत्वमिति गम्यते। अत्र च आश्रमधर्मफलोपन्यासः प्रणवसेवास्तुत्यर्थः, न तत्फलविध्यर्थः, स्तुतये च प्रणवसेवायाः, आश्रमधर्मफलविधये च, इति हि भिद्येत वाक्यम्। तस्मात्स्मृतिप्रसिद्धाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं ब्रुवन् प्रणवसेवां स्तौति। यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला, राजवर्मणस्तु सेवा राज्यतुल्यफलेति – तद्वत्। प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात्। ‘एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्’ (क. उ. १-२-१६) इत्याद्याम्नानात्काठके, युक्तं तत्सेवातोऽमृतत्वम्अत्र आहुः केचित् – चतुर्णामाश्रमिणामविशेषेण स्वधर्मानुष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् ‘सर्व एते पुण्यलोका भवन्ति’ इति। नात्र परिव्राडवशेषितः; परिव्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति; तप एव द्वितीय इत्यत्र तपः – शब्देन परिव्राट्तापसौ गृहीतौ। अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृतत्वाविशेषात्, ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च, स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्थ्योपपत्तेः। न च यववराहादिशब्दवत् ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात्। न हि रूढिशब्दा निमित्तमुपाददते। सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते। यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये सङ्कोचे कारणाभावात् निरोद्धुमयुक्तम्। न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम्, ज्ञानानर्थक्यप्रसङ्गात्। पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेत्, न, आश्रमधर्मत्वाविशेषात्। धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम्। न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति। ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः। तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम्, सोऽमृतत्वमेतीति।
अत्र आहुः केचित् – चतुर्णामाश्रमिणामविशेषेण स्वधर्मानुष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् ‘सर्व एते पुण्यलोका भवन्ति’ इति। नात्र परिव्राडवशेषितः; परिव्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति; तप एव द्वितीय इत्यत्र तपः – शब्देन परिव्राट्तापसौ गृहीतौ। अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृतत्वाविशेषात्, ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च, स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्थ्योपपत्तेः। न च यववराहादिशब्दवत् ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात्। न हि रूढिशब्दा निमित्तमुपाददते। सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते। यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये सङ्कोचे कारणाभावात् निरोद्धुमयुक्तम्। न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम्, ज्ञानानर्थक्यप्रसङ्गात्। पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेत्, न, आश्रमधर्मत्वाविशेषात्। धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम्। न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति। ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः। तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम्, सोऽमृतत्वमेतीति।
न, कर्मनिमित्तविद्याप्रत्यययोर्विरोधात्। कर्त्रादिकारकक्रियाफलभेदप्रत्ययवत्त्वं हि निमित्तमुपादाय इदं कुरु इदं मा कार्षीः इति कर्मविधयः प्रवृत्ताः। तच्च निमित्तं न शास्त्रकृतम्, सर्वप्राणिषु दर्शनात्। ‘सत् . . . . . एकमेवाद्वितीयम्’ (छा. उ. ६-२-१) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२६-२) ‘ब्रह्मैवेदं सर्वम्’ (?) इति शास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मविधिनिमित्तमनुपमृद्य न जायते, भेदाभेदप्रत्यययोर्विरोधात्। न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्राद्येकत्वप्रत्यय उपजायते, विद्याविद्याप्रत्यययोर्विरोधात्। तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः, स यस्योपमर्दितः ‘सत् . . . एकमेवाद्वितीयम्’ (छा. उ. ६-२-१) ‘तत्सत्यम्’ (छा. उ. ६-८-७) ‘विकारभेदोऽनृतम्’ (छा. उ. ६-१-४) इत्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन, स सर्वकर्मभ्यो निवृत्तः, निमित्तनिवृत्तेः; स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते; स च परिव्राडेव, अन्यस्यासम्भवात्, अन्यो हि अनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते। तस्यैवं कुर्वतो न ब्रह्मसंस्थता, वाचारंभणमात्रविकारानृताभिसन्धिप्रत्ययवत्त्वात्। न च असत्यमित्युपमर्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते – आकाश इव तलमलबुद्धिर्विवेकिनः। उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत्, प्रागिव भेदप्रत्ययानुपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात्। अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवत् युक्तमेकत्ववाक्यस्यापि प्रामाण्यम्, सर्वोपनिषदां तत्परत्वात्। कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत्, न, अनुपमर्दितभेदप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रबोधात्। विवेकिनामकरणात् कर्मविधिप्रामाण्योच्छेद इति चेत्, न, कांयविध्यनुच्छेददर्शनात्। न हि, कामात्मता न प्रशस्तेत्येवं विज्ञानवद्भिः कांयानि कर्माणि नानुष्ठीयन्त इति, कांयकर्मविधय उच्छिद्यन्ते, अनुष्ठीयन्त एव कामिभिरिति; तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विधय उच्छिद्यन्ते, अब्रह्मविद्भिरनुष्ठीयन्त एवेति। परिव्राजकानां भिक्षाचरणादिवत् उत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनामग्रिहोत्रादिकर्मानिवृत्तिरिति चेत्, न, प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् – न हि, नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कश्चित्कुर्वन्दृष्ट इति, शत्रौ द्वेषरहितेनापि विवेकिना अभिचरणं क्रियते। न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये बाधिते अग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम्। इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत्, न, भेदप्रत्ययवतोऽधिकृतत्वात्। भेदप्रत्ययवान् अनुपमर्दितभेदबुद्धिर्विद्यया यः, स कर्मण्यधिकृत इत्यवोचाम; यो हि अधिकृतः कर्मणि, तस्य तदकरणे प्रत्यवायः; न निवृत्ताधिकारस्य, गृहस्थस्येव, ब्रह्मचारिणो विशेषधर्माननुष्ठाने। एवं तर्हि सर्वः स्वाश्रमस्थः उत्पन्नैकत्वप्रत्ययः परिव्राडिति चेत्, न, स्वस्वामित्वभेदबुद्ध्यनिवृत्तेः, कर्मार्थत्वाच्च इतराश्रमाणाम् – ‘अथ कर्म कुर्वीय’ (बृ. उ. १-४-१७) इति श्रुतेः। तस्मात् स्वस्वामित्वाभावात् भिक्षुरेक एव परिव्राट्, न गृहस्थादिः। एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्योपमर्दितत्वात् यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत्, न, बुभुक्षादिना एकत्वप्रत्ययात्प्रच्यावितस्योपपत्तेः, निवृत्त्यर्थत्वात्। न च प्रतिषिद्धसेवाप्राप्तिः, एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात्। न हि रात्रौ कूपे कण्टके वा पतितः उदितेऽपि सवितरि पतति तस्मिन्नेव। तस्मात् सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति। यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति – सत्यमेतत्। यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति – एतदसत्। कस्मात्? परिव्राजकस्यैव निवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थतासम्भवात्। स एव हि अवशेषित इत्यवोचाम। एकत्वविज्ञानवतोऽग्निहोत्रादिवत्तपोनिवृत्तेश्च। भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात्। एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम्, अप्रतिषेधश्च प्रत्युक्तः। तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम्। यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति, तत्परिहृतम्; तस्यैव ब्रह्मसंस्थतासम्भवान्नान्यस्येति। यत्पुनरुक्तं रूढशब्दाः निमित्तं नोपाददत इति, तन्न, गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात्। गृहस्थितिपारिव्राज्यतक्षणादिनिमित्तोपादाना अपि, गृहस्थपरिव्राजकावाश्रमिविशेषे, विशिष्टजातिमति च तक्षेति, रूढा दृश्यन्ते शब्दाः। न यत्र यत्र निमित्तानि तत्र तत्र वर्तन्ते, प्रसिद्ध्यभावात्। तथा इहापि ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्मतत्साधनपरिव्राडेकविषयेऽत्याश्रमिणि परमहंसाख्ये वृत्त इह भवितुमर्हति, मुख्यामृतत्वफलश्रवणात्। अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम्, न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति; ‘मुण्डोऽपरिग्रहोऽसङ्गः’ (जा. उ. ५) इति च। श्रुतिः ‘अत्याश्रमिभ्यः परमं पवित्रम्’ (श्वे. उ. ६-२१) इत्यादि च श्वेताश्वतरीये; ‘निस्तुतिर्निर्नमस्कारः’ (मो. ध. २४२-९) इत्यादिस्मृतिभ्यश्च; ‘तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः।’ (मो. ध. २४१-७) ‘तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गः’ (अश्व. ४६-५१) (व. १०-१२) इत्यादिस्मृतिभ्यश्च।
यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते, क्रियाकारकफलभेदबुद्धेः सत्यत्वाभ्युपगमात्, तन्मृषा। यच्च बौद्धैः शून्यताभ्युपगमात् अकर्तृत्वमभ्युपगम्यते, तदप्यसत्, तदभ्युपगन्तुः सत्त्वाभ्युपगमात्। यच्च अज्ञैरलसतया अकर्तृत्वाभ्युपगमः, सोऽप्यसत्, कारकबुद्धेरनिवर्तितत्वात्प्रमाणेन। तस्मात् वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम्। एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिव्राज्यमर्थसिद्धम्।
ननु अग्न्युत्सादनदोषभाक्स्यात् परिव्रजन् – ‘वीरहा वा एष देवानां योऽग्रिमुद्वासयते’ (तै. सं. १-५-२) इति श्रुतेः, न, दैवोत्सादितत्वात्, उत्सन्न एव हि स एकत्वदर्शने जाते – ‘अपागादग्नेरग्नित्वम्’ (छा. उ. ६-४-१) इति श्रुतेः। अतो न दोषभाक् गृहस्थः परिव्रजन्निति॥
यत्संस्थः अमृतत्वमेति, तन्निरूपणार्थमाह –
प्रजापतिः विराट् कश्यपो वा, लोकान् उद्दिश्य तेषु सारजिघृक्षया अभ्यतपत् अभितापं कृतवान् ध्यानं तपः कृतवानित्यर्थः, तेभ्यः अभितप्तेभ्यः सारभूता त्रयी विद्या संप्रास्रवत् प्रजापतेर्मनसि प्रत्यभादित्यर्थः। तामभ्यतपत् – पूर्ववत्। तस्या अभितप्तायाः एतान्यक्षराणि संप्रास्रवन्त भूर्भुवः स्वरिति व्याहृतयः॥
तानि अक्षराणि अभ्यतपत्, तेभ्यः अभितप्तेभ्यः ओङ्कारः संप्रास्रवत्। तत् ब्रह्म कीदृशमिति, आह – तद्यथा शङ्कुना पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि सन्तृण्णानि निविद्धानि व्याप्तानीत्यर्थः। एवम् ओङ्कारेण ब्रह्मणा परमात्मनः प्रतीकभूतेन सर्वा वाक् शब्दजातं सन्तृण्णा – ‘अकारो वै सर्वा वाक्’ (ऐ. आ. २-३-७) इत्यादिश्रुतेः। परमात्मविकारश्च नामधेयमात्रम् इत्यतः ओङ्कार एवेदं सर्वमिति। द्विरभ्यासः आदरार्थः। लोकादिनिष्पादनकथनम् ओङ्कारस्तुत्यर्थमिति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.24

सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह –
ब्रह्मवादिनो वदन्ति, यत्प्रातःसवनं प्रसिद्धं तद्वसूनाम्। तैश्च प्रातःसवनसम्बद्धोऽयं लोको वशीकृतः प्रातःसवनेशानैः। तथा रुदॆर्माध्यन्दिनसवनेशानैः अन्तरिक्षलोकः। आदित्यैश्च विश्वैर्देवैश्च तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः। इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते॥
अतः क्व तर्हि यजमानस्य लोकः, यदर्थं यजते; न क्वचिल्लोकोऽस्तीत्यभिप्रायः – ‘लोकाय वै यजते यो यजते’ (?) इति श्रुतेः। लोकाभावे च स यो यजमानः तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यात् न विजानीयात्, सोऽज्ञः कथं कुर्यात् यज्ञम्, न कथञ्चन तस्य कर्तृत्वमुपपद्यत इत्यर्थः। सामादिविज्ञानस्तुतिपरत्वात् न अविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते – स्तुतये च सामादिविज्ञानस्य, अविद्वत्कर्तृत्वप्रतिषेधाय च इति हि भिद्येत वाक्यम्। आद्ये च औषस्त्ये काण्डे अविदुषोऽपि कर्मास्तीति हेतुमवोचाम। अथ एतद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात्॥
किं तद्वेद्यमिति, आह – पुरा पूर्वं प्रातरनुवाकस्य शस्त्रस्य प्रारंभात् जघनेन गार्हपत्यस्य पश्चात् उदङ्मुखः सन् उपविश्य सः वासवं वसुदैवत्यं साम अभिगायति॥
लोकद्वारम् अस्य पृथिवीलोकस्य प्राप्तये द्वारम् अपावृणु हे अग्ने तेन द्वारेण पश्येम त्वा त्वां राज्यायेति॥
अथ अनन्तरं जुहोति अनेन मन्त्रेण – नमोऽग्नये प्रह्वीभूताः तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते लोकनिवासाय, पृथिवीलोकनिवासायेत्यर्थः; लोकं मे मह्यं यजमानाय विन्द लभस्व; एष वै मम यजमानस्य लोकः एता गन्ता अस्मि॥
अत्र अस्मिंल्लोके यजमानः अहम् आयुषः परस्तात् ऊर्ध्वं मृतः सन् इत्यर्थः। स्वाहेति जुहोति। अपजहि अपनय परिघं लोकद्वारार्गलम् – इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति। एवमेतैर्वसुभ्यः प्रातःसवनसम्बद्धो लोको निष्क्रीतः स्यात्। ततस्ते प्रातःसवनं वसवो यजमानाय संप्रयच्छन्ति॥
तथा आग्नीध्रीयस्य दक्षिणाग्नेः जघनेन उदङ्मुख उपविश्य सः रौद्रं साम अभिगायति यजमानः रुद्रदैवत्यं वैराज्याय॥
अन्तरिक्षक्षित इत्यादि समानम्॥
तथा आहवनीयस्योदङ्मुख उपविश्य सः आदित्यदैवत्यम् आदित्यं वैश्वदेवं च साम अभिगायति क्रमेण स्वाराज्याय साम्राज्याय॥
दिविक्षिद्भ्य इत्येवमादि समानमन्यत्। विन्दत अपहत इति बहुवचनमात्रं विशेषः। याजमानं त्वेतत्, एतास्म्यत्र यजमान इत्यादिलिङ्गात्॥
एष ह वै यजमानः एवंवित् यथोक्तस्य सामादेर्विद्वान् यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम्। य एवं वेदेति द्विरुक्तिरध्यायपरिसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

‘असौ वा आदित्यः’ इत्यादि अध्यायारम्भे सम्बन्धः। अतीतानन्तराध्यायान्ते उक्तम् ‘यज्ञस्य मात्रां वेद’ इति। यज्ञविषयाणि च सामहोममन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि। सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः सविता महत्या श्रिया दीप्यते। स एष सर्वप्राणिकर्मफलभूतः प्रत्यक्षं सर्वैरुपजीव्यते। अतो यज्ञव्यपदेशानन्तरं तत्कार्यभूतसवितृविषयमुपासनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिः –

Go to Top ('Home' key on many Windows browsers)

ChanU.3.01

असौ वा आदित्यो देवमध्वित्यादि। देवानां मोदनात् मध्विव मधु असौ आदित्यः। वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य। कथं मधुत्वमिति, आह – तस्य मधुनः द्यौरेव भ्रामरस्येव मधुनः तिरश्चीनवंशः तिरश्चीनश्चासौ वंशश्चेति तिरश्चीनवंशः। तिर्यग्गतेव हि द्यौर्लक्ष्यते। अन्तरिक्षं च मध्वपूपः द्युवंशे लग्नः सन् लंबत इव, अतो मध्वपूपसामान्यात् अन्तरिक्षं मध्वपूपः, मधुनः सवितुराश्रयत्वाच्च। मरीचयः रश्मयः रश्मिस्था आपो भौमाः सवित्राकृष्टाः। ‘एता वा आपः स्वराजो यन्मरीचयः’ (?) इति हि विज्ञायन्ते। ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गतत्वात् भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्राः, मध्वपूपनाड्यन्तर्गता हि भ्रमरपुत्राः॥
तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गताः रश्मयः, ता एव अस्य प्राच्यः प्रागञ्चनात् मधुनो नाड्यः मधुनाड्य इव मध्वाधारच्छिद्राणीत्यर्थः। तत्र ऋच एव मधुकृतः लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृतः भ्रमरा इव; यतो रसानादाय मधु कुर्वन्ति, तत्पुष्पमिव पुष्पम् ऋग्वेद एव। तत्र ऋग्ब्राह्मणसमुदायस्य ऋग्वेदाख्यत्वात् शब्दमात्राच्च भोग्यरूपरसनिस्रावासम्भवात् ऋग्वेदशब्देन अत्र ऋग्वेदविहितं कर्म, ततो हि कर्मफलभूतमधुरसनिस्रावसम्भवात्। मधुकरैरिव पुष्पस्थानीयादृग्वेदविहितात्कर्मणः अप आदाय ऋग्भिर्मधु निर्वर्त्यते। कास्ता आप इति, आह – ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपाः अग्नौ प्रक्षिप्ताः तत्पाकाभिनिर्वृत्ता अमृताः अमृतार्थत्वादत्यन्तरसवत्यः आपो भवन्ति। तद्रसानादाय ता वा एता ऋचः पुष्पेभ्यो रसमाददाना इव भ्रमरा ऋचः॥
एतम् ऋग्वेदम् ऋग्वेदविहितं कर्म पुष्पस्थानीयम् अभ्यतपन् अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्ताः। ऋग्भिर्हि मन्त्रैः शस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं रसं मुञ्चतीत्युपपद्यते, पुष्पाणीव भ्रमरैराचूष्यमाणानि। तदेतदाह – तस्य ऋग्वेदस्य अभितप्तस्य। कोऽसौ रसः, यः ऋङ्मधुकराभितापनिःसृत इत्युच्यते? यशः विश्रुतत्वं तेजः देहगता दीप्तिः इन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवैकल्यं वीर्यं सामर्थ्यं बलमित्यर्थः, अन्नाद्यम् अन्नं च तदाद्यं च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात् तदन्नाद्यम् एष रसः अजायत यागादिलक्षणात्कर्मणः॥
यश आद्यन्नाद्यपर्यन्तं तत् व्यक्षरत् विशेषेणाक्षरत् अगमत्। गत्वा च तदादित्यम् अभितः पार्श्वतः पूर्वभागं सवितुः अश्रयत् आश्रितवदित्यर्थः। अमुष्मिन्नादित्ये सञ्चितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः – केदारनिष्पादनमिव कर्षकैः। तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोः। तद्वा एतत्; किं तत्? यदेतत् आदित्यस्य उद्यतो दृश्यते रोहितं रूपम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.02

अथ ये अस्य दक्षिणा रश्मय इत्यादि समानम्। यजूंष्येव मधुकृतः यजुर्वेदविहिते कर्मणि प्रयुक्तानि, पूर्ववन्मधुकृत इव। यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते। ता एव सोमाद्या अमृता आपः॥
तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन् इत्येवमादि सर्वं समानम्। मधु एतदादित्यस्य दृश्यते शुक्लं रूपम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.03

अथ येऽस्य प्रत्यञ्चो रश्मय इत्यादि समानम्। तथा साम्नां मधु, एतदादित्यस्य कृष्णं रूपम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.04

अथ येऽस्योदञ्चो रश्मय इत्यादि समानम्। अथर्वाङ्गिरसः अथर्वणा अङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः, कर्मणि प्रयुक्ता मधुकृतः। इतिहासपुराणं पुष्पम्। तयोश्चेतिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः। मधु एतदादित्यस्य परं कृष्णं रूपम् अतिशयेन कृष्णमित्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.05

अथ येऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत्। गुह्या गोप्या रहस्या एव आदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतः, ब्रह्मैव शब्दाधिकारात्प्रणवाख्यं पुष्पम्। समानमन्यत्। मधु एतत् आदित्यस्य मध्ये क्षोभत इव समाहितदृष्टेर्दृश्यते सञ्चलतीव॥
ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः। केषां रसानामिति, आह – वेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा इति रसाः, तेषां रसानां कर्मभावमापन्नानामप्येते रोहितादिविशेषा रसा अत्यन्तसारभूता इत्यर्थः। तथा अमृतानाममृतानि वेदा ह्यमृताः, नित्यत्वात्, तेषामेतानि रोहितादीनि रूपाण्यमृतानि। रसानां रसा इत्यादि कर्मस्तुतिरेषा – यस्यैवंविशिष्टान्यमृतानि फलमिति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.06

तत् तत्र यत्प्रथमममृतं रोहितरूपलक्षणं तद्वसवः प्रातःसवनेशाना उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन, अग्निप्रधानाः सन्त उपजीवन्तीत्यर्थः। ‘अन्नाद्यं रसोऽजायत’ (छा. उ. ३-१-३) (छा. उ. ३-२-२) (छा. उ. ३-३-२) (छा. उ. ३-४-२) (छा. उ. ३-५-२) इति वचनात् कबलग्राहमश्नन्तीति प्राप्तम्, तत्प्रतिषिध्यते – न वै देवा अश्नन्ति न पिबन्तीति। कथं तर्हि उपजीवन्तीति, उच्यते – एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्ट्वा उपलभ्य सर्वकरणैरनुभूय तृप्यन्ति, दृशेः सर्वकरणद्वारोपलब्ध्यर्थत्वात्। ननु रोहितं रूपं दृष्ट्वेत्युक्तम्; कथमन्येन्द्रियविषयत्वं रूपस्येति; न, यशआदीनां श्रोत्रादिगंयत्वात्। श्रोत्रग्राह्यं यशः। तेजोरूपं चाक्षुषम्। इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामर्थ्यम्। वीर्यं बलं देहगत उत्साहः प्राणवत्ता। अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति। रसो ह्येवमात्मकः सर्वः। यं दृष्ट्वा तृप्यन्ति सर्वे। देवा दृष्ट्वा तृप्यन्तीति एतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः। आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च॥
किं ते निरुद्यमा अमृतमुपजीवन्ति? न; कथं तर्हि, एतदेव रूपम् अभिलक्ष्य अधुना भोगावसरो नास्माकमिति बुद्ध्वा अभिसंविशन्ति उदासते। यदा वै तस्यामृतस्य भोगावसरो भवेत्, तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः; एतस्माद्रूपात् उद्यन्ति उत्साहवन्तो भवन्तीत्यर्थः। न हि अनुत्साहवतामननुतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा॥
स यः कश्चित् एतदेवं यथोदितम् ऋङ्मधुकरतापरससङ्क्षरणम् ऋग्वेदविहितकर्मपुष्पात् तस्य च आदित्यसंश्रयणं रोहितरूपत्वं च अमृतस्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वा अग्निना मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथैवानुभवति॥
कियन्तं कालं विद्वांस्तदमृतमुपजीवतीति, उच्यते – स विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात् प्रतीच्याम् अस्तमेता, तावद्वसूनां भोगकालः तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः। न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः; किं तर्हि, अयम् आधिपत्यं स्वाराज्यं स्वराड्भावं च अधिगच्छति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.07

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम्॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत् ततो द्विगुणं कालं दक्षिणत उदेता उत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.08

तथा पश्चात् उत्तरतः ऊर्ध्वमुदेता विपर्ययेण अस्तमेता। पूर्वस्मात्पूर्वस्माद्द्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम्। सवितुः चतुर्दिशमिन्द्रयमवरुणसोमपुरीषु उदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम्, मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिति। अत्रोक्तः परिहारः आचार्यैः। अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वासः स्यात्। उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षुर्गोचरापत्तिः, तदत्ययश्च अस्तमनम्; न परमार्थत उदयास्तमने स्तः। तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति, चक्षुर्गोचरापत्तेस्तदत्ययस्य च अभावात्। तथा अमरावत्याः सकाशाद्द्विगुणं कालं संयमनी पुरी वसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव उदेति उत्तरतोऽस्तमेति इत्युच्यतेऽस्मद्बुद्धिं च अपेक्ष्य। तथोत्तरास्वपि पुरीषु योजना सर्वेषां च मेरुरुत्तरतो भवति। यदा अमरावत्यां मध्याह्नगतः सविता, तदा संयमन्यामुद्यन्दृश्यते; तत्र मध्याह्नगतो वारुण्यामुद्यन्दृश्यते; तथोत्तरस्याम्, प्रदक्षिणावृत्तेस्तुल्यत्वात्। इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सविता ऊर्ध्व इव उदेता अर्वागस्तमेता दृश्यते, पर्वतोर्ध्वच्छिद्रप्रवेशात्सवितृप्रकाशस्य। तथा ऋगाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन। उद्यमनसंवेशनादि देवानां रुद्रादीनां विदुषश्च समानम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.09

कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनुग्रहम्, तत्कर्मफलभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्य, अथ ततः तस्मादनन्तरं प्राण्यनुग्रहकालादूर्ध्वः सन् आत्मन्युदेत्य उद्गंय यान्प्रत्युदेति तेषां प्राणिनामभावात् स्वात्मस्थः नैवोदेता नास्तमेता एकलः अद्वितीयः अनवयवः मध्ये स्वात्मन्येव स्थाता। तत्र कश्चिद्विद्वान्वस्वादिसमानचरणः रोहिताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन् एतं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्टवते जगाद यतस्त्वमागतो ब्रह्मलोकात् किं तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकम्; इत्येवं पृष्टः प्रत्याह – तत् तत्र यथा पृष्टे यथोक्ते च अर्थे एष श्लोको भवति तेनोक्तो योगिनेति श्रुतेर्वचनमिदम्॥
न वै तत्र यतोऽहं ब्रह्मलोकादागतः तस्मिन्न वै तत्र एतदस्ति यत्पृच्छसि। न हि तत्र निंलोच अस्तमगमत्सविता न च उदियाय उद्गतः कुतश्चित् कदाचन कस्मिंश्चिदपि काले इति। उदयास्तमयवर्जितः ब्रह्मलोकः इत्यनुपपन्नम् इत्युक्तः शपथमिव प्रतिपेदे हे देवाः साक्षिणो यूयं शृणुत, यथा मयोक्तं सत्यं वचः तेन सत्येन अहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयम्, अप्राप्तिर्ब्रह्मणो मम मा भूदित्यर्थः॥
सत्यं तेनोक्तमित्याह श्रुतिः –
न ह वा अस्मै यथोक्तब्रह्मविदे न उदेति न निंलोचति नास्तमेति, किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव सदैव अहर्भवति, स्वयञ्ज्योतिष्ट्वात्; य एतां यथोक्तां ब्रह्मोपनिषदं वेदगुह्यं वेद, एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसम्बन्धं च यच्च अन्यदवोचाम एवं जानातीत्यर्थः। विद्वान् उदयास्तमयकालापरिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः॥
तद्धैतत् मधुज्ञानं ब्रह्मा हिरण्यगर्भः विराजे प्रजापतये उवाच; सोऽपि मनवे; मनुरिक्ष्वाक्वाद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति – ब्रह्मादिविशिष्टक्रमागतेति। किं च, तद्धैतत् मधुज्ञानम् उद्दालकाय आरुणये पिता ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय प्रोवाच॥
इदं वाव तद्यथोक्तम् अन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात्। प्रणाय्याय वा योग्याय अन्तेवासिने शिष्याय॥
नान्यस्मै कस्मैचन प्रब्रूयात्। तीर्थद्वयमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्यादीनाम्। कस्मात्पुनस्तीर्थसङ्कोचनं विद्यायाः कृतमिति, आह – यद्यपि अस्मै आचार्याय इमां कश्चित्पृथिवीम् अद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि दद्यात्, अस्या विद्याया निष्क्रयार्थम्, आचार्याय धनस्य पूर्णां सम्पन्नां भोगोपकरणैः; नासावस्य निष्क्रयः, यस्मात् ततोऽपि दानात् एतदेव यन्मधुविद्यादानं भूयः बहुतरफलमित्यर्थः। द्विरभ्यासः आदरार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.12

यत एवमतिशयफलैषा ब्रह्मविद्या, अतः सा प्रकारान्तरेणापि वक्तव्येति ‘गायत्री वा’ इत्याद्यारभ्यते। गायत्रीद्वारेण च उच्यते ब्रह्म, सर्वविशेषरहितस्य ‘नेति नेति’ (बृ. उ. २-३-६) इत्यादिविशेषप्रतिषेधगंयस्य दुर्बोधत्वात्। सत्स्वनेकेषु च्छन्दःसुगायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात्। सोमाहरणात् इतरच्छन्दोक्षराहरणेन इतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः। गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं ततोऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात्। अतो गायत्रीमुखेनैव ब्रह्मोच्यते –
गायत्री वा इत्यवधारणार्थो वै – शब्दः। इदं सर्वं भूतं प्राणिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव। तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दरूपामापादयति गायत्रीं वाग्वै गायत्रीति। वाग्वा इदं सर्वं भूतम्। यस्मात् वाक् शब्दरूपा सती सर्वं भूतं गायति शब्दयति – असौ गौः असावश्व इति च, त्रायते च रक्षति – अमुष्मान्मा भैषीः किं ते भयमुत्थितम् इत्यादिना सर्वतो भयान्निवर्त्यमानः वाचा त्रातः स्यात्। यत् वाक् भूतं गायति च त्रायते च, गायत्र्येव तत् गायति च त्रायते च, वाचः अनन्यत्वाद्गायत्र्याः। गानात्त्राणाच्च गायत्र्या गायत्रीत्वम्॥
या वै सा एवंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी। कथं पुनरियं पृथिवी गायत्रीति, उच्यते – सर्वभूतसम्बन्धात्। कथं सर्वभूतसम्बन्धः, अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम्, एतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत्। यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्याः, एवं भूतप्रतिष्ठानाद्भूतसम्बद्धा पृथिवी; अतो गायत्री पृथिवी॥
या वै सा पृथिवी गायत्री इयं वाव सा इदमेव। तत्किम्? यदिदमस्मिन्पुरुषे कार्यकरणसङ्घाते जीवति शरीरम्, पार्थिवत्वाच्छरीरस्य। कथं शरीरस्य गायत्रीत्वमिति, उच्यते – अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रतिष्ठिताः, अतः पृथिवीवद्भूतशब्दवाच्यप्राणप्रतिष्ठानात् शरीरं गायत्री, एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः॥
यद्वै तत्पुरुषे शरीरं गायत्री इदं वाव तत्। यदिदमस्मिन्नन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् एतद्गायत्री। कथमिति, आह – अस्मिन्हि इमे प्राणाः प्रतिष्ठिताः, अतः शरीरवत् गायत्री हृदयम्। एतदेव च नातिशीयन्ते प्राणाः। ‘प्राणो ह पिता। प्राणो माता’ (छा. उ. ७-१५-१) ‘अहिंसन्सर्वभूतानि’ (छा. उ. ८-१५-१) इति श्रुतेः भूतशब्दवाच्याः प्राणाः॥
सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्‌विधा – वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्‌विधा भवति। वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम्, अन्यथा षड्‌विधसङ्ख्यापूरणानुपपत्तेः। तत् एतस्मिन्नर्थे एतत् गायत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचा अपि मन्त्रेणाभ्यनूक्तं प्रकाशितम्॥
तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः, यावांश्चतुष्पात्षड्‌विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः। अतः तस्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारंभणमात्रात् ततो ज्यायन् महत्तरश्च परमार्थसत्यरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात् पुरि शयनाच्च। तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि, त्रिपात् त्रयः पादा अस्य सोऽयं त्रिपात्; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति॥
यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेति, इदं वाव तत् इदमेव तत्; योऽयं प्रसिद्धः बहिर्धा बहिः पुरुषादाकाशः भौतिको यो वै, स बहिर्धा पुरुषादाकाश उक्तः॥
अयं वाव सः, योऽयमन्तः पुरुषे शरीरे आकाशः। यो वै सोऽन्तः पुरुष आकाशः॥
अयं वाव सः, योऽयमन्तर्हृदये हृदयपुण्डरीके आकाशः। कथमेकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते – बाह्येन्द्रियविषये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते। ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति। स्वप्नान्पश्यतो हृदयस्थे पुनर्नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति। अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुप्तस्थानम्। अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम्। बहिर्धा पुरुषादारभ्य आकाशस्य हृदये सङ्कोचकरणं चेतःसमाधानस्थानस्तुतये – यथा ‘त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते। अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्’ (?) इति, तद्वत्। तदेतद्धार्दाकाशाख्यं ब्रह्म पूर्णं सर्वगतम्, न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम्, यद्यपि हृदयाकाशे चेतः समाधीयते। अप्रवर्ति न कुतश्चित्क्वचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति, तदनुच्छित्तिधर्मकम्। यथा अन्यानि भूतानि परिच्छिन्नान्युच्छित्तिधर्मकाणि, न तथा हार्दं नभः। पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम्। य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानाति इहैव जीवन् तद्भावं प्रतिपद्यत इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.13

तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मणः उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते। यथा लोके द्वारपालाः राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति, तथेहापीति। तस्य इति प्रकृतस्य हृदयस्येत्यर्थः। एतस्य अनन्तरनिर्दिष्टस्य पञ्च पञ्चसङ्ख्याकाः देवानां सुषयः देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि, देवैः प्राणादित्यादिभिः रक्ष्यमाणानि इत्यतो देवसुषयः; तस्य स्वर्गलोकभवनस्य हृदयस्य अस्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः; तत्स्थः तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः। तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुः; तथैव स आदित्यः ‘आदित्यो ह वै ब्राह्मप्राणः’ (प्र. उ. ३-८) इति श्रुतेः चक्षुरूपप्रतिष्ठाक्रमेण हृदि स्थितः; ‘स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि’ (बृ. उ. ३-९-२०) इत्यादि हि वाजसनेयके। प्राणवायुदेवतैव हि एका चक्षुरादित्यश्च सहाश्रयेण। वक्ष्यति च – प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति। तदेतत् प्राणाख्यं स्वर्गलोकद्वारपालत्वात् ब्रह्म। स्वर्गलोकं प्रतिपित्सुः तेजस्वी एतत् चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाच्च सवितुः तेजः अन्नाद्यम् इत्याभ्यां गुणाभ्याम् उपासीत। ततः तेजस्व्यन्नादश्च आमयावित्वरहितो भवति; य एवं वेद तस्यैतद्गुणफलम्। उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतुर्भवतीति मुख्यं च फलम्॥
अथ योऽस्य दक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनितीति व्यानः। तत्संबद्धमेव च तच्छ्रोत्रमिन्द्रियम्। तथा स चन्द्रमाः – श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च इति श्रुतेः। सहाश्रयौ पूर्ववत्; तदेतत् श्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहेतुत्वम्; अतस्ताभ्यां श्रीत्वम्। ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वात् यशस्त्वम्। अतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम्॥
अथ योऽस्य प्रत्यङ्सुषिः पश्चिमः तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन् अधोऽनितीत्यपानः। सा तथा वाक्, तत्संबन्धात्; तथा अग्निः; तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ब्रह्मवर्चसम्, अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य। अन्नग्रसनहेतुत्वात् अपानस्य अन्नाद्यत्वम्। समानमन्यत्॥
अथ योऽस्योदङ् सुषिः उदग्गतः सुषिः तत्स्थो वायुविशेषः सोऽशितपीते समं नयतीति समानः। तत्संबद्धं मनोऽन्तःकरणम्, स पर्जन्यो वृष्ट्यात्मको देवः पर्जन्यनिमित्ताश्च आप इति, ‘मनसा सृष्टा आपश्च वरुणश्च’ (ऐ. आ. २-१) इति श्रुतेः। तदेतत्कीर्तिश्च, मनसो ज्ञानस्य कीर्तिहेतुत्वात्। आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः। स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम्। ततश्च कीर्तिसम्भवात्कीर्तिश्चेति। समानमन्यत्॥
अथ योऽस्योर्ध्वः सुषिः स उदानः आ पादतलादारभ्योर्ध्वमुत्क्रमणात् उत्कर्षार्थं च कर्म कुर्वन् अनितीत्युदानः। स वायुः तदाधारश्च आकाशः। तदेतत् वाय्वाकाशयोरोजोहेतुत्वादोजः बलं महत्वाच्च मह इति। समानमन्यत्॥
ते वा एते यथोक्ताः पञ्चसुषिसम्बन्धात् पञ्च ब्रह्मणो हार्दस्य पुरुषाः राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपाः द्वारपालाः। एतैर्हि चक्षुःश्रोत्रवाङ्मनःप्राणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धानि। प्रत्यक्षं हि एतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढत्वात् न हार्दे ब्रह्मणि मनस्तिष्ठति। तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति। अतः स य एतानेवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद उपास्ते उपासनया वशीकरोति, स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं ब्रह्म। किं च अस्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनात्। तस्य च ऋणापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम्। ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम्॥
अथ यत् असौ विद्वान् स्वर्गं लोकं वीरपुरुषसेवनात्प्रतिपद्यते, यच्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथा अग्न्यादि धूमादिलिङ्गेन। तथा हि एवमेवेदमिति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् – अनन्यत्वेन च निश्चय इति। अत आह – यदतः अमुष्मात् दिवः द्युलोकात्, परः परमिति लिङ्गव्यत्ययेन, ज्योतिर्दीप्यते, स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यत इव दीप्यत इत्युच्यते, अग्न्यादिवज्ज्वलनलक्षणाया दीप्तेरसम्भवात्। विश्वतः पृष्ठेष्वित्येतस्य व्याख्यानं सर्वतः पृष्ठेष्विति, संसारादुपरीत्यर्थः; संसार एव हि सर्वः, असंसारिणः एकत्वान्निर्भेदत्वाच्च। अनुत्तमेषु, तत्पुरुषसमासाशङ्कानिवृत्तये आह उत्तमेषु लोकेष्विति; सत्यलोकादिषु हिरण्यगर्भादिकार्यरूपस्य परस्येश्वरस्य आसन्नत्वादुच्यते उत्तमेषु लोकेष्विति। इदं वाव इदमेव तत् यदिदमस्मिन्पुरुषे अन्तः मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन च अवगम्यते। यत् त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव, दृढप्रतीतिकरत्वात्त्वचः, अविनाभूतत्वाच्च रूपस्पर्शयोः॥
कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आह – यत्र यस्मिन्काले, एतदिति क्रियाविशेषणम्, अस्मिञ्शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति, स हि उष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषः लिङ्गम्, अव्यभिचारात्। न हि जीवन्तमात्मानमुष्णिमा व्यभिचरति। उष्ण एव जीविष्यन् शीतो मरिष्यन् इति हि विज्ञायते। मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपगमात्। अतः असाधारणं लिङ्गमौष्ण्यमग्नेरिव धूमः। अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः। तथा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रवणोपायोऽप्युच्यमानः। यत्र यदा पुरुषः ज्योतिषो लिङ्गं शुश्रूषति श्रोतुमिच्छति, तदा एतत् कर्णावपिगृह्य, एतच्छब्दः क्रियाविशेषणम्, अपिगृह्य अपिधायेत्यर्थः, अङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदः तमिव शृणोति, नदथुरिव ऋषभकूजितमिव शब्दः, यथा च अग्नेर्बहिर्ज्वलतः एवं शब्दमन्तःशरीरे उपशृणोति, तदेतत् ज्योतिः दृष्टश्रुतलिङ्गत्वात् दृष्टं च श्रुतं च इत्युपासीत। तथोपासनात् चक्षुष्यः दर्शनीयः श्रुतः विश्रुतश्च। यत् स्पर्शगुणोपासननिमित्तं फलं तत् रूपे संपादयति चक्षुष्य इति, रूपस्पर्शयोः सहभावित्वात्, इष्टत्वाच्च दर्शनीयतायाः। एवं च विद्यायाः फलमुपपन्नं स्यात्, न तु मृदुत्वादिस्पर्शवत्त्वे। य एवं यथोक्तौ गुणौ वेद। स्वर्गलोकप्रतिपत्तिस्तु उक्तमदृष्टं फलम्। द्विरभ्यासः आदरार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.14

पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधित्सन् आह –
सर्वं समस्तम्, खल्विति वाक्यालङ्कारार्थो निपातः। इदं जगत् नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणम्; वृद्धतमत्वात् ब्रह्म। कथं सर्वस्य ब्रह्मत्वमित्यत आह – तज्जलानिति; तस्माद्ब्रह्मणो जातं तेजोबन्नादिक्रमेण सर्वम्; अतः तज्जम्; तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तल्लम्; तथा तस्मिन्नेव स्थितिकाले, अनिति प्राणिति चेष्टत इति। एवं ब्रह्मात्मतया त्रिषु कालेष्वविशिष्टम्, तद्व्यतिरेकेणाग्रहणात्। अतः तदेवेदं जगत्। यथा च इदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः। यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तः रागद्वेषादिदोषरहितः संयतः सन्, यत् तत्सर्वं ब्रह्म तत् वक्ष्यमाणैर्गुणैरुपासीत। कथमुपासीत? क्रतुं कुर्वीत – क्रतुः निश्चयोऽध्यवसायः एवमेव नान्यथेत्यविचलः प्रत्ययः, तं क्रतुं कुर्वीत उपासीत इत्यनेन व्यवहितेन सम्बन्धः। किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम्? कथं वा क्रतुः कर्तव्यः? क्रतुकरणं च अभिप्रेतार्थसिद्धिसाधनं कथम्? इत्यस्यार्थस्य प्रतिपादनार्थम् अथेत्यादिग्रन्थः। अथ खल्विति हेत्वर्थः। यस्मात्क्रतुमयः क्रतुप्रायोऽध्यवसायात्मकः पुरुषः जीवः; यथाक्रतुः यादृशः क्रतुः अस्य सोऽयं यथाक्रतुः यथाध्यवसायः यादृङ्निश्चयः अस्मिंल्लोके जीवन् इह पुरुषो भवति, तथा इतः अस्माद्देहात् प्रेत्य मृत्वा भवति; क्रत्वनुरूपफलात्मको भवतीत्यर्थः। एवं हि एतच्छास्त्रतो दृष्टम् – ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्’ (भ. गी. ८-६) इत्यादि। यत एवं व्यवस्था शास्त्रदृष्टा, अतः सः एवं जानन् क्रतुं कुर्वीत; यादृशं क्रतुं वक्ष्यामः तम्। यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलम्, अतः स कर्तव्यः क्रतुः॥
कथम्? मनोमयः मनःप्रायः; मनुतेऽनेनेति मनः तत् स्ववृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः; तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च। अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितः, ‘यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः’ (कौ. उ. ३-३) इति श्रुतेः। सः शरीरं यस्य, स प्राणशरीरः, ‘मनोमयः प्राणशरीरनेता’ (मु. उ. २-२-८) इति च श्रुत्यन्तरात्। भारूपः भा दीप्तिः चैतन्यलक्षणं रूपं यस्य सः भारूपः। सत्यसङ्कल्पः सत्या अवितथाः सङ्कल्पाः यस्य, सोऽयं सत्यसङ्कल्पः; न यथा संसारिण इवानैकान्तिकफलः सङ्कल्प ईश्वरस्येत्यर्थः। संसारिणः अनृतेन मिथ्याफलत्वहेतुना प्रत्यूढत्वात् सङ्कल्पस्य मिथ्याफलत्वं वक्ष्यति – ‘अनृतेन हि प्रत्यूढाः’ (छा. उ. ८-३-२) इति। आकाशात्मा आकाश इव आत्मा स्वरूपं यस्य सः आकाशात्मा। सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता ईश्वरस्य। सर्वकर्मा सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्म यस्य स सर्वकर्मा, ‘स हि सर्वस्य कर्ता’ (बृ. उ. ४-४-१३) इति श्रुतेः। सर्वकामः सर्वे कामा दोषरहिता अस्येति सर्वकामः, ‘धर्माविरुद्धो भूतेषु कामोऽस्मि’ (भ. गी. ७-११) इति स्मृतेः। ननु कामोऽस्मीति वचनात् इह बहुव्रीहिर्न सम्भवति सर्वकाम इति। न, कामस्य कर्तव्यत्वात् शब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य। तस्मात् यथेह सर्वकाम इति बहुव्रीहिः, तथा कामोऽस्मीति स्मृत्यर्थो वाच्यः। सर्वगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः, ‘पुण्यो गन्धः पृथिव्याम्’ (भ. गी. ७-९) इति स्मृतेः। तथा रसा अपि विज्ञेयाः; अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धनिमित्तत्वश्रवणात्, ‘तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च। पाप्मना ह्येष विद्धः’ (छा. उ. १-२-२) इति श्रुतेः। न च पाप्मसंसर्ग ईश्वरस्य, अविद्यादिदोषस्यानुपपत्तेः। सर्वमिदं जगत् अभ्यात्तः अभिव्याप्तः। अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा। तथा अवाकी – उच्यते अनयेति वाक् वागेव वाकः, यद्वा वचेर्घञन्तस्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अवाकी। वाक्प्रतिषेधश्च अत्र उपलक्षणार्थः। गन्धरसादिश्रवणात् ईश्वरस्य प्राप्तानि घ्राणादीनि करणानि गन्धादिग्रहणाय; अतः वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि; ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३-१९) इत्यादिमन्त्रवर्णात्। अनादरः असंभ्रमः; अप्राप्तप्राप्तौ हि संभ्रमः स्यादनाप्तकामस्य। न तु आप्तकामत्वात् नित्यतृप्तस्येश्वरस्य संभ्रमोऽस्ति क्वचित्॥
एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृदयपुण्डरीकस्यान्तः मध्ये अणीयान् अणुतरः, व्रीहेर्वा यवाद्वा इत्यादि अत्यन्तसूक्ष्मत्वप्रदर्शनार्थम्। श्यामाकाद्वा श्यामाकतण्डुलाद्वा इति परिच्छिन्नपरिमाणात् अणीयानित्युक्तेऽणुपरिमाणत्वं प्राप्तमाशङ्क्य, अतः तत्प्रतिषेधायारभते – एष म आत्मान्तर्हृदये ज्यायान्पृथिव्या इत्यादिना। ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन् अनन्तपरिमाणत्वं दर्शयति – मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन॥
यथोक्तगुणलक्षणः ईश्वरः ध्येयः, न तु तद्गुणविशिष्ट एव – यथा राजपुरुषमानय चित्रगुं वा इत्युक्ते न विशेषणस्याप्यानयने व्याप्रियते, तद्वदिहापि प्राप्तम्; अतस्तन्निवृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम्। तस्मात् मनोमयत्वादिगुणविशिष्ट एवेश्वरो ध्येयः। अत एव षष्ठसप्तमयोरिव ‘तत्त्वमसि’ (छा. उ. ६-८-७) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इति नेह स्वाराज्येऽभिषिञ्चति, एष म आत्मा एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मि इति लिङ्गात्; न तु आत्मशब्देन प्रत्यगात्मैव उच्यते, ममेति षष्ठ्याः सम्बन्धार्थप्रत्यायकत्वात्, एतमभिसम्भवितास्मीति च कर्मकर्तृत्वनिर्देशात्। ननु षष्ठेऽपि ‘अथ सम्पत्स्ये’ (छा. उ. ६-१४-२) इति सत्संपत्तेः कालान्तरितत्वं दर्शयति। न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात्; न कालान्तरितार्थता, अन्यथा तत्त्वमसीत्येतस्यार्थस्य बाधप्रसङ्गात्। यद्यपि आत्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतम् एष म आत्मान्तर्हृदय एतद्ब्रह्मेत्युच्यते, तथापि अन्तर्धानमीषदपरित्यज्यैव एतमात्मानं इतः अस्माच्छरीरात् प्रेत्य अभिसम्भवितास्मीत्युक्तम्। यथाक्रतुरूपस्य आत्मनः प्रतिपत्तास्मीति यस्यैवंविदः स्यात् भवेत् अद्धा सत्यम् एवं स्यामहं प्रेत्य, एवं न स्यामिति न च विचिकित्सा अस्ति इत्येतस्मिन्नर्थे क्रतुफलसम्बन्धे, स तथैवेश्वरभावं प्रतिपद्यते विद्वान्, इत्येतदाह स्म उक्तवान्किल शाण्डिल्यो नाम ऋषिः। द्विरभ्यासः आदरार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.15

‘अस्य कुले वीरो जायते’ इत्युक्तम्। न वीरजन्ममात्रं पितुस्त्राणाय, ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः’ (बृ. उ. १-५-१७) इति श्रुत्यन्तरात्। अतस्तद्दीर्घायुष्ट्वं कथं स्यादित्येवमर्थं कोशविज्ञानारम्भः। अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदानीमेव आरभ्यते –
अन्तरिक्षम् उदरम् अन्तःसुषिरं यस्य सोऽयम् अन्तरिक्षोदरः, कोशः कोश इव अनेकधर्मसादृश्यात्कोशः; स च भूमिबुध्नः भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नः, न जीर्यति न विनश्यति, त्रैलोक्यात्मकत्वात्। सहस्रयुगकालावस्थायी हि सः। दिशो हि अस्य सर्वाः स्रक्तयः कोणाः। द्यौरस्य कोशस्य उत्तरम् ऊर्ध्वं बिलम्; स एष यथोक्तगुणः कोशः वसुधानः वसु धीयतेऽस्मिन्प्राणिनां कर्मफलाख्यम्, अतो वसुधानः। तस्मिन्नन्तः विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः इदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितम् आश्रितं स्थितमित्यर्थः॥
तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम। सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक्। तथा राज्ञी नाम प्रतीची पश्चिमा दिक्, राज्ञी राज्ञा वरुणेनाधिष्ठिता, सन्ध्यारागयोगाद्वा। सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात् सुभूता नाम उदीची। तासां दिशां वायुः वत्सः, दिग्जत्वाद्वायोः, पुरोवात इत्यादिदर्शनात्। स यः कश्चित् पुत्रदीर्घजीवितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद, स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः। यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानम्, अतः सोऽहं पुत्रजीवितार्थी एवमेतं वायुं दिशां वत्सं वेद जाने। अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो मम मा भूदित्यर्थः॥
अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे। अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य। तथा प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये इति त्रिर्नाम गृह्णाति पुनः पुनः॥
स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः। प्राणो वा इदꣳ सर्वं भूतं यदिदं जगत्। ‘यथा वा अरा नाभौ’ (छा. उ. ७-१३-१) इति वक्ष्यति। अतस्तमेव सर्वं तत् तेन प्राणप्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम्॥
तथा भूः प्रपद्ये इति त्रींल्लोकान्भूरादीन्प्रपद्ये इति तदवोचम्॥
अथ यदवोचं भुवः प्रपद्ये इति, अग्न्यादीन्प्रपद्ये इति तदवोचम्॥
अथ यदवोचं स्वः प्रपद्ये इति, ऋग्वेदादीन्प्रपद्ये इत्येव तदवोचमिति। उपरिष्टान्मन्त्रान् जपेत् ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा। द्विर्वचनमादरार्थम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.16

पुत्रायुष उपासनमुक्तं जपश्च। अथेदानीमात्मनः दीर्घजीवनायेदमुपासनं जपं च विदधदाह; जीवन्हि स्वयं पुत्रादिफलेन युज्यते, नान्यथा। इत्यतः आत्मानं यज्ञं संपादयति पुरुषः –
पुरुषः जीवनविशिष्टः कार्यकरणसङ्घातः यथाप्रसिद्ध एव; वावशब्दोऽवधारणार्थः; पुरुष एव यज्ञ इत्यर्थः। तथा हि सामान्यैः संपादयति यज्ञत्वम्। कथम्? तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषः, तत्प्रातःसवनं पुरुषाख्यस्य यज्ञस्य। केन सामान्येनेति, आह – चतुर्विंशत्यक्षरा गायत्री छन्दः, गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम्; अतः प्रातःसवनसम्पन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुषः अतो विधियज्ञसादृश्यात् यज्ञः। तथोत्तरयोरप्यायुषोः सवनद्वयसम्पत्तिः त्रिष्टुब्जगत्यक्षरसङ्ख्यासामान्यतो वाच्या। किञ्च, तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवः देवा अन्वायत्ताः अनुगताः; सवनदेवतात्वेन स्वामिन इत्यर्थः। पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादयो वसवः देवाः प्राप्ता इत्यतो विशिनष्टि – प्राणा वाव वसवः वागादयो वायवश्च। एते हि यस्मात् इदं पुरुषादिप्राणिजातम् एते वासयन्ति। प्राणेषु हि देहे वसत्सु सर्वमिदं वसति, नान्यथा। इत्यतो वसनाद्वासनाच्च वसवः॥
तं चेत् यज्ञसंपादिनम् एतस्मिन् प्रातःसवनसम्पन्ने वयसि किञ्चित् व्याध्यादि मरणशङ्काकारणम् उपतपेत् दुःखमुत्पादयेत्, स तदा यज्ञसंपादी पुरुषः आत्मानं यज्ञं मन्यमानः ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् – हे प्राणाः वसवः इदं मे प्रातःसवनं मम यज्ञस्य वर्तते, तत् माध्यन्दिनं सवनम् अनुसन्तनुतेति माध्यन्दिनेन सवनेन आयुषा सहितं एकीभूतं सन्ततं कुरुतेत्यर्थः। मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः। इतिशब्दो मन्त्रपरिसमाप्त्यर्थः। स तेन जपेन ध्यानेन च ततः तस्मादुपतापात् उत् एति उद्गच्छति। उद्गंय विमुक्तः सन् अगदो ह अनुपतापो भवत्येव॥
अथ यानि चतुश्चत्वारिंशद्वर्षाणीत्यादि समानम्। रुदन्ति रोदयन्तीति प्राणा रुद्राः। क्रूरा हि ते मध्यमे वयसि, अतो रुद्राः॥
तथा आदित्याः प्राणाः। ते हि इदं शब्दादिजातम् आददते, अत आदित्याः। तृतीयसवनमायुः षोडशोत्तरवर्षशतं समापयत अनुसन्तनुत यज्ञं समापयतेत्यर्थः। समानमन्यत्॥
निश्चिता हि विद्या फलायेत्येतद्दर्शयन् उदाहरति –
एतत् यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः; इतराया अपत्यम् ऐतरेयः। किं कस्मात् मे मम एतत् उपतपनम् उपतपसि स त्वं हे रोग; योऽहं यज्ञः अनेन त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्यामि; अतो वृथा तव श्रम इत्यर्थः। इत्येवमाह स्म – इति पूर्वेण सम्बन्धः। स एवंनिश्चयः सन् षोडशं वर्षशतमजीवत्। अन्योऽप्येवंनिश्चयः षोडशं वर्षशतं प्रजीवति, य एवं यथोक्तं यज्ञसंपादनं वेद जानाति, स इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.17

स यदशिशिषतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव सम्बध्यते। यदशिशिषति अशितुमिच्छति; तथा पिपासति पातुमिच्छति; यन्न रमते इष्टाद्यप्राप्तिनिमित्तम्; यदेवञ्जातीयकं दुःखमनुभवति, ता अस्य दीक्षाः; दुःखसामान्याद्विधियज्ञस्येव॥
अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति इष्टादिसंयोगात्, तत् उपसदैः समानतामेति। उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति। अल्पभोजनीयानि च अहान्यासन्नानि इति प्रश्वासः; अतोऽशनादीनामुपसदां च सामान्यम्॥
अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति, स्तुतशस्त्रैरेव तत्समानतामेति; शब्दवत्त्वसामान्यात्॥
अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति, ता अस्य दक्षिणाः, धर्मपुष्टिकरत्वसामान्यात्॥
यस्माच्च यज्ञः पुरुषः, तस्मात् तं जनयिष्यति माता यदा, तदा आहुरन्ये सोष्यतीति तस्य मातरम्; यदा च प्रसूता भवति, तदा असोष्ट पूर्णिकेति; विधियज्ञे इव सोष्यति सोमं देवदत्तः, असोष्ट सोमं यज्ञदत्त इति; अतः शब्दसामान्याद्वा पुरुषो यज्ञः। पुनरुत्पादनमेवास्य तत् पुरुषाख्यस्य यज्ञस्य, यत्सोष्यत्यसोष्टेति शब्दसम्बन्धित्वं विधियज्ञस्येव। किञ्च तन्मरणमेव अस्य पुरुषयज्ञस्य अवभृथः, समाप्तिसामान्यात्॥
तद्धैतत् यज्ञदर्शनं घोरः नामतः, आङ्गिरसः गोत्रतः, कृष्णाय देवकीपुत्राय शिष्याय उक्त्वा, उवाच तदेतत्त्रयम् इत्यादिव्यवहितेन सम्बन्धः। स च एतद्दर्शनं श्रुत्वा अपिपास एवान्याभ्यो विद्याभ्यो बभूव। इत्थं च विशिष्टा इयम्, यत्कृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृड्‌विच्छेदकरी इति पुरुषयज्ञविद्यां स्तौति। घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति, तदाह – स एवं यथोक्तयज्ञवित् अन्तवेलायां मरणकाले एतत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः। किं तत्? अक्षितम् अक्षीणम् अक्षतं वा असि इत्येकं यजुः। सामर्थ्यादादित्यस्थं प्राणं च एकीकृत्य आह। तथा तमेव आह, अच्युतं स्वरूपादप्रच्युतमसि इति द्वितीयं यजुः। प्राणसंशितं प्राणश्च स संशितं संयक्तनूकृतं च सूक्ष्मं तत् त्वमसि इति तृतीयं यजुः। तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतः, न जपार्थे, त्रयं प्रतिपद्येत इति त्रित्वसङ्ख्याबाधनात्; पञ्चसङ्ख्या हि तदा स्यात्॥
आदित् इत्यत्र आकारस्यानुबन्धस्तकारः अनर्थक इच्छब्दश्च। प्रत्नस्य चिरन्तनस्य पुराणस्येत्यर्थः; रेतसः कारणस्य बीजभूतस्य जगतः, सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति। आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन सम्बध्यते; किं तज्ज्योतिः पश्यन्ति; वासरम् अहः अहरिव तत् सर्वतो व्याप्तं ब्रह्मणो ज्योतिः; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मचर्यादिनिवृत्तिसाधनैः शुद्धान्तःकरणाः आ समन्ततः ज्योतिः पश्यन्तीत्यर्थः। परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात्, यत् इध्यते दीप्यते दिवि द्योतनवति परस्मिन्ब्रह्मणि वर्तमानम् येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते। किं च, अन्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् – उद्वयं तमसः अज्ञानलक्षणात् परि परस्तादिति शेषः; तमसो वा अपनेतृ यज्ज्योतिः उत्तरम् – आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन सम्बन्धः; तज्ज्योतिः स्वः स्वम् आत्मीयमस्मद्धृदि स्थितम्, आदित्यस्थं च तदेकं ज्योतिः; यत् उत्तरम् उत्कृष्टतरमूर्ध्वतरं वा अपरं ज्योतिरपेक्ष्य, पश्यन्तः उदगन्म वयम्। कमुदगन्मेति, आह। देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु, सूर्यं रसानां रश्मीनां प्राणानां च जगतः ईरणात्सूर्यः तमुदगन्म गतवन्तः, ज्योतिरुत्तमं सर्वज्योतिर्भ्य उत्कृष्टतमम् अहो प्राप्ता वयमित्यर्थः। इदं तज्ज्योतिः, यत् ऋग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम्। द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.18

मनोमय ईश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन। अथेदानीं मनआकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भः मनो ब्रह्मेत्यादि। मनः मनुतेऽनेनेत्यन्तःकरणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनम् अध्यात्मम्। अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः। आकाशो ब्रह्मेत्युपासीत; एवमुभयमध्यात्ममधिदैवतं च उभयं ब्रह्मदृष्टिविषयम् आदिष्टम् उपदिष्टं भवति; आकाशमनसोः सूक्ष्मत्वात् मनसोपलभ्यत्वाच्च ब्रह्मणः, योग्यं मनो ब्रह्मदृष्टेः, आकाशश्च, सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च॥
तदेतत् मनआख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति। कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह – वाक्प्राणश्चक्षुःश्रोत्रमित्येते पादाः इत्यध्यात्मम्। अथाधिदैवतम् आकाशस्य ब्रह्मणोऽग्निर्वायुरादित्यो दिश इत्येते। एवमुभयमेव चतुष्पाद्ब्रह्म आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च। तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया – वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति; अतो मनसः पाद इव वाक्। तथा प्राणो घ्राणः पादः; तेनापि गन्धविषयं प्रति च क्रामति। तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्त्वं मनसो ब्रह्मणः। अथाधिदैवतम् अग्निवाय्वादित्यदिशः आकाशस्य ब्रह्मण उदर इव गोः पादा इव लग्ना उपलभ्यन्ते; तेन तस्य आकाशस्य अग्न्यादयः पादा उच्यन्ते। एवमुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं भवति॥
तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः। सोऽग्निना अधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं च औष्ण्यं करोति। अथवा तैलघृताद्याग्नेयाशनेन इद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः। विद्वत्फलम्, भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं यथोक्तं वेद॥
तथा प्राण एव ब्रह्मणश्चतुर्थः पादः। स वायुना गन्धाय भाति च तपति च। तथा चक्षुः आदित्येन रूपग्रहणाय, श्रोत्रं दिग्भिः शब्दग्रहणाय। विद्याफलं समानं सर्वत्र ब्रह्मसम्पत्तिरदृष्टं फलं य एवं वेद। द्विरुक्तिर्दर्शनसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.19

आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्ट्यर्थमिदमारभ्यते –
आदित्यो ब्रह्मेत्यादेशः उपदेशः; तस्योपव्याख्यानं क्रियते स्तुत्यर्थम्। असत् अव्याकृतनामरूपम् इदं जगत् अशेषमग्रे प्रागवस्थायामुत्पत्तेः आसीत्, न त्वसदेव; ‘कथमसतः सज्जायेत’ (छा. उ. ६-२-२) इति असत्कार्यत्वस्य प्रतिषेधात्। ननु इहासदेवेति विधानाद्विकल्पः स्यात्। न, क्रियास्विव वस्तुनि विकल्पानुपपत्तेः। कथं तर्हि इदमसदेवेति? नन्ववोचाम अव्याकृतनामरूपत्वादसदिवासदिति। नन्वेवशब्दोऽवधारणार्थः; सत्यमेवम्, न तु सत्त्वाभावमवधारयति; किं तर्हि, व्याकृतनामरूपाभावमवधारयति; नामरूपव्याकृतविषये सच्छब्दप्रयोगो दृष्टः। तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः। तदभावे हि अन्धं तम इव इदं न प्रज्ञायेत किञ्चन इत्यतः तत्स्तुतिपरे वाक्ये सदपीदं प्रागुत्पत्तेर्जगदसदेवेत्यादित्यं स्तौति ब्रह्मदृष्ट्यर्हत्वाय; आदित्यनिमित्तो हि लोके सदिति व्यवहारः – यथा असदेवेदं राज्ञः कुलं सर्वगुणसम्पन्ने पूर्णवर्मणि राजन्यसतीति तद्वत्। न च सत्त्वमसत्त्वं वा इह जगतः प्रतिपिपादयिषितम्, आदित्यो ब्रह्मेत्यादेशपरत्वात्। उपसंहरिष्यत्यन्ते आदित्यं ब्रह्मेत्युपास्त इति। तत्सदासीत् तत् असच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितम् अनिस्पन्दमसदिव सत्कार्याभिमुखम् ईषदुपजातप्रवृत्ति सदासीत्; ततो लब्धपरिस्पन्दं तत्समभवत् अल्पतरनामरूपव्याकरणेन अङ्कुरीभूतमिव बीजम्। ततोऽपि क्रमेण स्थूलीभवत् अद्भ्यः आण्डं समवर्तत संवृत्तम्। आण्डमिति दैर्घ्यं छान्दसम्। तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणम्। अभिन्नस्वरूपमेव अशयत स्थितं बभूव। तत् ततः संवत्सरपरिमाणात्कालादूर्ध्वं निरभिद्यत निर्भिन्नम् – वयसामिवाण्डम्। तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं च अभवतां संवृत्ते॥
तत् तयोः कपालयोः यद्रजतं कपालमासीत्, सेयं पृथिवी पृथिव्युपलक्षितमधोऽण्डकपालमित्यर्थः। यत्सुवर्णं कपालं सा द्यौः द्युलोकोपलक्षितमूर्ध्वं कपालमित्यर्थः। यज्जरायु गर्भपरिवेष्टनं स्थूलम् अण्डस्य द्विशकलीभावकाले आसीत्, ते पर्वता बभूवुः। यदुल्बं सूक्ष्मं गर्भपरिवेष्टनम्, तत् सह मेघैः समेघः नीहारोऽवश्यायः बभूवेत्यर्थः। या गर्भस्य जातस्य देहे धमनयः शिराः, तानद्यो बभूवुः। यत् तस्य वस्तौ भवं वास्तेयमुदकम्, स समुद्रः॥
अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे, सोऽसावादित्यः; तमादित्यं जायमानं घोषाः शब्दाः उलूलवः उरूरवो विस्तीर्णरवाः उदतिष्ठन् उत्थिवन्तः ईश्वरस्येवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः कांयन्त इति विषयाः स्त्रीवस्त्रान्नादयः। यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिः, तस्मादद्यत्वेऽपि तस्यादित्यस्योदयं प्रति प्रत्यायनं प्रति अस्तगमनं च प्रति, अथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः; सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्चानुतिष्ठन्ति। प्रसिद्धं हि एतदुदयादौ सवितुः॥
स यः कश्चित् एतमेवं यथोक्तमहिमानं विद्वान्सन् आदित्यं ब्रह्मेत्युपास्ते, स तद्भावं प्रतिपद्यत इत्यर्थः। किञ्च दृष्टं फलम् अभ्याशः क्षिप्रं तद्विदः, यदिति क्रियाविशेषणम्, एनमेवंविदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदुपभोगे पापानुबन्धाभावः, आ च गच्छेयुः आगच्छेयुश्च, उप च निम्रेडेरन् उपनिम्रेडेरंश्च – न केवलमागमनमात्रं घोषाणाम् उपसुखयेयुश्च उपसुखं च कुर्युरित्यर्थः। द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः आदरार्थश्च॥

Go to Top ('Home' key on many Windows browsers)

वायुप्राणयोर्ब्रह्मणः पाददृष्ट्यध्यासः पुरस्ताद्वर्णितः। अथेदानीं तयोः साक्षाद्ब्रह्मत्वेनोपास्यत्वायोत्तरमारभ्यते। सुखावबोधार्था आख्यायिका, विद्यादानग्रहणविधिप्रदर्शनार्था च। श्रद्धान्नदानानुद्धतत्वादीनां च विद्याप्राप्तिसाधनत्वं प्रदर्श्यते आख्यायिकया –

Go to Top ('Home' key on many Windows browsers)

ChanU.4.01

जानश्रुतिः जनश्रुतस्यापत्यम्। ह ऐतिह्यार्थः। पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो यमस्येति श्रद्धादेयः। बहुदायी प्रभूतं दातुं शीलमस्येति बहुदायी। बहुपाक्यः बहु पक्तव्यमहन्यहनि गृहे यस्यासौ बहुपाक्यः; भोजनार्थिभ्यो बह्वस्य गृहेऽन्नं पच्यत इत्यर्थः। एवंगुणसंपन्नोऽसौ जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चित् आस बभूव। स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु आवसथान् एत्य वसन्ति येष्विति आवसथाः तान् मापयांचक्रे कारितवानित्यर्थः। सर्वत एव मे मम अन्नं तेष्वावसथेषु वसन्तः अत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः॥
तत्रैवं सति राजनि तस्मिन्घर्मकाले हर्म्यतलस्थे अथ ह हंसा निशायां रात्रौ अतिपेतुः। ऋषयो देवता वा राज्ञोऽन्नदानगुणैस्तोषिताः सन्तः हंसरूपा भूत्वा राज्ञो दर्शनगोचरे अतिपेतुः पतितवन्तः। तत् तस्मिन्काले तेषां पततां हंसानाम् एकः पृष्ठतः पतन् अग्रतः पतन्तं हंसमभ्युवाद अभ्युक्तवान् – हो होयीति भो भो इति सम्बोध्य भल्लाक्ष भल्लाक्षेत्यादरं दर्शयन् यथा पश्य पश्याश्चर्यमिति तद्वत्; भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह; अथवा सम्यग्ब्रह्मदर्शनाभिमानवत्त्वात्तस्य असकृदुपालब्धस्तेन पीड्यमानोऽमर्षितया तत्सूचयति भल्लाक्षेति; जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा द्युलोकेन ज्योतिः प्रभास्वरम् अन्नदानादिजनितप्रभावजम् आततं व्याप्तं द्युलोकस्पृगित्यर्थः; दिवा अह्ना वा समं ज्योतिरित्येतत्; तन्मा प्रसाङ्क्षीः सञ्जनं सक्तिं तेन ज्योतिषा सम्बन्धं मा कार्षिरित्यर्थः। तत्प्रसञ्जनेन तत् ज्योतिः त्वा त्वां मा प्रधाक्षीः मा दहत्वित्यर्थः; पुरुषव्यत्ययेन मा प्रधाक्षीदिति॥
तम् एवमुक्तवन्तं परः इतरोऽग्रगामी प्रत्युवाच – अरे निकृष्टोऽयं राजा वराकः, तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयति एनमेवं सबहुमानमेतद्वचनमात्थ रैक्वमिव सयुग्वानम्, सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः, तमिव आत्थ एनम्; अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक्व इवेत्यभिप्रायः। इतरश्च आह – यो नु कथं त्वयोच्यते सयुग्वा रैक्वः। इत्युक्तवन्तं भल्लाक्ष आह – शृणु यथा स रैक्वः॥
यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्धश्चतुरङ्कः, स यदा जयति द्यूते प्रवृत्तानाम्, तस्मै विजिताय तदर्थमितरे त्रिद्व्येकाङ्का अधरेयाः त्रेताद्वापरकलिनामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति; चतुरङ्के कृताये त्रिद्व्येकाङ्कानां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः। यथा अयं दृष्टान्तः, एवमेनं रैक्वं कृतायस्थानीयं त्रेताद्ययस्थानीयं सर्वं तदभिसमैति अन्तर्भवति रैक्वे। किं तत्? यत्किंच लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति, तत्सर्वं रैक्वस्य धर्मेऽन्तर्भवति, तस्य च फले सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः। तथा अन्योऽपि कश्चित् यः तत् वेद्यं वेद। किं तत्? यत् वेद्यं सः रैक्वः वेद; तद्वेद्यमन्योऽपि यो वेद, तमपि सर्वप्राणिधर्मजातं तत्फलं च रैक्वमिवाभिसमैतीत्यनुवर्तते। सः एवंभूतः अरैक्वोऽपि मया विद्वान् एतदुक्तः एवमुक्तः, रैक्ववत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः॥
तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैक्वादेः प्रशंसारूपम् उपशुश्राव श्रुतवान्हर्म्यतलस्थो राजा जानश्रुतिः पौत्रायणः। तच्च हंसवाक्यं स्मरन्नेव पौनःपुन्येन रात्रिशेषमतिवाहयामास। ततः स वन्दिभी राजा स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमानः उवाच क्षत्तारं संजिहान एव शयनं निद्रां वा परित्यजन्नेव, हेऽङ्ग वत्स अरे सयुग्वानमिव रैक्वमात्थ किं माम्; स एव स्तुत्यर्हो नाहमित्यभिप्रायः। अथवा सयुग्वानं रैक्वमात्थ गत्वा मम तद्दिदृक्षाम्। तदा इवशब्दोऽवधारणार्थोऽनर्थको वा वाच्यः। स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञोऽभिप्रायज्ञः – यो नु कथं सयुग्वा रैक्व इति, राज्ञा एवं चोक्तः आनेतुं तच्चिह्नं ज्ञातुमिच्छन् यो नु कथं सयुग्वा रैक्व इत्यवोचत्। स च भल्लाक्षवचनमेवावोचत् तस्य स्मरन्॥
स ह क्षत्ता नगरं ग्रामं वा गत्वा अन्विष्य रैक्वं नाविदं न व्यज्ञासिषमिति प्रत्येयाय प्रत्यागतवान्। तं होवाच क्षत्तारम् – अरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्तेऽरण्ये नदीपुलिनादौ विविक्ते देशे अन्वेषणा अनुमार्गणं भवति, तत् तत्र एनं रैक्वम् अर्च्छ ऋच्छ गच्छ, तत्र मार्गणं कुर्वित्यर्थः॥
इत्युक्तः क्षत्ता अन्विष्य तं विजने देशे अधस्ताच्छकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वा, अयं नूनं सयुग्वा रैक्व इति उप समीपे उपविवेश विनयेनोपविष्टवान्। तं च रैक्वं ह अभ्युवाद उक्तवान्। त्वमसि हे भगवः भगवन् सयुग्वा रैक्व इति। एवं पृष्टः अहमस्मि हि अरा३ अरे इति ह अनादर एव प्रतिजज्ञे अभ्युपगतवान् – स तं विज्ञाय अविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.02

तत् तत्र ऋषेर्गार्हस्थ्यं प्रति अभिप्रायं बुद्ध्वा धनार्थितां च उ ह एव जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारम् अश्वतरीरथम् अश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान्। तं च गत्वा अभ्युवाद ह अभ्युक्तवान्॥
हे रैक्व गवां षट् शतानि इमानि तुभ्यं मया आनीतानि, अयं निष्कः अश्वतरीरथश्चायम् एतद्धनमादत्स्व। भगवोऽनुशाधि च मे माम् एताम्, यां च देवतां त्वमुपास्से तद्देवतोपदेशेन मामनुशाधीत्यर्थः॥
तम् एवमुक्तवन्तं राजानं प्रत्युवाच परो रैक्वः। अहेत्ययं निपातो विनिग्रहार्थीयोऽन्यत्र, इह त्वनर्थकः, एवशब्दस्य पृथक्प्रयोगात्। हारेत्वा हारेण युक्ता इत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तवैव तिष्ठतु न मम अपर्याप्तेन कर्मार्थमनेन प्रयोजनमित्यभिप्रायः। हे शूद्रेति – ननु राजासौ क्षत्तृसम्बन्धात्, स ह क्षत्तारमुवाचेत्युक्तम्; विद्याग्रहणाय च ब्राह्मणसमीपोपगमात् शूद्रस्य च अनधिकारात् कथमिदमननुरूपं रैक्वेणोच्यते हे शूद्रेति। तत्राहुराचार्याः – हंसवचनश्रवणात् शुगेनमाविवेश; तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति ऋषिः आत्मनः परोक्षज्ञतां दर्शयन् शूद्रेत्याहेति। शूद्रवद्वा धनेनैव एवं विद्याग्रहणायोपजागम न च शुश्रूषया। न तु जात्यैव शूद्र इति। अपरे पुनराहुः अल्पं धनमाहृतमिति रुषैव एवमुक्तवान् शूद्रेति। लिङ्गं च बह्वाहरणे उपादानं धनस्येति। तदु ह ऋषेर्मतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां च ऋषेरभिमतां दुहितरमात्मनः तदादाय प्रतिचक्रमे क्रान्तवान्॥
रैक्व इदं गवां सहस्रम् अयं निष्कः अयमश्वतरीरथः इयं जाया जायार्थं मम दुहिता आनीता अयं च ग्रामः यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः; तदेतत्सर्वमादाय अनुशाध्येव मा मां हे भगवः, इत्युक्तः तस्या जायार्थमानीताया राज्ञो दुहितुः ह एव मुखं द्वारं विद्याया दाने तीर्थम् उपोद्गृह्णन् जानन्नित्यर्थः। ‘ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः। विद्यया वा विद्यां प्राह तीर्थानि षण्मम’ (?) इति विद्याया वचनं विज्ञायते हि। एवं जानन् उपोद्गृह्णन् उवाच उक्तवान्। आजहार आहृतवान् भवान् इमाः गाः यच्चान्यद्धनं तत्साध्विति वाक्यशेषः शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत्। अनेनैव मुखेन विद्याग्रहणतीर्थेन आलापयिष्यथाः आलापयसीति मां भाणयसीत्यर्थः। ते ह एते ग्रामा रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तानसौ ग्रामानदादस्मै रैक्वाय राजा। तस्मै राज्ञे धनं दत्तवते ह किल उवाच विद्यां सः रैक्वः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.03

वायुर्वाव संवर्गः वायुर्बाह्यः, वावेत्यवधारणार्थः, संवर्जनात्संग्रहणात्संग्रसनाद्वा संवर्गः; वक्ष्यमाणा अग्न्याद्या देवता आत्मभावमापादयतीत्यतः संवर्गः संवर्जनाख्यो गुणो ध्येयो वायोः, कृतायान्तर्भावदृष्टान्तात्। कथं संवर्गत्वं वायोरिति, आह – यदा यस्मिन्काले वै अग्निः उद्वायति उद्वासनं प्राप्नोति उपशाम्यति, तदा असौ अग्निः वायुमेव अप्येति वायुस्वाभाव्यमपिगच्छति। तथा यदा सूर्योऽस्तमेति, वायुमेवाप्येति। यदा चन्द्रोऽस्तमेति वायुमेवाप्येति। ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोः वायौ अपिगमनम्? नैष दोषः, अस्तमने अदर्शनप्राप्तेः वायुनिमित्तत्वात्; वायुना हि अस्तं नीयते सूर्यः, चलनस्य वायुकार्यत्वात्। अथवा प्रलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोर्वायावेव अपिगमनं स्यात्॥
तथा यदा आपः उच्छुष्यन्ति उच्छोषमाप्नुवन्ति, तदा वायुमेव अपियन्ति। वायुर्हि यस्मादेव एतान् अग्न्याद्यान्महाबलान् संवृङ्क्ते, अतो वायुः संवर्गगुण उपास्य इत्यर्थः। इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम्॥
अथ अनन्तरम् अध्यात्मम् आत्मनि संवर्गदर्शनमिदमुच्यते। प्राणः मुख्यः वाव संवर्गः। स पुरुषः यदा यस्मिन्काले स्वपिति, तदा प्राणमेव वागप्येति – वायुमिवाग्निः। प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मादेवैतान्वागादीन् सर्वान्संवृङ्क्त इति॥
तौ वा एतौ द्वौ संवर्गौ संवर्जनगुणौ – वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः॥
अथ एतयोः स्तुत्यर्थम् इयमाख्यायिका आरभ्यते। हेत्यैतिह्यार्थः। शौनकं च शुनकस्यापत्यं शौनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्षसेनस्यापत्यं काक्षसेनिं भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैः ब्रह्मचारी ब्रह्मविच्छौण्डो बिभिक्षे भिक्षितवान्। ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मै उ भिक्षां न ददतुः न दत्तवन्तौ ह किमयं वक्ष्यतीति॥
स ह उवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहुवचनम्। देव एकः अग्न्यादीन्वायुर्वागादीन्प्राणः। कः सः प्रजापतिः जगार ग्रसितवान्। कः स जागरेति प्रश्नमेके। भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः सर्वो लोकः तस्य गोपाः गोपायिता रक्षिता गोप्तेत्यर्थः। तं कं प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मर्त्याः मरणधर्माणोऽविवेकिनो वा हे अभिप्रतारिन् बहुधा अध्यात्माधिदैवताधिभूतप्रकारैः वसन्तम्। यस्मै वै एतत् अहन्यहनि अन्नम् अदनायाह्रियते संस्क्रियते च, तस्मै प्रजापतये एतदन्नं न दत्तमिति॥
तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानः मनसा आलोचयन् ब्रह्मचारिणं प्रत्येयाय आजगाम। गत्वा च आह यं त्वमवोचः नाभिपश्यन्ति मर्त्या इति, तं वयं पश्यामः। कथम्? आत्मा सर्वस्य स्थावरजङ्गमस्य। किञ्च देवानामग्न्यादीनाम् आत्मनि संहृत्य ग्रसित्वा पुनर्जनयिता उत्पादयिता वायुरूपेणाधिदैवतमग्न्यादीनाम्। अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च जनिता। अथवा आत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजंगमानाम्। हिरण्यदंष्ट्रः अमृतदंष्ट्रः अभग्नदंष्ट्र इति यावत्। बभसो भक्षणशीलः। अनसूरिः सूरिर्मेधावी न सूरिरसूरिस्तत्प्रतिषेधोऽनसूरिः सूरिरेवेत्यर्थः। महान्तमतिप्रमाणमप्रमेयमस्य प्रजापतेर्महिमानं विभूतिम् आहुर्ब्रह्मविदः। यस्मात्स्वयमन्यैरनद्यमानः अभक्ष्यमाणः यदनन्नम् अग्निवागादिदेवतारूपम् अत्ति भक्षयतीति। वा इति निरर्थकः। वयं हे ब्रह्मचारिन्, आ इदम् एवं यथोक्तलक्षणं ब्रह्म वयमा उपास्महे। वयमिति व्यवहितेन सम्बन्धः। अन्ये न वयमिदमुपास्महे, किं तर्हि? परमेव ब्रह्म उपास्महे इति वर्णयन्ति। दत्तास्मै भिक्षामित्यवोचद्भृत्यान्॥
तस्मा उ ह ददुः ते हि भिक्षाम्। ते वै ये ग्रस्यन्ते अग्न्यादयः यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथा अन्ये तेभ्यः पञ्चाध्यात्मं वागादयः प्राणश्च, ते सर्वे दश भवन्ति संख्यया, दश सन्तः तत्कृतं भवति ते, चतुरङ्क एकायः एवं चत्वारस्त्र्यङ्कायः एवं त्रयोऽपरे द्व्यङ्कायः एवं द्वावन्यावेकाङ्कायः एवमेकोऽन्यः इत्येवं दश सन्तः तत्कृतं भवति। यत एवम्, तस्मात् सर्वासु दिक्षु दशस्वप्यग्न्याद्या वागाद्याश्च दशसङ्ख्यासामान्यादन्नमेव, ‘दशाक्षरा विराट्’ ‘विराडन्नम्’ इति हि श्रुतिः। अतोऽन्नमेव, दशसंख्यत्वात्। तत एव दश कृतं कृतेऽन्तर्भावात् चतुरङ्कायत्वेनेत्यवोचाम। सैषा विराट् दशसङ्ख्या सती अन्नं च अन्नादी अन्नादिनी च कृतत्वेन। कृते हि दशसङ्ख्या अन्तर्भूता, अतोऽन्नमन्नादिनी च सा। तथा विद्वान्दशदेवतात्मभूतः सन् विराट्त्वेन दशसंख्यया अन्नं कृतसंख्यया अन्नादी च। तया अन्नान्नादिन्या इदं सर्वं जगत् दशदिक्संस्थं दृष्टं कृतसङ्ख्याभूतया उपलब्धम्। एवंविदः अस्य सर्वं कृतसङ्ख्याभूतस्य दशदिक्संबद्धं दृष्टम् उपलब्धं भवति। किञ्च अन्नादश्च भवति, य एवं वेद यथोक्तदर्शी। द्विरभ्यासः उपासनसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.04

सर्वं वागाद्यग्न्यादि च अन्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते। श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनाय आख्यायिका। सत्यकामो ह नामतः, ह–शब्द ऐतिह्यार्थः, जबालाया अपत्यं जाबालः जबालां स्वां मातरम् आमन्त्रयांचक्रे आमन्त्रितवान्। ब्रह्मचर्यं स्वाध्यायग्रहणाय हे भवति विवत्स्यामि आचार्यकुले, किंगोत्रोऽहं किमस्य मम गोत्रं सोऽहं किंगोत्रो नु अहमस्मीति॥
एवं पृष्टा जबाला सा ह एनं पुत्रमुवाच – नाहमेतत् तव गोत्रं वेद, हे तात यद्गोत्रस्त्वमसि। कस्मान्न वेत्सीत्युक्ता आह – बहु भर्तृगृहे परिचर्याजातमतिथ्यभ्यागतादि चरन्ती अहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहम्, परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत्। यौवने च तत्काले त्वामलभे लब्धवत्यस्मि। तदैव ते पितोपरतः; अतोऽनाथा अहम्, साहमेतन्न वेद यद्गोत्रस्त्वमसि। जबाला तु नामाहमस्मि, सत्यकामो नाम त्वमसि, स त्वं सत्यकाम एवाहं जाबालोऽस्मीत्याचार्याय ब्रवीथाः; यद्याचार्येण पृष्ट इत्यभिप्रायः॥
स ह सत्यकामः हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतमं गोत्रतः एत्य गत्वा उवाच – ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्यामि अतः उपेयाम् उपगच्छेयं शिष्यतया भगवन्तम् इत्युक्तवन्तं तं ह उवाच गौतमः किंगोत्रः नु सोम्य असीति, विज्ञातकुलगोत्रः शिष्य उपनेतव्यः; इति पृष्टः प्रत्याह सत्यकामः। स ह उवाच – नाहमेतद्वेद भो, यद्गोत्रोऽहमस्मि; किं तु अपृच्छं पृष्टवानस्मि मातरम्; सा मया पृष्टा मां प्रत्यब्रवीन्माता; बह्वहं चरन्तीत्यादि पूर्ववत्; तस्या अहं वचः स्मरामि; सोऽहं सत्यकामो जाबालोऽस्मि भो इति॥
तं ह उवाच गौतमः – नैतद्वचः अब्राह्मणे विशेषेण वक्तुमर्हति आर्जवार्थसंयुक्तम्। ऋजावो हि ब्राह्मणा नेतरे स्वभावतः। यस्मान्न सत्यात् ब्राह्मणजातिधर्मात् अगाः नापेतवानसि, अतः ब्राह्मणं त्वामुपनेष्ये; अतः संस्कारार्थं होमाय समिधं सोम्य आहर, इत्युक्त्वा तमुपनीय कृशानामबलानां गोयूथान्निराकृत्य अपकृष्य चतुःशता चत्वारिशतानि गवाम् उवाच – इमाः गाः सोम्य अनुसंव्रज अनुगच्छ। इत्युक्तः ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाच – नासहस्रेण अपूर्णेन सहस्रेण नावर्तेय न प्रत्यागच्छेयम्। स एवमुक्त्वा गाः अरण्यं तृणोदकबहुलं द्वन्द्वरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान्। ताः सम्यग्गावः रक्षिताः यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.05

तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्संबन्धिनी तुष्टा सती ऋषभमनुप्रविश्य ऋषभभावमापन्ना अनुग्रहाय अथ ह एनमृषभोऽभ्युवाद अभ्युक्तवान् सत्यकाम३ इति सम्बोध्य। तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ। प्राप्ताः सोम्य सहस्रं स्मः, पूर्णा तव प्रतिज्ञा, अतः प्रापय नः अस्मानाचार्यकुलम्॥
किञ्च अहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि। इत्युक्तः प्रत्युवाच – ब्रवीतु कथयतु मे मह्यं भगवान्। इत्युक्तः ऋषभः तस्मै सत्यकामाय ह उवाच – प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः। तथा प्रतीची दिक्कला दक्षिणा दिक्कला उदीची दिक्कला, एष वै सोम्य ब्रह्मणः पादः चतुष्कलः चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्येव नाम अभिधानं यस्य। तथोत्तरेऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः॥
स यः कश्चित् एवं यथोक्तमेतं ब्रह्मणः चतुष्कलं पादं विद्वान् प्रकाशवानित्यनेन गुणेन विशिष्टम् उपास्ते, तस्येदं फलम् – प्रकाशवानस्मिंल्लोके भवति प्रख्यातो भवतीत्यर्थः; तथा अदृष्टं फलम् – प्रकाशवतः ह लोकान् देवादिसम्बन्धिनः मृतः सन् जयति प्राप्नोति; य एतमेवं विद्वान् चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.06

सोऽग्निः ते पादं वक्तेत्युपरराम ऋषभः। सः सत्यकामः ह श्वोभूते परेद्युः नैत्यकं नित्यं कर्म कृत्वा गाः अभिप्रस्थापयांचकार आचार्यकुलं प्रति। ताः शनैश्चरन्त्यः आचार्यकुलाभिमुख्यः प्रस्थिताः यत्र यस्मिन्काले देशेऽभि सायं निशायामभिसम्बभूवुः एकत्राभिमुख्यः संभूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्मुखः उपविवेश ऋषभवचो ध्यायन्॥
तमग्निरभ्युवाद सत्यकाम३ इति सम्बोध्य। तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति। ब्रवीतु मे भगवानिति। तस्मै ह उवाच, पृथिवी कला अन्तरिक्षं कला द्यौः कला समुद्रः कलेत्यात्मगोचरमेव दर्शनमग्निरब्रवीत्। एष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम॥
स यः कश्चित् यथोक्तं पादमनन्तवत्त्वेन गुणेनोपास्ते, स तथैव तद्गुणो भवत्यस्मिंल्लोके, मृतश्च अनन्तवतो ह लोकान् स जयति; य एतमेवमित्यादि पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.07

सोऽग्निः हंसः ते पादं वक्तेत्युक्त्वा उपरराम। हंस आदित्यः, शौक्ल्यात्पतनसामान्याच्च। स ह श्वोभूते इत्यादि समानम्॥
अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाच; अतो हंसस्य आदित्यत्वं प्रतीयते। विद्वत्फलम् – ज्योतिष्मान् दीप्तियुक्तोऽस्मिंल्लोके भवति। चन्द्रादित्यादीनां ज्योतिष्मत एव च मृत्वा लोकान् जयति। समानमुत्तरम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.08

हंसोऽपि मद्गुष्टे पादं वक्तेत्युपरराम। मद्गुः उदकचरः पक्षी, स च अप्संबन्धात्प्राणः। स ह श्वोभूते इत्यादि पूर्ववत्॥
स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्याद्यायतनवानित्येवं नाम। आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः॥
तं पादं तथैवोपास्ते यः स आयतनवान् आश्रयवानस्मिंल्लोके भवति। आयतनवत एव सावकाशांल्लोकान्मृतो जयति। य एतमेवमित्यादि पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.09

स एवं ब्रह्मवित्सन् प्राप ह प्राप्तवानाचार्यकुलम्। तमाचार्योऽभ्युवाद सत्यकाम३ इति; भगव इति ह प्रतिशुश्राव॥
ब्रह्मविदिव वै सोम्य भासि। प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति। अत आह आचार्यो ब्रह्मविदिव भासीति; को न्विति वितर्कयन्नुवाच – कस्त्वामनुशशासेति। स च आह सत्यकामः अन्ये मनुष्येभ्यः। देवता मामनुशिष्टवत्यः। कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन् अनुशासितुमुत्सहेतेत्यभिप्रायः। अतोऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे प्रतिज्ञातवान्। भगवांस्त्वेव मे कामे ममेच्छायां ब्रूयात् किमन्यैरुक्तेन, नाहं तद्गणयामीत्यभिप्रायः॥
किञ्च श्रुतं हि यस्मात् मम विद्यते एवास्मिन्नर्थे भगवद्दृशेभ्यो भगवत्समेभ्यः ऋषिभ्यः। आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापति प्राप्नोति; अतो भगवानेव ब्रूयादित्युक्तः आचार्यः अब्रवीत् तस्मै तामेव दैवतैरुक्तां विद्याम्। अत्र ह न किञ्चन षोडशकलविद्यायाः किञ्चिदेकदेशमात्रमपि न वीयाय न विगतमित्यर्थः। द्विरभ्यासो विद्यापरिसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.10

पुनर्ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीत्यारभते गतिं च तद्विदोऽग्निविद्यां च। आख्यायायिका पूर्ववच्छ्रद्धतपसोर्ब्रह्मविद्यासाधनत्वप्रदर्शनार् –
उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास। तस्य, ह ऐतिह्यार्थः, तस्य आचार्यस्य द्वादश वर्षाणि अग्नीन्परिचचार अग्नीनां परिचरणं कृतवान्। स ह स्म आचार्यः अन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् तमेवोपकोसलमेकं न समावर्तयति स्म ह॥
तम् आचार्यं जाया उवाच – तप्तो ब्रह्मचारी कुशलं सम्यक् अग्नीन् परिचचारीत् परिचरितवान्; भगवांश्च अग्निषु भक्तं न समावर्तयति; अतः अस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वाम् अग्नयः मा परिप्रवोचन् गर्हां तव मा कुर्युः; अतः प्रब्रूहि अस्मै विद्यामिष्टाम् उपकोसलायेति। तस्मै एवं जायया उक्तोऽपि ह अप्रोच्यैव अनुक्त्वैव किञ्चित्प्रवासाञ्चक्रे प्रवसितवान्॥
स ह उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दध्रे धृतवान्मनः। तं तूष्णीमग्न्यागारेऽवस्थितम् आचार्यजायोवाच – हे ब्रह्मचारिन् अशान भुङ्क्ष्व, किं नु कस्मान्नु कारणान्नाश्नासि? इति। स ह उवाच – बहवः अनेकेऽस्मिन्पुरुषेऽकृतार्थे प्राकृते कामाः इच्छाः कर्तव्यं प्रति नाना अत्ययः अतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्ययाः व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानीत्यर्थः; तैः प्रतिपूर्णोऽस्मि; अतो नाशिष्यामीति॥
उक्त्वा तूष्णींभूते ब्रह्मचारिणि, अथ ह अग्नयः शुश्रूषयावर्जिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे संभूयोक्तवन्तः – हन्त इदानीम् अस्मै ब्रह्मचारिणे अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मः अनुप्रब्रवाम ब्रह्मविद्याम्, इति एवं सम्प्रधार्य, तस्मै ह ऊचुः उक्तवन्तः – प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति॥
स ह उवाच ब्रह्मचारी – विजानाम्यहं यद्भवद्भिरुक्तं प्रसिद्धपदार्थकत्वात्प्राणो ब्रह्मेति, सः यस्मिन्सति जीवनं यदपगमे च न भवति, तस्मिन्वायुविशेषे लोके रूढः; अतः युक्तं ब्रह्मत्वं तस्य; तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति। कं च तु खं च न विजानामीति। ननु कंखंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणोऽज्ञानम्? नूनम्, सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात् खंशब्दवाच्यस्य च आकाशस्याचेतनस्य कथं ब्रह्मत्वमिति, मन्यते; कथं च भगवतां वाक्यमप्रमाणं स्यादिति; अतो न विजानामीत्याह। तम् एवमुक्तवन्तं ब्रह्मचारिणं ते ह अग्नय ऊचुः – यद्वाव यदेव वयं कम् अवोचाम, तदेव खम् आकाशम्, इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोगजात्सुखान्निवर्तितं स्यात् – नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः। यदेव खम् इत्याकाशमवोचाम, तदेव च कं सुखमिति जानीहि। एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यात् – नीलोत्पलवदेव। सुखमाकाशस्थं नेतरल्लौकिकम्, आकाशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः। नन्वाकाशं चेत् सुखेन विशेषयितुमिष्टम्, अस्त्वन्यतरदेव विशेषणम् – यद्वाव कं तदेव खम् इति, अतिरिक्तमितरत्; यदेव खं तदेव कमिति पूर्वविशेषणं वा; ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम। सुखेन आकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत्, सत्यमेवम्; किंतु सुखेन विशेषितस्यैव आकाशस्य ध्येयत्वं विहितम्; न त्वाकाशगुणस्य विशेषणस्य शुखस्य ध्येयत्वं विहितं स्यात्, विशेषणोपादानस्य विशेष्यनियन्तृत्वेनैवोपक्षयात्। अतः खेन सुखमपि विशेष्यते ध्येयत्वाय। कुतश्चैतन्निश्चीयते? कंशब्दस्यापि ब्रह्मशब्दसम्बन्धात् कं ब्रह्मेति। यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात्, कं खं ब्रह्मेति ब्रूयुः अग्नयः प्रथमम्। न चैवमुक्तवन्तः। किं तर्हि? कं ब्रह्म खं ब्रह्मेति। अतः ब्रह्मचारिणो मोहापनयनाय कंखंशब्दयोरितरेतरविशेषणविशेष्यत्वनिर्देशो युक्त एव यद्वाव कमित्यादिः। तदेतदग्निभिरुक्तं वाक्यार्थमस्मद्बोधाय श्रुतिराह – प्राणं च ह अस्मै ब्रह्माचरिणे, तस्य आकाशः तदाकाशः, प्राणस्य सम्बन्धी आश्रयत्वेन हार्द आकाश इत्यर्थः, सुखगुणवत्त्वनिर्देशात्; तं च आकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसंपर्कादेव ब्रह्मेत्युभयं प्राणं च आकाशं च समुच्चित्य ब्रह्मणी ऊचुः अग्नय इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.11

संभूयाग्नयः ब्रह्मचारिणे ब्रह्म उक्तवन्तः। अथ अनन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे। तत्र आदौ एनं ब्रह्मचारिणं गार्हपत्यः अग्निः अनुशशास – पृथिव्यग्निरन्नमादित्य इति ममैताश्चतस्रस्तनवः। तत्र य आदित्ये एष पुरुषो दृश्यते, सोऽहमस्मि गार्हपत्योऽग्निः, यश्च गार्हपत्योऽग्निः स एवाहमादित्ये पुरुषोऽस्मि, इति पुनः परावृत्त्या स एवाहमस्मीति वचनम्। पृथिव्यन्नयोरिव भोज्यत्वलक्षणयोः सम्बन्धो न गार्हपत्यादित्ययोः। अत्तृत्वपक्तृत्वप्रकाशनधर्मा अविशिष्टा इत्यतः एकत्वमेवानयोरत्यन्तम्। पृथिव्यन्नयोस्तु भोज्यत्वेन आभ्यां सम्बन्धः॥
स यः कश्चित् एवं यथोक्तं गार्हपत्यमग्निम् अन्नान्नादत्वेन चतुर्धा प्रविभक्तम् उपास्ते, सोऽपहते विनाशयति पापकृत्यां पापं कर्म। लोकी लोकवांश्चास्मदीयेन लोकेनाग्नेयेन तद्वान्भवति यथा वयम्। इह च लोके सर्वं वर्षशतम् आयुरेति प्राप्नोति। ज्योक् उज्ज्वलं जीवति नाप्रख्यात इत्येतत्। न च अस्य अवराश्च ते पुरुषाश्च अस्य विदुषः सन्ततिजा इत्यर्थः, न क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थः। किं च तं वयम् उपभुञ्जामः पालयामः अस्मिंश्च लोके जीवन्तम् अमुष्मिंश्च परलोके। य एतमेवं विद्वानुपास्ते, यथोक्तं तस्य तत्फलमित्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.12

अथ ह एनम् अन्वाहार्यपचनः अनुशशास दक्षिणाग्निः – आपो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवः चतुर्धा अहमन्वाहार्यपचने आत्मानं प्रविभज्यावस्थितः। तत्र य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि, स एवाहमस्मीति पूर्ववत्। अन्नसम्बन्धाज्ज्योतिष्ट्वसामान्याच्च अन्वाहार्यपचनचन्द्रमसोरेकत्वं दक्षिणदिक्सम्बन्धाच्च। अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव सम्बन्धः, नक्षत्राणां चन्द्रमसो भोग्यत्वप्रसिद्धेः। अपामन्नोत्पादकत्वादन्नत्वं दक्षिणाग्नेः – पृथिवीवद्गार्हपत्यस्य। समानमन्यत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.13

अथ ह एनमाहवनीयोऽनुशशास – प्राण आकाशो द्यौर्विद्युदिति ममाप्येताश्चतस्रस्तनवः। य एष विद्युति पुरुषो दृश्यते, सोऽहमस्मीत्यादि पूर्ववत् सामान्यात्। द्य्वाकाशयोः स्वाश्रयत्वात् विद्युदाहवनीययोः भोग्यत्वेनैव सम्बन्धः। समानमन्यत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.14

ते पुनः संभूयोचुः ह – उपकोसल एषा सोम्य ते तव अस्मद्विद्या अग्निविद्येत्यर्थः; आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च; आचार्यस्तु ते गतिं वक्ता विद्याफलप्राप्तये इत्युक्त्वा उपरेमुरग्नयः। आजगाम ह अस्य आचार्यः कालेन। तं च शिष्यम् आचार्यो अभ्युवाद उपकोसल३ इति॥
भगव इति ह प्रतिशुश्राव। ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वा अनुशशास इत्युक्तः प्रत्याह – को नु मा अनुशिष्यात् अनुशासनं कुर्यात् भो भगवन् त्वयि प्रोषिते, इति इह अप इव निह्नुते अपनिह्नुत इवेति व्यवहितेन सम्बन्धः, न च अपनिह्नुते, न च यथावदग्निभिरुक्तं ब्रवीतीत्यभिप्रायः। कथम्? इमे अग्नयः मया परिचरिताः उक्तवन्तः नूनम्, यतस्त्वां दृष्ट्वा वेपमाना इव ईदृशा दृश्यन्ते पूर्वमन्यादृशाः सन्तः, इति इह अग्नीन् अभ्यूदे अभ्युक्तवान् काक्वा अग्नीन्दर्शयन्। किं नु सोम्य किल ते तुभ्यम् अवोचन् अग्नयः? इति, पृष्टः इत्येवम् इदमुक्तवन्तः इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान् प्रतीकमात्रं किञ्चित्, न सर्वं यथोक्तमग्निभिरुक्तमवोचत्। यत आह आचार्यः – लोकान्वाव पृथिव्यादीन् हे सोम्य किल ते अवोचन्, न ब्रह्म साकल्येन। अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यम् – यथा पुष्करपलाशे पद्मपत्रे आपो न श्लिष्यन्ते, एवं यथा वक्ष्यामि ब्रह्म, एवंविदि पापं कर्म न श्लिष्यते न सम्बध्यते इति। एवमुक्तवति आचार्ये आह उपकोसलः – ब्रवीतु मे भगवानिति। तस्मै ह उवाच आचार्यः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.15

य एषोऽक्षिणि पुरुषः दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादिसाधनसंपन्नैः शान्तैर्विवेकिभिः दृष्टेर्द्रष्टा, ‘चक्षुषश्चक्षुः’ (के. उ. १-२) इत्यादिश्रुत्यन्तरात्; ननु अग्निभिरुक्तं वितथम्, यतः आचार्यस्तु ते गतिं वक्ता इति गतिमात्रस्य वक्तेत्यवोचन्, भविष्यद्विषयापरिज्ञानं च अग्नीनाम्; नैष दोषः, सुखाकाशस्यैव अक्षिणि दृश्यत इति द्रष्टुरनुवादात्। एष आत्मा प्राणिनामिति ह उवाच एवमुक्तवान्; एतत् यदेव आत्मतत्त्वमवोचाम, एतदमृतम् अमरणधर्मि अविनाशि अत एवाभयम्, यस्य हि विनाशाशङ्का तस्य भयोपपत्तिः तदभावादभयम्, अत एव एतद्ब्रह्म बृहदनन्तमिति। किञ्च, अस्य ब्रह्मणोऽक्षिपुरुषस्य माहात्म्यम् – तत् तत्र पुरुषस्य स्थाने अक्षिणि यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति; न चक्षुषा सम्बध्यते – पद्मपत्रेणेवोदकम्। स्थानस्याप्येतन्माहात्म्यम्, किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः॥
एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते। कस्मात्? यस्मादेतं सर्वाणि वामानि वननीयानि सम्भजनीयानि शोभनानि अभिसंयन्ति अभिसंगच्छन्तीत्यतः संयद्वामः। तथा एवंविदमेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद॥
एष उ एव वामनीः, यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति च आत्मधर्मत्वेन। विदुषः फलम् – सर्वाणि वामानि नयति य एवं वेद॥
एष उ एव भामनीः, एष हि यस्मात् सर्वेषु लोकेषु आदित्यचन्द्राग्न्यादिरूपैः भाति दीप्यते, ‘तस्य भासा सर्वमिदं विभाति’ (मु. उ. २-२-११) इति श्रुतेः। अतो भामानि नयतीति भामनीः। य एवं वेद, असावपि सर्वेषु लोकेषु भाति॥
अथेदानीं यथोक्तब्रह्मविदः गतिरुच्यते। यत् यदि उ च एव अस्मिन् एवंविदि शव्यं शवकर्म मृते कुर्वन्ति, यदि च न कुर्वन्ति ऋत्विजः, सर्वथाप्येवंवित् तेन शवकर्मणा अकृतेनापि प्रतिबद्धो न ब्रह्म न प्राप्नोति; न च कृतेन शवकर्मणा अस्य कश्चनाभ्यधिको लोकः, ‘न कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४-४-२३) इति श्रुत्यन्तरात्। शवकर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म एवंविदः न कर्तव्यमिति। अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयतेऽन्यत्र। यत इह विद्याफलारंभकाले शवकर्म स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति। ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवंगुणमुपासते प्राणसहितामग्निविद्यां च, तेषामन्यत्कर्म भवतु मा वा भूत् सर्वथा अपि ते अर्चिषमेवाभिसम्भवन्ति अर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः। अर्चिषः अर्चिर्देवताया अहः अहरभिमानिनीं देवताम्, अह्नः आपूर्यमाणपक्षं शुक्लपक्षदेवताम्, आपूर्यमाणपक्षात् यान्षाण्मासान् उदङ् उत्तरां दिशम् एति सविता तान्मासान् उत्तरायणदेवताम्, तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवताम्, ततः संवत्सरादादित्यम्, आदित्याच्चन्द्रमसम्, चन्द्रमसो विद्युतम्। तत् तत्रस्थान् तान् पुरुषः कश्चिद्ब्रह्मलोकादेत्य अमानवः मानव्यां सृष्टौ भवः मानवः न मानवः अमानवः स पुरुषः एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः, सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः। ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४-४-६) इति हि तत्र वक्तुं न्याय्यम्। सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति। न च अदृष्टो मार्गोऽगमनायोपतिष्ठते, ‘स एनमविदितो न भुनक्ति’ (बृ. उ. १-४-१५) इति श्रुत्यन्तरात्। एष देवपथः देवैरर्चिरादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते। ब्रह्म गन्तव्यं तेन च उपलक्षित इति ब्रह्मपथः। एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावर्तं नावर्तन्ते आवर्तन्तेऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यावर्तः तं न प्रतिपद्यन्ते। नावर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.16

रहस्यप्रकरणे प्रसङ्गात् आरण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्याः, तदभिज्ञस्य च ऋत्विजो ब्रह्मणो मौनमित्यत इदमारभ्यते –
एष वै एष वायुः योऽयं पवते अयं यज्ञः। ह वै इति प्रसिद्धार्थावद्योतकौ निपातौ। वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु, ‘स्वाहरा वातेधाः’ ‘अयं वै यज्ञो योऽयं पवते’ (ऐ. ब्रा. २५-८) इत्यादिश्रुतिभ्यः। वात एव हि चलनात्मकत्वात्क्रियासमवायी, ‘वात एव यज्ञस्यारंभको वातः प्रतिष्ठा’ इति च श्रवणात्। एष ह यन् गच्छन् चलन् इदं सर्वं जगत् पुनाति पावयति शोधयति। न हि अचलतः शुद्धिरस्ति। दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य। यत् यस्माच्च यन् एष इदं सर्वं पुनाति, तस्मादेष एव यज्ञः यत्पुनातीति। तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता, मनश्च यथाभूतार्थज्ञाने व्यापृतम्, ते एते वाङ्मनसे वर्तनी मार्गौ, याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी; ‘प्राणापानपरिचलनवत्या हि वाचश्चित्तस्य चोत्तरोत्तरक्रमो यद्यज्ञः’ (ऐ. आ. २-३) इति हि श्रुत्यन्तरम्। अतो वाङ्मनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य॥
तयोः वर्तन्योः अन्यतरां वर्तनीं मनसा विवेकज्ञानवता संस्करोति ब्रह्मा ऋत्विक्, वाचा वर्तन्या होताध्वर्युरुद्गाता इत्येते त्रयोऽपि ऋत्विजः अन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्वन्ति। तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे। अथ स ब्रह्मा यत्र यस्मिन्काले उपाकृते प्रारब्धे प्रातरनुवाके शस्त्रे, पुरा पूर्वं परिधानीयाया ऋचः ब्रह्मा एतस्मिन्नन्तरे काले व्यवदति मौनं परित्यजति यदि, तदा अन्यतरामेव वाग्वर्तनीं संस्करोति। ब्रह्मणा संस्क्रियमाणा मनोवर्तनी हीयते विनश्यति छिद्रीभवति अन्यतरा; स यज्ञः वाग्वर्तन्यैव अन्यतरया वर्तितुमशक्नुवन् रिष्यति। कथमिवेति, आह – स यथैकपात् पुरुषः व्रजन् गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन् रिष्यति, एवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति। यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति। यज्ञप्राणो हि यजमानः। अतो युक्तो यज्ञरेषे रेषस्तस्य। सः तं यज्ञमिष्ट्वा तादृशं पापीयान् पापतरो भवति॥
अथ पुनः यत्र ब्रह्मा विद्वान् मौनं परिगृह्य वाग्विसर्गमकुर्वन् वर्तते यावत्परिधानीयाया न व्यवदति, तथैव सर्वर्त्विजः, उभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरापि। किमिवेत्याह पूर्वोक्तविपरीतौ दृष्टान्तौ। एवमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेन आत्मनाविनश्यन्वर्तत इत्यर्थः। यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति। सः यजमानः एवं मौनविज्ञानवद्ब्रह्मोपेतं यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.17

अत्र ब्रह्मणो मौनं विहितम्, तद्रेषे ब्रह्मत्वकर्मणि च अथान्यस्मिंश्च हौत्रादिकर्मरेषे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थं व्याहृतयो विधातव्या इत्याह –
प्रजापतिः लोकानभ्यतपत् लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपश्चचार। तेषां तप्यमानानां लोकानां रसान् साररूपान्प्रावृहत् उद्धृतवान् जग्राहेत्यर्थः। कान्? अग्निं रसं पृथिव्याः, वायुमन्तरिक्षात्, आदित्यं दिवः॥
पुनरप्येवमेवाग्न्याद्याः स एतास्तिस्रो देवता उद्दिश्य अभ्यतपत्। ततोऽपि सारं रसं त्रयीविद्यां जग्राह॥
स एतां पुनरभ्यतपत् त्रयीं विद्याम्। तस्यास्तप्यमानाया रसं भूरिति व्याहृतिम् ऋग्भ्यो जग्राह; भुवरिति व्याहृतिं यजुर्भ्यः; स्वरिति व्याहृतिं सामभ्यः। अत एव लोकदेववेदरसा महाव्याहृतयः। अतः तत् तत्र यज्ञे यदि ऋक्तः ऋक्संबन्धादृङ्निमित्तं रिष्येत् यज्ञः क्षतं प्राप्नुयात्, भूः स्वाहेति गार्हपत्ये जुहुयात्। सा तत्र प्रायश्चित्तिः। कथम्? ऋचामेव, तदिति क्रियाविशेषणम्, रसेन ऋचां विर्येण ओजसा ऋचां यज्ञस्य ऋक्संबन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं संदधाति प्रतिसंधत्ते॥
अथ यदि यजुष्टो यजुर्निमित्तं रिष्येत्, भुवः स्वाहेति दक्षिणाग्नौ जुहुयात्। तथा सामनिमित्ते रेषे स्वः स्वाहेत्याहवनीये जुहुयात्। तथा पूर्ववद्यज्ञं संदधाति। ब्रह्मनिमित्ते तु रेषे त्रिष्वग्निषु तिसृभिर्व्याहृतिभिर्जुहुयात्। त्रय्या हि विद्यायाः स रेषः, ‘अथ केन ब्रह्मत्वमित्यनयैव त्रय्या विद्यया’ (?) इति श्रुतेः। न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेषे॥
तद्यथा लवणेन सुवर्णं संदध्यात्। क्षारेण टङ्कणादिना खरे मृदुत्वकरं हि तत्। सुवर्णेन रजतमशक्यसंधानं संदध्यात्। रजतेन तथा त्रपु, त्रपुणा सीसम्, सीसेन लोहम्, लोहेन दारु, दारु चर्मणा चर्मबन्धनेन। एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं संदधाति। भेषजकृतो ह वा एष यज्ञः – रोगार्त इव पुमांश्चिकित्सकेन सुशिक्षितेन एष यज्ञो भवति। कोऽसौ? यत्र यस्मिन्यज्ञे एवंवित् यथोक्तव्याहृतिहोमप्रायश्चित्तवित् ब्रह्मा ऋत्विग्भवति स यज्ञ इत्यर्थः॥
किं च, एष ह वा उदक्प्रवण उदङ्निम्नो दक्षिणोच्छ्रायो यज्ञो भवति; उत्तरमार्गप्रतिपत्तिहेतुरित्यर्थः। यत्रैवंविद्ब्रह्मा भवति। एवंविदं ह वै ब्रह्माणम् ऋत्विजं प्रति एषा अनुगाथा ब्रह्मणः स्तुतिपरा – यतो यत आवर्तते कर्म प्रदेशात् ऋत्विजां यज्ञः क्षतीभवन्, तत्तद्यज्ञस्य क्षतरूपं प्रतिसंदधत् प्रायश्चित्तेन गच्छति परिपालयतीत्येतत्॥
मानवो ब्रह्मा मौनाचरणान्मननाद्वा ज्ञानवत्त्वात्; ततो ब्रह्मैवैकः ऋत्विक् कुरून् कर्तॄन् – योद्धॄनारूढानश्वा बडबा यथा अभिरक्षति, एवंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वांश्च ऋत्विजोऽभिरक्षति, तत्कृतदोषापनयनात्। यत एवं विशिष्टो ब्रह्मा विद्वान्, तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत, नानेवंविदं कदाचनेति। द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

सगुणब्रह्मविद्याया उत्तरा गतिरुक्ता। अथेदानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्य अन्या दक्षिणादिक्संबन्धिनी केवलकर्मिणां धूमादिलक्षणा, पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्तव्येत्यारभ्यते। प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतम्, स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे, कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सया इदमनन्तरमारभ्यते –

Go to Top ('Home' key on many Windows browsers)

ChanU.5.01

यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिकं वेद, स ज्येष्ठश्च ह वै श्रेष्ठश्च भवति। फलेन पुरुषं प्रलोभ्याभिमुखीकृत्य आह – प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः; गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यःपूर्वं लब्धात्मिका भवति, यया गर्भो विवर्धते। चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति। श्रेष्ठत्वं तु प्रतिपादयिष्यति – ‘सुहय’ इत्यादिनिदर्शनेन। अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्च अस्मिन्कार्यकरणसंघाते॥
यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम्। कस्तर्हि वसिष्ठ इति, आह – वाग्वाव वसिष्ठः, वाग्मिनो हि पुरुषा वसन्ति अभिभवन्त्यन्यान् वसुमत्तमाश्च, अतो वाग्वसिष्ठः॥
यो ह वै प्रतिष्ठां वेद, स अस्मिंल्लोके अमुष्मिंश्च परे प्रतितिष्ठति ह। का तर्हि प्रतिष्ठेति, आह – चक्षुर्वाव प्रतिष्ठा। चक्षुषा हि पश्यन् समे च दुर्गे च प्रतितिष्ठति यस्मात्, अतः प्रतिष्ठा चक्षुः॥
यो ह वै संपदं वेद, तस्मा अस्मै दैवाश्च मानुषाश्च कामाः संपद्यन्ते ह। का तर्हि संपदिति, आह – श्रोत्रं वाव संपत्। यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च, ततः कर्माणि क्रियन्ते ततः कामसंपदित्येवम्, कामसंपद्धेतुत्वाच्छ्रोत्रं वाव संपत्॥
यो ह वा आयतनं वेद, आयतनं ह म्वानां भवतीत्यर्थः। किं तदायतनमिति, आह – मनो ह वा आयतनम्। इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः। अतो मनो ह वा आयतनमित्युक्तम्॥
अथ ह प्राणाः एवं यथोक्तगुणाः सन्तः अहंश्रेयसि अहं श्रेयानस्मि अहं श्रेयानस्मि इत्येतस्मिन्प्रयोजने व्यूदिरेनाना विरुद्धं चोदिरे उक्तवन्तः॥
ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कंचिदेत्य ऊचुः उक्तवन्तः – हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः? इत्येवं पृष्टवन्तः। तान् पितोवाच ह – यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतरमिवातिशयेन दृश्येत कुणपमस्पृश्यमशुचिं दृश्येत, सः वः युष्माकं श्रेष्ठ इत्यवोचत् काक्वा तद्दुःखं परिजिहीर्षुः॥
तथोक्तेषु पित्रा प्राणेषु सा ह वाक् उच्चक्राम उत्क्रान्तवती; सा च उत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारान्निवृत्ता सती पुनः पर्येत्य इतरान्प्राणानुवाच – कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति; ते ह ऊचुः – यथा कला इत्यादि, कलाः मूकाः यथा लोकेऽवदन्तो वाचा जीवन्ति। कथम्। प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसा, एवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः। एवं वयमजीविष्मेत्यर्थः। आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक् पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः। समानमन्यत् चक्षुर्होच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि। यथा बाला अमनसः अप्ररूढमनस इत्यर्थः॥
एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्यः प्राणः उच्चिक्रमिषन् उत्क्रमितुमिच्छन् किमकरोदिति, उच्यते – यथा लोके सुहयः शोभनोऽश्वः पड्वीशशङ्कून् पादबन्धनकीलान् परीक्षणाय आरूढेन कशया हतः सन् संखिदेत् समुत्खनेत् समुत्पाटयेत्, एवमितरान्वागादीन्प्राणान् समखिदत् समुद्धृतवान्। ते प्राणाः संचालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमानाः अभिसमेत्य मुख्यं प्राणं तमूचुः – हे भगवन् एधि भव नः स्वामी, यस्मात् त्वं नः श्रेष्ठोऽसि; मा च अस्माद्देहादुत्क्रमीरिति॥
अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः – बलिमिव हरन्तो राज्ञे विशः। कथम्? वाक् तावदुवाच – यदहं वसिष्ठोऽस्मि, यदिति क्रियाविशेषणम्, यद्वसिष्ठत्वगुणास्मीत्यर्थः; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गुणस्त्वमित्यर्थः। अथवा तच्छब्दोऽपि क्रियाविशेषणमेव। त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति मया अभिमत इत्येतत्। तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु॥
श्रुतेरिदं वचः – युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितम्; यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा; किं तर्हि, प्राणा इत्येव आचक्षते कथयन्ति; यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवति; अतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसंजिहीर्षति।
ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तः अन्योन्यं स्पर्धेरन्निति; न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति; तथा अपगमो देहात् पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते। तत्र अग्न्यादिचेतनावद्देवताधिष्ठितत्वात् वागादीनां चेतनावत्त्वं तावत् सिद्धमागमतः। तार्किकसमयविरोध इति चेत् देहे एकस्मिन्ननेकचेतनावत्त्वे, न, ईश्वरस्य निमित्तकारणत्वाभ्युपगमात्। ये तावदीश्वरमभ्युपगच्छन्ति तार्किकाः, ते मनआदिकार्यकरणानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति – रथादिवत्। न च अस्माभिः अग्न्याद्याश्चेतनावत्योऽपि देवता अध्यात्मं भोक्त्र्यः अभ्युपगम्यन्ते; किं तर्हि, कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्ता ईश्वरोऽभ्युपगम्यते। स ह्यकरणः, ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३-१९) इत्यादिमन्त्रवर्णात्; ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. उ. ४-१२) ‘हिरण्यगर्भं जनयामास पूर्वम्’ (श्वे. उ. ३-४) इत्यादि च श्वेताश्वतरीयाः पठन्ति। भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः। वागादीनां च इह संवादः कल्पितः विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम्– यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कंचिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति; तेनोक्ता ऐकैकश्येन अदः कार्यं साधयितुमुद्यच्छत, येनादः कार्यं साध्यते, स वः श्रेष्ठः – इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति – तथेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः – कथं नाम विद्वान् वागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति। तथा च श्रुतिः कौषीतकिनाम् – ‘जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः’ (शां. आ. ५-३) इत्याद्या॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.02

स होवाच मुख्यः प्राणः – किं मेऽन्नं भविष्यतीति। मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह – यदिदं लोकेऽन्नजातं प्रसिद्धम् आ श्वभ्यः श्वभिः सह आ शकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नम्, तत् तवान्नमिति होचुर्वागादय इति। प्राणस्यसर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवं प्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेण आह – तद्वै एतत् यत्किंचिल्लोके प्राणिभिरन्नमद्यते, अनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः। सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थम् अन इति प्राणस्य प्रत्यक्षं नाम। प्राद्युपसर्गपूर्वत्वे हि विशेषगतिरेव स्यात्। तथा च सर्वान्नानामत्तुर्नामग्रहणमितीदं प्रत्यक्षं नाम अन इति सर्वान्नानामत्तुः साक्षादभिधानम्। न ह वा एवंविदि यथोक्तप्राणविदि प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति, तस्मिन्नेवंविदि ह वै किञ्चन किञ्चिदपि प्राणिभिरद्यं सर्वैः अनन्नम् अनद्यं न भवति, सर्वमेवंविद्यन्नं भवतीत्यर्थः, प्राणभूतत्वाद्विदुषः,‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’ इत्युपक्रम्य ‘एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति’ (?) इति श्रुत्यन्तरात॥
स ह उवाच पुनः प्राणः – पूर्ववदेव कल्पना। किं मे वासो भविष्यतीति। आप इति होचुर्वागादयः। यस्मात्प्राणस्य वासः आपः, तस्माद्वा एतदशिष्यन्तः भोक्ष्यमाणा भुक्तवन्तश्च ब्राह्मणा विद्वांसः एतत्कुर्वन्ति। किम्? अद्भिः वासस्थानीयाभिः पुरस्तात् भोजनात्पूर्वम् उपरिष्टाच्च भोजनादूर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य। लम्भुको लंभनशीलो वासो ह भवति; वाससो लब्धैव भवतीत्यर्थः। अनग्नो ह भवति। वाससो लम्भुकत्वेनार्थसिद्धैवानग्नतेति अनग्नो ह भवतीत्युत्तरीयवान्भवतीत्येतत्।
भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातम्, तस्मिन् प्राणस्य वास इति दर्शनमात्रमिह विधीयते – अद्भिः परिदधतीति; न आचमनान्तरम् – यथा लौकिकैः प्राणिभिरद्यमानमन्नं प्राणस्येति दर्शनमात्रम्, तद्वत्; किं मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात्। यद्याचमनमपूर्वं तादर्थ्येन क्रियेत, तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात्। तुल्ययोर्विज्ञानार्थयोः प्रश्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो न्यायो न युक्तः कल्पयितुम्। यत्तु प्रसिद्धमाचमनं प्रायत्यार्थं प्राणस्यानग्नतार्थं च न भवतीत्युच्यते, न तथा वयमाचमनमुभयार्थं ब्रूमः। किं तर्हि, प्रायत्यार्थाचमनसाधनभूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः। तत्र आचमनस्योभयार्थत्वप्रसङ्गदोषचोदना अनुपपन्ना। वासोऽर्थ एव आचमने तद्दर्शनं स्यादिति चेत्, न, वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः। आचमनस्य तदर्थत्वमन्यार्थत्वं चेति प्रमाणाभावात्॥
तदेतत्प्राणदर्शनं स्तूयते। कथम्? तद्धैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदोऽपत्यं वैयाघ्रपद्यः तस्मै गोश्रुत्याख्याय उक्त्वा उवाच अन्यदपि वक्ष्यमाणं वचः। किं तदुवाचेति, आह – यद्यपि शुष्काय स्थाणवे एतद्दर्शनं ब्रूयात्प्राणवित्, जायेरन् उत्पद्येरन्नेव अस्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्राणि, किमु जीवते पुरुषाय ब्रूयादिति॥
यथोक्तप्राणदर्शनविदः इदं मन्थाख्यं कर्म आरभ्यते –
अथ अनन्तरं यदि महत् महत्त्वं जिगमिषेत् गन्तुमिच्छेत्, महत्त्वं प्राप्तुं यदि कामयेतेत्यर्थः, तस्येदं कर्म विधीयते। महत्त्वे हि सति श्रीरुपनमते। श्रीमतो हि अर्थप्राप्तं धनम्, ततः कर्मानुष्ठानम्, ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म, न विषयोपभोगकामस्य। तस्यायं कालादिविधिरुच्यते – अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः। न पुनर्दैक्षमेव कर्मजातं सर्वमुपादत्ते, अतद्विकारत्वान्मन्थाख्यस्य कर्मणः। ‘उपसद्व्रती’ (बृ. उ. ६-३-१) इति श्रुत्यन्तरात् पयोमात्रभक्षणं च शुद्धिकारणं तप उपादत्ते। पौर्णमास्यां रात्रौ कर्म आरभते – सर्वौषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुषीकृत्य आममेव पिष्टं दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्प्रक्षिप्य उपमथ्य अग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावावसथ्ये आज्यस्य आवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे सम्पातमवनयेत् संस्रवमधः पातयेत्॥
समानमन्यत्, वसिष्ठाय प्रतिष्ठायै संपदे आयतनाय स्वाहेति, प्रत्येकं तथैव सम्पातमवनयेत् हुत्वा॥
अथ प्रतिसृप्य अग्नेरीषदपसृत्य अञ्जलौ मन्थमाधाय जपति इमं मन्त्रम् – अमो नामास्यमा हि ते; अम इति प्राणस्य नाम। अन्नेन हि प्राणः प्राणिति देहे इत्यतो मन्थद्रव्यं प्राणस्य अन्नत्वात् प्राणत्वेन स्तूयते अमो नामासीति; कुतः? यतः अमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदम्, अतः। स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च; अत एव च राजा दीप्तिमान् अधिपतिश्च अधिष्ठाय पालयिता सर्वस्य। सः मा मामपि मन्थः प्राणो ज्यैष्ठ्यादिगुणपूगमात्मनः गमयतु, अहमेवेदं सर्वं जगदसानि भवानि प्राणवत्। इति – शब्दो मन्त्रपरिसमाप्त्यर्थः॥
अथ अनन्तरं खलु एतया वक्ष्यमाणया ऋचा पच्छः पादशः आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति। तत् भोजनं सवितुः सर्वस्य प्रसवितुः, प्राणमादित्यं च एकीकृत्योच्यते, आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थरूपम्; येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः। देवस्य सवितुरिति पूर्वेण सम्बन्धः। श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतमम् अतिशयेन विधातृतममिति वा; सर्वथा भोजनविशेषणम्। तुरं त्वरं तूर्णं शीघ्रमित्येतत्, भगस्य देवस्य सवितुः स्वरूपमिति शेषः; धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः। अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धीमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिबति। निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वा औदुम्बरं पात्रम्; पीत्वा आचम्य पश्चादग्नेः प्राक्शिराः संविशति चर्मणि वा अजिने स्थण्डिले केवलायां वा भूमौ, वाचंयमो वाग्यतः सन्नित्यर्थः, अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्नदर्शनेन यथा, तथा संयतचित्तः सन्नित्यर्थः। स एवंभूतो यदि स्त्रियं पश्येत्स्वप्नेषु तदा विद्यात्समृद्धं ममेदं कर्मेति॥
तदेतस्मिन्नर्थे एष श्लोको मन्त्रोऽपि भवति – यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति, समृद्धिं तत्र जानीयात्, कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः; तस्मिंस्त्र्यादिप्रशस्तस्वप्नदर्शने सतीत्यभिप्रायः। द्विरुक्तिः कर्मसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.03

ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्याः वैराग्यहेतोर्मुमुक्षूणाम् इत्यत आख्यायिका आरभ्यते –
श्वेतकेतुर्नामतः, ह इति ऐतिह्यार्थः, अरुणस्यापत्यमारुणिः तस्यापत्यमारुणेयः पञ्चालानां जनपदानां समितिं सभाम् एयाय आजगाम। तमागतवन्तं ह प्रवाहणो नामतः जीवलस्यापत्यं जैवलिः उवाच उक्तवान् – हे कुमार अनु त्वा त्वाम् अशिषत् अन्वशिषत् पिता? किमनुशिष्टस्त्वं पित्रेत्यर्थः। इत्युक्तः स आह – अनु हि अनुशिष्टोऽस्मि भगव इति सूचयन्नाह॥
तं ह उवाच – यद्यनुशिष्टोऽसि, वेत्थ यदितः अस्माल्लोकात् अधि ऊर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति, तत्किं जानीषे इत्यर्थः। न भगव इत्याह इतरः, न जानेऽहं तत् यत्पृच्छसि। एवं तर्हि, वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति। न भगव इति प्रत्याह। वेत्थ पथोर्मार्गयोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तना व्यावर्तनमितरेतरवियोगस्थानं सह गच्छतामित्यर्थः॥
वेत्थ यथा असौ लोकः पितृसम्बन्धी – यं प्राप्य पुनरावर्तन्ते, बहुभिः प्रयद्भिरपि येन कारणेन न संपूर्यते इति। न भगव इति प्रत्याह। वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुतौ हुतायाम् आहुतिनिर्वृत्ता आहुतिसाधनाश्च आपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः। इत्युक्तो नैव भगव इत्याह; नैवाहमत्र किंचन जानामीत्यर्थः॥
अथ एवमज्ञः सन् किमनु कस्मात्त्वम् अनुशिष्टोऽस्मीति – अवोचथा उक्तवानसि; यो हि इमानि मया पृष्टान्यर्थजातानि न विद्यात् न विजानीयात्, कथं स विद्वत्सु अनुशिष्टोऽस्मीति ब्रुवीत। इत्येवं स श्वेतकेतुः राज्ञा आयस्तः आयासितः सन् पितुरर्धं स्थानम् एयाय आगतवान्, तं च पितरमुवाच – अननुशिष्य अनुशासनमकृत्वैव मा मां किल भगवान् समावर्तनकालेऽब्रवीत् उक्तवान् अनु त्वाशिषम् अन्वशिषं त्वामिति॥
यतः पञ्च पञ्चसंख्याकान्प्रश्नान् राजन्यबन्धुः राजन्या बन्धवोऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः, अप्राक्षीत् पृष्टवान्। तेषां प्रश्नानां नैकंचन एकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः। स ह उवाच पिता – यथा मा मां वत्स त्वं तदा आगतमात्र एव एतान्प्रश्नान् अवद उक्तवानसि – तेषां नैकंचन अशकं विवक्तुमिति, तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः। कथम्। यथा अहमेषां प्रश्नानाम् एकं चन एकमपि न वेद न जाने इति – यथा त्वमेवाङ्ग एतान्प्रश्नान् न जानीषे, तथा अहमपि एतान्न जाने इत्यर्थः। अतो मय्यन्यथाभावो न कर्तव्यः। कुत एतदेवम्। यतो न जाने; यद्यहमिमान्प्रश्नान् अवेदिष्यं विदितवानास्मि, कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मि – इत्युक्त्वा स ह गौतमः गोत्रतः राज्ञः जैवलेः अर्धं स्थानम् एयाय गतवान्। तस्मै ह गौतमाय प्राप्ताय अर्हाम् अर्हणां चकार कृतवान्। स च गौतमः कृतातिथ्यः उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञि उदेयाय। भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यैः स्वयं गोतमः उदेयाय राजानमुद्गतवान्। तं होवाच गौतमं राजा – मानुषस्य भगवन्गौतम मनुष्यसम्बन्धिनो वित्तस्य ग्रामादेः वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः। स ह उवाच गौतमः – तवैव तिष्ठतु राजन् मानुषं वित्तम्; यामेव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं पञ्चप्रश्नलक्षणाम् अभाषथाः उक्तवानसि, तामेव वाचं मे मह्यं ब्रूहि कथय – इत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव – कथं त्विदमिति॥
स ह कृच्छ्रीभूतः अप्रत्याख्येयं ब्राह्मणं मन्वानः न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वस – इत्येवमाज्ञापयांचकार आज्ञप्तवान्। यत्पूर्वं प्रख्यातवान् राजा विद्याम्, यच्च पश्चाच्चिरं वसेत्याज्ञप्तवान्, तन्निमित्तं ब्राह्मणं क्षमापयति हेतुवचनोक्त्या। तं ह उवाच राजा – सर्वविद्यो ब्राह्मणोऽपि सन् यथा येन प्रकारेण मा मां हे गौतम अवदः त्वम् – तामेव विद्यालक्षणां वाचं मे ब्रूहि – इत्यज्ञानात्, तेन त्वं जानीहि। तत्रास्ति वक्तव्यम् – यथा येन प्रकारेण इयं विद्या प्राक् त्वत्तो ब्राह्मणान् न गच्छति न गतवती, न च ब्राह्मणा अनया विद्यया अनुशासितवन्तः, तथा एतत्प्रसिद्धं लोके यतः, तस्मादु पुरा पूर्वं सर्वेषु लोकेषु क्षत्त्रस्यैव क्षत्त्रजातेरेव अनया विद्यया प्रशासनं प्रशास्तृत्वं शिष्याणामभूत् बभूव; क्षत्त्रियपरम्परयैवेयं विद्या एतावन्तं कालमागता; तथाप्यहेतां तुभ्यं वक्ष्यामि; त्वत्संप्रदानादूर्ध्वं ब्राह्मणान्गमिष्यति; अतो मया यदुक्तम्, तत्क्षन्तुमर्हसीत्युक्त्वा तस्मै ह उवाच विद्यां राजा॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.04

‘पञ्चम्यामाहुतावापः’ इत्ययं प्रश्नः प्राथम्येनापाक्रियते, तदपाकरणमनु इतरेषामपाकरणमनुकूलं भवेदिति। अग्निहोत्राहुत्योः कार्यारम्भो यः, स उक्तो वाजसनेयके – तं प्रति प्रश्नाः। उत्क्रान्तिराहुत्योर्गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिर्लोकं प्रत्युत्थायी इति। तेषां च अपाकरणमुक्तं तत्रैव – ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत’ (शत. ब्रा. ११-६-२-६) इत्यादि; एवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते। इमामाविश्य तर्पयित्वा पुरुषमाविशतः। ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भवति इति। तत्र अग्निहोत्राहुत्योः कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्तम्, इह तु तं कार्यारम्भमग्निहोत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्य अग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन् आह –
असौ वाव लोको गौतमाग्निरित्यादि। इह सायंप्रातरग्निहोत्राहुती हुते पयआदिसाधने श्रद्धापुरःसरे आहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते च अन्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्समवायित्वादप्शब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये। तयोरधिकरणः अग्निः अन्यच्च तत्संबन्धं समिदादीत्युच्यते। या च असावग्न्यादिभावना आहुत्योः, सापि तथैव निर्दिश्यते। असौ वाव लोकोऽग्निः हे गौतम – यथाग्निहोत्राधिकरणमाहवनीय इह। तस्याग्नेर्द्युलोकाख्यस्य आदित्य एव समित्, तेन हि इद्धः असौ लोको दीप्यते, अतः समिन्धनात् समिदादित्यः रश्मयो धूमः, तदुत्थानात्; समिधो हि धूम उत्तिष्ठति। अहरर्चिः प्रकाशसामान्यात्, आदित्यकार्यत्वाच्च। चन्द्रमा अङ्गाराः, अह्नः प्रशमेऽभिव्यक्तेः; अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते। नक्षत्राणि विस्फुलिङ्गाः, चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात्॥
तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम्। श्रद्धाम् अग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते, ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५-३-३) इत्यपां होम्यतया प्रश्ने श्रुतत्वात्; ‘श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणीय प्रचरन्ति’ (तै. ब्रा. ३-२-४-२८) इति च विज्ञायते। तां श्रद्धाम् अब्रूपां जुह्वति; तस्या आहुतेः सोमो राजा अपां श्रद्धाशब्दवाच्यानां द्युलोकाग्रौ हुतानां परिणामः सोमो राजा सम्भवति – यथा ऋग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्ते आदित्ये यशआदिकार्यं रोहितादिरूपलक्षणमारभन्ते इत्युक्तम् – तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपः द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः। यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावना भाविता आहुतिरूपेण कर्मणा आकृष्टाः श्रद्धाप्समवायिनो द्युलोकमनुप्रविशय सोमभूता भवन्ति। तदर्थं हि तैरग्निहोत्रं हुतम्। अत्र तु आहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः। तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति, विदुषां च उत्तरा विद्याकृताम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.05

द्वितीयहोमपर्यायार्थमाह – पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः। तस्य वायुरेव समित्, वायुना हि पर्जन्योऽग्निः समिध्यते; पुरोवातादिप्राबल्ये वृष्टिदर्शनात्। अभ्रं धूमः, धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात्। विद्युदर्चिः, प्रकाशसामान्यात्। अशनिः अङ्गाराः, काठिन्याद्विद्युत्संबन्धाद्वा। ह्रादनयो विस्फुलिङ्गाः ह्रादनयः गर्जितशब्दाः मेघानाम्, विप्रकीर्णत्वसामान्यात्॥
तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति। तस्या आहुतेर्वर्षं सम्भवति; श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.06

पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत्। तस्याः पृथिव्याख्यस्याग्नेः संवत्सर एव समित्, संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति। आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते – यथा अग्नेर्धूमः। रात्रिरर्चिः, पृथिव्या हि अप्रकाशात्मिकाया अनुरूपा रात्रिः, तमोरूपत्वात् – अग्नेरिवानुरूपमर्चिः। दिशः अङ्गाराः, उपशान्तत्वसामान्यात्। अवान्तरदिशः विस्फुलिङ्गाः, क्षुद्रत्वसामान्यात्॥
तस्मिन्नित्यादि समानम्। तस्या आहुतेरन्नं व्रीहियवादि सम्भवति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.07

पुरुषो वाव गौतमाग्निः। तस्य वागेव समित्, वाचा हि मुखेन समिध्यते पुरुषो न मूकः। प्राणो धूमः, धूम इव मुखान्निर्गमनात्। जिह्वा अर्चिः, लोहितत्वात्। चक्षुः अङ्गाराः, भास आश्रयत्वात्। श्रोत्रं विस्फुलिङ्गाः, विप्रकीर्णत्वसाम्यात्॥
समानमन्यत्। अन्नं जुह्वति व्रीह्यादिसंस्कृतम्। तस्या आहुते रेतः सम्भवति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.08

योषा वाव गौतमाग्निः। तस्या उपस्थ एव समित्, तेन हि सा पुत्राद्युत्पादनाय समिध्यते। यदुपमन्त्रयते स धूमः, स्त्रीसम्भवादुपमन्त्रणस्य। योनिरर्चिः लोहितत्वात्। यदन्तः करोति तेऽङ्गाराः, अग्निसम्बन्धात्। अभिनन्दाः सुखलवाः विस्फुलिङ्गाः, क्षुद्रत्वात्॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति। तस्या आहुतेर्गर्भः सम्भवतीति। एवं श्रद्धासोमवर्षान्नरेतोहवनपर्यायक्रमेण आप एव गर्भीभूतास्ताः। तत्र अपामाहुतिसमवायित्वात् प्राधान्यविवक्षा – आपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति। न त्वाप एव केवलाः सोमादिकार्यमारभन्ते। न च आपोऽत्रिवृत्कृताः सन्तीति। त्रिवृत्कृतत्वेऽपि विशेष संज्ञालाभो दृष्टः – पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः। तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकारण्याप इत्युच्यन्ते। दृश्यते च द्रवबाहुल्यं सोमवृष्ट्यन्नरेतोदेहेषु। बहुद्रवं च शरीरं यद्यपि पार्थिवम्। तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.09

इति तु एवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यातः एकः प्रश्नः। यत्तु द्युलोकादिमां प्रत्यावृत्तयोराहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण आविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयके उक्तम्, तत्प्रासङ्गिकमिहोच्यते। इह च प्रथमे प्रश्ने उक्तम् – वेत्थ यदितोऽधि प्रजाः प्रयन्तीति। तस्य च अयमुपक्रमः – स गर्भोऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानाम् उल्बावृतः उल्बेन जरायुणा आवृतः वेष्टितः दश वा नव वा मासान् अन्तः मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वा अथ अनन्तरं जायते।
उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते। कष्टं हि मातुः कुक्षौ मूत्रपूरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य लोहितसरेतोशुचिबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम्। ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति, मुहूर्तमप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्वेति च॥
स एवं जातः यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुः तावज्जीवति। तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति – यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वा अधिकृतः – तमेनं मृतम् इतः अस्माद्ग्रामात् अग्नये अग्न्यर्थम् ऋत्विजो हरन्ति पुत्रा वा अन्त्यकर्मणे। यत एव इत आगतः अग्नेः सकाशात् श्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः संभूतः उत्पन्नः भवति, तस्मै एव अग्नये हरन्ति स्वामेव योनिम् अग्निम् आपादयन्तीत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.10

‘वेत्थ यदितोऽधि प्रजाः प्रयन्ति’ (छा. उ. ५-३-२) इत्ययं प्रश्नः प्रत्युपस्थितोऽपाकर्तव्यतया। तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् एवं यथोक्तं पञ्चाग्निदर्शनम् – द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मानः – इत्येवं विदुः जानीयुः। कथमवगम्यते इत्थं विदुरिति गृहस्था एव उच्यन्ते नान्य इति। गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपराः ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति। ये च अरण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धा तप इत्युपासते, तेषां च इत्थंविद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारिशेष्यादग्निहोत्राहुतिसम्बन्धाच्च गृहस्था एव गृह्यन्ते – इत्थं विदुरिति। ननु ब्रह्मचारिणोऽप्यगृहीता ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिद्धिः? नैष दोषः। पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां नैष्ठिकब्रह्मचारिणाम् उत्तरेणार्यम्णः पन्थाः प्रसिद्धः, अतः तेऽप्यरण्यवासिभिः सह गमिष्यन्ति। उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः। ननु ऊर्ध्वरेतस्त्वं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यते, इत्थंवित्त्वमनर्थकं प्राप्तम्। न, गृहस्थान्प्रत्यर्थवत्त्वात्। ये गृहस्था अनित्थंविदः, तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धः, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्म विदुः, ‘अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेव’ (छा. उ. ४-१५-५) इति लिङ्गात् उत्तरेण ते गच्छन्ति। ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम् अग्निहोत्रादिवैदिककर्मबाहुल्ये च सति; नैष दोषः, अपूता हि ते – शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ, हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम्, अतोऽपूताः। अपूतत्वात् न उत्तरेण पथा गमनम्। हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हि इतरे, शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसः; तेषां युक्त उत्तरः पन्थाः। तथा च पौराणिकाः – ‘ये प्रजामीषिरेऽधीरास्ते श्मशानानि भेजिरे। ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे’ (?) इत्याहुः। इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सति, अरण्यवासिनां विद्यानर्थक्यं प्राप्तम्; तथा च श्रुतिविरोधः – ‘न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’ (शत. ब्रा. १०-५-४-१६) इति, ‘स एनमविदितो न भुनक्ति’ (बृ. उ. १-४-१५) इति च विरुद्धम्। न, आभूतसम्प्लवस्थानस्यामृतत्वेन विवक्षितत्वात्। तत्रैवोक्तं पौराणिकैः – ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (वि. पु. २-८-९७) इति। यच्च आत्यन्तिकममृतत्वम्, तदपेक्षया ‘न तत्र दक्षिणा यन्ति’ ‘स एनमविदितो न भुनक्ति’ इत्याद्याः श्रुतयः – इत्यतो न विरोधः। ‘न च पुनरावर्तन्ते’ (छा. उ. ८-१५-१) इति ‘इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४-१५-५) इत्यादि श्रुतिविरोध इति चेत्, न; ‘इमं मानवम्’ इति विशेषणात् ‘तेषामिह न पुनरावृत्तिरस्ति’ (बृ. मा. ६-१-१८) इति च। यदि हि एकान्तेनैव नावर्तेरन्, इमं मानवम् इह इति च विशेषणमनर्थकं स्यात्। इममिह इत्याकृतिमात्रमुच्यत इति चेत्, न; अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वात् आकृतिकल्पना अनर्थिका। अतः इममिह इति च विशेषणार्थवत्त्वाय अन्यत्र आवृत्तिः कल्पनीया। न च सदेकमेवाद्वितीयमित्येवं प्रत्ययवतां मूर्धन्यनाड्या अर्चिरादिमार्गेण गमनम्, ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४-४-६) ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १-४-९) ‘न तस्य प्राणा उत्क्रामन्ति।’ (बृ. उ. ४-४-६) ‘अत्रैव समवलीयन्ते’ (बृ. उ. ३-२-११) इत्यादिश्रुतिशतेभ्यः। ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत्; न, ‘अत्रैव समवलीयन्ते’ इति विशेषणानर्थक्यात्, ‘सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४-४-२) इति च प्राणैर्गमनस्य प्राप्तत्वात्। तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा। यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सह आगमनमाशङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते, तदापि ‘अत्रैव समवलीयन्ते’ इति विशेषणमनर्थकं स्यात्। न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा, सर्वगतत्वात्सदात्मनो निरवयवत्वात् प्राणसम्बन्धमात्रमेव हि अग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम्, श्रुतयश्चेत्प्रमाणम्। न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम्। तस्मात् ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८-६-६) इति सगुणब्रह्मोपासकस्य प्राणैः सह नाड्या गमनम्, सापेक्षमेव च अमृतत्वम्, न साक्षान्मोक्ष इति गम्यते, ‘तदपराजिता पूस्तदैरं मदीयं सरः’ (छा. उ. ८-५-३) इत्याद्युक्त्वा ‘तेषामेवैष ब्रह्मलोकः’ (छा. उ. ८-५-४) इति विशेषणात्।
अतः पञ्चाग्निविदो गृहस्थाः, ये च इमे अरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्धधानास्तपस्विनश्चेत्यर्थः; उपासनशब्दस्तात्पर्यार्थः; इष्टापूर्ते दत्तमित्युपासत इति यद्वत्। श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते, ते सर्वे अर्चिषम् अर्चिरभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते। समानमन्यत् चतुर्थगतिव्याख्यानेन। एष देवयानः पन्था व्याख्यातः सत्यलोकावसानः, न अण्डाद्बहिः, ‘यदन्तरापितरं मातरं च’ (ऋ. १०-८८-१५) इति मन्त्रवर्णात्॥
अथेत्यर्थान्तरप्रस्तावनार्थः, य इमे गृहस्थाः ग्रामे, ग्राम इति गृहस्थानामसाधारणं विशेषणम् अरण्यवासिभ्यो व्यावृत्त्यर्थम् – यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थम्, तद्वत्; इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म, पूर्तं वापीकूपतडागारामादिकरणम्; दत्तं बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम्; इति एवंविधं परिचरणपरित्राणादि उपासते, इति–शब्दस्य प्रकारदर्शनार्थत्वात्। ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते। तया अतिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रेरपरपक्षदेवताम् एवमेव कृष्णपक्षाभिमानिनीम् अपरपक्षात् यान्षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता, तान्मासान् दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः। संघचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगः तासु। नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिप्राप्नुवन्ति। कुतः पुनः संवत्सरप्राप्तिप्रसङ्गः, यतः प्रतिषिध्यते? अस्ति हि प्रसङ्गः – संवत्सरस्य हि एकस्यावयवभूते दक्षिणोत्तरायणे, तत्र अर्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता; अतः इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेति। अतः तत्प्राप्तिः प्रतिविध्यते – नैते संवत्सरमभिप्राप्नुवन्तीति॥
मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशाच्चन्द्रमसम्। कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः? य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानाम्, तदन्नं देवानाम्, तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति। अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते। ननु अनर्थाय इष्टादिकरणम्, यद्यन्नभूता देवैर्भक्ष्येरन्। नैष दोषः, अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् – न हि ते कबलोत्क्षेपेण देवैर्भक्ष्यन्ते कं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादिवत्, दृष्टश्चान्नशब्द उपकरणेषु – स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि। न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति। तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति। शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते। तदुक्तं पुरस्तात् – श्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति। ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति। अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति। तदारब्धेन च शरीरेण इष्टादिफलमुपभुञ्जाना आसते॥
यावत् तदुपभोगनिमित्तस्य कर्मणः क्षयः, संपतन्ति येनेति सम्पातः कर्मणः क्षयः यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः, तावत् तस्मिंश्चन्द्रमण्डले उषित्वा अथ अनन्तरम् एतमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्तन्ते। पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्च आसन्निति गम्यते। तस्मादिह लोके इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति; तत्क्षये च आवर्तन्ते; क्षणमात्रमपि तत्र स्थातुं न लभ्यते, स्थितिनिमित्तकर्मक्षयात् – स्नेहक्षयादिव प्रदीपस्य।
तत्र किं येन कर्मणा चन्द्रमण्डलमारूढास्तस्य सर्वस्यक्षये तस्मादवरोहणम्, किं वा सावशेष इति। किं ततः? यदि सर्वस्यैव क्षयः कर्मणः, चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात्, न वेति; तत आगतस्य इह शरीरोपभोगादि न सम्भवति। ‘ततः शेषेण’ (गौ. ध. २-२-२९) इत्यादिस्मृतिविरोधश्च स्यात्। नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि; यन्निमित्तं चन्द्रमण्डलमारूढः, तान्येव क्षीणानीत्यविरोधः; शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः; अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः; विरुद्धानेकयोन्युपभोगफलानां च कर्मणाम् एकैकस्य जन्तोरारम्भकत्वसम्भवात्। न च एकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते, ब्रह्महत्यादेश्च एकैकस्य कर्मण अनेकजन्मारम्भकत्वस्मरणात्, स्थावरादिप्राप्तानां च अत्यन्तमूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासम्भवात्। गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः। तस्मात् न एकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः।
यत्तु कैश्चिदुच्यते – सर्वकर्माश्रयोपमर्देन प्रायेण कर्मणां जन्मारम्भकत्वम्। तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्म आरभन्त इति नोपपद्यते, मरणस्य सर्वकर्माभिव्यञ्जकत्वात्, स्वगोचराभिव्यञ्जकप्रदीपवदिति। तदसत्, सर्वस्य सर्वात्मकत्वाभ्युपगमात् – न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते, तथा कर्मणामपि साश्रयाणां भवेत् – यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृताः विरुद्धानेकवासनाः मर्कटत्वप्रापकेन कर्मणा मर्कटजन्म आरभमाणेन नोपमृद्यन्ते – तथा कर्मण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम्। यदि हि सर्वाः पूर्वजन्मानुभववासनाः उपमृद्येरन्, मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति, इह जन्मन्यनभ्यस्तत्वात्। न च अतीतानन्तरजन्मनि मर्कटत्वमेव आसीत्तस्येति शक्यं वक्तुम्, ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ (बृ. उ. ४-४-२) इति श्रुतेः। तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसम्भवः। यत एवम्, तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः।
कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते – यथेतं यथागतं निवर्तन्ते। ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तः, न तथा निवृत्तिः; किं तर्हि, आकाशाद्वायुमित्यादि; कथं यथेतमित्युच्यते। नैष दोषः, आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च। न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते; पुनर्निवर्तन्त इति तु नियमः। अत उपलक्षणार्थमेतत् – यद्यथे तमिति। अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते – यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसन्, तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते – घृतसंस्थानमिवाग्निसंयोगे, ता विलीना अन्तरिक्षस्था आकाशभूता इति सूक्ष्माः भवन्ति। ता अन्तरिक्षाद्वायुर्भवन्ति, वायुप्रतिष्टा वायुभूता इतश्चामुतश्च ऊह्यमानाः ताभिः सह क्षीणकर्मा वायुभूतो भवति। वायुर्भूत्वा ताभिः सहैव धूमो भवति। धूमो भूत्वा अभ्रम् अब्भरणमात्ररूपो भवति॥
अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति; मेघो भूत्वा उन्नतेषु प्रदेशेष्वथ प्रवर्षति; वर्षधारारूपेण शेषकर्मा पततीत्यर्थः। त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते; क्षीणकर्मणामनेकत्वात् बहुवचननिर्देशः। मेघादिषु पूर्वेष्वेकरूपत्वात् एकवचननिर्देशः। यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसंनिवेशसहस्राणि वर्षधाराभिः पतितानाम्, अतः तस्माद्धेतोः वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् – यतो गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति, ततः समुद्रम्, ततो मकरादिभिर्भक्ष्यन्ते; तेऽप्यन्येन; तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधारांभिर्मरुदेशे शिलातटे वा अगम्ये पतितास्तिष्ठन्ति, कदाचिद्व्यालमृगादिपीता भक्षिताश्चान्यैः तेऽप्यन्यैरित्येवंप्रकाराः परिवर्तेरन्; कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन्; भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसम्बन्धो दुर्लभ एव, बहुत्वात्स्थावराणाम् – इत्यतो दुर्निष्क्रमणत्वम्। अथवा अतः अस्माद्व्रीहियवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरम्। दुर्निष्प्रपरमिति तकार एको लुप्तो द्रष्टव्यः; व्रीहियवादिभावो दुर्निष्प्रपतः, तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः; यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते, अनेकत्वादन्नादानाम्। कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा, तदा रेतःसिग्भावं गतानां कर्मणो वृत्तिलाभः। कथम्? यो यो हि अन्नमत्ति अनुशयिभिः संश्लिष्टं रेतःसिक्, यश्च रेतः सिञ्चति ऋतुकाले योषिति, तद्भूय एव तदाकृतिरेव भवति; तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशयेऽन्तः प्रविष्टोऽनुशयी, रेतसो रेतःसिगाकृतिभावितत्वात्, ‘सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम्’ (ऐ. उ. २-१-१) इति हि श्रुत्यन्तरात्। अतो रेतःसिगाकृतिरेव भवतीत्यर्थः। तथा हि पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिः, तस्माद्युक्तं तद्भूय एव भवतीति।
ये त्वन्ये अनुशयिभ्यश्चन्द्रमण्डलमनारुह्य इहैव पापकर्मभिर्घोरैर्व्रीहियवादिभावं प्रतिपद्यन्ते, पुनर्मनुष्यादिभावम्, तेषां नानुशयिनामिव दुर्निष्प्रपतरम्। कस्मात्? कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्संक्रमन्ते सविज्ञाना एव ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ (बृ. उ. ४-४-२) इति श्रुत्यन्तरात्। यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति, श्रुतिप्रामाण्यात्। तथा अर्चिरादिना धूमादिना च गमनं स्वप्नं इवोद्भूतविज्ञानेन, लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य। न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतःसिग्योषिद्देहसम्बन्ध उपपद्यते, न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति। ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वात् जलूकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म; तथा च सति, अनर्थायैव इष्टापूर्ताद्युपासनं विहितं स्यात्; श्रुतेश्च अप्रामाण्यं प्राप्तम्, वैदिकानां कर्मणाम् अनर्थानुबन्धित्वात्। न, वृक्षारोहणपतनवद्विशेषसम्भवात् – देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् – वृक्षाग्रमारोहत इव फलं जिघृक्षोः। तथा अर्चिरादिना गच्छतां सविज्ञानत्वं भवेत्; धूमादिना च चन्द्रमण्डलमारुरुक्षताम्। न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् – यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्रमण्डलात् मानुषादिदेहान्तरं प्रति अवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयात् मृदिताब्देहानां प्रतिबद्धकरणानाम्। अतः ते अपरित्यक्तदेहबीजभूताभिरद्भिः मूर्छिता इव आकाशादिक्रमेण इमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतया अनुद्भूतविज्ञाना एव। तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव, देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात्। देहबीजभूताप्संबन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं न विरुध्यते। अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः। न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम्, हिंसायाः शास्त्रचोदितत्वात्। ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८-१५-१) इति श्रुतेः शास्त्रचोदिताया हिंसाया न अधर्महेतुत्वमभ्युपगम्यते। अभ्युपगतेऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत् तदपनयोपपत्तेः न दुःखकार्यारम्भणोपपत्तिः वैदिकानां कर्मणाम् – मन्त्रेणेव विषभक्षणस्येति॥
तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते – रमणीयचरणाः उच्यन्ते; क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः; तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्याशो ह क्षिप्रमेव, यदिति क्रियाविशेषणम्, ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नुयुः ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण। अथ पुनर्येतद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा स्वकर्मानुरूपेणैव॥
ये तु रमणीयचरणा द्विजातयः, ते स्वकर्मस्थाश्चेदिष्टादिकारिणः, ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुनः, घटीयन्त्रवत्। विद्यां चेत्प्राप्नुयुः, तदा अर्चिरादिना गच्छन्ति; यदा तु न विद्यासेविनो नापि इष्टादिकर्म सेवन्ते, तदा अथैतयोः पथोः यथोक्तयोरर्चिर्धूमादिलक्षणयोः न कतरेण अन्यतरेण चनापि यन्ति। तानीमानि भूतानि क्षुद्राणि दंशमशककीटादीन्यसकृदावर्तीनि भवन्ति। अतः उभयमार्गपरिभ्रष्टा हि असकृज्जायन्ते म्रियन्ते च इत्यर्थः। तेषां जननमरणसंततेरनुकरणमिदमुच्यते। जायस्व म्रियस्व इति ईश्वरनिमित्तचेष्टा उच्यते। जननमरणलक्षणेनैव कालयापना भवति, न तु क्रियासु शोभनेषु भोगेषु वा कालोऽस्तीत्यर्थः। एतत् क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम्, येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्ति, अनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति, तेनासौ लोको न संपूर्यते। पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः। प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतः। दक्षिणोत्तरयोः पथोर्व्यावर्तनापि – मृतानामग्नौ प्रक्षेपः समानः, ततो व्यावर्त्य अन्येऽर्चिरादिना यन्ति, अन्ये धूमादिना, पुनरुत्तरदक्षिणायने षण्मासान्प्राप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते, अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकम् –
इति व्याख्याता। पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेण उक्ता। अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम् – तेनासौ लोको न संपूर्यत इति। यस्मादेवं कष्टा संसारगतिः, तस्माज्जुगुप्सेत। यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः – सागर इव अगाधेऽप्लवे निराशाश्चोत्तरणं प्रति, तस्माच्चैवंविधां संसारगति जुगुप्सेत बीभत्सेत घृणी भवेत् – मा भूदेवंविधे संसारमहोदधौ घोरे पात इति। तदेतस्मिन्नर्थे एषः श्लोकः पञ्चाग्निविद्यास्तुतये॥
स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन्, ब्राह्मणः सन्, गुरोश्च तल्पं दारानावसन्, ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः। पञ्चमश्च तैः सह आचरन्निति॥
अथ ह पुनः यो यथोक्तान्पञ्चाग्नीन्वेद, स तैरप्याचरन् महापातकिभिः सह न पाप्मना लिप्यते, शुद्ध एव। तेन पञ्चाग्निदर्शनेन पावितः यस्मात्पूतः, पुण्यो लोकः प्राजापत्यादिर्यस्य सोऽयं पुण्यलोकः भवति; य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद। द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.11

दक्षिणेन पथा गच्छतामन्नभाव उक्तः – ‘तद्देवानामन्नम् तं देवा भक्षयन्ति’ (छा. उ. ५-१०-४) इति; क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता। तदुभयदोषपरिजिहीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते, ‘अत्स्यन्नं पश्यसि प्रियम्’ (छा. उ. ५-१२-२) इत्यादिलिङ्गात्। आख्यायिका तु सुखावबोधार्था विद्यासंप्रदानन्यायप्रदर्शनार्था च –
प्राचीनशाल इति नामतः, उपमन्योरपत्यमौपमन्यवः। सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः। तथेन्द्रद्युम्नो नामतः, भल्लवेरपत्यं भाल्लविः तस्यापत्यं भाल्लवेयः। जन इति नामतः, शर्कराक्षस्यापत्यं शार्कराक्ष्यः। बुडिलो नामतः, अश्वतराश्वस्यापत्यमाश्वतराश्विः। पञ्चापि ते हैते महाशालाः महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः सम्पन्ना इत्यर्थः, महाश्रोत्रियाः श्रुताध्ययनवृत्तसम्पन्ना इत्यर्थः, ते एवंभूताः सन्तः समेत्य सम्भूय क्वचित् मीमांसां विचारणां चक्रुः कृतवन्त इत्यर्थः। कथम्? को नः अस्माकमात्मा किं ब्रह्म – इति; आत्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम्। ब्रह्मेति अध्यात्मपरिच्छिन्नमात्मानं निवर्तयति, आत्मेति च आत्मव्यतिरिक्तस्य आदित्यादिब्रह्मण उपास्यत्वं निवर्तयति। अभेदेन आत्मैव ब्रह्म ब्रह्मैव आत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिद्धं भवति, ‘मूर्धा ते व्यपतिष्यत्’ ‘अन्धोऽभविष्यः’ इत्यादिलिङ्गात्॥
ते ह मीमांसन्तोऽपि निश्चयमलभमानाः सम्पादयाञ्चक्रुः सम्पादितवन्तः आत्मन उपदेष्टारम्। उद्दालको वै प्रसिद्धो नामतः, भगवन्तः पूजावन्तः, अयमारुणिः अरुणस्यापत्यं सम्प्रति सम्यगिममात्मानं वैश्वानरम् अस्मदभिप्रेतमध्येति स्मरति। तं हन्त इदानीमभ्यागच्छाम इत्येवं निश्चित्य तं ह अभ्याजग्मुः गतवन्तः तम् आरुणिम्॥
स ह तान् दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा सम्पादयाञ्चकार। कथम्? प्रक्ष्यन्ति मां वैश्वानरम् इमे महाशालाः महाश्रोत्रियाः, तेभ्योऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे; अतः हन्ताहमिदानीमन्यम् एषामभ्यनुशासानि वक्ष्याम्युपदेष्टारमिति॥
एवं सम्पाद्य तान् ह उवाच – अश्वपतिर्वै नामतः भगवन्तः अयं केकयस्यापत्यं कैकेयः संप्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम्॥
तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाणि अर्हणानि पुरोहितैर्भृत्यैश्च कारयांचकार कारितवान्। स ह अन्येद्युः राजा प्रातः संजिहान उवाच विनयेन उपगम्य – एतद्धनं मत्त उपादध्वमिति। तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनम्, यतो न प्रतिगृह्णन्ति मत्तो धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह – न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते; न कदर्यः अदाता सति विभवे; न मद्यपः द्विजोत्तमः सन्; न अनाहिताग्निः शतगुः; न अविद्वान् अधिकारानुरूपम्; न स्वैरी परदारेषु गन्ताः; अत एव स्वैरिणी कुतः दुष्टचारिणी न सम्भवतीत्यर्थः। तैश्च न वयं धनेनार्थिन इत्युक्तः आह – अल्पं मत्वा एते धनं न गृह्णन्तीति, यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि। तदर्थं क्लृप्तं धनं मया यावदेकैकस्मै यथोक्तम् ऋत्विजे धनं दास्यामि, तावत् प्रत्येकं भगवद्भयोऽपि दास्यामि। वसन्तु भगवन्तः, पश्यन्तु च मम यागम्॥
इत्युक्ताः ते ह ऊचुः – येन ह एव अर्थेन प्रयोजनेन यं प्रति चरेत् गच्छेत् पुरुषः, तं ह एवार्थं वदेत्। इदमेव प्रयोजनमागमनस्येत्ययं न्यायः सताम्। वयं च वैश्वानरज्ञानार्थिनः। आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जानासि। अतस्तमेव नः अस्मभ्यं ब्रूहि॥
इत्युक्तः तान् ह उवाच। प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्ताः ते ह राज्ञोऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ताः अपरेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे गतवन्तः। यत एवं महाशालाः महाश्रोत्रियाः ब्राह्मणाः सन्तः महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ताः जातितो हीनं राजानं विद्यार्थिनः विनयेनोपजग्मुः। तथा अन्यैर्विद्योपादित्सुभिर्भवितव्यम्। तेभ्यश्च अदाद्विद्याम् अनुपनीयैव उपनयनमकृत्वैव तान्। यथा योग्येभ्यो विद्यामदात्, तथा अन्येनापि विद्या दातव्येति आख्यायिकार्थः। एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन सम्बन्धः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.12

स कथमुवाचेति, आह – औपमन्यव हे कम् आत्मानं वैश्वानरं त्वमुपास्से इति पप्रच्छ। नन्वयमन्यायः – आचार्यः सन् शिष्यं पृच्छतीति। नैष दोषः, ‘यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामि’ (छा. उ. ७-१-१) इति न्यायदर्शनात्। अन्यत्राप्याचार्यस्य अप्रतिभावनवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टोऽजातशत्रोः, ‘क्वैष तदाभूत्कुत एतदागात्’ (बृ. उ. २-१-१६) इति। दिवमेव द्युलोकमेव वैश्वानरमुपासे भगवो राजन् इति ह उवाच। एष वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्मा, आत्मनः अवयवभूतत्वात्। यं त्वम् आत्मानम् आत्मैकदेशम् उपास्से, तस्मात् सुतेजसो वैश्वानरस्य उपासनात् तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अहर्गणादिषु तव कुले दृश्यते; अतीव कर्मिणस्त्वत्कुलीना इत्यर्थः॥
अत्स्यन्नं दीप्ताग्निः सन् पश्यसि च पुत्रपौत्रादि प्रियमिष्टम्। अन्योऽप्यत्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसुतमासुतमित्यादि कर्मित्वं ब्रह्मवर्चसं कुले, यः कश्चित् एतं यथोक्तम् एवं वैश्वानरमुपास्ते। मूर्धा त्वात्मनो वैश्वानरस्य एष न समस्तो वैश्वानरः। अतः समस्तबुद्ध्या वैश्वानरस्योपासनात् मूर्धा शिरस्ते विपरीतग्राहिणो व्यपतिष्यत् विपतितमभविष्यत् यत् यदि मां नागतोऽभविष्यः। साध्वकार्षीः यन्मामागतोऽसीत्यभिप्रायः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.13

अथ होवाच सत्ययज्ञं पौलुषिम् – हे प्राचीनयोग्य कं त्वमात्मानमुपास्से इति; आदित्यमेव भगवो राजन् इति ह उवाच। शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य, सर्वरूपत्वाद्वा, सर्वाणि रूपाणि हि त्वाष्ट्राणी यतः, अतो वा विश्वरूप आदित्यः; तदुपासनात् तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले॥
किंच त्वामनु प्रवृत्तः अश्वतरीभ्यां युक्तो रथोऽश्वतरीरथः दासीनिष्को दासीभिर्युक्तो निष्को हारो दाशीनिष्कः। अत्स्यन्नमित्यादि समानम्। चक्षुर्वैश्वानरस्य तु सविता। तस्य समस्तबुद्ध्योपासनात् अन्धोऽभविष्यः चक्षुर्हीनोऽभविष्यः यन्मां नागमिष्य इति पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.14

अथ ह उवाच इन्द्रद्युम्नं भाल्लवेयम् – वैयाघ्रपद्य कं त्वमात्मानमुपास्से इत्यादि समानम्। पृथग्वर्त्मा नाना वर्त्मानियस्य वायोरावहोद्वहादिभिर्भेदैः वर्तमानस्य सोऽयं पृथग्वर्त्मा वायुः। तस्मात् पृथग्वर्त्मात्मनो वैश्वानरस्योपासनात् पृथक् नानादिक्काः त्वां बलयः वस्त्रान्नादिलक्षणा बलयः आयन्ति आगच्छन्ति। पृथग्रथश्रेणयः रथपङ्क्तयोऽपि त्वामनुयन्ति॥
अत्स्यन्नमित्यादि समानम्। प्राणस्त्वेष आत्मन इति ह उवाच। प्राणस्ते तव उदक्रमिष्यत् उत्क्रान्तोऽभविष्यत्, यन्मां नागमिष्य इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.15

अथ ह उवाच जनमित्यादि समानम्। एष वै बहुल आत्मा वैश्वानरः। बहुलत्वमाकाशस्य सर्वगतत्वात् बहुलगुणोपासनाच्च। त्वं बहुलोऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिना॥
संदेहस्त्वेष संदेहः मध्यमं शरीरं वैश्वानरस्य। दिहेरुपचयार्थत्वात् मांसरुधिरास्थ्यादिभिश्च बहुलं शरीरं तत्संदेहः ते तव शरीरं व्यशीर्यत् शीर्णमभविष्यत् यन्मां नागमिष्य इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.16

अथ ह उवाच बुडिलमाश्वतराश्विमित्यादि समानम्। एष वै रयिरात्मा वैश्वानरो धनरूपः। अद्भ्योऽन्नं ततो धनमिति। तस्माद्रयिमान् धनवान् त्वं पुष्टिमांश्च शरीरेण पुष्टेश्चान्ननिमित्तत्वात्॥
बस्तिस्त्वेष आत्मनो वैश्वानरस्य, बस्तिः मूत्रसंग्रहस्थानम्, बस्तिस्ते व्यभेत्स्यत् भिन्नोऽभविष्यत् यन्मां नागमिष्य इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.17

अथ ह उवाच उद्दालकमित्यादि समानम्। पृथिवीमेव भगवो राजन्निति ह उवाच। एष वै प्रतिष्ठा पादौ वैश्वानरस्य। पादौ ते व्यम्लास्येतां विम्लानावभविष्यतां श्लथीभूतौ यन्मां नागमिष्य इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.18

तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच – एते यूयम्, वै खल्वित्यनर्थकौ, यूयं पृथगिव अपृथक्सन्तमिममेकं वैश्वानरमात्मानं विद्वांसः अन्नमत्थ, परिच्छिन्नात्मबुद्ध्येत्येतत् –हस्तिदर्शन इव जात्यन्धाः। यस्त्वेतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथिवीपादन्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैः द्युमूर्धादिभिः पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम्। मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः। द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः। प्रकर्षेण शास्त्रेण आदिश्यन्त इति प्रादेशा द्युलोकादय एव तावत्परिमाणः प्रादेशमात्रः। शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति। इह तु न तथा अभिप्रेतः, ‘तस्य ह वा एतस्यात्मनः’ (छा. उ. ५-१८-२) इत्याद्युपसंहारात्। प्रत्यगात्मतया अभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानः तमेतमात्मानं वैश्वानरम् – विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्सैष ईश्वरो वैश्वानरः, विश्वो नर एव वा सर्वात्मत्वात्, विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरः तमेवमुपास्ते यः, सोऽदन् अन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु, तेषु हि आत्मकल्पनाव्यपदेशः, प्राणिनामन्नमत्ति, वैश्वानरवित्सर्वात्मा सन् अन्नमत्ति। न यथा अज्ञाः पिण्डमात्राभिमानः सन् इत्यर्थः॥
कस्मादेवम्? यस्मात्तस्य ह वै प्रकृतस्यैव एतस्य आत्मनो वैश्वानरस्य मूर्धैव सुतेजाः चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहः बहुलो बस्तिरेव रयिः पृथिव्येव पादौ। अथवा विध्यर्थमेतद्वचनम् – एवमुपास्य इति। अथेदानीं वैश्वानरविदो भोजनेऽग्निहोत्रं सम्पिपादयिषन् आह – एतस्य वैश्वानरस्य भोक्तुः उर एव वेदिः, आकारसामान्यात्। लोमानि बर्हिः, वेद्यामिवोरसि लोमान्यास्तीर्णानि दृश्यन्ते। हृदयं गार्हपत्यः, हृदयाद्धि मनः प्रणीतमिवानन्तरी भवति; अतोऽन्वाहार्यपचनोऽग्निः मनः। आस्यं मुखमाहवनीय इव आहवनीयो हूयतेऽस्मिन्नन्नमिति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.19

तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आगच्छेद्भोजनार्थम्, तद्धोमीयं तद्धोतव्यम्, अग्निहोत्रसंपन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह; स भोक्ता यां प्रथमामाहुतिं जुहुयात्, तां कथं जुहुयादिति, आह – प्राणाय स्वाहेत्यनेन मन्त्रेण; आहुतिशब्दात् अवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः। तेन प्राणस्तृप्यति॥
प्राणे तृप्यति चक्षुस्तृप्यति, चक्षुषि तृप्यति आदित्यो द्यौश्चेत्यादि तृप्यति, यच्चान्यत् द्यौश्च आदित्यश्च स्वामित्वेनाधितिष्ठतः तच्च तृप्यति, तस्य तृप्तिमनु स्वयं भुञ्जानः तृप्यति एवं प्रत्यक्षम्। किं च प्रजादिभिश्च। तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.20

अथ यां द्वितीयां तृतीयां चतुर्थीं पञ्चमीमिति समानम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.24

स यः कश्चित् इदं वैश्वानरदर्शनं यथोक्तम् अविद्वान्सन् अग्निहोत्रं प्रसिद्धं जुहोति, यथा अङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयात्, तादृक् तत्तुल्यं तस्य तदग्निहोत्रहवनं स्यात्, वैश्वानरविदः अग्निहोत्रमपेक्ष्य – इति प्रसिद्धाग्निहोत्रनिन्दया वैश्वानरविदोऽग्निहोत्रं स्तूयते॥
अतश्च एतद्विशिष्टमग्निहोत्रम्। कथम्? अथ य एतदेवं विद्वान् अग्निहोत्रं जुहोति, तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेष्वित्याद्युक्तार्थम्, हुतम् अन्नमत्ति इत्यनयोरेकार्थत्वात्॥
किंच तद्यथा इषीकायास्तूलम् अग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रम्, एवं ह अस्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तुः सर्वे निरवशिष्टाः पाप्मानः धर्माधर्माख्याः अनेकजन्मसंचिताः इह च प्राग्ज्ञानोत्पत्तेः ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन् वर्तमानशरीरारम्भकपाप्मवर्जम्; लक्ष्यं प्रति मुक्तेषुवत् प्रवृत्तफलत्वात् तस्य न दाहः। य एतदेवं विद्वान् अग्निहोत्रं जुहोति भुङ्क्ते॥
स यद्यपि चण्डालाय उच्छिष्टानर्हाय उच्छिष्टं दद्यात् प्रतिषिद्धमुच्छिष्टदानं यद्यपि कुर्यात्, आत्मनि हैव अस्य चण्डालदेहस्थे वैश्वानरे तद्धुतं स्यात् न अधर्मनिमित्तम् –इति विद्यामेव स्तौति। तदेतस्मिन्स्तुत्यर्थे श्लोकः मन्त्रोऽप्येष भवति॥
यथा इह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते – कदा नो माता अन्नं प्रयच्छतीति, एवं सर्वाणि भूतान्यन्नादानि एवंविदः अग्निहोत्रं भोजनमुपासते – कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः। द्विरुक्तिरध्यायपरिसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

्वेतकेतुः ह आरुणेय आस इत्याद्यध्यायसम्बन्धः – ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्युक्तम्, कथं तस्मात् जगदिदं जायते तस्मिन्नेव च लीयते अनिति च तेनैव इत्येतद्वक्तव्यम्। अनन्तरं च एकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तम्, तत् एकत्वे सति आत्मनः सर्वभूतस्थस्य उपपद्यते, न आत्मभेदे; कथं च तदेकत्वमिति तदर्थोऽयं षष्ठोऽध्याय आरभ्यते –

Go to Top ('Home' key on many Windows browsers)

ChanU.6.01

पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था। श्वेतकेतुरिति नामतः, ह इत्यैतिह्यार्थः, आरुणेयः अरुणस्य पौत्रः आस बभूव। तं पुत्रं ह आरुणिः पिता योग्यं विद्याभाजनं मन्वानः तस्योपनयनकालात्ययं च पश्यन् उवाच – हे श्वेतकेतो अनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम्; न च एतद्युक्तं यदस्मत्कुलीनो हे सोम्य अननूच्य अनधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति। तस्य अतः प्रवासो अनुमीयते पितुः,. येन स्वयं गुणवान्सन् पुत्रं नोपनेष्यति॥
सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षः सन् उपेत्य आचार्यं यावच्चतुर्विंशतिवर्षो बभूव, तावत् सर्वान्वेदान् चतुरोऽप्यधीत्य तदर्थं च बुद्ध्वा महामनाः महत् गम्भीरं मनः यस्य असममात्मानमन्यैर्मन्यमानं मनः यस्य सोऽयं महामनाः अनूचानमानी अनूचानमात्मानं मन्यत इति एवंशीलो यः सोऽनूचानमानी स्तब्धः अप्रणतस्वभावः एयाय गृहम्। तम् एवंभूतं ह आत्मनोऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया॥
श्वेतकेतो यन्नु इदं महामनाः अनूचानमानी स्तब्धश्चासि, कस्तेऽतिशयः प्राप्तः उपाध्यायात्, उत अपि तमादेशं आदिश्यत इत्यादेशः केवलशास्त्राचर्योपदेशगम्यमित्येतत्, येन वा परं ब्रह्म आदिश्यते स आदेशः तमप्राक्ष्यः पृष्टवानस्याचार्यम्? तमादेशं विशिनष्टि – येन आदेशेन श्रुतेन अश्रुतमपि अन्यच्छ्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं अनिश्चितं निश्चितं भवतीति। सर्वानपि वेदानधीत्य सर्वं च अन्यद्वेद्यमधिगम्यापि अकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते। तदेतदद्भुतं श्रुत्वा आह, कथं नु एतदप्रसिद्धम् अन्यविज्ञानेनान्यद्विज्ञातं भवतीति; एवं मन्वानः पृच्छति – कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति॥
यथा स आदेशो भवति तच्छृणु हे सोम्य – यथा लोके एकेन मृत्पिण्डेन रुचककुम्भादिकारणभूतेन विज्ञातेन सर्वमन्यत्तद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात्। कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात्? नैष दोषः, कारणेनानन्यत्वात्कार्यस्य। यन्मन्यसे अन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति – सत्यमेवं स्यात्, यद्यन्यत्कारणात्कार्यं स्यात्, न त्वेवमन्यत्कारणात्कार्यम्। कथं तर्हीदं लोके – इदं कारणमयमस्य विकार इति? शृणु। वाचारम्भणं वागारम्भणं वागालम्बनमित्येतत्। कोऽसौ? विकारो नामधेयं नामैव नामधेयम्, स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति॥
यथा सोम्य एकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात्। वाचारम्भणमित्यादि समानम्॥
यथा सोम्य एकेन नखनिकृन्तनेनोपलक्षितेन कृष्णायसपिण्डेनेत्यर्थः; सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात्। समानमन्यत्। अनेकदृष्टान्तोपादानं दार्ष्टान्तिकानेकभेदानुगमार्थम्, दृढप्रतीत्यर्थं च। एवं सोम्य स आदेशः, यः मयोक्तः भवति। इत्युक्तवति पितरि, आह इतरः –
न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये, ते एतत् यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम्। यत् यदि हि अवेदिष्यन् विदितवन्तः एतद्वस्तु, कथं मे गुणवते भक्तायानुगताय नावक्ष्यन् नोक्तवन्तः, तेनाहं मन्ये – न विदितवन्त इति। अवाच्यमपि गुरोर्न्यग्भावमवादीत् पुनर्गुरुकुलं प्रति प्रेषणभयात्। अतो भगवांस्त्वेव मे मह्यं तद्वस्तु, येन सर्वज्ञत्वं ज्ञातेन मे स्यात्, तद्ब्रवीतु कथयतु; इत्युक्तः पितोवाच – तथास्तु सोम्येति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.02

सदेव सदिति अस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरवयवं विज्ञानम्, यदवगम्यते सर्ववेदान्तेभ्यः। एव – शब्दः अवधारणार्थः। किं तदवध्रियत इति, आह – इदं जगत्, नामरूपक्रियावद्विकृतमुपलभ्यते यत्, तत्सदेवासीत् इति आसीच्छब्देन सम्बध्यते। कदा सदेवेदमासीदिति, उच्यते – अग्रे जगतः प्रागुत्पत्तेः। किं नेदानीमिदं सत्, येन अग्रे आसीदिति विशेष्यते? न। कथं तर्हि विशेषणम्? इदानीमपीदं सदेव, किंतु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं च इतीदं च भवति। प्रागुत्पत्तेस्तु अग्रे केवलसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्यते। न हि प्रागुत्पत्तेः नामवद्रूपवद्वा इदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाले इव। यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति, तथा प्रागुत्पत्तेरित्यभिप्रायः। यथा इदमुच्यते लोके – पूर्वाह्णे धटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतः अपराह्णे तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्न आसीदिति, तथा इहाप्युच्यते – सदेवेदमग्र आसीदिति। एकमेवेति। स्वकार्यपतितमन्यन्नास्तीति एकमेवेत्युच्यते। अद्वितीयमिति। मृद्व्यतिरेकेण मृदः यथा अन्यद्घटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टम्, तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते – अद्वितीयमिति, नास्य द्वितीयं वस्त्वन्तरं विद्यते इत्यद्वितीयम्। ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्वस्योपपद्यते, द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः – सद्द्रव्यं सन्गुणः सन्कर्मेत्यादिदर्शनात्। सत्यमेवं स्यादिदानीम्; प्रागुत्पत्तेस्तु नैवेदं कार्यं सदेवासीदित्यभ्युपगम्यते वैशेषिकैः, प्रागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात्। न च एकमेव सदद्वितीयं प्रागुत्पत्तेरिच्छन्ति। तस्माद्वैशेषिकपरिकल्पितात्सतः अन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः। तत् तत्र ह एतस्मिन्प्रागुत्पत्तेर्वस्तुनिरूपणे एके वैनाशिका आहुः वस्तु निरूपयन्तः – असत् सदभावमात्रं प्रागुत्पत्तेः इदं जगत् एकमेव अग्रे अद्वितीयमासीदिति। सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः। न तु सत्प्रतिद्वन्द्वि वस्त्वन्तरमिच्छन्ति। यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नैयायिकाः। ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः, कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीयं चेति कालसम्बन्धः सङ्‍ख्यासम्वन्धोऽद्वितीयत्वं च उच्यते तैः। बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम्। असत्त्वमात्राभ्युपगमोऽप्ययुक्त एव, अभ्युपगन्तुरनभ्युपगमानुपपत्तेः। इदानीमभ्युपगन्ता अभ्युपगम्यते न प्रागुत्पत्तेरिति चेत्, न, प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात्। प्रागुत्पत्ते रसदेवेति कल्पनानुपपत्तिः। ननु कथं वस्त्वाकृतेः शब्दार्थत्वे असदेकमेवाद्वितीयमिति पदार्थवाक्यार्थोपपत्तिः, तदनुपपत्तौ च इदं वाक्यमप्रमाणं प्रसज्येतेति चेत्, नैष दोषः, सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य। सदित्ययं तावच्छब्दः सदाकृतिवाचकः। एकमेवाद्वितीयमित्येतौ च सच्छब्देन समानाधिकरणौ; तथेदमासीदिति च। तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वितीयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्तयति, अश्वारूढ इव अश्वालम्बनः अश्वं तदभिमुखविषयान्निवर्तयति – तद्वत्। न तु पुनः सदभावमेव अबिधत्ते। अतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरम् इदमसदेवेत्यादि वाक्यं प्रयुज्यते। दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्त्वात् असदादिवाक्यस्य श्रौतत्वं प्रामाण्यं च सिद्धमित्यदोषः। तस्मात् असतः सर्वाभावरूपात् सत् विद्यमानम् जायत समुत्पन्नम् अडभावः छान्दसः॥
तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति – कुतस्तु प्रमाणात्खलु हे सोम्य एवं स्यात् असतः सज्जायेत इत्येवं कुतो भवेत्? न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः। यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टः अभावादेवेति, तदप्यभ्युपगमविरुद्धं तेषाम्। कथम्? ये तावद्बीजावयवाः बीजसंस्थानविशिष्टाः तेऽङ्कुरेऽप्यनुवर्तन्त एव, न तेषामुपमर्दोऽङ्कुरजन्मनि। यत्पुनर्बीजाकारसंस्थानम्, तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते, यदङ्कुरजन्मन्युपमृद्येत। अथ तदस्ति अवयवव्यतिरिक्तं वस्तुभूतम्, तथा च सति अभ्युपगमविरोधः। अथ संवृत्या अभ्युपगतं बीजसंस्थानरूपमुपमृद्यत इति चेत्, केयं संवृतिर्नाम – किमसावभावः, उत भावः इति? यद्यभावः, दृष्टान्ताभावः। अथ भावः, तथापि नाभावादङ्कुरोत्पत्तिः, बीजावयवेभ्यो हि अङ्कुरोत्पत्तिः। अवयवा अप्युपमृद्यन्त इति चेत्, न, तदवयवेषु तुल्यत्वात्। यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति, तथा अवयवा अपीति तेषामप्युपमर्दानुपपत्तिः। बीजावयवानामपि सूक्ष्मावयवाः तदवयवानामप्यन्ये सूक्ष्मतरावयवाः इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः। सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति। न तु असद्वादिनां दृष्टान्तोऽस्ति असतः सदुत्पत्तेः। मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनाम्, तद्भावे भावात्तदभावे चाभावात्। यद्यभावादेव घट उत्पद्येत, घटार्थिना मृत्पिण्डो नोपादीयेत, अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत; न त्वेतदस्ति; अतः नासतः सदुत्पत्तिः। यदप्याहुः मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते, न तु परमार्थत एव मृद्घटो वा अस्तीति, तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः। मृद्घटबुद्ध्योः निमित्तनैमित्तिकतया आनन्तर्यमात्रम्, न तु कार्यकारणत्वमिति चेत्, न, बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात्। अतः कुतस्तु खलु सोम्य एवं स्यात् इति ह उवाच – कथं केन प्रकारेण असतः सज्जायेत इति; असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः। एवमसद्वादिपक्षमुन्मथ्य उपसंहरति – सत्त्वेव सोम्येदमग्र आसीदिति स्वपक्षसिद्धिम्। ननु सद्वादिनोऽपि सतः सदुत्पद्यते इति नैव दृष्टान्तोऽस्ति, घटाद्घटान्तरोत्पत्त्यदर्शनात्। सत्यमेवं न सतः सदन्तरमुत्पद्यते; किं तर्हि, सदेव संस्थानान्तरेणावतिष्ठते – यथा सर्पः कुण्डली भवति, यथा च मृत् चूर्णपिण्डघटकपालादिप्रभेदैः। यद्येवं सदेव सर्वप्रकारावस्थम्, कथं प्रागुत्पत्तेरिदमासीदित्युच्यते? ननु न श्रुतं त्वया, सदेवेत्यवधारणम् इदं – शब्दवाच्यस्य कार्यस्य। प्राप्तं तर्हि प्रागुत्पत्तेः असदेवासीत् न इदं – शब्दवाच्यम्, इदानीमिदं जातमिति। न, सत एव इदं – शब्दबुद्धिविषयतया अवस्थानात्, यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेनावतिष्ठते – तद्वत्। ननु यथा मृद्वस्तु एवं पिण्डघटाद्यपि, तद्वत् सद्बुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य सतोऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथा अश्वाद्गौः। न, पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाव्यभिचारात्। यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटम्, तथापि पिण्डघटौ मृत्त्वं न व्यभिचरतः तस्मान्मृन्मात्रं पिण्डघटौ। व्यभिचरति त्वश्वं गौः अश्वो वा गाम्। तस्मान्मृदादिसंस्थानमात्रं घटादयः। एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः सदेवेति, वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य। ननु निरवयवं सत्, ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं’ (श्वे. उ. ६-१९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २-१-२) इत्यादिश्रुतिभ्यः; निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते? नैष दोषः, रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवत् बुद्धिपरिकल्पितेभ्यः सदवयवेभ्यः विकारसंस्थानोपपत्तेः। ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६-१-४) एवं सदेव सत्यम् – इति श्रुतेः। एकमेवाद्वितीयं परमार्थतः इदंबुद्धिकालेऽपि॥
तत् सत् ऐक्षत ईक्षां दर्शनं कृतवत्। अतश्च न प्रधानं सांख्यपरिकल्पितं जगत्कारणम्, प्रधानस्याचेतनत्वाभ्युपगमात्। इदं तु सत् चेतनम्, ईक्षितृत्वात्। तत्कथमैक्षतेति, आह – बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्पद्येय, यथा मृद्घटाद्याकारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन। असदेव तर्हि सर्वम्, यद्गृह्यते रज्जुरिव सर्पाद्याकारेण। न, सत एव द्वैतभेदेन अन्यथागृह्यमाणत्वात् न असत्त्वं कस्यचित्क्वचिदिति ब्रूमः। यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वम् असत्त्वं ब्रुवते तार्किकाः, न तथा अस्माभिः कदाचित्क्वचिदपि सतोऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते। सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या, यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके। रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी, तद्वत् सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते – ‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह’ (तै. उ. २-९-१) इति, ‘अनिरुक्तेऽनिलयने’ (तै. उ. २-७-१) इत्यादिश्रुतिभ्यः। एवमीक्षित्वा तत् तेजः असृजत तेजः सृष्टवत्। ननु ‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः’ (तै. उ. २-१-१) इति श्रुत्यन्तरे आकाशाद्वायुः ततस्तृतीयं तेजः श्रुतम्, इह कथं प्राथम्येन तस्मादेव तेजः सृज्यते तत एव च आकाशमिति विरुद्धम्? नैष दोषः, आकाशवायुसर्गानन्तरं तत्सत् तेजोऽसृजतेति कल्पनोपपत्तेः। अथवा अविवक्षितः इह सृष्टिक्रमः; सत्कार्यमिदं सर्वम्, अतः सदेकमेवाद्वितीयमित्येतद्विवक्षितम्, मृदादिदृष्टान्तात्। अथवा त्रिवृत्करणस्य विवक्षितत्वात् तेजोबन्नानामेव सृष्टिमाचष्टे। तेज इति प्रसिद्धं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति। तत् सत्सृष्टं तेजः ऐक्षत तेजोरूपसंस्थितं सत् ऐक्षतेत्यर्थः। बहु स्यां प्रजायेयेति पूर्ववत्। तत् अपोऽसृजत आपः द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके। यस्मात्तेजसः कार्यभूता आपः, तस्माद्यत्र क्वच देशे काले वा शोचति संतप्यते स्वेदते प्रस्विद्यते वा पुरुषः तेजस एव तत् तदा आपः अधिजायन्ते॥
ता आप ऐक्षन्त पूर्ववदेव अबाकारसंस्थितं सदैक्षतेत्यर्थः। बह्वयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहीति। ता अन्नमसृजन्त पृथिवीलक्षणम्। पार्थिवं हि अन्नम्; यस्मादप्कार्यमन्नम्, तस्मात् यत्र क्व च वर्षति देशे तत् तत्रैव भूयिष्ठं प्रभूतमन्नं भवति। अतः अद्भ्य एव तदन्नाद्यमधिजायते। ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वम्, इह तु दृष्टान्ते अन्नं च तदाद्यं चेति विशेषणात् व्रीहियवाद्या उच्यन्ते। अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम्।
ननु तेजःप्रभृतिषु ईक्षणं न गम्यते, हिंसादिप्रतिषेधाभावात् त्रासादिकार्यानुपलम्भाच्च; तत्र कथं तत्तेज ऐक्षतेत्यादि? नैष दोषः। ईक्षितृकारणपरिणामत्वात्तेजःप्रभृतीनां सत एव ईक्षितुः नियतक्रमविशिष्टकार्योत्पादकत्वाच्च तेजःप्रभृति ईक्षते इव ईक्षते इत्युच्यते भूतम्। ननु सतोऽप्युपचरितमेव ईक्षितृत्वम्। न। सदीक्षणस्य केवलशब्दगम्यत्वात् न शक्यमुपचरितं कल्पयितुम्। तेजःप्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम्। ननु सतोऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यमनुमातुम्। अतः प्रधानस्यैवाचेतनस्य सतश्चेतनार्थत्वात् नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्च ऐक्षत इव ऐक्षतेति शक्यमनुमातुम् उपचरितमेव ईक्षणम्। दृष्टश्च लोके अचेतने चेतनवदुपचारः, यथा कूलं पिपतिषतीति तद्वत् सतोऽपि स्यात्। न, ‘तत्सत्यं स आत्मा’ (छा. उ. ६-१४-३) इति तस्मिन्नात्मोपदेशात्। आत्मोपदेशोऽप्युपचरित इति चेत्– यथा ममात्मा भद्रसेन इति सर्वार्थकारिण्यनात्मनि आत्मोपचारः – तद्वत्; न, सदस्मीति सत्सत्याभिसंधस्य ‘तस्य तावदेव चिरम्’ (छा. उ. ६-१४-२) इति मोक्षोपदेशात्। सोऽप्युपचार इति चेत्– प्रधानात्माभिसंधस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशोऽप्युपचरित एव, यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूयात्त्वगपेक्षया – तद्वत्; न, येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युपक्रमात्। सति एकस्मिन्विज्ञाते सर्वं विज्ञातं भवति, तदनन्यत्वात् सर्वस्याद्वितीयवचनाच्च। न च अन्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्या अनुमेयं वा लिङ्गतः अस्ति, येन मोक्षोपदेश उपचरितः स्यात्। सर्वस्य च प्रपाठकार्थस्य उपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात्, पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधिगतत्वात्तस्य। तस्माद्वेदप्रामाण्यात् न युक्तः श्रुतार्थपरित्यागः। अतः चेतनावत्कारणं जगत इति सिद्धम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.03

तेषां जीवाविष्टानां खलु एषां पक्ष्यादीनां भूतानाम्, एषामिति प्रत्यक्षनिर्देशात्, न तु तेजःप्रभृतीनाम्, तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वात्; असति त्रिवृत्करणे प्रत्यक्षनिर्देशानुपपत्तिः। देवताशब्दप्रयोगाच्च तेजःप्रभृतिषु – ‘इमास्तिस्रो देवताः’ इति। तस्मात् तेषां खल्वेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति। कानि तानीति, उच्यन्ते – आण्डजम् अण्डाज्जातमण्डजम् अण्डजमेव आण्डजं पक्ष्यादि। पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते। तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां बीजं तथा अन्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः। ननु अण्डाज्जातम् अण्डजमुच्यते, अतोऽण्डमेव बीजमिति युक्तम्; कथमण्डजं बीजमुच्यते? सत्यमेवं स्यात्, यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्; स्वतन्त्रा तु श्रुतिः, यत आह अण्डजाद्येव बीजं न अण्डादीति। दृश्यते च अण्डजाद्यभावे तज्जातीयसंतत्यभावः, न अण्डाद्यभावे। अतः अण्डजादीन्येव बीजानि अण्डजादीनाम्। तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि। उद्भिज्जम् उद्भिनत्तीत्युद्भित् स्थावरं ततो जातमुद्भिज्जम्, धाना वा उद्भित् ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः। स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासम्भवमन्तर्भावः। एवं हि अवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति॥
सेयं प्रकृता सदाख्या तेजोबन्नयोनिः देवता उक्ता ऐक्षत ईक्षितवती यथापूर्वं बहु स्यामिति। तदेव बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तम् इत्यतः ईक्षां पुनः कृतवती बहुभवनमेव प्रयोजनमुररीकृत्य। कथम्? हन्त इदानीमहमिमाः यथोक्ताः तेजआद्याः तिस्रो देवताः अनेन जीवेनेति स्वबुद्धिस्थं पूर्वसृष्ट्यनुभूतप्राणधारणम् आत्मानमेव स्मरन्ती आह– अनेन जीवेन आत्मनेति। प्राणधारणकर्त्रा आत्मनेति वचनात् स्वात्मनोऽव्यतिरिक्तेन चैतन्यस्वरूपतया अविशिष्टेनेत्येतद्दर्शयति। अनुप्रविश्य तेजोबन्नभूतमात्रासंसर्गेण लब्धविशेषविज्ञाना सती नाम च रूपं च नामरूपे व्याकरवाणि विस्पष्टमाकरवाणि, असौनामायम् इदंरूप इति व्याकुर्यामित्यर्थः।
ननु न युक्तमिदम् – असंसारिण्याः सर्वज्ञायाः देवतायाः बुद्धिपूर्वकमनेकशतसहस्रानर्थाश्रयं देहमनुप्रविश्य दुःखमनुभविष्यामीति संकल्पनम्, अनुप्रवेशश्च स्वातन्त्र्ये सति। सत्यमेवं न युक्तं स्यात् – यदि स्वेनैवाविकृतेन रूपेणानुप्रविशेयं दुःखमनुभवेयमिति च सङ्कल्पितवती; न त्वेवम्। कथं तर्हि? अनेन जीवेन आत्मना अनुप्रविश्य इति वचनात्। जीवो हि नाम देवताया आभासमात्रम्, बुद्ध्यादि भूतमात्रासंसर्गजनितः – आदर्शे इव प्रविष्टः पुरुषप्रतिबिम्बः, जलादिष्विव च सूर्यादीनाम्। अचिन्त्यानन्तशक्तिमत्या देवतायाः बुद्ध्यादिसम्बन्धः चैतन्याभासः देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्पप्रत्ययहेतुः। छायामात्रेण जीवरूपेणानुप्रविष्टत्वात् देवता न दैहिकैः स्वतः सुखदुःखादिभिः सम्बध्यते – यथा पुरुषादित्यादयः आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टाः आदर्शोदकादिदोषैर्न सम्बध्यन्ते – तद्वद्देवतापि। ‘सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. १-३-१) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०-६-३-२) इति हि काठके; ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४-३-७) इति च वाजसनेयके। ननु च्छायामात्रश्चेज्जीवः मृषैव प्राप्तः, तथा परलोकेहलोकादि च तस्य। नैष दोषः, सदात्मना सत्यत्वाभ्युपगमात्। सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातम्, स्वतस्त्वनृतमेव, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६-१-४) इत्युक्तत्वात्। तथा जीवोऽपीति। यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः। अतः सदात्मना सर्वव्यवहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे च अनृतत्वमिति न कश्चिद्दोषः तार्किकैरिहानुवक्तुं शक्यः, यथा इतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम्॥
सैवं तिस्रो देवताः अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीति ईक्षित्वा तासां च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि – एकैकस्यास्त्रिवृत्करणे एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावः; अन्यथा हि रज्ज्वा इव एकमेव त्रिवृत्करणं स्यात्, न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति। एवं हि तेजोबन्नानां पृथङ्नामप्रत्ययलाभः स्यात् – तेज इदम् इमा आपः अन्नमिदम् इति च। सति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात्। एवमीक्षित्वा सेयं देवता इमास्तिस्रो देवताः अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुप्रविश्य यथासंकल्पमेव नामरूपे व्याकरोत् – असौनामा अयम् इदंरूप इति॥
तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतम् एकैकामकरोत् कृतवती देवता। तिष्ठतु तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वम्, यथा तु बहिरिमाः पिण्डेभ्यस्तिस्रो देवतात्त्रिवृदेकैका भवति तन्मे मम निगदतः विजानीहि विस्पष्टम् अवधारय उदाहरणतः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.04

यत्तद्देवतानां त्रिवृत्करणमुक्तम् तस्यैवोदाहरणमुच्यते – उदाहरणं नाम एकदेशप्रसिद्ध्या अशेषप्रसिद्ध्यर्थमुदाह्रियत इति। तदेतदाह – यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके, तत् अत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि। तथा यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम्; यत्कृष्णं तस्यैवाग्नेः रूपम् तदन्नस्य पृथिव्याः अत्रिवृत्कृतायाः इति विद्धि। तत्रैवं सति रूपत्रयव्यतिरेकेण अग्निरिति यन्मन्यसे त्वम्, तस्याग्नेरग्नित्वमिदानीम् अपागात् अपगतम्। प्राग्रूपत्रयविवेकविज्ञानात् या अग्निबुद्धिरासीत् ते, सा अग्निबुद्धिरपगता अग्निशब्दश्चेत्यर्थः – यथा दृश्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागोऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञानात्, तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेकविज्ञातुः – तद्वत्। ननु किमत्र बुद्धिशब्दकल्पनया क्रियते, प्राग्रूपत्रयविवेककरणादग्निरेवासीत्, तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तम् – यथा तन्त्वपकर्षणे पटाभावः। नैवम्, बुद्धिशब्दमात्रमेव हि अग्निः; यत आह वाचारम्भणमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थः। अतः अग्निबुद्धिरपि मृषैव। किं तर्हि तत्र सत्यम्? त्रीणि रूपाणीत्येव सत्यम्, नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः॥
तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम्। ननु ‘यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहि’ (छा. उ. ६-४-४) इत्युक्त्वा तेजस एव चतुर्भिरप्युदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम्, न अबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे। नैष दोषः अबन्नविषयाण्यप्युदाहरणानि एवमेव च द्रष्टव्यानीति मन्यते श्रुतिः। तेजस उदाहरणमुपलक्षणार्थम्, रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च। गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात्। न हि गन्धरसौ तेजसि स्तः। स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात्। यदि सर्वं जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम्, अग्नेरग्नित्ववत् अपागाज्जगतो जगत्त्वम्। तथा अन्नस्याप्यप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्भणमात्रमन्नम्। तथा अपामपि तेजःशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम्। तेजसोऽपिसच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः। ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजःप्रभृतिष्वनन्तर्भूतत्वात् अवशिष्येते, एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यदविज्ञातं विज्ञातं भवेत्? तद्विज्ञाने वा प्रकारान्तरं वाच्यम्; नैष दोषः, रूपवद्द्रव्ये सर्वस्य दर्शनात्। कथम्? तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युपलम्भात् वाय्वन्तरिक्षयोः तत्र स्पर्शशब्दगुणवतोः सद्भावो अनुमीयते। तथा अबन्नयोः रूपवतो रसगन्धान्तर्भाव इति। रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः। न हि मूर्तं रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोः तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति। अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः। यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यम्, तथा पञ्चीकरणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदेकमेवाद्वितीयं सत्यमिति सिद्धमेव भवति। तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम्॥
एतत् विद्वांसः विदितवन्तः पूर्वे अतिक्रान्ताः महाशालाः महाश्रोत्रियाः आहुः ह स्म वै किल। किमुक्तवन्त इति, आह – न नः अस्माकं कुले अद्य इदानीं यथोक्तविज्ञानवतां कश्चन कश्चिदपि अश्रुतममतमविज्ञातम् उदाहरिष्यति नोदाहरिष्यति, सर्वं विज्ञातमेव अस्मत्कुलीनानां सद्विज्ञानवत्त्वात् इत्यभिप्रायः। ते पुनः कथं सर्वं विज्ञातवन्त इति, आह – एभ्यः त्रिभ्यः रोहितादिरूपेभ्यः त्रिवृत्कृतेभ्यः विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदांचक्रुः विज्ञातवन्तः यस्मात्, तस्मात्सर्वज्ञा एव सद्विज्ञानात् ते आसुरित्यर्थः। अथवा एभ्यो विदांचक्रुरिति अग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदांचक्रुरित्येतत्॥
कथम्? यदन्यद्रूपेण संदिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत् तेषां पूर्वेषां ब्रह्मविदाम्, तत्तेजसो रूपमिति विदांचक्रुः। तथा यच्छुक्लमिवाभूद्गृह्यमाणं तदपां रूपम्, यत्कृष्णमिव। गृह्यमाणं तदन्नस्येति विदांचक्रुः। एवमेवात्यन्तदुर्लक्ष्यं यत् उ अपि अविज्ञातमिव विशेषतो अगृह्यमाणमभूत् तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदांचक्रुः। एवं तावद्बाह्यं वस्त्वग्न्यादिवद्विज्ञातम्, तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तास्तिस्रो देवताः पुरुषं शिरःपाण्यादिलक्षणं कार्यकारणसंघातं प्राप्य पुरुषेणोपयुज्यमानाः त्रिवृत्त्रिवृदेकैका भवति, तत् आध्यात्मिकं विजानीहि निगदतः इत्युक्त्वा आह॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.05

अन्नम् अशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते। कथम्? तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूलांशः, तत्पुरीषं भवति; यो मध्यमांशः धातुरन्नस्य, तद्रसादिक्रमेण परिणम्य मांसं भवति; यः अणिष्ठः अणुतमो धातुः, स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीषु अनुप्रविश्य वागादिकरणसंघातस्य स्थितिमुत्पादयन् मनो भवति। मनोरूपेण विपरिणमन् मनस उपचयं करोति। ततश्च अन्नोपचितत्वात् मनसः भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्यते। यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया; किं तर्हि, सूक्ष्मव्यवहितविप्रकृष्टादिसर्वेन्द्रियविषयव्यापारकत्वापेक्षया। यच्चान्येन्द्रियविषयापेक्षया नित्यत्वम्, तदप्यापेक्षिकमेवेति वक्ष्यामः, ‘सत् . . . एकमेवाद्वितीयम्’ इति श्रुतेः॥
तथा आपः पीताः त्रेधा विधीयन्ते। तासां यः स्थविष्ठो धातुः, तन्मूत्रं भवति, यो मध्यमः, तल्लोहितं भवति; योऽणिष्ठः, स प्राणो भवति। वक्ष्यति हि – ‘आपोमयः प्राणो नपिबतो विच्छेत्स्यते’ (छा. उ. ६-७-१) इति॥
तथा तेजः अशितं तैलघृतादि भक्षितं त्रेधा विधीयते। तस्य यः स्थविष्ठो धातुः तदस्थि भवति; यो मध्यमः, स मज्जा अस्थ्यन्तर्गतः स्नेहः; योऽणिष्ठः सा वाक्। तैलघृतादिभक्षणाद्धि वाग्विशदा भाषणे समर्था भवतीति प्रसिद्धं लोके॥
यत एवम्, अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक्। ननु केवलान्नभक्षिण आखुप्रभृतयो वाग्मिनः प्राणवन्तश्च, तथा अब्मात्रभक्ष्याः सामुद्रा मीनमकरप्रभृतयो मनस्विनो वाग्मिनश्च, तथा स्नेहपानामपि प्राणवत्त्वं मनस्वित्वं च अनुमेयम्; यदि सन्ति, तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते? नैष दोषः, सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तेः। न हि अत्रिवृत्कृतमन्नमश्नाति कश्चित्, आपो वा अत्रिवृत्कृताः पीयन्ते, तेजो वा अत्रिवृत्कृतमश्नाति कश्चित् इत्यन्नादानामाखुप्रभृतीनां वाग्मित्वं प्राणवत्त्वं च इत्याद्यविरुद्धम्। इत्येवं प्रत्यायितः श्वेतकेतुराह – भूय एव पुनरेव मा मां भगवान् अन्नमयं हि सोम्य मन इत्यादि विज्ञापयतु दृष्टान्तेनावगमयतु, नाद्यापि मम अस्मिन्नर्थे सम्यङ्निश्चयो जातः। यस्मात्तेजोबन्नमयत्वेनाविशिष्टे देहे एकस्मिन्नुपयुज्यमानान्यन्नाप्स्नेहजातानि अणिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिक्रमेणेति दुर्विज्ञेयमित्यभिप्रायः; अतो भूय एवेत्याद्याह। तमेवमुक्तवन्तं तथास्तु सोम्येति ह उवाच पिता शृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.06

यथा अयं दृष्ठान्तः, एवमेव खलु सोम्य अन्नस्य ओदनादेः अश्यमानस्य भुज्यमानस्य औदर्येणाग्निना वायुसहितेन खजेनेव मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति; तन्मनो भवति, मनोवयवैः सह संभूय मन उपचिनोतीत्येतत्॥
तथा अपां सोम्य पीयमानानां यो अणिमा, स ऊर्ध्वः समुदीषति, स प्राणो भवतीति॥
एवमेव खलु सोम्य तेजसोऽश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति॥
अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् इति युक्तमेव मयोक्तमित्यभिप्रायः। अतः अप्तेजसोरस्त्वेतत्सर्वमेवम्। मनस्त्वन्नमयमित्यत्र नैकान्तेन मम निश्चयो जातः। अतः भूय एव मा भगवान् मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति। तथा सोम्येति ह उवाच पिता॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.07

अन्नस्य भुक्तस्य यो अणिष्ठो धातुः, स मनसि शक्तिमधात्। सा अन्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता। तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तः तद्वन्कार्यकारणसंघातलक्षणो जीवविशिष्टः पुरुषः षोडशकल उच्यते; यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति; हीयमानायां च यस्यां सामर्थ्यहानिः। वक्ष्यति च ‘अथान्नस्यायी द्रष्टा’ (छा. उ. ७-९-१) इत्यादि। सर्वस्य कार्यकारणस्य सामर्थ्यं मनःकृतमेव। मानसेन हि बलेन संपन्ना बलिनो दृश्यन्ते लोके ध्यानाहाराश्च केचित्, अन्नस्य सर्वात्मकत्वात्। अतः अन्नकृतं मानसं वीर्यम् षोडश कलाः यस्य पुरुषस्य सोऽयं षोडशकलः पुरुषः। एतच्चेत्प्रत्यक्षीकर्तुमिच्छसि, पञ्चदशसंख्याकान्यहानि माशीः अशनं माकार्षीः, कामम् इच्छातः अपः पिब, यस्मात् नपिबतः अपः ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते, यस्मादापोमयः अब्विकारः प्राण इत्यवोचाम। न हि कार्यं स्वकारणोपष्टम्भमन्तरेण अविभ्रंशमानं स्थातुमुत्सहते॥
स ह एवं श्रुत्वा मनसः अन्नमयत्वं प्रत्यक्षीकर्तुमिच्छन् पञ्चदशाहानि न आश अशनं न कृतवान्। अथ षोडशेऽहनि ह एवं पितरमुपससाद उपगतवान् उपगम्य च उवाच – किं ब्रवीमि भो इति। इतर आह – ऋचः सोम्य यजूंषि सामान्यधीष्वेति। एवमुक्तः पित्रा आह – न वै मा माम् ऋगादीनि प्रतिभान्ति मम मनसि न दृश्यन्त इत्यर्थः हे भो भगवन्निति॥
एवमुक्तवन्तं पिता आह – शृणु तत्र कारणम्, येन ते तानि ऋगादीनि न प्रतिभान्तीति; तं ह उवाच – यथा लोके हे सोम्य महतः महत्परिमाणस्य अभ्याहितस्य उपचितस्य इन्धनैः अग्नेः एकोऽङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टः अवशिष्टः स्यात् भवेत्, तेनाङ्गारेण ततोऽपि तत्परिमाणात् ईषदपि न बहु दहेत्, एवमेव खलु सोम्य ते तव अन्नोपचितानां षोडशानां कलानामेका कला अवयवः अतिशिष्टा अवशिष्टा स्यात्, तया त्वं खद्योतमात्राङ्गारतुल्यया एतर्हि इदानीं वेदान् नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचम् अथ अशेषं विज्ञास्यसि अशान भुङ्क्ष्व तावत्॥
स ह तथैव आश भुक्तवान्। अथ अनन्तरं ह एवं पितरं शुश्रूषुः उपससाद। तं ह उपगतं पुत्रं यत्किंच ऋगादिषु पप्रच्छ ग्रन्थरूपमर्थजातं वा पिता। स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे ऋगाद्यर्थतो ग्रन्थतश्च॥
तं ह उवाच पुनः पिता – यथा सोम्य महतः अभ्याहितस्येत्यादि समानम्, एकमङ्गारं शान्तस्याग्नेः खद्योतमात्रं परिशिष्टं तं तृणैश्चूर्णैश्च उपसमाधाय प्राज्वलयेत् वर्धयेत्। तेनेद्धेन अङ्गारेण ततोऽपि पूर्वपरिमाणात् बहु दहेत्॥
एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणाम् एका कला अतिशिष्टा अभूत् अतिशिष्टा आसीत्, पञ्चदशाहान्यभुक्तवतः एकैकेनाह्ना एकैका कला चन्द्रमस इव अपरपक्षे क्षीणा, सा अतिशिष्टा कला तव अन्नेन भुक्तेनोपसमाहिता वर्धिता उपचिता प्राज्वाली, दैर्घ्यं छान्दसम्, प्रज्वलिता वर्धितेत्यर्थः। प्राज्वालिदिति पाठान्तरम्, तदा तेनोपसमाहिता स्वयं प्रज्वलितवतीत्यर्थः। तया वर्धितया एतर्हि इदानीं वेदाननुभवसि उपलभसे। एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमिति उपसंहरति – अन्नमयं हि सोम्य मन इत्यादि। यथा एतन्मनसोऽन्नमयत्वं तव सिद्धम्, तथा आपोमयः प्राणः तेजोमयी वाक् इत्येतदपि सिद्धमेवेत्यभिप्रायः। तदेतद्ध अस्य पितुरुक्तं मनआदीनामन्नादिमयत्वं विजज्ञौ विज्ञातवान् श्वेतकेतुः। द्विरभ्यासः त्रिवृत्करणप्रकरणसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.08

यस्मिन्मनसि जीवेनात्मनानुप्रविष्टा परा देवता – आदर्शे इव पुरुषः प्रतिबिम्बेन जलादिष्विव च सूर्यादयः प्रतिबिम्बैः, तन्मनः अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां संगतमधिगतम्। यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यवहाराय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते। तदुक्तं श्रुत्यन्तरे – ‘ध्यायतीव लेलायतीव’ ‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’ (बृ. मा. ४-१-७) ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’ (बृ. उ. ४-४-५), (बृ. मा. ४-२-६) इत्यादि, ‘स्वप्नेन शारीरम्’ (बृ. उ. ४-३-११) इत्यादि, ‘प्राणन्नेव प्राणो नाम भवति’ (बृ. उ. १-४-७) इत्यादि च। तस्यास्य मनस्थस्य मनआख्यां गतस्य मनउपशमद्वारेणेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभूतायां यदवस्थानम्, तत्, पुत्राय आचिख्यासुः उद्दालको ह किल आरुणिः श्वेतकेतुं पुत्रमुवाच उक्तवान् – स्वप्नान्तं स्वप्नमध्यम् स्वप्न इति दर्शनवृत्तेः स्वप्नस्याख्या, तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत्; अथवा स्वप्नान्तं स्वप्नसतत्त्वमित्यर्थः। तत्राप्यर्थात्सुषुप्तमेव भवति, ‘स्वमपीतो भवति’ इति वचनात्; न हि अन्यत्र सुषुप्तात् स्वमपीतिं जीवस्य इच्छन्ति ब्रह्मविदः। तत्र हि आदर्शापनयने पुरुषप्रतिबिम्बः आदर्शगतः यथा स्वमेव पुरुषमपीतो भवति, एवं मन आद्युपरमे चैतन्यप्रतिबिम्बरूपेण जीवेन आत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेव आत्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा। अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इत्यवगम्यते। यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्यकार्यम्। पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम्। पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखदर्शनकार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्ने इति न स्वमपीतो भवति। ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’ (बृ. उ. ४-३-२२) ‘तद्वा अस्यैतदतिच्छन्दा’ (बृ. उ. ४-३-२१) ‘एष परम आनन्दः’ (बृ. उ. ४-३-३३) इत्यादिश्रुतिभ्यः। सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह – स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः। कदा स्वप्नान्तो भवतीति, उच्यते – यत्र यस्मिन्काले एतन्नाम भवति पुरुषस्य स्वप्स्यतः। प्रसिद्धं हि लोके स्वपितीति। गौणं चेदं नामेत्याह – यदा स्वपितीत्युच्यते पुरुषः, तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया संपन्नो भवति संगतः एकीभूतो भवति। मनसि प्रविष्टं मनआदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यम् अपीतः अपिगतः भवति। अतः तस्मात् स्वपितीत्येनमाचक्षते लौकिकाः। स्वमात्मानं हि यस्मादपीतो भवति; गुणनामप्रसिद्धितोऽपि स्वात्मप्राप्तिर्गम्यते इत्यभिप्रायः। कथं पुनर्लौकिकानां प्रसिद्धा स्वात्मसंपत्तिः? जाग्रच्छ्रमनिमित्तोद्भवत्वात्स्वापस्य इत्याहुः – जागरिते हि पुण्यापुण्यनिमित्तसुखदुःखाद्यनेकायासानुभवाच्छ्रान्तो भवति; ततश्च आयस्तानां करणानामनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य उपरमो भवति। श्रुतेश्च ‘श्राम्यत्येव वाक् श्राम्यति चक्षुः’ (बृ. उ. १-५-२१) इत्येवमादि। तथा च ‘गृहीता वाक् गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः’ (बृ. उ. २-१-१७) इत्येवमादीनि करणानि प्राणग्रस्तानि; प्राण एकः अश्रान्तः देहे कुलाये यो जागर्ति, तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिपद्यते। नान्यत्र स्वरूपावस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिर्लौकिकानाम् – स्वं ह्यपीतो भवतीति। दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणम्, तद्वदिहापि स्यादिति युक्तम्। ‘तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः’ (बृ. उ. ४-३-१९) इत्यादिश्रुतेश्च॥
तत्रायं दृष्टान्तः यथोक्तेऽर्थे – स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितः दिशं दिशं बन्धनमोक्षार्थी सन् प्रतिदिशं पतित्वा अन्यत्र बन्धनात् आयतनम् आश्रयं विश्रणाय अलब्ध्वा अप्राप्य बन्धनमेवोपश्रयते। एवमेव यथा अयं दृष्टान्तः खलु हे सोम्य तन्मनः तत्प्रकृतं षोडशकलमन्नोपचितं मनो निर्धारितम्, तत्प्रविष्टः तत्स्थः तदुपलक्षितो जीवः तन्मन इति निर्दिश्यते – मञ्चाक्रोशनवत्। स मनआख्योपाधिः जीवः अविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः, अन्यत्र सदाख्यात् स्वात्मनः आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव, प्राणेन सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते सदाख्या परा देवता, ‘प्राणस्य प्राणम्’ (बृ. उ. ४-४-१८) ‘प्राणशरीरो भारूपः’ (छा. उ. ३-१४-२) इत्यादिश्रुतेः। अतः तां देवतां प्राणं प्राणाख्यामेव उपश्रयते। प्राणो बन्धनं यस्य मनसः तत्प्राणबन्धनं हि यस्मात् सोम्य मनः प्राणोपलक्षितदेवताश्रयम्, मन इति तदुपलक्षितो जीव इति॥
एवं स्वपितिनामप्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलम्, तत्पुत्रस्य दर्शयित्वा आह अन्नादिकार्यकारणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः – अशनापिपासे अशितुमिच्छा अशना, सन् यलोपेन, पातुमिच्छा पिपासा ते अशनापिपासे अशनापिपासयोः सतत्त्वं विजानीहीत्येतत्। यत्र यस्मिन्काले एतन्नाम पुरुषो भवति। किं तत्? अशिशिषति अशितुमिच्छतीति। तदा तस्य पुरुषस्य किंनिमित्तं नाम भवतीति, आह – यत्तत्पुरुषेण अशितमन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते, तदा भुक्तमन्नं जीर्यति। अथ च भवत्यस्य नाम अशिशिषतीति गौणम्। जीर्णे हि अन्ने अशितुमिच्छति सर्वो हि जन्तुः। तत्र अपामशितनेतृत्वात् अशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे। तथा गोनायः गां नयतीति गोनायः इत्युच्यते गोपालः, यथा अश्वान्नयतीत्यश्वनायः अश्वपाल इत्युच्यते, पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा, एवं तत् तदा अप आचक्षते लौकिकाः अशनायेति विसर्जनीयलोपेन। तत्रैवं सति अद्भिः रसादिभावेन नीतेन अशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गः अङ्कुर उत्पतितः उद्गतः; तमिमं शुङ्गं कार्यं शरीराख्यं वटादिशुङ्गवदुत्पतितं हे सोम्य विजानीहि। किं तत्र विज्ञेयमिति, उच्यते – शृणु इदं शुङ्गवत्कार्यत्वात् शरीरं नामूलं मूलरहितं भविष्यति इत्युक्तः आह श्वेतकेतुः॥
यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत्, तस्य अस्य शरीरस्य क्व मूलं स्यात् भवेत् इत्येवं पृष्टः आह पिता – तस्य क्व मूलं स्यात् अन्यत्रान्नादन्नं मूलमित्यभिप्रायः। कथम्? अशितं हि अन्नमद्भिर्द्रवीकृतं जाठरेणाग्निना पच्यमानं रसभावेन परिणमते। रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रम्। तथा योषिद्भुक्तं च अन्नं रसादिक्रमेणैवं परिणतं लोहितं भवति। ताभ्यां शुक्रशोणिताभ्यामन्नकार्याभ्यां संयुक्ताभ्यामन्नेन एवं प्रत्यहं भुज्यमानेन आपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्यहमुपचीयमानः अन्नमूलः देहशुङ्गः परिनिष्पन्न इत्यर्थः। यत्तु देहशुङ्गस्य मूलमन्नं निर्दिष्टम्, तदपि देहवद्विनाशोत्पत्तिमत्त्वात् कस्माच्चिन्मूलादुत्पतितं शुङ्ग एवेति कृत्वा आह – यथा देहशुङ्गः अन्नमूलः एवमेव खलु सोम्य अन्नेन शुङ्गेन कार्यभूतेन अपो मूलमन्नस्य शुङ्गस्यान्विच्छ प्रतिपद्यस्व।
अपामपि विनाशोत्पत्तिमत्त्वात् शुङ्गत्वमेवेति अद्भिः सोम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ। तेजसोऽपि विनाशोत्पत्तिमत्त्वात् शुङ्गत्वमिति तेजसा सोम्य शुङ्गेन सन्मूलम् एकमेवाद्वितीयं परमार्थसत्यम्। यस्मिन्सर्वमिदं वाचारम्भणं विकारो नामधेयमनृतं रज्ज्वामिव सर्पादिविकल्पजातमध्यस्तमविद्यया, तदस्य जगतो मूलम्; अतः सन्मूलाः सत्कारणाः हे सोम्य इमाः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः। न केवलं सन्मूला एव, इदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव। न हि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वा अस्ति। अतः मृद्वत्सन्मूलत्वात्प्रजानां सत् आयतनं यासां ताः सदायतनाः प्रजाः। अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्ठा लयः समाप्तिः अवसानं परिशेषः यासां ताः सत्प्रतिष्ठाः॥
अथ इदानीमप्शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह – यत्र यस्मिन्काले एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति। अशिशिषतीतिवत् इदमपि गौणमेव नाम भवति। द्रवीकृतस्याशितस्यान्नस्य नेत्र्यः आपः अन्नशुङ्गं देहं क्लेदयन्त्यः शिथिलीकुर्युः अब्बाहुल्यात् यदि तेजसा न शोष्यन्ते। नितरां च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते; तदा पुरुषः पिपासति नाम; तदेतदाह – तेज एव तत् तदा पीतमबादि शोषयत् देहगतलोहितप्राणभावेन नयते परिणमयति। तद्यथा गोनाय इत्यादि समानम्; एवं तत्तेज आचष्टे लोकः – उदन्येति उदकं नयतीत्युदन्यम्, उदन्येति च्छान्दसं तत्रापि पूर्ववत्। अपामपि एतदेव शरीराख्यं शुङ्गं नान्यदित्येवमादि समानमन्यत्॥
सामर्थ्यात् तेजसोऽप्येतदेव शरीराख्यं शुङ्गम्। अतः अप्शुङ्गेन देहेन आपो मूलं गम्यते। अद्भिः शुङ्गेन तेजो मूलं गम्यते। तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत्। एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्य अन्नादिपरम्परया परमार्थसत्यं सन्मूलमभयमसंत्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयित्वा अशिशिषति पिपासतीति नामप्रसिद्धिद्वारेण यदन्यत् इह अस्मिन्प्रकरणे तेजोबन्नानां पुरुषेणोपयुज्यमानानां कार्यकरणसंघातस्य देहशुङ्गस्य स्वजात्यसांकर्येणोपचयकरत्वं वक्तव्यं प्राप्तम्, तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति – यथा तु खलु येन प्रकारेण इमाः तेजोबन्नाख्याः तिस्रः देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति, तदुक्तं पुरस्तादेव भवति ‘अन्नमशितं त्रेधा विधीयते’ (छा. उ. ६-५-१) इत्यादि तत्रैवोक्तम्। अन्नादीनामशितानां ये मध्यमा धातवः, ते साप्तधातुकं शरीरमुपचिन्वन्तीत्युक्तम् – मांसं भवति लोहितं भवति मज्जा भवति अस्थि भवतीति। ये त्वणिष्ठा धातवः मनः प्राणं वाचं देहस्यान्तःकरणसंघातमुपचिन्वन्तीति च उक्तम् – तन्मनो भवति स प्राणो भवति स वाग्भवतीति। सोऽयं प्राणकरणसंघातः देहे विशीर्णे देहान्तरं जीवाधिष्ठितः येन क्रमेण पूर्वदेहात्प्रच्युतः गच्छति, तदाह – अस्य हे सोम्य पुरुषस्य प्रयतः म्रियमाणस्य वाक् मनसि संपद्यते मनस्युपसंह्रियते। अथ तदाहुः ज्ञातयो न वदतीति। मनःपूर्वको हि वाग्व्यापारः, ‘यद्वै मनसा ध्यायति तद्वाचा वदति’ (?) इति श्रुतेः। वाच्युपसंहृतायां मनसि मननव्यापारेण केवलेन वर्तते। मनोऽपि यदा उपसंह्रियते, तदा मनः प्राणे संपन्नं भवति – सुषुप्तकाले इव; तदा पार्श्वस्था ज्ञातयः न विजानातीत्याहुः। प्राणश्च तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृतबाह्यकरणः संवर्गविद्यायां दर्शनात् हस्तपादादीन्विक्षिपन् मर्मस्थानानि निकृन्तन्निव उत्सृजन् क्रमेणोपसंहृतः तेजसि संपद्यते; तदाहुः ज्ञातयो न चलतीति। मृतः नेति वा विचिकित्सन्तः देहमालभमानाः उष्णं च उपलभमानाः देहः उष्णः जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज उपसंह्रियते, तदा तत्तेजः परस्यां देवतायां प्रशाम्यति। तदैवं क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालवत् निमित्तोपसंहारादुपसंह्रियमाणः सन् सत्याभिसंधिपूर्वकं चेदुपसंह्रियते सदेव संपद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति, यथा लोके सभये देशे वर्तमानः कथंचिदिवाभयं देशं प्राप्तः – तद्वत्। इतरस्तु अनात्मज्ञः तस्मादेव मूलात् सुषुप्तादिवोत्थाय मृत्वा पुनर्देहजालमाविशति यस्मान्मूलादुत्थाय देहमाविशति जीवः॥
स यः सदाख्यः एषः उक्तः अणिमा अणुभावः जगतो मूलम् ऐतदात्म्यम् एतत्सदात्मा यस्य सर्वस्य तत् एतदात्म तस्य भावः ऐतदात्म्यम्। एतेन सदाख्येन आत्मना आत्मवत् सर्वमिदं जगत्। चान्योऽस्त्यस्यात्मासंसारी, ‘नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’ (बृ. उ. ३-८-११) इत्यादिश्रुत्यन्तरात्। येन च आत्मना आत्मवत्सर्वमिदं जगत्, तदेव सदाख्यं कारणं सत्यं परमार्थसत्। अतः स एव आत्मा जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम्, आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवत् निरूढत्वात्। अतः तत् सत् त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्रः आह – भूय एव मा भगवान् विज्ञापयतु, यद्भवदुक्तं तत् सन्दिग्धं मम – अहन्यहनि सर्वाः प्रजाः सुषुप्तौ सत् संपद्यन्ते इत्येतत्, येन सत् संपद्य न विदुः सत्संपन्ना वयमिति। अतः दृष्टान्तेन मां प्रत्याययत्वित्यर्थः। एवमुक्तः तथा अस्तु सोम्य इति ह उवाच पिता॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.09

यत्पृच्छसि – अहन्यहनि सत्संपद्य न विदुः सत्संपन्नाः स्म इति, तत्कस्मादिति – अत्र शृणु दृष्टान्तम् – यथा लोके हे सोम्य मधुकृतः मधु कुर्वन्तीति मधुकृतः मधुकरमक्षिकाः मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः। कथम्? नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान् समवहारं समाहृत्य एकताम् एकभावं मधुत्वेन रसान् गमयन्ति मधुत्वमापादयन्ति॥
ते रसाः यथा मधुत्वेनैकतां गताः तत्र मधुनि विवेकं न लभन्ते; कथम्? अमुष्याहमाम्रस्य पनसस्य वा वृक्षस्य रसोऽस्मीति – यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवति अमुष्याहं पुत्रः अमुष्याहं नप्तास्मीति; ते च लब्धविवेकाः सन्तः न संकीर्यन्ते; न तथा इह अनेकप्रकारवृक्षरसानामपि मधुराम्लतिक्तकटुकादीनां मधुत्वेन एकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः। यथा अयं दृष्टान्तः, इत्येवमेव खलु सोम्य इमाः सर्वाः प्रजाः अहन्यहनि सति संपद्य सुषुप्तिकाले मरणप्रलययोश्च न विदुः न विजानीयुः – सति संपद्यामहे इति संपन्ना इति वा॥
यस्माच्च एवमात्मनः सद्रूपतामज्ञात्वैव सत्संपद्यन्ते, अतः ते इह लोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्ना आसुः व्याघ्रादीनाम् – व्याघ्रोऽहं सिंहोहऽमित्येवम्, ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति बभूवुरित्यर्थः, तदेव पुनरागत्य भवन्ति। युगसहस्रकोट्यन्तरितापि संसारिणः जन्तोः या पुरा भाविता वासना, सा न नश्यतीत्यर्थः। ‘यथाप्रज्ञं हि सम्भवाः’ (ऐ. आ. २-३-२) इति श्रुत्यन्तरात्॥
ताः प्रजाः यस्मिन्प्रविश्य पुनराविर्भवन्ति, ये तु इतोऽन्ये सत्सत्यात्माभिसंधाः यमणुभावं यदात्मानं प्रविश्य नावर्तन्ते, स य एषोऽणिमेत्यादि व्याख्यातम्। यथा लोके स्वकीये गृहे सुप्तः उत्थाय ग्रामान्तरं गतः जानाति स्वगृहादागतोऽस्मीति, एवं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयतु इत्युक्तः तथा सोम्येति ह उवाच पिता॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.10

शृणु तत्र दृष्टान्तम् – यथा सोम्य इमा नद्यः गङ्गाद्याः पुरस्तात् पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ती। पश्चात् प्रतीची दिशं प्रति सिन्ध्वाद्याः प्रतीचीम् अञ्जन्ति गच्छन्तीति प्रतीच्यः, ताः समुद्रादम्भोनिधेः जलधरैराक्षिप्ताः पुनर्वृष्टिरूपेण पतिताः गङ्गादिनदीरूपिण्यः पुनः समुद्रम् अम्भोनिधिमेव अपियन्ति स समुद्र एव भवति। ता नद्यः यथा तत्र समुद्रे समुद्रात्मना एकतां गताः न विदुः न जानन्ति – इयं गङ्गां अहमस्मि इयं यमुना अहमस्मीति च॥
एवमेव खलु सोम्य इमाः सर्वाः प्रजाः यस्मात् सति संपद्य न विदुः, तस्मात्सत आगम्य विदुः – सत आगच्छामहे आगता इति वा। त इह व्याघ्र इत्यादि समानमन्यत्। दृष्टं लोके जले वीचीतरङ्गफेनबुद्बुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति। जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणप्रलययोश्च न विनश्यन्तीत्येतत्, भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन। तथा सोम्येति ह उवाच पिता॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.11

शृणु दृष्टान्तम् – अस्य हे सोम्य महतः अनेकशाखादियुक्तस्य वृक्षस्य, अस्येत्यग्रतः स्थितं वृक्षं दर्शयन् आह – यदि यः कश्चित् अस्य मूले अभ्याहन्यात्, परश्वादिना सकृद्घातमात्रेण न शुष्यतीति जीवन्नेव भवति, तदा, तस्य रसः स्रवेत्। तथा यो मध्ये अभ्याहन्यात् जीवन्स्रवेत्, तथा योऽग्रे अभ्याहन्यात् जीवन्स्रवेत्। स एष वृक्षः इदानीं जीवेन आत्मना अनुप्रभूतः अनुव्याप्तः पेपीयमानः अत्यर्थं पिबन् उदकं भौमांश्च रसान् मूलैर्गृह्णन् मोदमानः हर्षं प्राप्नुवन् तिष्ठति॥
तस्यास्य यदेकां शाखां रोगग्रस्ताम् आहतां वा जीवः जहाति उपसंहरति शाखायां विप्रसृतमात्मांशम्, अथ सा शुष्यति। वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीव इति तदुपसंहारे उपसंह्रियते। जीवेन च प्राणयुक्तेन अशितं पीतं च रसतां गतं जीवच्छरीरं वृक्षं च वर्धयत् रसरूपेण जीवस्य सद्भावे लिङ्गं भवति। अशितपीताभ्यां हि देहे जीवस्तिष्ठति। ते च अशितपीते जीवकर्मानुसारिणी इति तस्यैकाङ्गवैकल्यनिमित्तं कर्म यदोपस्थितं भवति, तदा जीवः एकां शाखां जहाति शाखाय आत्मानमुपसंहरति; अथ तदा सा शाखा शुष्यति। जीवस्थितिनिमित्तो रसः जीवकर्माक्षिप्तः जीवोपसंहारे न तिष्ठति। रसापगमे च शाखा शोषमुपैति। तथा सर्वं वृक्षमेव यदा अयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति। वृक्षस्य रसस्रवणशोषणादिलिङ्गात् जीववत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धकाणादमतमचेतनाः स्थावरा इत्येतदसारमिति दर्शितं भवति॥
यथा अस्मिन्वृक्षदृष्टान्ते दर्शितम् – जीवेन युक्तः वृक्षः अशुष्कः रसपानादियुक्तः जीवतीत्युच्यते, तदपेतश्च म्रियत इत्युच्यते; एवमेव खलु सोम्य विद्धीति ह उवाच – जीवापेतं जीववियुक्तं वाव किल इदं शरीरं म्रियते न जीवो म्रियत इति। कार्यशेषे च सुप्तोत्थितस्य मम इदं कार्यशेषम् अपरिसमाप्तमिति स्मृत्वा समापनदर्शनात्। जातमात्राणां च जन्तूनां स्तन्याभिलाषभयादिदर्शनाच्च अतीतजन्मान्तरानुभूतस्तन्यपानदुःखानुभवस्मृतिर्गम्यते। अग्निहोत्रादीनां च वैदिकानां कर्मणामर्थवत्त्वात् न जीवो म्रियत इति। स य एषोऽणिमेत्यादि समानम्। कथं पुनरिदमत्यन्तस्थूलं पृथिव्यादि नामरूपवज्जगत् अत्यन्तसूक्ष्मात्सद्रूपान्नामरूपरहितात्सतो जायते, इति एतद्दृष्टान्तेन भूय एव मा भगवान्विज्ञापयतु इति। तथा सोम्येति ह उवाच पिता॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.12

यदि एतत्प्रत्यक्षीकर्तुमिच्छसि अतोऽस्मान्महतः न्यग्रोधात् फलमेकमाहर – इत्युक्तः तथा चकार सः; इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रति आह – फलं भिन्द्धीति। भिन्नमित्याह इतरः। तमाह पिता – किमत्र पश्यसीति; उक्तः आह – अण्व्यः अणुतरा इव इमाः धानाः बीजानि पश्यामि भगव इति। आसां धानानामेकां धानाम् अङ्ग हे वत्स भिन्द्घि, इत्युक्तः आह – भिन्ना भगव इति। यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसि, इत्युक्तः आह – न किंचन पश्यामि भगव इति॥
तं पुत्रं ह उवाच – वटधानायां भिन्नायां यं वटबीजाणिमानं हे सोम्य एतं न निभालयसे न पश्यसि, तथा अप्येतस्य वै किल सोम्य एष महान्यग्रोधः बीजस्य अणिम्नः सूक्ष्मस्य अदृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्धफलपलाशवान् तिष्ठति उत्पन्नः सन्, उत्तिष्ठतीति वा, उच्छब्दोऽध्याहार्यः। अतः श्रद्धत्स्व सोम्य सत एव अणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति। यद्यपि न्यायागमाभ्यां निर्धारितोऽर्थः तथैवेत्यवगम्यते, तथापि अत्यन्तसूक्ष्मेष्वर्थेषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्याह – श्रद्धत्स्वेति। श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सितेऽर्थे भवेत्, ततश्च तदर्थावगतिः, ‘अन्यत्रमना अभूवम्’ (बृ. उ. १-५-३) इत्यादिश्रुतेः॥
स य इत्याद्युक्तार्थम्। यदि तत्सज्जगतो मूलम्, कस्मान्नोपलभ्यत इत्येतद्दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति। तथा सोम्येति ह उवाच पिता॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.13

विद्यमानमपि वस्तु नोपलभ्यते, प्रकारान्तरेण तु उपलभ्यत इति शृणु अत्र दृष्टान्तम् – यदि च इममर्थं प्रत्यक्षीकर्तुमिच्छसि, पिण्डरूपं लवणम् एतद्घटादौ उदके अवधाय प्रक्षिप्य अथ मा मां श्वः प्रातः उपसीदथाः उपगच्छेथाः इति। स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छन् तथा चकार। तं ह उवाच परेद्युः प्रातः – यल्लवणं दोषा रात्रौ उदके अवाधाः निक्षिप्तवानसि अङ्ग हे वत्स तदाहर – इत्युक्तः तल्लवणमाजिहीर्षुः ह किल अवमृश्य उदके न विवेद न विज्ञातवान्। यथा तल्लवणं विद्यमानमेव सत् अप्सु लीनं संश्लिष्टमभूत्॥
यथा विलीनं लवणं न वेत्थ, तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत एव अप्सु, उपलभ्यते च उपायान्तरेण – इत्येतत् पुत्रं प्रत्याययितुमिच्छन् आह – अङ्ग अस्योदकस्य अन्तात् उपरि गृहीत्वा आचाम – इत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच – कथमिति; इतर आह – लवणं स्वादुत इति। तथा मध्यादुदकस्य गृहीत्वा आचाम इति, कथमिति, लवणमिति। तथान्तात् अधोदेशात् गृहीत्वा आचाम इति, कथमिति, लवणमिति। यद्येवम्, अभिप्रास्य परित्यज्य एतदुदकम् आचम्य अथ मोपसीदथाः इति; तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थः इदं वचनं ब्रुवन् – तल्लवणं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सत् सम्यग्वर्तते। इति एवमुक्तवन्तं तं ह उवाच पिता – यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एव उपायान्तरेण जिह्वयोपलभ्यमानत्वात् – एवमेव अत्रैव अस्मिन्नेव तेजोबन्नादिकार्ये शुङ्गे देहे, वाव किलेत्याचार्योपदेशस्मरणप्रदर्शनार्थौ, सत् तेजोबन्नादिशुङ्गकारणं वटबीजाणिमवद्विद्यमानमेव इन्द्रियैर्नोपलभसे न निभालयसे। यथा अत्रैवोदके दर्शनस्पर्शनाभ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वया उपलब्धवानसि – एवमेवात्रैव किल विद्यमानं सत् जगन्मूलम् उपायान्तरेण लवणाणिमवत् उपलप्स्यस इति वाक्यशेषः॥
स य इत्यादि समानम्। यद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यते, यदुपलम्भात्कृतार्थः स्याम् अनुपलम्भाच्चाकृतार्थः स्यामहम्, तस्यैवोपलब्धौ क उपायः इत्येतत् भूय एव मा भगवान् विज्ञापयतु दृष्टान्तेन। तथा सोम्य इति ह उवाच॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.14

यथा लोके हे सोम्य पुरुषं यं कंचित् गन्धारेभ्यो जनपदेभ्यः अभिनद्धाक्षं बद्धचक्षुषम् आनीय द्रव्यहर्ता तस्करः तमभिनद्धाक्षमेव बद्धहस्तम् अरण्ये ततोऽप्यतिजने अतिगतजने अत्यन्तविगतजने देशे विसृजेत्, स तत्र दिग्भ्रमोपेतः यथा प्राङ्वा प्रागञ्चनः प्राह्मुखो वेत्यर्थः, तथोदङ्वा अधराङ्वा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्यात् विक्रोशेत् – अभिनद्धाक्षोऽहं गन्धारेभ्यस्तस्करेणानीतोऽभिनद्धाक्ष एव विसृष्ट इति॥
एवं विक्रोशतः तस्य यथाभिनहनं यथा बन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चित् एतां दिशमुत्तरतः गन्धाराः एतां दिशं व्रज – इति प्रब्रूयात्। स एवं कारुणिकेन बन्धनान्मोक्षितः ग्रामात् ग्रामान्तरं पृच्छन् पण्डितः उपदेशवान् मेधावी परोपदिष्टग्रामप्रवेशमार्गावधारणसमर्थः सन् गन्धारानेवोपसम्पद्येत। नेतरो मूढमतिः देशान्तरदर्शनतृड्वा। यथा अयं दृष्टान्तः वर्णितः – स्वविषयेभ्यो गन्धारेभ्यः पुरुषः तस्करैरभिनद्धाक्षः अविवेकः दिङ्मूढः अशनायापिपासादिमान् व्याघ्रतस्कराद्यनेकभयानर्थव्रातयुतमरण्यं प्रवेशितः दुःखार्तः विक्रोशन् बन्धनेभ्यो मुमुक्षुस्तिष्ठति, स कथंचिदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवापन्नः निर्वृतः सुख्यभूत् – एवमेव सतः जगदात्मस्वरूपात्तेजोबन्नादिमयं देहारण्यं वातपित्तकफरुधिरमेदोमांसास्थिमज्जाशुक्रकृमिमूत्रपुरीषवत् शीतोष्णाद्यनेकद्वन्द्वदुःखवच्च इदं मोहपटाभिनद्धाक्षः भार्यापुत्रमित्रपशुबन्ध्वादिदृष्टादृष्टानेकविषयतृष्णापाशितः पुण्यापुण्यादितस्करैः प्रवेशितः अहममुष्य पुत्रः, ममैते बान्धवाः, सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमान् जातः मृतो जीर्णः पापी, पुत्रो मे मृतः, धनं मे नष्टम्, हा हतोऽस्मि, कथं जीविष्यामि, का मे गतिः, किं मे त्राणम् – इत्येवमनेकशतसहस्रानर्थजालवान् विक्रोशन् कथंचिदेव पुण्यातिशयात्परमकारुणिकं कंचित्सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्ठं यदा आसादयति, तेन च ब्रह्मविदा कारुण्यात् दर्शितसंसारविषयदोषदर्शनमार्गः विरक्तः संसारविषयेभ्यः – नासि त्वं संसारी अमुष्य पुत्रत्वादिधर्मवान्, किं तर्हि, सत् यत्तत्त्वमसि –इत्यविद्यामोहपटाभिनहनान्मोक्षितः गन्धारपुरुषवच्च स्वं सदात्मानम् उपसंपद्य सुखी निर्वृतः स्यादित्येतमेवार्थमाह – आचार्यवान्पुरुषो वेदेति। तस्यास्य एवमाचार्यवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव कालः चिरं क्षेपः सदात्मस्वरूपसंपत्तेरिति वाक्यशेषः। कियान्कालश्चिरमिति, उच्यते – यावन्न विमोक्ष्ये न विमोक्ष्यते इत्येतत्पुरुषव्यत्ययेन, सामर्थ्यात्; येन कर्मणा शरीरमारब्धं तस्योपभोगेन क्षयात् देहपातो यावदित्यर्थः। अथ तदैव सत् सम्पत्स्ये सम्पत्स्यते इति पूर्ववत्। न हि देहमोक्षस्य सत्सम्पत्तेश्च कालभेदोऽस्ति येन अथ – शब्दः आनन्तर्यार्थः स्यात्।
ननु यथा सद्विज्ञानानन्तरमेव देहपातः सत्संपत्तिश्च न भवति कर्मशेषवशात्, तथा अप्रवृत्तफलानि प्राग्ज्ञानोत्पत्तेर्जन्मान्तरसंचितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतिते अस्मिञ्शरीरान्तरमारब्धव्यम्। उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं च अवश्यं शरीरान्तरमारब्धव्यम्, ततश्च कर्माणि ततः शरीरान्तरम् इति ज्ञानानर्थक्यम्, कर्मणां फलवत्त्वात्। अथ ज्ञानवतः क्षीयन्ते कर्माणि, तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्संपत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात्। तथा च आचार्याभावः इति आचार्यवान्पुरुषो वेद इत्यनुपपत्तिः। ज्ञानान्मोक्षाभावप्रसङ्गश्च देशान्तरप्राप्त्युपायज्ञानवदनैकान्तिकफलत्वं वा ज्ञानस्य। न, कर्मणां प्रवृत्ताप्रवृत्तफलवत्त्वविशेषोपपत्तेः। यदुक्तम् अप्रवृत्तफलानां कर्मणां ध्रुवफलवत्त्वाद्ब्रह्मविदः शरीरे पतिते शरीरान्तरमारब्धव्यम् अप्रवृत्तकर्मफलोपभोगार्थमिति, एतदसत्। विदुषः ‘तस्य तावदेव चिरम्’ इति श्रुतेः प्रामाण्यात्। ननु ‘पुण्यो वै पुण्येन कर्मणा भवति’ (बृ. उ. ३-२-१५) इत्यादिश्रुतेरपि प्रामाण्यमेव। सत्यमेवम्। तथापि प्रवृत्तफलानामप्रवृत्तफलानां च कर्मणां विशेषोऽस्ति। कथम्? यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धम्, तेषामुपभागेनैव क्षयः – यथा आरब्धवेगस्य लक्ष्यमुक्तेष्वादेः वेगक्षयादेव स्थितिः, न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति – तद्वत्। अन्यानि तु अप्रवृत्तफलानि इह प्राग्ज्ञानोत्पत्तेरूर्ध्वं च कृतानि वा क्रियमाणानि वा अतीतजन्मान्तरकृतानि वा अप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्तेनेव; ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ (भ. गी. ४-३७) इति स्मृतेश्च। ‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २-२-९) इति च आथर्वणे। अतः ब्रह्मविदः जीवनादिप्रयोजनाभावेऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत् तस्य तावदेव चिरमिति युक्तमेवोक्तमिति यथोक्तदोषचोदनानुपपत्तिः। ज्ञानोत्पत्तेरूर्ध्वं च ब्रह्मविदः कर्माभावमवोचाम ‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २-२३-१) इत्यत्र। तच्च स्मर्तुमर्हसि॥
स य इत्याद्युक्तार्थम्। आचार्यवान् विद्वान् येन क्रमेण सत् संपद्यते, तं क्रमं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति। तथा सोम्य इति ह उवाच॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.15

पुरुषं हे सोम्य उत उपतापिनं ज्वराद्युपतापवन्तं ज्ञातयः बान्धवाः परिवार्य उपासते मुमूर्षुम् – जानासि मां तव पितरं पुत्रं भ्रातरं वा – इति पृच्छन्तः। तस्य मुमूर्षोः यावन्न वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इत्येतदुक्तार्थम्॥
संसारिणः यः मरणक्रमः स एवायं विदुषोऽपि सत्संपत्तिक्रम इत्येतदाह – परस्यां देवतायां तेजसि संपन्ने अथ न जानाति। अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति। विद्वांस्तु शास्त्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य न आवर्तते इत्येष सत्संपत्तिक्रमः। अन्ये तु मूर्धन्यया नाड्या उत्क्रम्य आदित्यादिद्वारेण सद्गच्छन्तीत्याहुः; तदसत्, देशकालनिमित्तफलाभिसंधानेन गमनदर्शनात्। न हि सदात्मैकत्वदर्शिनः सत्याभिसंधस्य देशकालनिमित्तफलाद्यनृताभिसंधिरुपपद्यते, विरोधात्। अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वात् गमनानुपपत्तिरेव; ‘पर्योप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३-२-२) इत्याद्याथर्वणे नदीसमुद्रदृष्टान्तश्रुतेश्च॥
स य इत्यादि समानम्। यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिः, तत्र विद्वान् सत्सम्पन्नो नावर्तते, आवर्तते त्वविद्वान् – इत्यत्र कारणं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति। तथा सोम्येति ह उवाच॥

Go to Top ('Home' key on many Windows browsers)

ChanU.6.16

शृणु – यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तम् आनयन्ति राजपुरुषाः। किं कृतवानयमिति पृष्टाश्च आहुः – अपहार्षीद्धनमस्यायम्। ते च आहुः – किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात्; इत्युक्ताः पुनराहुः – स्तेयमकार्षीत् चौर्येण धनमपहार्षीदिति। तेष्वेवं वदत्सु इतरः अपह्नुते – नाहं तत्कर्तेति। ते च आहुः – सन्दिह्यमानं स्तेयमकार्षीः त्वमस्य धनस्येति। तस्मिंश्च अपह्नुवाने आहुः – परशुमस्मै तपतेति शोधयत्वात्मानमिति। स यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवंभूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते। स तथा अनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्णाति, स दह्यते, अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण॥
अथ यदि तस्य कर्मणः अकर्ता भवति, तत एव सत्यमात्मानं कुरुते। स सत्येन तया स्तैन्याकर्तृतया आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति। स सत्याभिसन्धः सन् न दह्यते सत्यव्यवधानात्, अथ मुच्यते च मृषाभियोक्तृभ्यः। तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्रकर्त्रोरनृताभिसन्धो दह्यते न तु सत्याभिसन्धः॥