Sorry, your browser does not support JavaScript!
Go
Top
ब्रह्म-सूत्रं श्री-शाङ्कर-भाष्य-सहितम्

Upaniṣad Śānti Mantras
1. प्रथमः अध्यायः भाष्योपोद्घातः
प्रथमः पादः (१.१) १. जिज्ञासाधिकरणम् २. जन्माद्यधिकरणम् ३. शास्त्रयोनित्वाधिकरणम् ४. समन्वयाधिकरणम् ५. ईक्षत्यधिकरणम् ६. आनन्दमयाधिकरणम् ७. अन्तरधिकरणम् ८. आकाशाधिकरणम् ९. प्राणाधिकरणम् १०. ज्योतिश्चरणाधिकरणम् ११. प्रतर्दनाधिकरणम्
द्वितीयः पादः (१.२) १२. सर्वत्रप्रसिद्ध्यधिकरणम् १३. अत्त्रधिकरणम् १४. गुहाप्रविष्टाधिकरणम् १५. अन्तराधिकरणम् १६. अन्तर्याम्यधिकरणम् १७. अदृश्यत्वाधिकरणम् १८. वैश्वानराधिकरणम्
तृतीयः पादः (१.३) १९. द्युभ्वाद्यधिकरणम् २०. भूमाधिकरणम् २१. अक्षराधिकरणम् २२. ईक्षतिकर्माधिकरणम् २३. दहराधिकरणम् २४. अनुकृत्यधिकरणम् २५. प्रमिताधिकरणम् २६. देवताधिकरणम् २७. अपशूद्राधिकरणम् २८. कम्पनाधिकरणम् २९. ज्योतिरधिकरणम् ३०. अर्थान्तरत्वादिव्यपदेशाधिकरणम् ३१. सुषुप्त्युत्क्रान्त्यधिकरणम्
चतुर्थः पादः (१.४) ३२. आनुमानिकाधिकरणम् ३३. चमसाधिकरणम् ३४. संख्योपसङ्ग्रहाधिकरणम् ३५. कारणत्वाधिकरणम् ३६. बालाक्यधिकरणम् ३७. वाक्यान्वयाधिकरणम् ३८. प्रकृत्यधिकरणम् ३९. सर्वव्याख्यानाधिकरणम्
2. द्वितीयः अध्यायः
प्रथमः पादः (२.१) ४०. स्मृत्यधिकरणम् ४१. योगप्रत्युक्त्यधिकरणम् ४२. नविलक्षणत्वाधिकरणम् ४३. शिष्टापरिग्रहाधिकरणम् ४४. भोक्त्रापत्त्यधिकरणम् ४५. आरम्भणाधिकरणम् ४६. इतरव्यपदेशाधिकरणम् ४७. उपसंहारदर्शनाधिकरणम् ४८. कृत्स्नप्रसक्त्यधिकरणम् ४९. सर्वोपेताधिकरणम् ५०. प्रयोजनवत्त्वाधिकरणम् ५१. वैषम्यनैर्घृण्याधिकरणम् ५२. सर्वधर्मोपपत्त्यधिकरणम्
द्वितीयः पादः (२.२) ५३. रचनानुपपत्त्यधिकरणम् ५४. महद्दीर्घाधिकरणम् ५५. परमाणुजगदकारणत्वाधिकरणम् ५६. समुदायाधिकरणम् ५७. अभावाधिकरणम् ५८. एकस्मिन्नसम्भवाधिकरणम् ५९. पत्यधिकरणम् ६०. उत्पत्त्यसम्भवाधिकरणम्
तृतीयः पादः (२.३) ६१. वियदधिकरणम् ६२. मातरिश्वाधिकरणम् ६३. असम्भवाधिकरणम् ६४. तेजोऽधिकरणम् ६५. अबधिकरणम् ६६. पृथिव्यधिकाराधिकरणम् ६७. तदभिध्यानाधिकरणम् ६८. विपर्ययाधिकरणम् ६९. अन्तराविज्ञानाधिकरणम् ७०. चराचरव्यपाश्रयाधिकरणम् ७१. आत्माधिकरणम् ७२. ज्ञाधिकरणम् ७३. उत्क्रान्तिगत्यधिकरणम् ७४. कर्त्रधिकरणम् ७५. तक्षाधिकरणम् ७६. परायत्ताधिकरणम् ७७. अंशाधिकरणम्
चतुर्थः पादः (२.४) ७८. प्राणोत्पत्त्यधिकरणम् ७९. सप्तगत्यधिकरणम् ८०. प्राणाणुत्वाधिकरणम् ८१. प्राणश्रैष्ठ्याधिकरणम् ८२. वायुक्रियाधिकरणम् ८३. श्रेष्ठाणुत्वाधिकरणम् ८४. ज्योतिराद्यधिकरणम् ८५. इन्द्रियाधिकरणम् ८६. संज्ञामूर्तिकॢप्त्यधिकरणम्
3. तृतीयः अध्यायः
प्रथमः पादः (३.१) ८७. तदन्तरप्रतिपत्त्यधिकरणम् ८८. कृतात्ययाधिकरणम् ८९. अनिष्टादिकार्यधिकरणम् ९०. साभाव्यापत्त्यधिकरणम् ९१. नातिचिराधिकरणम् ९२. अन्याधिष्ठिताधिकरणम्
द्वितीयः पादः (३.२) ९३. सन्ध्याधिकरणम् ९४. तदभावाधिकरणम् ९५. कर्मानुस्मृतिशब्दविध्यधिकरणम् ९६. मुग्धाधिकरणम् ९७. उभयलिङ्गाधिकरणम् ९८. प्रकृतैतावत्त्वाधिकरणम् ९९. पराधिकरणम् १००. फलाधिकरणम्
तृतीयः पादः (३.३) १०१. सर्ववेदान्तप्रत्ययाधिकरणम् १०२. उपसंहाराधिकरणम् १०३. अन्यथात्वाधिकरणम् १०४. व्याप्त्यधिकरणम् १०५. सर्वाभेदाधिकरणम् १०६. आनन्दाद्यधिकरणम् १०७. आध्यानाधिकरणम् १०८. आत्मगृहीत्यधिकरणम् १०९. कार्याख्यानाधिकरणम् ११०. समानाधिकरणम् १११. सम्बन्धाधिकरणम् ११२. सम्भृत्यधिकरणम् ११३. पुरुषविद्याधिकरणम् ११४. वेधाद्यधिकरणम् ११५. हान्यधिकरणम् ११६. साम्परायाधिकरणम् ११७. गतेरर्थवत्त्वाधिकरणम् ११८. अनियमाधिकरणम् ११९. यावदधिकाराधिकरणम् १२०. अक्षरध्यधिकरणम् १२१. इयदधिकरणम् १२२. अन्तरत्वाधिकरणम् १२३. व्यतिहाराधिकरणम् १२४. सत्याद्यधिकरणम् १२५. कामाद्यधिकरणम् १२६. आदराधिकरणम् १२७. तन्निर्धारणाधिकरणम् १२८. प्रदानाधिकरणम् १२९. लिङ्गभूयस्त्वाधिकरणम् १३०. ऐकात्म्याधिकरणम् १३१. अङ्गावबद्धाधिकरणम् १३२. भूमज्यायस्त्वाधिकरणम् १३३. शब्दादिभेदाधिकरणम् १३४. विकल्पाधिकरणम् १३५. काम्याधिकरणम् १३६. यथाश्रयभावाधिकरणम्
चतुर्थः पादः (३.४) १३७. पुरुषार्थाधिकरणम् १३८. स्तुतिमात्राधिकरणम् १३९. स्तुतिमात्राधिकरणम् १४०. पारिप्लवाधिकरणम् १४१. आग्नीन्धनाद्यधिकरणम् १४२. सर्वापेक्षाधिकरणम् १४३. सर्वान्नानुमत्यधिकरणम् १४४. आश्रमकर्माधिकरणम् १४५. विधुराधिकरणम् १४६. तद्भूताधिकरणम् १४७. आधिकारिकाधिकरणम् १४८. बहिरधिकरणम् १४९. स्वाम्यधिकरणम् १५०. सहकार्यन्तरविध्यधिकरणम् १५१. अनाविष्काराधिकरणम् १५२. ऐहिकाधिकरणम् १५३. मुक्तिफलाधिकरणम्
4. चतुर्थः अध्यायः
प्रथमः पादः (४.१) १५४. आवृत्यधिकरणम् १५५. आत्मत्वोपासनाधिकरणम् १५६. प्रतीकाधिकरणम् १५७. ब्रह्मदृष्ट्यधिकरणम् १५८. आदित्यादिमत्यधिकरणम् १५९. आसीनाधिकरणम् १६०. एकाग्रताधिकरणम् १६१. आप्रायणाधिकरणम् १६२. तदधिगमाधिकरणम् १६३. इतरासंश्लेषाधिकरणम् १६४. अनारब्धाधिकरणम् १६५. अग्निहोत्राद्यधिकरणम् १६६. विद्याज्ञानसाधनत्वाधिकरणम् १६७. इतरक्षपणाधिकरणम्
द्वितीयः पादः (४.२) १६८. वागधिकरणम् १६९. मनोऽधिकरणम् १७०. अध्यक्षाधिकरणम् १७१. आसृत्युपक्रमाधिकरणम् १७२. संसारव्यपदेशाधिकरणम् १७३. प्रतिषेधाधिकरणम् १७४. वागादिलयाधिकरणम् १७५. अविभागाधिकरणम् १७६. तदोकोऽधिकरणम् १७७. रश्म्यधिकरणम् १७८. दक्षिणायनाधिकरणम्
तृतीयः पादः (४.३) १७९. अर्चिराद्यधिकरणम् १८०. वाय्वधिकरणम् १८१. तडिदधिकरणम् १८२. आतिवाहिकाधिकरणम् १८३. कार्याधिकरणम् १८४. अप्रतीकालम्बनाधिकरणम्
चतुर्थः पादः (४.४) १८५. सम्पद्याविर्भावाधिकरणम् १८६. अविभागेन दृष्टत्वाधिकरणम् १८७. ब्राह्माधिकरणम् १८८. सङ्कल्पाधिकरणम् १८९. अभावाधिकरणम् १९०. प्रदीपाधिकरणम् १९१. जगद्व्यापाराधिकरणम्

[Go to Contents]

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
For ease in reading commentary paragraphs, several long vowels and a few other sandhis have been split.
These are the first four Brahma-Sūtras by Vyāsa (Bādarāyaṇa) commented upon by Ādi Śankarācarya. The text is in keeping with the Kailās Vidyā Press version.

[Go to Contents]


1. प्रथमः अध्यायः
भाष्योपोद्घातः
प्रथमः पादः (१.१) १. जिज्ञासाधिकरणम् (१.१.१) २. जन्माद्यधिकरणम् (१.१.२) ३. शास्त्रयोनित्वाधिकरणम् (१.१.३) ४. समन्वयाधिकरणम् (१.१.४) ५. ईक्षत्यधिकरणम् (१.१.५-१०) ६. आनन्दमयाधिकरणम् (१.१.११-) ७. अन्तरधिकरणम् ८. आकाशाधिकरणम् ९. प्राणाधिकरणम् १०. ज्योतिश्चरणाधिकरणम् ११. प्रतर्दनाधिकरणम्
द्वितीयः पादः (१.२) १२. सर्वत्रप्रसिद्ध्यधिकरणम् १३. अत्त्रधिकरणम् १४. गुहाप्रविष्टाधिकरणम् १५. अन्तराधिकरणम् १६. अन्तर्याम्यधिकरणम् १७. अदृश्यत्वाधिकरणम् १८. वैश्वानराधिकरणम्
तृतीयः पादः (१.३) १९. द्युभ्वाद्यधिकरणम् २०. भूमाधिकरणम् २१. अक्षराधिकरणम् २२. ईक्षतिकर्माधिकरणम् २३. दहराधिकरणम् २४. अनुकृत्यधिकरणम् २५. प्रमिताधिकरणम् २६. देवताधिकरणम् २७. अपशूद्राधिकरणम् २८. कम्पनाधिकरणम् २९. ज्योतिरधिकरणम् ३०. अर्थान्तरत्वादिव्यपदेशाधिकरणम् ३१. सुषुप्त्युत्क्रान्त्यधिकरणम्
चतुर्थः पादः (१.४) ३२. आनुमानिकाधिकरणम् ३३. चमसाधिकरणम् ३४. संख्योपसङ्ग्रहाधिकरणम् ३५. कारणत्वाधिकरणम् ३६. बालाक्यधिकरणम् ३७. वाक्यान्वयाधिकरणम् ३८. प्रकृत्यधिकरणम् ३९. सर्वव्याख्यानाधिकरणम्
2. द्वितीयः अध्यायः
3. तृतीयः अध्यायः
4. चतुर्थः अध्यायः

[Go to Contents]

[Go to Contents]

॥ वैयासिकन्यायमाना ॥

प्रणम्य प्ररमात्मानं श्रीविद्यातीर्थरूपिणम्।
वैयासिकन्यायमाला श्लोकैः संगृह्यते स्फुटम्॥१॥
एको विषयसंदेहपूर्वपक्षावभासकः।
श्लोकोऽपरस्तु सिद्धान्तवादी संगतयः स्फुटाः॥२॥
शास्त्रेऽध्याये तथा पादे न्यायसंगतयस्त्रिधा।
शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूह्यताम्॥३॥
शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः।
समन्वयाविरोधौ द्वौ साधनं च फलं तथा॥४॥
समनये स्पष्टलिङ्गमस्पष्टत्वेऽप्युपास्यगम्।
ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वनुक्रमात्॥५॥
...।
॥६॥
...।
॥७॥
...।
॥८॥
...।
॥९॥
...।
॥१०॥ वै.न्या.मा.

अथ अध्यास-प्रतिज्ञा-भाष्यम्
युष्मद्-अस्मत्-प्रत्यय-गोचरयोर् विषय-विषयिणोस् तमः-प्रकाशवद् विरुद्ध-स्व-भावयोर् इतरेतर-भाव-अनुपपत्तौ सिद्धायाम्, तद्-धर्माणाम् अपि सुतराम् इतरेतर-भाव-अनुपपत्तिः। इत्य् अतः अस्मत्-प्रत्यय-गोचरे विषयिणि चिद्-आत्मके युष्मत्-प्रत्यय-गोचरस्य विषयस्य तद्-धर्माणां च अध्यासः, तद्-विपर्ययेण विषयिणस् तद्-धर्माणां च विषयेऽध्यासो, मिथ्येति भवितुं युक्तम्। तथा अप्य् (हि) अन्योऽन्यस्मिन्न् अन्योऽन्य-आत्मकताम् अन्योऽन्य-धर्मांश् च अध्यस्य इतरेतर-अविवेकेन अत्य्-अन्त-विविक्तयोर् धर्म-धर्मिणोः, मिथ्या-ज्ञान-निमित्तः, सत्य-अनृते मिथुनी-कृत्य, ‘अहम् इदम्, ममेदम्’ इति नैसर्गिकोऽयं लोक-व्यवहारः।

अथ अध्यास-लक्षण-भाष्यम्
आह, कोऽयम् अध्यासो नामेति। उच्यते, स्मृति-रूपः परत्र पूर्व-दृष्ट-अवभासः। तं केचिद्, ‘अन्यत्र अन्य-धर्म-अध्यासः’ इति वदन्ति। केचित् तु, ‘यत्र यद्-अध्यासः, तद्-विवेक-अग्रह-निबन्धनो भ्रमः’ इति। अन्ये तु, ‘यत्र यद्-अध्यासः, तस्यैव विपरीत-धर्मत्व-कल्पनाम् आचक्षत’ इति। सर्वथा अपि त्व् अन्यस्य अन्य-धर्म-अवभासतां न व्यभिचरति। तथा च लोकेऽनुभवः, ‘शुक्तिका हि रजतवद् अवभासते, एकश् चन्द्रः स-द्वितीयवद्’ इति।

अथ अध्यास-सम्भावना-भाष्यम्
कथं पुनः प्रत्यग्-आत्मन्य् अविषयेऽध्यासो विषय-तद्-धर्माणाम्। सर्वो हि पुरोऽवस्थिते विषये विषय-अन्तरम् अध्यस्यति। युष्मत्-प्रत्यय-अपेतस्य च प्रत्यग्-आत्मनोऽविषयत्वं ब्रवीषि।
समाधानम्
उच्यते, न तावद् अयम् एक-अन्तेन अविषयः, अस्मत्-प्रत्यय-विषयत्वात्। अपरोक्षत्वाच् च प्रत्यग्-आत्म-प्रसिद्धेः। न च अयम् अस्ति नियमः पुरोऽवस्थित एव विषये विषय-अन्तरम् अध्यसितव्यम् इति। अप्रत्यक्षेऽपि ह्य् आकाशे बालास् तल-मलिनता-आद्य् अध्यस्यन्ति। एवम् अविरुद्धः प्रत्यग्-आत्मन्य् अप्य् अनात्म-अध्यासः।

अथ विद्या-अविद्या-विवेक-भाष्यम्
तम् एतम् एवं-लक्षणम् अध्यासं पण्डिता ‘अविद्या’ इति मन्यन्ते, तद्-विवेकेन च वस्तु-स्व-रूप-अवधारणं विद्याम् आहुः। तत्रैवं सति यत्र यद्-अध्यासस् तत्-कृतेन दोषेण गुणेन वा अणुमात्रेण अपि स न संबध्यते।
अथ व्यवहारमात्रस्य-अविद्यकत्व-प्रतिपादकं भाष्यम्
तम् एतम् अविद्या-आख्यम् आत्म-अनात्मनोर् इतरेतर-अध्यासं पुरस्कृत्य सर्वे प्रमाण-प्रमेय-व्यवहारा लौकिका वैदिकाश् च प्रवृत्ताः, सर्वाणि च शास्त्राणि विधि-प्रतिषेध-मोक्ष-पराणि।
आक्षेपः
कथं पुनर् अविद्यावद् विषयाणि प्रत्यक्ष-आदीनि प्रमाणानि शास्त्राणि चेति।
समाधानम्
उच्यते, देहेन्द्रिय-आदिष्व् अहं-मम-अभिमान-रहितस्य प्रमातृत्व-अनुपपत्तौ प्रमाण-प्रवृत्त्य्-अनुपपत्तेः। न हि इन्द्रियाण्य् अनुपादाय प्रत्यक्ष-आदि-व्यवहारः संभवति। न च अधिष्ठानम् अन्तरेण इन्द्रियाणां व्यवहारः संभवति। न च अनध्यस्त-आत्म-भावेन देहेन कश्चिद् व्याप्रियते। न चैतस्मिन् सर्वस्मिन्न् असत्य् असङ्गस्य आत्मनः प्रमातृत्वम् उपपद्यते। न च प्रमातृत्वम् अन्तरेण प्रमाण-प्रवृत्तिर् अस्ति। तस्माद् अविद्यावद् विषयाण्य् एव प्रत्य्-अक्ष-आदीनि प्रमाणानि शास्त्राणि चेति। पश्व्-आदिभिश् च अविशेषात्। यथा हि पश्व्-आदयः शब्द-आदिभिः श्रोत्र-आदीनां संबन्धे सति, शब्ध-आदि-विज्ञाने प्रति-कूले जाते ततो निवर्तन्ते, अनु-कूले च प्रवर्तन्ते, यथा दण्डोद्यत-करं पुरुषम् अभिमुखम् उपलभ्य ‘मां हन्तुम् अयम् इच्छति’ इति पलायितुम् आरभन्ते, हरित-तृण-पूर्ण-पाणिम् उपलभ्य तं प्रति अभिमुखी-भवन्ति। एवं पुरुषा अपि व्युत्पन्न-चित्ताः क्रूर-दृष्टीन् आक्रोशतः खङ्गोद्यत-करान् बलवत उपलभ्य ततो निवर्तन्ते, तद्-विपरीतान् प्रति प्रवर्तन्ते। अतः समानः पश्व्-आदिभिः पुरुषाणां प्रमाण-प्रमेय-व्यवहारः। पश्व्-आदीनां च प्रसिद्ध एव अविवेक-पुरःसरः प्रत्य्-अक्ष-आदि-व्यवहारः। तत्-सामान्य-दर्शनाद् व्युत्पत्तिमताम् अपि पुरुषाणां प्रत्यक्ष-आदि-व्यवहारस् तत्-कालः समान इति निश्चीयते।
शास्त्र-व्यवहारस्य अप्य् अविद्या-पुरस्सरत्व-प्रदर्शन-भाष्यम्
शास्त्रीये तु व्यवहारे यद्य् अपि बुद्धि-पूर्व-कारी न अविदित्वा आत्मनः पर-लोक-संबन्धम् अधिक्रियते, तथा अपि न वेदान्त-वेद्यम् अशनाय-आद्य्-अतीतम् अपेत-ब्रह्म-क्षत्र-आदि-भेदम् असंसार्य्-आत्म-तत्त्वम् अधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकार-विरोधाच् च। प्राक् च तथा-भूत-आत्म-विज्ञानात् प्रवर्तमानं शास्त्रम् अविद्यावद् विषयत्वं न अतिवर्तते। तथा हि, ‘ब्राह्मणो यजेत’ इत्य्-आदीनि शास्त्राण्य् आत्मनि वर्ण-आश्रम-वयोऽवस्था-आदि-विशेष-अध्यासम् आश्रित्य प्रवर्तन्ते।
अथ अध्यास-प्रकार-प्रदर्शन-भाष्यम्
‘अध्यासो नाम अतस्मिंस् तद्-बुद्धिः’ इत्य् अवोचाम। तद् यथा पुत्र-भार्या-आदिषु वि-कलेषु स-कलेषु वा ‘अहम् एव वि-कलः, स-कलो वा’ इति बाह्य-धर्मान् आत्मनि अध्यस्यति, तथा देह-धर्मान् ‘स्थूलोऽहम् कृशोऽहम् गौरोऽहम् तिष्ठामि गच्छामि लङ्घयामि च’ इति, तथेन्द्रिय-धर्मान् ‘मूकः काणः क्लीबो बधिरोऽन्धोऽहम्’ इति, तथा अन्तःकरण-धर्मान् काम-संकल्प-विचिकित्सा-अध्यवसाय-आदीन्। एवम् अहं-प्रत्ययिनम् अशेष-स्व-प्रचार-साक्षिणि प्रत्यग्-आत्मन्य् अध्यस्य तं च प्रत्यग्-आत्मानं सर्व-साक्षिणं तद्-विपर्ययेण अन्तःकरण-आदिष्व् अध्यस्यति।
अथ अध्यास-विचारोपसंहार-भाष्यम्
एवम् अयम् अनादिर् अनन्तो नैसर्गिकोऽध्यासो मिथ्या-प्रत्यय-रूपः कर्तृत्व-भोक्तृत्व-प्रवर्तकः सर्व-लोक-प्रत्यक्षः।
अथ मीमांसा-अवकरणिका-भाष्यम्
अस्य अनर्थ-हेतोः प्रहाणाय आत्मैकत्व-विद्या-प्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते। यथा च अयम् अर्थः सर्वेषां वेदान्तानां, तथा वयम् अस्यां शारिरक-मीमांसायां प्रदर्शयिष्यामः।

इति भाष्योपोद्घातः

[Go to Contents]

वेदान्त-मीमांसा-शास्त्रस्य व्याचिख्यासितस्येदम् आदिमं सूत्रम्।

अ-विचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात्।
अ-संदेहाफलत्वाभ्यां न विचारं तद् अर्हति॥११॥
अध्यासोऽहं-बुद्धि-सिद्धोऽसङ्गं ब्रह्म श्रुतीरितम्।
संदेहान् मुक्ति-भावाच् च विचार्यं ब्रह्म वेदतः॥१२॥ वै.न्या.मा.

अथातो ब्रह्म-जिज्ञासा॥१.१.१॥

तत्र अथ-शब्दः आनन्तर्य-अर्थः परिगृह्यते, न अधिकार-अर्थः, ब्रह्म-जिज्ञासाया अनधिकार्यत्वात्। मङ्गलस्य च वाक्य-अर्थे समन्वय-अभावात्। अर्थ-अन्तर-प्रयुक्त एव ह्य् अथ-शब्दः श्रुत्या मङ्गल-प्रयोजनो भवति। पूर्व-प्रकृत-अपेक्षायाश् च फलत आनन्तर्य-अव्यतिरेकात्। सति च आनन्तर्य-अर्थत्वे, यथा धर्म-जिज्ञासा पूर्व-वृत्तं वेद-अध्ययनं नियमेन अपेक्षते, एवं ब्रह्म-जिज्ञासा अपि यत् पूर्व-वृत्तं नियमेन अपेक्षते, तद् वक्तव्यम्। स्वाध्याय-आनन्तर्यं तु समानम्। नन्व् इह कर्म-अवबोध-आनन्तर्यं विशेषः। न, धर्म-जिज्ञासायाः प्राग् अपि अधीत-वेदान्तस्य ब्रह्म-जिज्ञासोपपत्तेः। यथा च हृदय-आद्य्-अवदानानाम् आनन्तर्य-नियमः, क्रमस्य विवक्षितत्वात्, न तथेह क्रमो विवक्षितः। शेष-शेषित्वे अधिकृत-अधिकारे वा प्रमाण-अभावात्, धर्म-ब्रह्म-जिज्ञासयोः फल-जिज्ञास्य-भेदाच् च। अभ्युदय-फलं धर्म-ज्ञानं तच् च अनुष्ठान-अपेक्षम्, निःश्रेयस-फलं तु ब्रह्म-विज्ञानम्, न च अनुष्ठान-अन्तर-अपेक्षम्। भव्यश् च धर्मो जिज्ञास्यो न ज्ञान-कालेऽस्ति, पुरुष-व्यापार-तन्त्रत्वात्। इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान् न पुरुष-व्यापार-तन्त्रम्। चोदना-प्रवृत्ति-भेदाच् च। या हि चोदना धर्मस्य लक्षणम्, सा स्व-विषये नियुञ्जानैव पुरुषम् अवबोधयति। ब्रह्म-चोदना तु पुरुषम् अवबोधयत्य् एव केवलम्, अवबोधस्य चोदना-जन्यत्वान् न पुरुषोऽवबोधे नियुज्यते। यथा अक्ष-अर्थ-संनिकर्षेण अर्थ-अवबोधे, तद्वत्। तस्मात् किम् अपि वक्तव्यं, यद् अनन्तरं ब्रह्म-जिज्ञासोपदिश्यत इति। उच्यते, नित्य-अनित्य-वस्तु-विवेकः इह-अमुत्र-अर्थ-भोग-विरागः शम-दम-आदि-साधन-संपत् मुमुक्षुत्वं च। तेषु हि सत्सु, प्राग् अपि धर्म-जिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये। तस्मात् अथ-शब्देन यथोक्त-साधन-संपत्त्य्-आनन्तर्यम् उपदिश्यते॥

अतः-शब्दो हेत्व्-अर्थः। यस्माद् वेद एव अग्नि-होत्र-आदीनां श्रेयः-साधनानाम् अनित्य-फलतां दर्शयति, ‘तद् यथेह कर्म-चितो लोकः क्षीयते, एवम् एव अमुत्र पुण्य-चितो लोकः क्षीयते’ (छा॰उ॰ ८.१.६) इत्य्-आदिः, तथा ब्रह्म-विज्ञानाद् अपि परं पुरुष-अर्थं दर्शयति ‘ब्रह्म-विद् आप्नोति परम्’ (तै॰उ॰ २.१.१) इत्य्-आदिः, तस्मात् यथोक्त-साधन-संपत्त्य्-अनन्तरं ब्रह्म-जिज्ञासा कर्तव्या।

ब्रह्मणो जिज्ञासा ब्रह्म-जिज्ञासा। ब्रह्म च वक्ष्यमाण-लक्षणम् ‘जन्म-आद्य् अस्य यतः’ इति। अत एव न ब्रह्म-शब्दस्य जात्य्-आद्य्-अर्थ-अन्तरम् आशङ्कितव्यम्। ब्रह्मण इति कर्मणि षष्ठी, न शेषे, जिज्ञास्य-अपेक्षत्वाज् जिज्ञासायाः, जिज्ञास्य-अन्तर-अनिर्देशाच् च। ननु शेष-षष्ठी-परिग्रहेऽपि ब्रह्मणो जिज्ञासा-कर्मत्वं न विरुध्यते, संबन्ध-सामान्यस्य विशेष-निष्ठत्वात्। एवम् अपि प्रत्यक्षं ब्रह्मणः कर्मत्वम् उत्सृज्य, सामान्य-द्वारेण परोक्षं कर्मत्वं कल्पयतो, व्य्-अर्थः प्रयासः स्यात्। न व्य्-अर्थः, ब्रह्म-आश्रित-अशेष-विचार-प्रतिज्ञान-अर्थत्वाद् इति चेत्, न, प्रधान-परिग्रहे तद्-अपेक्षितानाम् अर्थ-आक्षिप्तत्वात्। ब्रह्म हि ज्ञानेन आप्तुम् इष्टतमत्वात् प्रधानम्। तस्मिन् प्रधाने जिज्ञासा-कर्मणि परिगृहीते, यैर् जिज्ञासितैर् विना ब्रह्म जिज्ञासितं न भवति, तान्य् अर्थ-आक्षिप्तान्य् एवेति न पृथक्-सूत्रयितव्यानि। यथा ‘राजा असौ गच्छति’ इत्य् उक्ते स-परिवारस्य राज्ञो गमनम् उक्तं भवति, तद्वत्। श्रुत्य्-अनुगमाच् च। ‘यतो वा इमानि भूतानि जायन्ते’ (तै॰उ॰ 3.१.१) इत्य्-आद्याः श्रुतयः ‘तद् विजिज्ञासस्व तद् ब्रह्म’ इति प्रत्यक्षम् एव ब्रह्मणो जिज्ञासा-कर्मत्वं दर्शयन्ति। तच् च कर्मणि षष्ठी-परिग्रहे सूत्रेण अनुगतं भवति। तस्माद् ब्रह्मण इति कर्मणि षष्ठी।

ज्ञातुम् इच्छा जिज्ञासा। अवगति-पर्यन्तं ज्ञानं सन्-वाच्याया इच्छायाः कर्म, फल-विषयत्वाद् इच्छायाः। ज्ञानेन हि प्रमाणेन अवगन्तुम् इष्टं ब्रह्म। ब्रह्म-अवगतिर् हि पुरुष-अर्थः, निः-शेष-संसार-बीज-अविद्या-आद्य्-अनर्थ-निबर्हणात्। तस्माद् ब्रह्म जिज्ञासितव्यम्॥

तत् पुनर् ब्रह्म प्रसिद्धम् अप्रसिद्धं वा स्यात्, यदि प्रसिद्धं न जिज्ञासितव्यम्, अथ अप्रसिद्धं नैव शक्यं जिज्ञासितुम् इति। उच्यते, अस्ति तावद् ब्रह्म नित्य-शुद्ध-बुद्ध-मुक्त-स्व-भावं सर्वज्ञं सर्व-शक्ति-समन्वितम्। ब्रह्म-शब्दस्य हि व्युत्पाद्यमानस्य नित्य-शुद्धत्व-आदयोऽर्थाः प्रतीयन्ते, बृहतेर् धातोर् अर्थ-अनुगमात्। सर्वस्य आत्मत्वाच् च ब्रह्म-अस्तित्व-प्रसिद्धिः। सर्वो ह्य् आत्म-अस्तित्वं प्रत्येति, न ‘न अहम् अस्मि’ इति। यदि हि न आत्म-अस्तित्व-प्रसिद्धिः स्यात्, सर्वो लोकः ‘न अहम् अस्मि’ इति प्रतीयात्। आत्मा च ब्रह्म॥

यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धम् अस्ति, ततो ज्ञातम् एवेत्य् अजिज्ञास्यत्वं पुनर् आपन्नम्। न, तद्-विशेषं प्रति विप्रतिपत्तेः। देह-मात्रं चैतन्य-विशिष्टम् आत्मेति प्राकृता जना लौकायतिकाश् च प्रतिपन्नाः। इन्द्रियाण्य् एव चेतनान्य् आत्मेत्य् अपरे। मन इत्य् अन्ये। विज्ञान-मात्रं क्षणिकम् इत्य् एके। शून्यम् इत्य् अपरे। अस्ति देह-आदि-व्यतिरिक्तः संसारी कर्ता भोक्तेत्य् अपरे। भोक्तैव केवलं न कर्तेत्य् एके। अस्ति तद्-व्यतिरिक्त ईश्वरः सर्वज्ञः सर्व-शक्तिर् इति केचित्। आत्मा स भोक्तुर् इत्य् अपरे। एवं बहवो विप्रतिपन्ना युक्ति-वाक्य-तद्-आभास-समाश्रयाः सन्तः। तत्र अविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येत, अनर्थं च इयात्। तस्माद् ब्रह्म-जिज्ञासोपन्यास-मुखेन वेदान्त-वाक्य-मीमांसा तद्-अविरोधि-तर्कोपकरणा निःश्रेयस-प्रयोजना प्रस्तूयते॥१॥

इति जिज्ञासा-अधिक्रणम्।

[Go to Contents]

ब्रह्म जिज्ञासितव्यम् इत्य् उक्तम्। किं लक्षणं पुनस् तद् ब्रह्म इत्य् अत आह भगवान् सूत्रकारः।

लक्षणं ब्रह्मणो नास्ति किं वास्ति नहि विद्यते।
जन्मादेर् अन्य-निष्ठत्वात् सत्यादेश् चाप्रसिद्धितः॥१३॥
ब्रह्म-निष्ठं कारणत्वं स्याल् लक्ष्यं स्रग्-भुजङ्गवत्।
सलौकिकानीव सत्यादीन्य् अ-खण्डं लक्षयन्ति हि॥१४॥ वै.न्या.मा.

जन्माद्यस्य यतः॥१.१.२॥

जन्म उत्पत्तिर् आदिर् अस्य, इति तद्-गुण-संविज्ञानो बहु-व्रीहिः। जन्म-स्थिति-भङ्गं समास-अर्थः। जन्मनश् च आदित्वं श्रुति-निर्देश-अपेक्षं वस्तु-वृत्त-अपेक्षं च। श्रुति-निर्देशस् तावत्, ‘यतो वा इमानि भूतानि जायन्ते’ (तै॰उ॰ ३.१.१) इति, अस्मिन् वाक्ये जन्म-स्थिति-प्रलयानां क्रम-दर्शनात्। वस्तु-वृत्तम् अपि जन्मना लब्ध-सत्ताकस्य धर्मिणः स्थिति-प्रलय-संभवात्। अस्येति प्रत्यक्ष-आदि-संनिधापितस्य धर्मिण इदमा निर्देशः। षष्टी जन्म-आदि-धर्म-संबन्ध-अर्था। यत इति कारण-निर्देशः। अस्य जगतो नाम-रूपाभ्यां व्याकृतस्य अनेक-कर्तृ-भोक्तृ-संयुक्तस्य प्रतिनियत-देश-काल-निमित्त-क्रिया-फल-आश्रयस्य मनसा अप्य् अचिन्त्य-रचना-रूपस्य जन्म-स्थिति-भङ्गं यतः सर्वज्ञात् सर्व-शक्तेः कारणाद् भवति, ‘तद् ब्रह्म’ इति वाक्य-शेषः। अन्येषाम् अपि भाव-विकाराणां त्रिष्व् एव अन्तर्-भाव इति जन्म-स्थिति-नाशानाम् इह ग्रहणम्। यास्क-परिपठितानां तु ‘जायतेऽस्ति’ इत्य्-आदीनां ग्रहणे तेषां जगतः स्थिति-काले संभाव्यमानत्वान् मूल-कारणाद् उत्पत्ति-स्थिति-नाशा जगतो न गृहीताः स्युर् इत्य् आशङ्क्येत, तन् मा शङ्की इति या उत्पत्तिर् ब्रह्मणः, तत्रैव स्थितिः प्रलयश् च, त एव गृह्यन्ते। न यथोक्त-विशेषणस्य जगतो यथोक्त-विशेषणम् ईश्वरं मुक्त्वा अन्यतः प्रधानाद् अचेतनात् अणुभ्यो अभावाद् संसारिणो वा उत्पत्त्य्-आदि संभावयितुं शक्यम्। न च स्व-भावतः, विशिष्ट-देश-काल-निमित्तानाम् इहोपादानात्। एतद् एव अनुमानं संसारि-व्यतिरिक्तेश्वर-अस्तित्व-आदि-साधनं मन्यन्ते ईश्वर-कारणिनः।

नन्व् इह अपि तद् एवोपन्यस्तं जन्म-आदि-सूत्रे। न, वेदान्त-वाक्य-कुसुम-ग्रथन-अर्थत्वात् सूत्राणाम्। वेदान्त-वाक्यानि हि सूत्रैर् उदाहृत्य विचार्यन्ते। वाक्य-अर्थ-विचारण-अध्यवसान-निर्वृत्ता हि ब्रह्म-अवगतिः, न अनुमान-आदि-प्रमाण-अन्तर-निर्वृत्ता। सत्सु तु वेदान्त-वाक्येषु जगतो जन्म-आदि-कारण-वादिषु, तद्-अर्थ-ग्रहण-दार्ढ्याय अनुमानम् अपि वेदान्त-वाक्य-अविरोधि प्रमाणं भवत् न निवार्यते, श्रुत्यैव च सहायत्वेन तर्कस्य अप्य् अभ्युपेतत्वात्। तथा हि, ‘श्रोतव्यो मन्तव्यः’ (बृ॰उ॰ २.४.५) इति श्रुतिः, ‘पण्डितो मेधावी गन्धारान् एवोपसंपद्येतैवम् एवेह आचार्यवान् पुरुषो वेद’ (छा॰उ॰ ६.१४.२) इति च पुरुष-बुद्धि-साहाय्यम् आत्मनो दर्शयति। न, धर्म-जिज्ञासायाम् इव श्रुत्य्-आदय एव प्रमाणं ब्रह्म-जिज्ञासायाम्, किन् तु श्रुत्य्-आदयोऽनुभाव-आदयश् च यथा-संभवम् इह प्रमाणम्, अनुभव-अवसानत्वाद् भूत-वस्तु-विषयत्वाच् च ब्रह्म-ज्ञानस्य। कर्तव्ये हि विषये न अनुभव-अपेक्षा अस्ति इति श्रुत्य्-आदीनाम् एव प्रामाण्यं स्यात्, पुरुष-अधीन-आत्म-लाभत्वाच् च कर्तव्यस्य। कर्तुम् अकर्तुम् अन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म, यथा ‘अश्वेन गच्छति पद्भ्याम् अन्यथा वा न वा गच्छति’ इति, तथा ‘अति-रात्रे षोडशिनं गृह्णाति’, ‘न अति-रात्रे षोडशिनं गृह्णाति’, ‘उदिते जुहोति’, ‘अनुदिते जुहोति’ इति। विधि-प्रतिषेधाश् च अत्र अर्थवन्तः स्युः, विकल्पोत्सर्ग-अपवादाश् च। न तु वस्तु ‘एवम् नैवम्’, ‘अस्ति न अस्ति’ इति वा विकल्प्यते। विकल्पनास् तु पुरुष-बुद्ध्य्-अपेक्षाः। न वस्तु-याथा-आत्म्य-ज्ञानं पुरुष-बुद्ध्य्-अपेक्षम्। किं तर्हि? वस्तु-तन्त्रम् एव तत्। न हि स्थाणाव् एकस्मिन् ‘स्थाणुर् वा पुरुषोऽन्यो वा’ इति तत्त्व-ज्ञानं भवति। तत्र ‘पुरुषोऽन्यो वा’ इति मिथ्या-ज्ञानम्, ‘स्थाणुर् एव’ इति तत्त्व-ज्ञानम्, वस्तु-तन्त्रत्वात्। एवं भूत-वस्तु-विषयाणां प्रामाण्यं वस्तु-तन्त्रम्। तत्रैवं सति ब्रह्म-ज्ञानम् अपि वस्तु-तन्त्रम् एव, भूत-वस्तु-विषयत्वात्।

ननु भूत-वस्तु-विषयत्वे ब्रह्मणः प्रमाण-अन्तर-विषयत्वम् एवेति वेदान्त-वाक्य-विचारणा अनर्थिकैव प्राप्ता। न, इन्द्रिय-अविषयत्वेन संबन्ध-अग्रहणात्। स्व-भावतो विषय-विषयाणि इन्द्रियाणि, न ब्रह्म-विषयाणि। सति हि इन्द्रिय-विषयत्वे ब्रह्मणः, इदं ब्रह्मणा संबद्धं कार्यम् इति गृह्येत। कार्यमात्रम् एव तु गृह्यमाणं, किं ब्रह्मणा संबद्धम्? किम् अन्येन केनचिद् वा संबद्धम्? इति न शक्यं निश्चेतुम्। तस्माज् जन्म-आदि-सूत्रं न अनुमाणोपन्यास-अर्थम्। किं तर्हि? वेदान-वाक्य-प्रदर्शन-अर्थम्। किं पुनस् तद् वेदान्त-वाक्यं यत् सूत्रेणेह लिलक्षयिषितम्? ‘भृगुर् वै वारुणिः। वरुणं पितरम् उपससार। अधीहि भगवो ब्रह्मेति’ इत्य् उपक्रम्य आह, ‘यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत् प्रयन्त्य् अभिसंविशन्ति। तद् विजिज्ञासस्व। तद् ब्रह्मेति।’ (तै॰उ॰ ३.१.१) तस्य च निर्णय-वाक्यम्, ‘आनन्दाद् ध्य् एव खल्व् इमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्य् अभिसंविशन्ति।’ (तै॰उ॰ ३.६.१) इति। अन्यान्य् अप्य् एवं जातीयकानि वाक्यानि निय-शुद्ध-बुद्ध-मुक्त-स्व-भाव-सर्वज्ञ-स्व-रूप-कारण-विषयाणि उदाहर्तव्यानि॥२॥

इति जन्म-आद्य्-अधिकरणम्।

[Go to Contents]

जगत्-कारणत्व-प्रदर्शनेन सर्व-ज्ञं ब्रह्मेत्य् उपक्षिप्तम्, तद् एव द्रढयन्न् आह।

न कर्तृ ब्रह्म वेदस्य किं वा कर्तृ न कर्तृ तत्।
विरूपनित्यया वाचेत्य् एवं नित्यत्व-कीर्तनात्॥१५॥
कर्तृ निःश्वसिताद्य्-उक्तेर् नित्यत्वं पूर्व-साम्यतः।
सर्वावभासि वेदस्य कर्तृत्वात् सर्वविद् भवेत्॥१६॥
अस्त्य् अन्य-मेयताप्य् अस्य किं वा वेदैक-मेयता।
घटवत् सिद्ध-वस्तुत्वाद् ब्रह्मान्येनापि मीयते॥१७॥
रूप-लिङ्गादि-राहित्यान् नास्य मान्तर-योग्यता।
तं त्व् औपनिषदेत्य्-आदौ प्रोक्ता वेदैक-मेयता॥१८॥ वै.न्या.मा.

शास्त्र-योनित्वात्॥१.१.३॥

महत ऋग्-वेद-आदेः शास्त्रस्य अनेक-विद्या-स्थानोपबृंहितस्य प्रदीपवत् सर्व-अर्थ-अवद्योतिनः सर्वज्ञ-कल्पस्य योनिः कारणं ब्रह्म। न हि ईदृशस्य शास्त्रस्य ऋग्-वेद-आदि-लक्षणस्य सर्वज्ञ-गुण-अन्वितस्य सर्वज्ञाद् अन्यतः संभवोऽस्ति। यद्यद् विस्तर-अर्थं शास्त्रं यस्मात् पुरुष-विशेषात् संभवति, यथा व्याकरण-आदि पाणिन्य्-आदेः, ज्ञेयैक-देश-अर्थम् अपि, स ततोऽप्य् अधिकतर-विज्ञान इति प्रसिद्धं लोके। किम् उ वक्तव्यम्, अनेक-शाखा-भेद-भिन्नस्य देव-तिर्यङ्-मनुष्य-वर्ण-आश्रम-आदि-प्रविभाग-हेतोः ऋग्-वेद-आद्य्-आख्यस्य सर्वज्ञान-आकरस्य अप्रयत्नेनैव लीला-न्यायेन पुरुष-निःश्वासवत् यस्मान् महतो भूतात् योनेः संभवः, ‘अस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेदः’ (बृ॰उ॰ २.४.१०) इत्य्-आदि-श्रुतेः, तस्य महतो भूतस्य निर्-अतिशयं सर्वज्ञत्वं सर्व-शक्तिमत्त्वं चेति।

अथवा यथोक्तम् ऋग्-वेद-आदि-शास्त्रं योनिः कारणं प्रमाणम् अस्य ब्रह्मणो यथावत्-स्व-रूप-अधिगमे। शास्त्राद् एव प्रमाणात् जगतो जन्म-आदि-कारणं ब्रह्म अधिगम्यत इत्य् अभिप्रायः। शास्त्रम् उदाहृतं पूर्व-सूत्रे, ‘यतो वा इमानि भूतानि जायन्ते’ (तै॰उ॰ ३.१.१) इत्य्-आदि। किम् अर्थं तर्हि इदं सूत्रम्, यावता पूर्व-सूत्रेणैव एवं-जातीयकं शास्त्रम् उदाहरता शास्त्र-योनित्वं ब्रह्मणो दर्शितम्। उच्यते तत्र पूर्व-सूत्र-अक्षरेण स्पष्टं शास्त्रस्य अनुपादानाज् जन्म-आदि केवलम् अनुमानम् उपन्यस्तम् इत्य् आशङ्कयेत, ताम् आशङ्कां निवर्तयितुम् इदं सूत्रं प्रववृते ‘शास्त्र-योनित्वात्’ इति॥३॥

इति शास्त्र-योनित्व-अधिकरणम्।

[Go to Contents]

कथं पुनर् ब्रह्मणः शास्त्र-प्रमाणकत्वम् उच्यते, यावता ‘आम्नायस्य क्रिया-अर्थत्वाद् आनर्थक्यम् अतद्-अर्थानाम्’ (जै॰सू॰ १.२.१) इति क्रिया-परत्वं शास्त्रस्य प्रदर्शितम्। अतो वेदान्तानाम् आनर्थक्यम्, अक्रिया-अर्थत्वात्। कर्तृ-देवता-आदि-प्रकाशन-अर्थत्वेन वा क्रिया-विधि-शेषत्वम्, उपासना-आदि-क्रिया-अन्तर-विधान-अर्थत्वं वा। न हि परिनिष्ठित-वस्तु-प्रतिपादनं संभवति, प्रत्यक्ष-आदि-विषयत्वात् परिनिष्ठ-वस्तुनः, तत्-प्रतिपादने च हेयोपादेय-रहिते पुरुष-अर्थ-अभावात्। अत एव ‘सोऽरोदीत्’ इत्य् एवम्-आदीनाम् आनर्थक्यं मा भूद् इति ‘विधिना त्व् एक-वाक्यत्वात् स्तुत्य्-अर्थेन विधीनां स्युः’ (जै॰सू॰ १.२.७) इति स्तावकत्वेन अर्थवत्त्वम् उक्तम्। मन्त्राणां च ‘इषे त्वा’ (यजुर्-वेद १.१.१) इत्य्-आदीनां क्रिया-तत्-साधन-अभिधायित्वेन कर्म-समवायित्वम् उक्तम्। न क्वचिद् अपि वेद-वाक्यानां विधि-संस्पर्शम् अन्तरेण अर्थवत्ता दृष्टा उपपन्ना वा। न च परिनिष्ठिते वस्तु-स्व-रूपे विधिः संभवति, क्रिया-विषयत्वाद् विधेः। तस्मात् कर्म-अपेक्षित-कर्तृ-स्व-रूप-देवता-आदि-प्रकाशनेन क्रिया-विधि-शेषत्वं वेदान्तानाम्। अथ प्रकरण-अन्तर-भयान् न एतद् अभ्युपगम्यते, तथा अपि स्व-वाक्य-गतोपासना-आदि-कर्म-परत्वम्। तस्मान् न ब्रह्मणः शास्त्र-योनित्वम् इति प्राप्ते, उच्यते,

वेदान्ताः कर्तृ-देवादि-परा ब्रह्म-परा उत।
अनुष्ठानोपयोगित्वात् कर्त्रादि-प्रतिपादकाः॥१९॥
भिन्न-प्रकरणाल् लिङ्ग-षट्काच् च ब्रह्म-बोधकाः।
सति प्रयोजनेऽनर्थ-हानेऽनुष्ठानतोऽत्र किम्॥२०॥
प्रतिपत्तिं विधित्सन्ति ब्रह्मण्य् असिता उत।
शास्त्रत्वात् ते विधातारो मननादेश् च कीर्तनात्॥२१॥
नाकर्तृ तन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनाद् अपि।
मननादेः पुराबोधाद् ब्रह्मण्य् अवसितास् ततः॥२२॥ वै.न्या.मा.

तत् तु समन्वयात्॥१.१.४॥

तु-शब्दः पूर्व-पक्ष-व्यावृत्त्य्-अर्थः। तद् ब्रह्म सर्वज्ञं सर्व-शक्ति जगद्-उत्पत्ति-स्थिति-लय-कारणं वेदान्त-शास्त्राद् एव अवगम्यते। कथम्? समन्वयात्। सर्वेषु हि वेदान्तेषु वाक्यानि तात्-पर्येणैतस्य अर्थस्य प्रतिपादकत्वेन समनुगतानि ‘सद् एव सोम्येदम् अग्र आसीत् एकम् एव अद्वितीयम्’ (छा॰उ॰ ६.२.१), ‘आत्मा वा इदम् एक एव अग्र आसीत्’ (ऐत्॰उ॰ १.१), ‘तद् एतद् ब्रह्म अपूर्वम् अनपरम् अनन्तरम् अबाह्यम्। अयम् आत्मा ब्रह्म सर्व-अनुभूः’ (बृ॰उ॰ २.५.१९), ‘ब्रह्मैवेदम् अमृतं पुरस्तात्’ (मुण्॰उ॰ २.२.११) इत्य्-आदीनि। न च तद्-गतानां पदानां ब्रह्म-स्व-रूप-विषये निश्चिते समन्वयेऽवगम्यमाने अर्थ-अन्तर-कल्पना युक्ता, श्रुत-हान्य्-अश्रुत-कल्पना-प्रसङ्गात्। न च तेषां कर्तृ-देवता-आदि-स्व-रूप-प्रतिपादन-परता अवसीयते, ‘तत् केन कं पश्येत्’ (बृ॰उ॰ २.४.१४) इत्य्-आदि-क्रिया-कारक-फल-निराकरण-श्रुतेः। न च परिनिष्ठित-वस्तु-स्व-रूपत्वेऽपि प्रत्यक्ष-आदि-विषयत्वं ब्रह्मणः, ‘तत् त्वम् असि’ (छा॰उ॰ ६.८.७…) इति ब्रह्म-आत्म-भावस्य शास्त्रम् अन्तरेण अनवगम्यमानत्वात्। यत् तु हेयोपादेय-रहितत्वाद् उपदेश-आनर्थक्यम् इति, नैष दोषः, हेयोपादेय-शून्य-ब्रह्म-आत्मता-अवगमाद् एव सर्व-क्लेश-प्रहाणात् पुरुष-अर्थ-सिद्धेः। देवता-आदि-प्रतिपादनस्य तु स्व-वाक्य-गतोपासना-अर्थत्वेऽपि न कश्चिद् विरोधः। न तु तथा ब्रह्मण उपासना-विधि-शेषत्वं संभवति, एकत्वे हेयोपादेय-शून्यतया क्रिया-कारक-आदि-द्वैत-विज्ञानोपमर्दोपपत्तेः। न हि एकत्व-विज्ञानेनोन्मथितस्य द्वैत-विज्ञानस्य पुनः संभवोऽस्ति, येनोपासना-विधि-शेषत्वं ब्रह्मणः प्रतिपाद्येत। यद्य् अपि अन्यत्र वेद-वाक्यानां विधि-संस्पर्शम् अन्तरेण प्रमाणत्वं न दृष्टम्, तथा अप्य् आत्म-विज्ञानस्य फल-पर्यन्तत्वान् न तद्-विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम्। न च अनुमान-गम्यं शास्त्र-प्रामाण्यम्, येन अन्यत्र दृष्टं निदर्शनम् अपेक्षेत। तस्मात् सिद्धं ब्रह्मणः शास्त्र-प्रमाणकत्वम्॥

अत्र अपरे प्रत्यवतिष्ठन्ते, यद्य् अपि शास्त्र-प्रमाणकं ब्रह्म, तथा अपि प्रतिपत्ति-विधि-विषयतयैव शास्त्रेण ब्रह्म समर्प्यते, यथा यूप-आहवनीय-आदीन्य् अलौकिकान्य् अपि विधि-शेषतया शास्त्रेण समर्प्यन्ते, तद्वत्। कुत एतत्? प्रवृत्ति-निवृत्ति-प्रयोजन-परत्वाच् छास्त्रस्य। तथा हि शास्त्र-तात्-पर्यविदाम् आहुः, ‘दृष्टो हि तस्य अर्थः कर्म-अवबोधनम्’ (शा॰भा॰ १.१.१) इति। ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्’ (शा॰भा॰ १.१.२), ‘तस्य ज्ञानम् उपदेशः’ (जै॰सू॰ १.१.५), ‘तद्-भूतानां क्रिया-अर्थेन समाम्नायः’ (जै॰सू॰ १.१.२५), ‘आम्नायस्य क्रिया-अर्थत्वाद् आनर्थक्यम् अतद्-अर्थानाम्’ (जै॰सू॰ १.२.१) इति च। अतः पुरुषं क्वचिद् विषय-विशेषे प्रवर्तयत् कुतश्चिद् विषय-विशेषान् निवर्तयच् च अर्थवच् छास्त्रम्। तच्-छेषतया च अन्यद् उपयुक्तम्। तद्-सामान्याद् वेदान्तानाम् अपि तथैव अर्थवत्त्वं स्यात्। सति च विधि-परत्वे, यथा स्वर्ग-आदि-कामस्य अग्नि-होत्र-आदि-साधनं विधीयते, एवम् अमृतत्व-कामस्य ब्रह्म-ज्ञानं विधीयत इति युक्तम्। नन्व् इह जिज्ञास्य-वैलक्षण्यम् उक्तम्, कर्म-काण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्य-निर्वृत्तं ब्रह्म जिज्ञास्यम् इति। तत्र धर्म-ज्ञान-फलाद् अनुष्ठान-अपेक्षाद् वि-लक्षणं ब्रह्म-ज्ञान-फलं भवितुम् अर्हति। न अर्हत्य् एवं भवितुम्, कार्य-विधि-प्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्। ‘आत्मा वा अरे द्रष्टव्यः’ (बृ॰उ॰ २.४.५, ४.५.६), ‘य आत्मा अपहत-पाप्मा … सोऽन्वेष्ठव्यः स विजिज्ञासितव्यः’ (छा॰उ॰ ८.७.१), ‘आत्मेत्य् एवोपासीत’ (बृ॰उ॰ १.४.७), ‘आत्मानम् एव लोकम् उपासीत’ (बृ॰उ॰ १.४.१५), ‘ब्रह्म वेद ब्रह्मैव भवति’ (मुण्॰उ॰ ३.२.९) इत्य्-आदि-विधानेषु सत्सु, ‘कोऽसाव् आत्मा?’ ‘किं तद् ब्रह्म?’ इत्य् आकाङ्क्षायां तत्-स्व-रूप-समर्पणेन सर्वे वेदान्ता उपयुक्ताः, ‘नित्यः सर्वज्ञः सर्व-गतो नित्य-तृप्तो नित्य-शुद्ध-बुद्ध-मुक्त-स्व-भावो विज्ञानम् आनन्दं ब्रह्म’ इत्य् एवम्-आदयः। तद्-उपासनाच् च शास्त्र-दृष्टोऽदृष्टो मोक्षः फलं भविष्यति इति। कर्तव्य-विध्य्-अननुप्रवेशे वस्तुमात्र-कथने हानोपादान-असंभवात् ‘सप्त-द्वीपा वसुमती’, ‘राजा असौ गच्छति’ इत्य्-आदि-वाक्यवद्-वेदान्त-वाक्यानाम् आनर्थक्यम् एव स्यात्। ननु वस्तुमात्र-कथनेऽपि ‘रज्जुर् इयं, न अयं सर्पः’ इत्य्-आदौ भ्रान्ति-जनित-भीति-निवर्तनेन अर्थवत्त्वं दृष्टम्। तथेह अप्य् असंसार्य्-आत्म-वस्तु-कथनेन संसारित्व-भ्रान्ति-निवर्तनेन अर्थवत्त्वं स्यात्। स्याद् एतद् एवम्, यदि रज्जु-स्व-रूप-श्रवण इव सर्प-भ्रान्तिः, संसारित्व-भ्रान्तिर् ब्रह्म-स्व-रूप-श्रवणमात्रेण निवर्तेत। न तु निवर्तते, श्रुत-ब्रह्मणोऽपि यथा पूर्वं सुख-दुःख-आदि-संसारि-धर्म-दर्शनात्, ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ॰उ॰ २.४.५, ४.५.६) इति च श्रवणोत्तर-कालयोर् मनन-निदिध्यासनयोर् विधि-दर्शनात्। तस्मात् प्रतिपत्ति-विधि-विषयतयैव शास्त्र-प्रमाणकं ब्रह्म अभ्युपगन्तव्यम् इति॥

अत्र अभिधीयते, न, कर्म-ब्रह्म-विद्या-फलयोर् वैलक्षण्यात्। शारीरं वाचिकं मानसं च कर्म श्रुति-स्मृति-सिद्धं धर्म-आख्यम्, यद्-विषया जिज्ञासा ‘अथ अतो धर्म-जिज्ञासा’ (जै॰सू॰ १.१.१) इति सूत्रिता। अधर्मोऽपि हिंसा-आदिः प्रतिषेध-चोदना-लक्षणत्वाज् जिज्ञास्यः परिहाराय। तयोश् चोदना-लक्षणयोर् अर्थ-अनर्थयोर् धर्म-अधर्मयोः फले प्रत्यक्षे सुख-दुःखे शरीर-वाङ्-मनोभिर् एवोपभुज्यमाने विषयेन्द्रिय-संयोग-जन्ये ब्रह्म-आदिषु (देहवत्सु) स्थावर-अन्तेषु प्रसिद्धे। मनुष्यत्वाद् आरभ्य ब्रह्म-अन्तेषु देहवत्सु सुख-तारतम्यम् अनुश्रूयते। ततश् च तद्-धेतोर् धर्मस्य तारतम्यं गम्यते। धर्म-तारतम्याद् अधिकारि-तारतम्यम्। प्रसिद्धं च अर्थित्व-सामर्थ्य-आदि-कृतम् अधिकारि-तारतम्यम्। तथा च याग-आद्य्-अनुष्ठायिनाम् एव विद्या-समाधि-विशेषाद् उत्तरेण पथा गमनम्, केवलैर् इष्टा-पूर्त-दत्त-साधनैर् धूम-आदि-क्रमेण दक्षिणेन पथा गमनम्, तत्र अपि सुख-तारतम्यम्, तत्-साधन-तारतम्यं च शास्त्रात् ‘यावत् संपातम् उषित्वा’ (छा॰उ॰ ५.१०.५) इत्य् अस्माद् गम्यते। तथा मनुष्य-आदिषु नारक-स्थावर-अन्तेषु सुख-लवश् चोदना-लक्षण-धर्म-साध्य एवेति गम्यते तारतम्येन वर्तमानः। तथोर्ध्व-गतेष्व् अधो-गतेषु च देहवत्सु दुःख-तारतम्य-दर्शनात् तद्-धेतोर् अधर्मस्य प्रतिषेध-चोदना-लक्षणस्य तद्-अनुष्ठायिनां च तारतम्यं गम्यते। एवम् अविद्या-आदि-दोषवतां धर्म-अधर्म-तारतम्य-निमित्तं शरीरोपादान-पूर्वकं सुख-दुःख-तारतम्यम् अनित्यं संसार-रूपं श्रुति-स्मृति-न्याय-प्रसिद्धम्। तथा च श्रुतिः ‘न ह वै स-शरीरस्य सतः प्रिय-अप्रिययोर् अपहतिर् अस्ति’ इति यथा-वर्णितं संसार-रूपम् अनुवदति। ‘अशरीरं वाव सन्तं न प्रिय-अप्रिये स्पृशतः’ (छा॰उ॰ ८.१२.१) इति प्रिय-अ-प्रिय-स्पर्शन-प्रतिषेधाच् चोदना-लक्षण-धर्म-कार्यत्वं मोक्ष-आख्यस्य अशरीरत्वस्य प्रतिषिध्यत इति गम्यते। धर्म-कार्यत्वे हि प्रिय-अप्रिय-स्पर्शन-प्रतिषेधो नोपपद्यते। अशरीरत्वम् एव धर्म-कार्यम् इति चेत्, न, तस्य स्वा-भाविकत्वात्, ‘अशरीरग्ँ शरीरेषु अनवस्थेष्व् अवस्थितम्। महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति’ (कठ्॰उ॰ १.२.२२), ‘अप्राणो ह्य् अमनाः शुभ्रः’ (मुण्॰उ॰ २.१.२), ‘असङ्गो ह्य् अयं पुरुषः’ (बृ॰उ॰ ४.३.१५) इत्य्-आदि-श्रुतिभ्यः। अत एव अनुष्ठेय-कर्म-फल-वि-लक्षणं मोक्ष-आख्यम् अशरिरत्वं नित्यम् इति सिद्धम्। तत्र किंचित् परिणामि-नित्यं यस्मिन् विक्रियमाणेऽपि ‘तद् एवेदम्’ इति बुद्धिर् न विहन्यते, यथा पृथिव्य्-आदि जगन्-नित्यत्व-वादिनाम्, यथा च सांख्यानां गुणाः। इदं तु पारम-अर्थिकं कूटस्थ-नित्यं व्योमवत् सर्व-व्यापि सर्व-विक्रिया-रहितं नित्य-तृप्तं निर्-अवयवं स्वयं-ज्योतिः-स्व-भावम्, यत्र धर्म-अधर्मौ सह कार्येण काल-त्रयं च नोपावर्तेते। तद् एतद् अशरीरत्वं मोक्ष-आख्यम् ‘अन्यत्र धर्माद्, अन्यत्र अधर्माद्, अन्यत्र अस्मात् कृत-अकृतात्। अन्यत्र भूताच् च भव्याच् च’ (कठ्॰उ॰ १.२.१४) इत्य्-आदि-श्रुतिभ्यः। अतस् तद् ब्रह्म, यस्येयं जिज्ञासा प्रस्तुता। तद् यदि कर्तव्य-शेषत्वेनोपदिश्येत, तेन च कर्तव्येन साध्यश् चेन् मोक्षोऽभ्युपगम्येत, अनित्य एव स्यात्। तत्रैवं सति यथोक्त-कर्म-फलेष्व् एव तारतम्य-अवस्थितेष्व् अनित्येषु कश्चिद् अतिशयो मोक्ष इति प्रसज्येत। नित्यश् च मोक्षः सर्वैर् मोक्ष-वादिभिर् अभ्युपगम्यते। अतो न कर्तव्य-शेषत्वेन ब्रह्मोपदेशो युक्तः। अपि च ‘ब्रह्म वेद ब्रह्मैव भवति’ (मुण्॰उ॰ ३.२.९), ‘क्षीयन्ते च अस्य कर्माणि तस्मिन् दृष्टे पर-अवरे’ (मुण्॰उ॰ २.२.८), ‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’ (तै॰उ॰ २.९)। ‘अभयं वै जनक प्राप्तोऽसि’ (बृ॰उ॰ ४.२.४), ‘तद् आत्मानम् एव अवेद् अहं ब्रह्म अस्मि इति, तस्मात् तत् सर्वम् अभवत्’ (वाज्॰ब्रा॰उ॰ १.४.१०), ‘तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः’ (ईश्॰उ॰ ७) इत्य् एवम्-आद्याः श्रुतयो ब्रह्म-विद्या-अनन्तरम् मोक्षं दर्शयन्त्यो मध्ये कार्य-अन्तरं वारयन्ति। तथा ‘तद्धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदेऽहं मनुर् अभवं सूर्यश् च’ (बृ॰उ॰ १.४.१०) इति ब्रह्म-दर्शन-सर्व-आत्म-भावयोर् मध्ये कर्तव्य-अन्तर-वारणायोदाहार्यम्, यथा ‘तिष्ठन् गायति’ इति तिष्ठति-गायत्योर् मध्ये तत्-कर्तृकं कार्य-अन्तरं न अस्ति इति गम्यते। ‘त्वं हि नः पिता योऽस्माकम् अविद्यायाः परं पारं तारयसि’ (प्रश्॰उ॰ ६.८), ‘श्रुतं ह्य् एव मे भगवद्-दृशेभ्यस् तरति शोकम् आत्मविद् इति, सोऽहं भगवः शोचामि, तं मा भगवाञ् छोकस्य पारं तारयतु’ (छा॰उ॰ ७.१.३), ‘तस्मै मृदित-कषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः’ (छा॰उ॰ ७.२६.२) इति चैवम्-आद्याः श्रुतयो मोक्ष-प्रतिबन्ध-निवृत्तिमात्रम् एव आत्म-ज्ञानस्य फलं दर्शयन्ति। तथा च आचार्य-प्रणीतं न्यायोपबृंहितं सूत्रम्, ‘दुःख-जन्म-प्रवृत्ति-दोष-मिथ्या-ज्ञानानाम् उत्तरोत्तर-अपाये तद्-अनन्तर-अपायाद् अपवर्गः’ (न्या॰सू॰ १.१.२) इति। मिथ्या-ज्ञान-अपायश् च ब्रह्म-आत्मैकत्व-विज्ञानाद् भवति। न चेदं ब्रह्म-आत्मैकत्व-विज्ञानं संपद्-रूपम्, यथा ‘अनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तम् एव स तेन लोकं जयति’ (बृ॰उ॰ ३.१.९) इति। न च अध्यास-रूपम्, यथा ‘मनो ब्रह्मेत्य् उपासीत’ (छा॰उ॰ ३.१८.१), ‘आदित्यो ब्रह्मेत्य् आदेशः’ (छा॰उ॰ ३.१९.१) इति च मन-आदित्य-आदिषु ब्रह्म-दृष्ट्य्-अध्यासः। न अपि विशिष्ट-क्रिया-योग-निमित्तम् ‘वायुर् वाव संवर्गः … प्राणो वाव संवर्गः’ (छा॰उ॰ ४.३.१-३) इतिवत्। न अप्य् आज्य-अवेक्षण-आदि-कर्मवत् कर्म-अङ्ग-संस्कार-रूपम्। संपद्-आदि-रूपे हि ब्रह्म-आत्मैकत्व-विज्ञानेऽभ्युपगम्यमाने ‘तत् त्वम् असि’ (छा॰उ॰ ६.८.७), ‘अहं ब्रह्म अस्मि’ (बृ॰उ॰ १.४.१०), ‘अयम् आत्मा ब्रह्म’ (बृ॰उ॰ २.५.१९) इत्य् एवम्-आदीनां वाक्यानां ब्रह्म-आत्मैकत्व-वस्तु-प्रतिपादन-परः पद-समन्वयः पीड्येत। भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः’ (मुण्॰उ॰ २.२.८) इति चैवम्-आदीन्य् अविद्या-निवृत्ति-फल-श्रवणान्य् उपरुध्येरन्। ‘ब्रह्म वेद ब्रह्मैव भवति’ (मुण्॰उ॰ ३.२.९) इति चैवम्-आदीनि तद्-भाव-आपत्ति-वचनानि संपद्-आदि-पक्षे न सामञ्जस्येनोपपद्येरन्। तस्मान् न संपद्-आदि-रूपं ब्रह्म-आत्मैकत्व-विज्ञानम्। अतो न पुरुष-व्यापार-तन्त्रा ब्रह्म-विद्या। किं तर्हि? प्रत्यक्ष-आदि-प्रमाण-विषय-वस्तु-ज्ञानवद् वस्तु-तन्त्रैव। एवं-भूतस्य ब्रह्मणस् तज्-ज्ञानस्य च न कयाचिद् युक्त्या शक्यः कार्य-अनुप्रवेशः कल्पयितुम्। न च विदि-क्रिया-कर्मत्वेन कार्य-अनुप्रवेशो ब्रह्मणः, ‘अन्यद् एव तद् विदिताद् अथो अविदिताद् अधि’ (के॰उ॰ १.४) इति विदि-क्रिया-कर्मत्व-प्रतिषेधात्, ‘येनेदं सर्वं विजानाति तं केन विजानीयात्?’ (बृ॰उ॰ २.४.१४) इति च। तथोपास्ति-क्रिया-कर्मत्व-प्रतिषेधोऽपि भवति, ‘यद् वाचा अनभ्युदितं येन वाग् अभ्युद्यते’ (के॰उ॰ १.५) इत्य् अविषयत्वं ब्रह्मण उपन्यस्य, ‘तद् एव बह्म त्वं विद्धि, नेदं यद् इदम् उपासते’ (के॰उ॰ १.९) इति। अविषयत्वे ब्रह्मणः शास्त्र-योनित्व-अनुपपत्तिर् इति चेत्। न, अविद्या-कल्पित-भेद-निवृत्ति-परत्वाच् छास्त्रस्य। न हि शास्त्रम् इदंतया विषय-भूतं ब्रह्म प्रतिपिपादयिषति। किं तर्हि? प्रत्यग्-आत्मत्वेन अविषयतया प्रतिपादयत् अविद्या-कल्पितं वेद्य-वेदितृ-वेदन-आदि-भेदम् अपनयति। तथा च शास्त्रम्, ‘यस्य अमतं तस्य मतं, मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातम् अविजानताम्’ (के॰उ॰ २.३), ‘न दृष्टेर् द्रष्टारं पश्येर्, … न विज्ञातेर् विज्ञातारं विजानीयाः’ (बृ॰उ॰ ३.४.२) इति चैवम्-आदि। अतोऽविद्या-कल्पित-संसारित्व-निवर्तनेन नित्य-मुक्त-आत्म-स्व-रूप-समर्पणान् न मोक्षस्य अनित्यत्व-दोषः। यस्य तु उत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यम् अपेक्षत इति युक्तम्। तथा विकार्यत्वे च। तयोः पक्षयोर् मोक्षस्य ध्रुवम् अनित्यत्वम्। न हि दध्य्-आदि विकार्यम् उत्पाद्यं वा घट-आदि नित्यं दृष्टं लोके। न च आप्यत्वेन अपि कार्य-अपेक्षा, स्व-आत्म-रूपत्वे सत्य् अनाप्यत्वात्, स्व-रूप-व्यतिरिक्तत्वेऽपि ब्रह्मणो न आप्यत्वम्, सर्व-गतत्वेन नित्य-आप्त-स्व-रूपत्वात् सर्वेण ब्रह्मण आकाशस्येव। न अपि संस्कार्यो मोक्षः, येन व्यापारम् अपेक्षेत। संस्कारो हि नाम संस्कार्यस्य गुण-आधानेन वा स्यात्, दोष-अपनयनेन वा। न तावद् गुण-आधानेन संभवति, अनाधेय-अतिशय-ब्रह्म-स्व-रूपत्वान् मोक्षस्य, न अपि दोष-अपनयनेन, नित्य-शुद्ध-ब्रह्म-स्व-रूपत्वान् मोक्षस्य। स्व-आत्म-धर्म एव सन् तिरोभूतो मोक्षः क्रियया आत्मनि संस्क्रियमाणेऽभिव्यज्यते, यथा आदर्शे निघर्षण-क्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत्, न, क्रिया-आश्रयत्व-अनुपपत्तेर् आत्मनः। यद्-आश्रया हि क्रिया, तम् अविकुर्वती नैव आत्मानं लभते। यद्य् आत्मा क्रियया विक्रियेत अनित्यत्वम् आत्मनः प्रसज्येत। ‘अविकार्योऽयम् उच्यते’ इति चैवम्-आदीनि वाक्यानि बाध्येरन्। तच् च अनिष्टम्। तस्मान् न स्व-आश्रया क्रिया आत्मनः संभवति। अन्य-आश्रयायास् तु क्रियाया अविषयत्वान् न तया आत्मा संस्क्रियते। ननु देह-आश्रयया स्नान-आचमन-यज्ञोपवीत-आदिकया क्रियया देही संस्क्रियमाणो दृष्टः। न, देह-आदि-संहतस्यैव अविद्या-गृहीतस्य आत्मनः संस्क्रियमाणत्वात्। प्रत्यक्षं हि स्नान-आचमन-आदेर् देह-समवायित्वम्। तया देह-आश्रयया तत्-संहत एव कश्चिद् अविद्यया आत्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम्। यथा देह-आश्रय-चिकित्सा-निमित्तेन धानु-साम्येन तत्-संहतस्य तद्-अभिमानिन आरोग्य-फलम्, ‘अहम् अरोगः’ इति यत्र बुद्धिर् उत्पद्यते, एवं स्नान-आचमन-यज्ञोपवीत-आदिकना ‘अहं शुद्धः संस्कृतः’ इति यत्र बुद्धिर् उत्पद्यते, स संस्क्रियते। स च देहेन संहत एव। तेनैव अहं-कर्त्रा अहं-प्रत्यय-विषयेन प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते। तत्-फलं च स एव अश्नाति, ‘तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति अनश्नन्न् अन्योऽभिचाकशीति’ (मुण्॰उ॰ ३.१.१) इति मन्त्र-वर्णात्, ‘आत्मेन्द्रिय-मनो-युक्तं भोक्तेत्य् आहुर् मनीषिणः’ (कठ्॰उ॰ १.३.४) इति च। तथा च ‘एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूत-अन्तर्-आत्मा। कर्म-अध्यक्षः सर्व-भूत-अधिवासः साक्षी चेता केवलो निर्-गुणश् च’ (श्वे॰उ॰ ६.११) इति, ‘स पर्यगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरं शुद्धम् अपाप-विद्धम्’ (ईश्॰उ॰ ८) इति च, एतौ मन्त्राव् अनाधेय-अतिशयतां नित्य-शुद्धतां च ब्रह्मणो दर्शयतः। ब्रह्म-भावश् च मोक्षः। तस्मान् न संस्कार्योऽपि मोक्षः। अतोऽन्यन् मोक्षं प्रति क्रिया-अनुप्रवेश-द्वारं न शक्यं केनचिद् दर्शयितुम्। तस्माज् ज्ञानम् एकं मुक्त्वा क्रियाया गन्धमात्रस्य अप्य् अनुप्रवेश इह नोपपद्यते। ननु ज्ञानं नाम मानसी क्रिया। न, वैलक्षण्यात्। क्रिया हि नाम सा यत्र वस्तु-स्व-रूप-निर्-अपेक्षैव चोद्यते, पुरुष-चित्त-व्यापार-अधीना च। यथा ‘यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायेद् वषट्-करिष्यन्’ इति ‘… संध्यां मनसा ध्यायेत्’ (ऐत्॰ब्रा॰ ३.८.१) इति चैवम्-आदिषु। ध्यानं चिन्तनं यद्य् अपि मानसम्, तथा अपि पुरुषेण कर्तुम् अकर्तुम् अन्यथा वा कर्तुं शक्यम्, पुरुष-तन्त्रत्वात्। ज्ञानं तु प्रमाण-जन्यम्। प्रमाणं च यथा-भूत-वस्तु-विषयम्। अतो ज्ञानं कर्तुम् अकर्तुम् अन्यथा वा कर्तुं अशक्यम्। केवलं वस्तु-तन्त्रम् एव तत्, न चोदना-तन्त्रम्, न अपि पुरुष-तन्त्रम्। तस्मान् मानसत्वेऽपि ज्ञानस्य महद् वैलक्षण्यम्। यथा च ‘पुरुषो वाव गौतम अग्निः’ (छा॰उ॰ ५,७.१), ‘योषा वाव गौतम अग्निः’ (छा॰उ॰ ५,८.१) इत्य् अत्र योषित्-पुरुषयोर् अग्नि-बुद्धिर् मानसी भवति। केवल-चोदना-जन्यत्वात् क्रियैव सा पुरुष-तन्त्रा च। या तु प्रसिद्धेऽग्नाव् अग्नि-बुद्धिः, न सा चोदना-तन्त्रा, न अपि पुरुष-तन्त्रा। किं तर्हि? प्रत्य्-अक्ष-विषय-वस्तु-तन्त्रैवेति ज्ञानम् एवैतत्, न क्रिया। एवं सर्व-प्रमाण-विषय-वस्तुषु वेदितव्यम्। तत्रैवं सति यथा-भूत-ब्रह्म-आत्म-विषयम् अपि ज्ञानं न चोदना-तन्त्रम्। तद्-विषये लिङ्-आदयः श्रूयमाणा अपि अनियोज्य-विषयत्वात् कुण्ठी-भवन्ति उपल-आदिषु प्रयुक्त-क्षुर-तैक्ष्ण्य-आदिवत्, अहेय-अनुपादेय-वस्तु-विषयत्वात्। किम् अर्थानि तर्हि? ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ॰उ॰ २.४.५) इत्य्-आदीनि विधि-च्छायानि वचनानि। स्वा-भाविक-प्रवृत्ति-विषय-विमुखी-करण-अर्थानि इति ब्रूमः। यो हि बहिर्-मुखः प्रवर्तते पुरुषः ‘इष्टं मे भूयात्, अन्ष्टिं मा भूत्’ इति, न च तत्र आत्य्-अन्तिकं पुरुष-अर्थं लभते, तम् आत्य्-अन्तिक-पुरुष-अर्थ-वाञ्छिनं स्वा-भाविक-कार्य-करण-संघात-प्रवृत्ति-गोचराद् वि-मुखी-कृत्य प्रत्यग्-आत्म-स्रोतस्तया प्रवर्तयन्ति ‘आत्मा वा अरे द्रष्टव्यः’ इत्य्-आदीनि। तस्य आत्म-अन्वेषणाय प्रवृत्तस्य अहेयम् अनुपादेयं च आत्म-तत्त्वम् उपदिश्यते ‘इदं सर्वं यद् अयम् आत्मा’ (बृ॰उ॰ २.४.६), ‘यत्र त्व् अस्य सर्वम् आत्मैव अभूत् तत् केन कं पश्येत् … केन कं विजानीयात् … विज्ञातारम् अरे केन विजानीयात्’ (बृ॰उ॰ ४.५.१५), ‘अयम् आत्मा ब्रह्म’ (बृ॰उ॰ २.५.१९) इत्य्-आदिभिः। यद् अप्य् अकर्तव्य-प्रधानम् आत्म-ज्ञानं हानायोपादानाय वा न भवति इति, तत् तथैवेत्य् अभ्युपगम्यते। अलंकारो ह्य् अयम् अस्माकम्, यद् ब्रह्म-आत्म-अवगतौ सत्यां सर्व-कर्तव्यता-हानिः कृत-कृत्यता चेति। तथा च श्रुतिः ‘आत्मानं चेद् विजानीयाद् अयम् अस्मि इति पूरुषः। किम् इच्छन् कस्य कामाय शरीरम् अनुसंज्वरेत्’ (बृ॰उ॰ ४.४.१२) इति। ‘एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत’ (भ॰गी॰ १५.२०) इति च स्मृतिः। तस्मान् न प्रतिपत्ति-विधि-शेषतया ब्रह्मणः समर्पणम्।

यद् अपि केचिद् आहुः, प्रवृत्ति-निवृत्ति-विधि-तच्-छेष-व्यतिरेकेण केवल-वस्तु-वादी वेद-भागो न अस्ति इति, तन् न, औपनिषदस्य पुरुषस्य अनन्य-शेषत्वात्। योऽसाव् उपनिषत्स्व् एव अधिगतः पुरुषोऽसंसारी ब्रह्म-स्व-रूपः उत्पाद्य-आदि-चतुर्-विध-द्रव्य-वि-लक्षणः स्व-प्रकरणस्थोऽनन्य-शेषः, न ‘असौ न अस्ति न अधिगम्यत’ इति वा शक्यं वदितुम्, ‘स एष नेति नेत्य् आत्मा’ (बृ॰उ॰ ३.९.२६) इत्य् आत्म-शब्दात्, आत्मनश् च प्रत्याख्यातुम् अशक्यत्वात्, य एव निराकर्ता तस्यैव आत्मत्वात्। नन्व् आत्मा अहं-प्रत्यय-विषयत्वाद् ‘उपनिषत्स्व् एव विज्ञायत’ इत्य् अनुपपन्नम्। न, तत्-साक्षित्वेन प्रत्युक्तत्वात्। न ह्य् अहं-प्रत्यय-विषय-कर्तृ-व्यतिरेकेण तत्-साक्षी सर्व-भूतस्थः सम एकः कूटस्थ-नित्यः पुरुषो विधि-काण्डे तर्क-समये वा केनचद् अधिगतः सर्वस्य आत्मा। अतः स न केनचित् प्रत्याख्यातुं शक्यः, विधि-शेषत्वं वा नेतुम्। आत्मत्वाद् एव च सर्वेषाम्, न हेयो न अप्य् उपादेयः। सर्वं हि विनश्यद्-विकार-जातं पुरुष-अन्तं विनश्यति। पुरुषो हि विनाश-हेत्व्-अभावाद् अविनाशी, विक्रिया-हेत्व्-अभावाच् च कूटस्थ-नित्यः, अत एव नित्य-शुद्ध-बुद्ध-मुक्त-स्व-भावः। तस्मात् ‘पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः’ (कठ्॰उ॰ १.३.११), ‘तं त्व् औपनिषदं पुरुषं पृच्छामि’ (बृ॰उ॰ ३.९.२६) इति चौपनिषदत्व-विशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यते। अतो भूत-वस्तु-परो वेद-भागो न अस्ति इति वचनं साहसमात्रम्।

यद् अपि शास्त्र-तात्-पर्यविदाम् अनुक्रमणम्, ‘दृष्टो हि तस्य अर्थः कर्म-अवबोधनम्’ (शा॰भा॰ १.१.१) इत्य्-एवम्-आदि, तत् धर्म-जिज्ञासा-विषयत्वाद् विधि-प्रतिषेध-शास्त्र-अभिप्रायं द्रष्टव्यम्। अपि च ‘आम्नायस्य क्रिया-अर्थत्वाद् आनर्थक्यम् अतद्-अर्थानाम्’ (शा॰भा॰ १.१.२) इत्य् एतद् एक-अन्तेन अभ्युपगच्छतां भूतोपदेशानाम् आनर्थक्य-प्रसङ्गः। प्रवृत्ति-निवृत्ति-विधि-तच्-छेष-व्यतिरेकेण भूतं चेद् वस्तु उपदिशति भव्य-अर्थत्वेन, कूटस्थ-नित्यं भूतं नोपदिशति इति को हेतुः? न हि भूतम् उपदिश्यमानं क्रिया भवति। अक्रियात्वेऽपि भूतस्य क्रिया-साधनत्वात् क्रिया-अर्थ एव भूतोपदेश इति चेत्, नैष दोषः, क्रिया-अर्थत्वेऽपि क्रिया-निर्वर्तन-शक्तिमद्-वस्तु उपदिष्टम् एव, क्रिया-अर्थत्वं तु प्रयोजनं तस्य, न चैतावता वस्त्व् अनुपदिष्टं भवति। यदि नामोपदिष्टं किं तव तेन स्याद् इति। उच्यते, अनवगत-आत्म-वस्तु-उपदेशश् च तथैव भवितुम् अर्हति, तद्-अवगत्या मिथ्या-ज्ञानस्य संसार-हेतोर् निवृत्तिः प्रयोजनं क्रियत इत्य् अविशिष्टम् अर्थवत्त्वं क्रिया-साधन-वस्तु-उपदेशेन। अपि च ‘ब्राह्मणो न हन्तव्यः’ इति च एवम्-आद्या निवृत्तिर् उपदिश्यते। न च सा क्रिया, न अपि क्रिया-साधनम्। अक्रिया-अर्थानाम् उपदेशोऽनर्थकश् चेत्, ‘ब्राह्मणो न हन्तव्यः’ इत्य्-आदि-निवृत्त्य्-उपदेशानाम् आनर्थक्यं प्राप्तम्। तच् च अनिष्टम्। न च स्व-भाव-प्राप्त-हन्त्य्-अर्थ-अनुरागेण नञः शक्यम् अप्राप्त-क्रिया-अर्थत्वं कल्पयितुं हनन-क्रिया-निवृत्त्य्-औदासीन्य-व्यतिरेकेण। नञश् चैष स्व-भावः, यत् स्व-संबन्धिनोऽभावं बोधयति इति। अभाव-बुद्धिश् चौदासीन्य-कारणम्। सा च दग्धेन्धन-अग्निवत् स्वयम् एवोपशाम्यति। तस्मात् प्रसक्त-क्रिया-निवृत्त्य्-औदासीन्यम् एव ‘ब्राह्मणो न हन्तव्यः’ इत्य्-आदिषु प्रतिषेध-अर्थं मन्यामहे, अन्यत्र प्रजा-पति-व्रत-आदिभ्यः। तस्मात् पुरुष-अर्थ-अनुपयोग्य्-उपाख्यान-आदि-भूत-अर्थवाद-विषयम् आनर्थक्य-अभिधानं द्रष्टव्यम्।

यद् अप्य् उक्तम्, कर्तव्य-विध्य्-अनुप्रवेशम् अन्तरेण वस्तुमात्रम् उच्यमानम् अनर्थकं स्तात्, ‘सप्त-द्वीपा वसुमती’ इत्य्-आदिवद् इति, तत् परिहृतम्, ‘रज्जुर् इयम्, न अयं सर्पः’ इति वस्तुमात्र-कथनेऽपि प्रयोजनस्य दृष्टत्वात्। ननु श्रुत-ब्रह्मणोऽपि यथा-पूर्वं संसारित्व-दर्शनान् न रज्जु-स्व-रूप-कथनवद् अर्थवत्त्वम् इत्य् उक्तम्। अत्रोच्यते, न अवगत-ब्रह्म-आत्म-भावस्य यथा-पूर्वं संसारित्वं शक्यं दर्शयितुम्, वेद-प्रमाण-जनित-ब्रह्म-आत्म-भाव-विरोधात्। न हि शरीर-आद्य्-आत्म-अभिमानिनो ‘दुःख-भय-आदिमत्त्वं दृष्टम्’ इति तस्यैव वेद-प्रमाण-जनित-ब्रह्म-आत्म-अवगमे तद्-अभिमान-निवृत्तौ तद् एव मिथ्या-ज्ञान-निमित्तं दुःख-भय-आदिमत्त्वं भवति इति शक्यं कल्पयितुम्। न हि धनिनो गृहस्थस्य धन-अभिमानिनो धन-अपहार-निमित्तं ‘दुःखं दृष्टम्’ इति तस्यैव प्रव्रजितस्य धन-अभिमान-रहितस्य तद् एव धन-अपहार-निमित्तं दुःखं भवति। न च कुण्डलिनः कुण्डलित्व-अभिमान-निमित्तं ‘सुखं दृष्टम्’ इति तस्यैव कुण्डल-वियुक्तस्य कुण्डलित्व-अभिमान-रहितस्य तद् एव कुण्डलित्व-अभिमान-निमित्तं सुखं भवति। तद् उक्तं श्रुत्या, ‘अशरीरं वाव सन्तं न प्रिय-अप्रिये स्पृशतः’ (छा॰उ॰ ८.१२.१) इति। शरीरे पतितेऽशरीरत्वं स्यात्, न जीवत इति चेत्, न, स-शरीरत्वस्य मिथ्या-ज्ञान-निमित्तत्वात्। न ह्य् आत्मनः शरीर-आत्म-अभिमान-लक्षणं मिथ्या-ज्ञानं मुक्त्वा अन्यतः स-शरीरत्वं शक्यं कल्पयितुम्। नित्यम् अशरीरत्वम्, अकर्म-निमित्तत्वात् इत्य् अवोचाम। तत्-कृत-धर्म-अधर्म-निमित्तं स-शरीरत्वम् इति चेत्, न, शरीर-संबन्धस्य असिद्धत्वात्, धर्म-अधर्मयोर् आत्म-कृतत्व-असिद्धेः, शरीर-संबन्धस्य धर्म-अधर्मयोस् तत्-कृतत्वस्य चेतरेतर-आश्रयत्व-प्रसङ्गात्। अन्ध-परम्-परैषा अनादित्व-कल्पना। क्रिया-समवाय-अभावाच् च आत्मनः कर्तृत्व-अनुपपत्तेः। संनिधानमात्रेण राज-प्रभृतीनां दृष्टं कर्तृत्वम् इति चेत्, न, धन-दान-आद्य्-उपार्जित-भृत्य-संबन्धित्वात् तेषां कर्तृत्वोपपत्तेः। न त्व् आत्मनो धन-दान-आदिवच् छरीर-आदिभिः स्व-स्वामि-संबन्ध-निमित्तं किंचिच् छक्यं कल्पयितुम्। मिथ्या-अभिमानस् तु प्रत्यक्षः संबन्ध-हेतुः। एतेन यजमानत्वम् आत्मनो व्याख्यातम्। अत्र आहुः, देह-आदि-व्यतिरिक्तस्य आत्मनः आत्मीये देह-आदाव् अभिमानो गौणः, न मिथ्येति चेत्, न, प्रसिद्ध-वस्तु-भेदस्य गौणत्व-मुख्यत्व-प्रसिद्धेः। यस्य हि प्रसिद्धो वस्तु-भेदः, यथा केसर-आदिमान् आकृति-विशेषोऽन्वय-व्यतिरेकाभ्यां सिंह-शब्द-प्रत्यय-भाङ् मुख्योऽन्यः प्रसिद्धः, ततश् च अन्यः पुरुषः प्रायिकैः क्रौर्य-शौर्य-आदिभिः सिंह-गुणैः संपन्नः सिद्धः, तस्य पुरुषे सिंह-शब्द-प्रत्ययौ गौणौ भवतः, न अप्रसिद्ध-वस्तु-भेदस्य। तस्य त्व् अन्यत्र-अन्य-शब्द-प्रत्ययौ भ्रान्ति-निमित्ताव् एव भवतः, न गौणौ, यथा मन्द-अन्धकारे स्थाणुर् अयम् इत्य् अगृह्यमाण-विशेषे पुरुष-शब्द-प्रत्ययौ स्थाणु-विषयौ, यथा वा शुक्तिकायाम् अकस्माद् रजतम् इति निश्चितौ शब्द-प्रत्ययौ, तद्वद् देह-आदि-संघाते अहं इति निर्-उपचारेण शब्द-प्रत्ययाव् आत्म-अनात्म-अविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम्। आत्म-अनात्म-विवेकिनाम् अपि पण्डितानाम् अज-अवि-पालानाम् इव अविविक्तौ शब्द-प्रत्ययौ भवतः। तस्माद् देह-आदि-व्यतिरिक्त-आत्म-अस्तित्व-वादिनां देह-आदाव् अहं-प्रत्ययो मिथ्यैव, न गौणः। तस्मान् मिथ्या-प्रत्यय-निमित्तत्वात् स-शरीरत्वस्य, सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम्। तथा च ब्रह्मविद्-विषया श्रुतिः, ‘तद् यथा अहि-निर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवम् एवेदग्ँ शरीरग्ँ शेते। अथ अयम् अशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’ (बृ॰उ॰ ४.४.७) इति, ‘स-चक्षुर् अचक्षुर् इव स-कर्णोऽकर्ण इव स-वाग् अवाग् इव स-मना अमना इव स-प्राणोऽप्राण इव’ इति च। स्मृतिर् अपि च, ‘स्थित-प्रज्ञस्य का भाषा’ (भ॰गी॰ २.५४) इत्य्-आद्या स्थित-प्रज्ञस्य लक्षणान्य् आचक्षाणा विदुषः सर्व-प्रवृत्त्य्-असंबन्धं दर्शयति। तस्मान् न अवगत-ब्रह्म-आत्म-भावस्य यथा-पूर्वं संसारित्वम्, यस्य तु यथा-पूर्वं संसारित्वं न असाव् अवगत-ब्रह्म-आत्म-भाव इत्य् अनवद्यम्।

यत् पुनर्-उक्तं श्रवणात् पराचीनयोर् मनन-निदिध्यासनयोर् दर्शनाद् विधि-शेषत्वं ब्रह्मणः न स्व-रूप-पर्यवसायित्वम् इति, न, अवगत्य्-अर्थत्वान् मनन-निदिध्यासनयोः। यदि ह्य् अवगतं ब्रह्म अन्यत्र विनियुज्येत, भवेत् तदा विधि-शेषत्वम्, न तु तद् अस्ति, मनन-निदिध्यासनयोर् अपि श्रवणवद् अवगत्य्-अर्थत्वात्। तस्मान् न प्रतिपत्ति-विधि-विषयतया शास्त्र-प्रमाणकत्वं ब्रह्मणः संभवति इत्य् अतः स्व-तन्त्रम् एव ब्रह्म शात्र-प्रमाणकम्, वेदान्त-वाक्य-समन्वयाद् इति सिद्धम्। एवं च सति ‘अथ अतो ब्रह्म-जिज्ञासा’ इति तद्-विषयः पृथक्-शास्त्र-आरम्भ उपपद्यते। प्रतिपत्ति-विधि-परत्वे हि ‘अथ अतो धर्म-जिज्ञासा’ इत्य् एव आरब्धत्वान् न पृथक्-शास्त्रम् आरभ्येत। आरभ्यमाणं चैवम् आरभ्येत, ‘अथ अतः परिशिष्ट-धर्म-जिज्ञासा’ इति, ‘अथ अतः क्रत्व्-अर्थ-पुरुष-अर्थयोर् जिज्ञासा’ (जै॰सू॰ ४.१.१) इतिवत्। ब्रह्म-आत्मैक्य-अवगतिस् त्व् अप्रतिज्ञातेति, तद्-अर्थो युक्तः शास्त्र-आरम्भः, ‘अथ अतो ब्रह्म-जिज्ञासा’ इति। तस्मात् ‘अहं ब्रह्म अस्मि’ इत्य् एतद्-अवसाना एव सर्वे विधयः, सर्वाणि चेतराणि प्रमाणानि। न ह्य् अहेय-अनुपादेय-अद्वैत-आत्म-अवगतौ निर्-विषयाण्य् अप्रमातृकाणि च प्रमाणानि भवितुम् अर्हन्ति इति। अपि च आहुः,

‘गौण-मिथ्यात्मनोऽसत्त्वे पुत्र-देहादि-बाधनात्।
सद्-ब्रह्मात्माहम् इत्येवं बोधे कार्यं कथं भवेत्॥
अन्वेष्टव्यात्म-विज्ञानात् प्राक् प्रमातृत्वम् आत्मनः।
अन्विष्टः स्यात् प्रमातैव पाप्म-दोषादि-वर्जितः॥
देहात्म-प्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः।
लौकिकं तद्वद् एवेदं प्रमाणं त्व् आ आत्म-निश्चयात्॥’

इति॥४॥

इति श्री-शङ्कर-भगवत्-पाद-कृतौ शारीरक-मीमांसा-भाष्ये चतुर्थं समन्वय-अधिकरणं संपूर्णम्॥

[Go to Contents]

एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम्। ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणमित्युक्तम्। सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति। सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम्। प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते। काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्च समवायिकारणम्। एवमन्येऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ते। तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मात्मावगतिपरत्वप्रदर्शनाय वाक्याभासयुक्त्याभासप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते॥

तत्र सांख्याः प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुः – यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते। सर्वशक्तित्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते। एवं सर्वज्ञत्वमप्युपपद्यते; कथम्? यत्त्वं ज्ञानं मन्यसे, स सत्त्वधर्मः, ‘सत्त्वात्संजायते ज्ञानम्’ (भ. गी. १४-१७) इति स्मृतेः। तेन च सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः। सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम्। न केवलस्य अकार्यकरणस्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम्। त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु। अवश्यं च त्वयापि सर्वज्ञं ब्रह्मेत्यभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम्। न हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते। तथाहि – ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत; अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमापतति। अपि च प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते त्वया। न च ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना। अपि च प्रधानस्यानेकात्मकस्य परिणामसम्भवात्कारणत्वोपपत्तिर्मृदादिवत्, नासंहतस्यैकात्मकस्य ब्रह्मणः; इत्येवं प्राप्ते, इदं सूत्रमारभ्यते –

तदैक्षतेति...।
॥२३॥

॥२४॥ वै.न्या.मा.

ईक्षतेर्नाशब्दम्॥१.१.५॥

न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्। अशब्दं हि तत्। कथमशब्दत्वम्? ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्य। कथम्? एवं हि श्रूयते – ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६-२-१) इत्युपक्रम्य ‘तदैक्षत बहु स्यां प्राजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६-२-३) इति। तत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति। तथान्यत्र – ‘आत्मा वा इदमेक एवाग्र आसीत्। नान्यत्किञ्चन मिषत्। स ईक्षत लोकान्नु सृजा इति। स इमाँल्लोकानसृजत’ (ऐ. उ. १-१-१) (ऐ. उ. १-१-२) इतीक्षापूर्विकामेव सृष्टिमाचष्टे। क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह – ‘स ईक्षाञ्चक्रे, स प्राणमसृजत’ (प्र. उ. ६-३) (प्र. उ. ६-४) इति। ईक्षतेरिति च धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत्, न धातुनिर्देशः। तेन ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ (मु. उ. १-१-९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि।

यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते। न हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं सम्भवति। ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति; तदपि नोपपद्यते। यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येत। अपि च नासाक्षिका सत्त्ववृत्तिर्जानातिना अभिधीयते। न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति। तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम्। योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम्। अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्यापि कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम्; तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम्। यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासम्भवादिति; अत्रोच्यते – इदं तावद्भवान्प्रष्टव्यः – कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति। यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति, सोऽसर्वज्ञ इति विप्रतिषिद्धम्। अनित्यत्वे हि ज्ञानस्य, कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात्।

नासौ ज्ञाननित्यत्वे दोषोऽस्ति। ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत्, न; प्रततौष्ण्यप्रकाशेऽपि सवितरि ‘दहति’ ‘प्रकाशयति’ इति स्वातन्त्र्यव्यपदेशदर्शनात्। ननु सवितुर्दाह्यप्रकाश्यसंयोगे सति ‘दहति’ ‘प्रकाशयति’ इति व्यपदेशः स्यात्; न तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः। न; असत्यपि कर्मणि ‘सविता प्रकाशते’ इति कर्तृत्वव्यपदेशदर्शनात्, एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः ‘तदैक्षत’ इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम्। कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतरामुपपन्नाः। किं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति – तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः। यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति। यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसम्बन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, न तच्चोद्यमवतरति; सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः। अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्; न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य। मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः – ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ (श्वे. उ. ६-८) इति। ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३-९) इति च। ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी – ‘नान्योऽतोऽस्ति द्रष्टा ... नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३-७-२३) इत्यादिश्रुतेः; तत्र किमिदमुच्यते – संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः, नेश्वरस्येति? अत्रोच्यते – सत्यं नेश्वरादन्यः संसारी; तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यत एव, घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्नः; तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः – ‘घटच्छिद्रम्’ ‘करकच्छिद्रम्’ इत्यादिः, आकाशाव्यतिरेकेऽपि; तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा; तथेहापि देहादिसङ्घातोपाधिसम्बन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः। दृश्यते चात्मन एव सतो देहादिसङ्घातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वपूर्वेण। सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः। यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम्। यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, न प्रधानादीनाम्, तथा प्रपञ्चयिष्यति ‘न विलक्षणत्वादस्य ...’ (ब्र. सू. २-१-४) इत्येवमादिना॥५॥

अत्राह – यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यते; अचेतनेऽपि चेतनवदुपचारदर्शनात्। यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य ‘कूलं पिपतिषति’ इत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति ‘तदैक्षत’ इति। यथा लोके कश्चिच्चेतनः ‘स्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामि’ इतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते; तस्माच्चेतनवदुपचर्यते। कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते? ‘तत्तेज ऐक्षत’ (छा. उ. ६-२-३) ‘ता आप ऐक्षन्त’ (छा. उ. ६-२-४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात्; तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, उपचारप्राये वचनात्; – इत्येवं प्राप्ते, इदं सूत्रमारभ्यते –

गौणश्चेन्नात्मशब्दात्॥१.१.६॥

यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिकमीक्षितृत्वम् अप्तेजसोरिवेति, तदसत्। कस्मात्? आत्मशब्दात्; ‘सदेव सोम्येदमग्र आसीत्’ इत्युपक्रम्य, ‘तदैक्षत’ (छा. उ. ६-२-१) ‘तत्तेजोऽसृजत’ (छा. उ. ६-२-३) इति च तेजोबन्नानां सृष्टिमुक्त्वा, तदेव प्रकृतं सदीक्षितृ तानि च तेजोबन्नानि देवताशब्देन परामृश्याह – ‘सेयं देवतैक्षत’ ‘हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६-३-२) इति। तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत, तदेव प्रकृतत्वात् ‘सेयं देवता’ इति परामृश्येत; न तदा देवता जीवमात्मशब्देनाभिदध्यात्। जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च। स कथमचेतनस्य प्रधानस्यात्मा भवेत्। आत्मा हि नाम स्वरूपम्। नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति। अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्येत, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते। तथा ‘स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६-१४-३) इत्यत्र ‘स आत्मा’ इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य, ‘तत्त्वमसि श्वेतकेतो’ इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति। अप्तेजसोऽस्तु विषयत्वादचेतनत्वम्, नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात्, न चात्मशब्दवत्किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य। तयोरपि सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम्। सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम्॥६॥

अथोच्येत – अचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दः ‘ममात्मा भद्रसेनः’ इति। प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानः। अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च प्रयोगदर्शनात्; यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः। तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति –

तन्निष्ठस्य मोक्षोपदेशात्॥१.१.७॥

न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति; ‘स आत्मा’ इति प्रकृतं सदणिमानमादाय, ‘तत्त्वमसि श्वेतकेतो’ इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य, ‘आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६-१४-२) इति मोक्षोपदेशात्। यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम् ‘तत् असि’ इति ग्राहयेत्, मुमुक्षुं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात्। न तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम्। यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम्, स श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत्, तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत; तथा सति पुरुषार्थाद्विहन्येत, अनर्थं च ऋच्छेत्। तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति यथाभूतमेवात्मानमुपदिशतीति युक्तम्। एवं च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते। अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे, ‘अहमुक्थमस्मीति विद्यात्’ (ऐ. आ. २-१-२-६) इतिवत्सम्पन्मात्रमिदमनित्यफलं स्यात्; तत्र मोक्षोपदेशो नोपपद्येत। तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम्। भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दः ‘ममात्मा भद्रसेनः’ इति। अपि च क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात्। यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न; अनेकार्थत्वस्यान्याय्यत्वात्। तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते – ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च। साधारणत्वेऽप्यात्मशब्दस्य न प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते। न चात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्ति। प्रकृतं तु सदीक्षितृ सन्निहितश्च चेतनः श्वेतकेतुः। न हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचाम। तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते। ज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः। अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वाशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः – ‘तन्निष्ठस्य मोक्षोपदेशात्’ इति। तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम्॥७॥

कुतश्च न प्रधानं सच्छब्दवाच्यम्? –

हेयत्वावचनाच्च॥१.१.८॥

यद्यनात्मैव प्रधानं सच्छब्दवाच्यम्, ‘स आत्मा तत्त्वमसि’ इतीहोपदिष्टं स्यात्; स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति, मुख्यमात्मानमुपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात्। यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा, तां प्रत्याख्याय, पश्चादरुन्धतीमेव ग्राहयति; तद्वन्नायमात्मेति ब्रूयात्। न चैवमवोचत्। सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठकपरिसमाप्तिर्दृश्यते। चशब्दः प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थः। सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत। कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् – ‘उत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति; कथं नु भगवः स आदेशो भवतीति’ (छा. उ. ६-१-३); ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६-१-४) ‘एवं सोम्य स आदेशो भवति’ (छा. उ. ६-१-६) इति वाक्योपक्रमे श्रवणात्। न च सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्य। तस्मान्न प्रधानं सच्छब्दवाच्यम्॥८॥

कुतश्च न प्रधानं सच्छब्दवाच्यम्? –

स्वाप्ययात्॥१.१.९॥

तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते – ‘यत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति; स्वमपीतो भवति; तस्मादेनं स्वपितीत्याचक्षते; स्वं ह्यपीतो भवति’ (छा. उ. ६-८-१) इति। एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति। स्वशब्देनेहात्मोच्यते। यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः। अपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धम्, प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्। मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान्गृह्णंस्तद्विशेषापन्नो जीवो जागर्ति; तद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति; स उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति ‘स्वं ह्यपीतो भवति’ (छा. उ. ६-८-१) इत्युच्यते। यथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् – ‘स वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम् – हृद्ययमिति; तस्माद्धृदयमिति’ (छा. उ. ८-३-३); यथा वाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः – ‘आप एव तदशितं नयन्ते’ (छा. उ. ६-८-३) ‘तेज एव तत्पीतं नयते’ (छा. उ. ६-८-५) इति च; एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवति इतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति। न च चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत। यदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत, एवमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येत। श्रुत्यन्तरं च – ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४-३-२१) इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयति। अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं, न प्रधानम्॥९॥

कुतश्च न प्रधानं जगतः कारणम्? –

गतिसामान्यात्॥१.१.१०॥

यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत्, क्वचिच्चेतनं ब्रह्म जगतः कारणम्, क्वचिदचेतनं प्रधानम्, क्वचिदन्यदेवेति; ततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत्। न त्वेतदस्ति। समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः। ‘यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३-३) इति, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २-१-१) इति, ‘आत्मत एवेदं सर्वम्’ (छा. उ. ७-२६-१) इति, ‘आत्मन एष प्राणो जायते’ (प्र. उ. ३-३) इति च आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः। आत्मशब्दश्च चेतनवचन इत्यवोचाम। महच्च प्रामाण्यकारणमेतत्, यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वम्, चक्षुरादीनामिव रूपादिषु। अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम्॥१०॥

कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम्? –

श्रुतत्वाच्च॥१.१.११॥

स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते, श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य – ‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ (श्वे. उ. ६-९) इति। तस्मात्सर्वज्ञं ब्रह्म जगतः कारणम्, नाचेतनं प्रधानमन्यद्वेति सिद्धम्॥११॥

इति ईक्षत्यधिकरणम्।

[Go to Contents]

‘जन्माद्यस्य यतः’ इत्यारभ्य ‘श्रुतत्वाच्च’ इत्येतदन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि, तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम्। गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम्। अतः परस्य ग्रन्थस्य किमुत्थानमिति, उच्यते – द्विरूपं हि ब्रह्मावगम्यते – नामरूपविकारभेदोपाधिविशिष्टम्, तद्विपरीतं च सर्वोपाधिविवर्जितम्। ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २-४-१४) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४-५-१५) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्; यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ (छा. उ. ७-२४-१) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३-१२-७) ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्’ (श्वे. उ. ६-९) ‘नेति नेति’ (बृ. उ. २-३-६) ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३-८-८) ‘न्यूनमन्यत्स्थानं सम्पूर्णमन्यत्’ इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि। तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः। तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि। तेषां गुणविशेषोपाधिभेदेन भेदः। एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते; ‘तं यथा यथोपासते तदेव भवति’ इति श्रुतेः, ‘यथाक्रतुरस्मिँल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा. उ. ३-१४-१) इति च। स्मृतेश्च – ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८-६) इति। यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते – ‘तस्य य आत्मानमाविस्तरां वेद’ (ऐ. आ. २-३-२-१) इत्यत्र। स्मृतावपि – ‘यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्’ (भ. गी. १०-४) इति यत्र यत्र विभूत्याद्यतिशयः, स स ईश्वर इत्युपास्यतया चोद्यते। एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति। एवम् ‘आकाशस्तल्लिङ्गात्’ (ब्र. सू. १-१-२२) इत्यादिषु द्रष्टव्यम्। एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसम्बन्धविशेषं परापरविषयत्वेन सन्दिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति – यथेहैव तावत् ‘आनन्दमयोऽभ्यासात्’ इति। एवमेकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते। यच्च ‘गतिसामान्यात्’ इत्यचेतनकारणनिराकरणमुक्तम्, तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते –

...।
॥२५॥
...।
॥२६॥
...।
॥२७॥

॥२८॥ वै.न्या.मा.

आनन्दमयोऽभ्यासात्॥१.१.१२॥

तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते – ‘तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २-५-१) इति। तत्र संशयः – किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २-१-१) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति। किं तावत्प्राप्तम्? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्। कस्मात्? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्। अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति; न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च। मुख्यश्चेदात्मा स्यान्न प्रियादिसंस्पर्शः स्यात्। इह तु ‘तस्य प्रियमेव शिरः’ (तै. उ. २-५-१) इत्यादि श्रूयते। शारीरत्वं च श्रूयते – ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इति। तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः। न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः। तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते –

‘आनन्दमयोऽभ्यासात्’। पर एवात्मानन्दमयो भवितुमर्हति। कुतः? अभ्यासात्। परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते। आनन्दमयं प्रस्तुत्य ‘रसो वै सः’ (तै. उ. २-७-१) इति तस्यैव रसत्वमुक्त्वा, उच्यते – ‘रसꣳ ह्येवायं लब्ध्वानन्दीभवति। को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति’ (तै. उ. २-७-१) (तै. उ. २-७-१) ‘सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २-८-२) ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २-८-५) ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २-९-१) इति; ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३-६-१) इति च। श्रुत्यन्तरे च ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३-९-२८) इति ब्रह्मण्येवानन्दशब्दो दृष्टः। एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते। यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात्। मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत्, अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत्, प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम्। यथारुन्धतीदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु, या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति; एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्। यत्तु ब्रूषे, प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति – अतीतानन्तरोपाधिजनिता सा; न स्वाभाविकीत्यदोषः। शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात्; न पुनः साक्षादेव शारीरत्वं संसारिवत्। तस्मादानन्दमयः पर एवात्मा॥१२॥

विकारशब्दान्नेति चेन्न प्राचुर्यात्॥१.१.१३॥

अत्राह – नानन्दमयः पर आत्मा भवितुमर्हति; कस्मात्? विकारशब्दात्; प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगतः ‘आनन्दमयः’ इति, मयटो विकारार्थत्वात्; तस्मादन्नमयादिशब्दवद्विकारविषय एवायमानन्दमयशब्द इति चेत्, न; प्राचुर्यार्थेऽपि मयटः स्मरणात्। ‘तत्प्रकृतवचने मयट्’ (पा. सू. ५-४-२) इति हि प्रचुरतायामपि मयट् स्मर्यते; यथा ‘अन्नमयो यज्ञः’ इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमयमुच्यते। आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात्। तस्मात्प्राचुर्यार्थे मयट्॥१३॥

तद्धेतुव्यपदेशाच्च॥१.१.१४॥

इतश्च प्राचुर्यार्थे मयट्; यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः – ‘एष ह्येवानन्दयाति’ इति – आनन्दयतीत्यर्थः। यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति; यथा लोके योऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत्। तस्मात्प्राचुर्यार्थेऽपि मयटः सम्भवादानन्दमयः पर एवात्मा॥१४॥

मान्त्रवर्णिकमेव च गीयते॥१.१.१५॥

इतश्चानन्दमयः पर एवात्मा; यस्मात् ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २-१-१) इत्युपक्रम्य, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २-१-१) इत्यस्मिन्मन्त्रे यत् ब्रह्म प्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितम्, यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम्, यस्य विज्ञानाय ‘अन्योऽन्तर आत्मा’ ‘अन्योऽन्तर आत्मा’ इति प्रक्रान्तम्, तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते – ‘अन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २-५-१) इति। मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम्, अविरोधात्। अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम्। न चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयते। एतन्निष्ठैव च ‘सैषा भार्गवी वारुणी विद्या’ (तै. उ. ३-६-१) – ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३-६-१) इति। तस्मादानन्दमयः पर एवात्मा॥१५॥

नेतरोऽनुपपत्तेः॥१.१.१६॥

इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः। न जीव आनन्दमयशब्देनाभिधीयते। कस्मात्? अनुपपत्तेः। आनन्दमयं हि प्रकृत्य श्रूयते – ‘सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा। इदꣳ सर्वमसृजत। यदिदं किञ्च’ (तै. उ. २-६-१) इति। तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम्, सृज्यमानानां च विकाराणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च न परस्मादात्मनोऽन्यत्रोपपद्यते॥१६॥

भेदव्यपदेशाच्च॥१.१.१७॥

इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे ‘रसो वै सः। रसꣳ ह्येवायं लब्ध्वानन्दी भवति’ (तै. उ. २-७-१) इति जीवानन्दमयौ भेदेन व्यपदिशति। न हि लब्धैव लब्धव्यो भवति। कथं तर्हि ‘आत्मान्वेष्टव्यः’ ‘आत्मलाभान्न परं विद्यते’ इति श्रुतिस्मृती, यावता न लब्धैव लब्धव्यो भवतीत्युक्तम्? बाढम् – तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टः। तेन देहादिभूतस्यात्मनोऽपि आत्मा – अनन्विष्टः ‘अन्वेष्टव्यः’, अलब्धः ‘लब्धव्यः’, अश्रुतः ‘श्रोतव्यः’, अमतः ‘मन्तव्यः’, अविज्ञातः ‘विज्ञातव्यः’ – इत्यादिभेदव्यपदेश उपपद्यते। प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३-७-२३) इत्यादिना। परमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यः; यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः; यथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः। ईदृशं च विज्ञानात्मपरमात्मभेदमाश्रित्य ‘नेतरोऽनुपपत्तेः’ ‘भेदव्यपदेशाच्च’ इत्युक्तम्॥१७॥

कामाच्च नानुमानापेक्षा॥१.१.१८॥

आनन्दमयाधिकारे च ‘सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २-६-१) इति कामयितृत्वनिर्देशात् नानुमानिकमपि सांख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वा अपेक्षितव्यम्। ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १-१-५) इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय॥१८॥

अस्मिन्नस्य च तद्योगं शास्ति॥१.१.१९॥

इतश्च न प्रधाने जीवे वानन्दमयशब्दः; यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि, प्रतिबुद्धस्यास्य जीवस्य, तद्योगं शास्ति – तदात्मना योगस्तद्योगः, तद्भावापत्तिः, मुक्तिरित्यर्थः – तद्योगं शास्ति शास्त्रम् – ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति’ (तै. उ. २-७-१) (तै. उ. २-७-१) इति। एतदुक्तं भवति – यदैतस्मिन्नानन्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति, तदा संसारभयान्न निवर्तते; यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसारभयान्निवर्तत इति। तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा। तस्मादानन्दमयः परमात्मेति स्थितम्॥१९॥

इदं त्विह वक्तव्यम् – ‘स वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २-१-१) ‘तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २-२-१) तस्मात् ‘अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २-३-१) तस्मात् ‘अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २-४-१) इति च विकारार्थे मयट्‍प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति। मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, न; अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः। अत्राह – युक्तमन्नमयादीनामब्रह्मत्वम्, तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात्; आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते; तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति। अत्रोच्यते – यद्यप्यन्नमयादिभ्य इवानन्दमयात् ‘अन्योऽन्तर आत्मा’ इति न श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत आनन्दमयं प्रकृत्य श्रूयते – ‘तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २-५-१) इति। तत्र यद्ब्रह्मेह मन्त्रवर्णे प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २-१-१) इति, तदिह ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युच्यते। तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते। तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः। नन्वानन्दमयस्यावयवत्वेन ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युच्यते, अन्नमयादीनामिव ‘इदं पुच्छं प्रतिष्ठा’ इत्यादि; तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम्? प्रकृतत्वादिति ब्रूमः। नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति; अत्रोच्यते – तथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव च ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात्। अन्यतरपरिग्रहे तु युक्तम् ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्रैव ब्रह्मनिर्देश आश्रयितुम्, ब्रह्मशब्दसंयोगात्; नानन्दमयवाक्ये, ब्रह्मशब्दसंयोगाभावादिति। अपि च ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यते – ‘तदप्येष श्लोको भवति। असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः’ (तै. उ. २-६-१) इति। अस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते – ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति। न चानन्दमयस्यात्मनो भावाभावाशङ्का युक्ता, प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात्। कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते – ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति? नैष दोषः। पुच्छवत्पुच्छम्, प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम्; ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४-३-३२) इति श्रुत्यन्तरात्। अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्; निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात् – ‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कुतश्चन’ (तै. उ. २-९-१) इति। अपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात्। तथा च सति ‘यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा’ (छा. उ. ७-२४-१) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येत। प्रतिशरीरं च प्रियादिभेदादानन्दमयस्य भिन्नत्वम्; ब्रह्म तु न प्रतिशरीरं भिद्यते, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २-१-१) इत्यानन्त्यश्रुतेः ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६-११) इति च श्रुत्यन्तरात्। न चानन्दमयस्याभ्यासः श्रूयते। प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते – ‘रसो वै सः। रसꣳ ह्येवायं लब्ध्वानन्दी भवति। को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २-७-१) (तै. उ. २-७-१) ‘सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २-८-२) ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २-९-१) ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३-६-१) इति च। यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत्, तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत; न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम; तस्माच्छ्रुत्यन्तरे ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३-९-२८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात्, ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २-७-१) इति ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम्। यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २-८-५) इति, न तस्य ब्रह्मविषयत्वमस्ति; विकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात्। नन्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत्। नैष दोषः, आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात्, ‘तदप्येष श्लोको भवति’ ‘यतो वाचो निवर्तन्ते’ इत्यादिना च प्रपञ्च्यमानत्वात्। या त्वानन्दमयसन्निधाने ‘सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २-६-१) इतीयं श्रुतिरुदाहृता, सा ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति। तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य ‘रसो वै सः’ (तै. उ. २-७-१) इत्यादेर्नानन्दमयविषयता। ननु ‘सोऽकामयत’ इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते। नायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्। यत्तु भार्गवी वारुणी विद्या – ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३-६-१) इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्। तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते। न चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम्, वाङ्मनसगोचरातिक्रमश्रुतेः। तस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, न प्राचुर्यार्थः॥

सूत्राणि त्वेवं व्याख्येयानि – ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानत्वेनेति। पुच्छशब्दादवयवत्वेनेति प्राप्ते, उच्यते – आनन्दमयोऽभ्यासात् – आनन्दमय आत्मा इत्यत्र ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति स्वप्रधानमेव ब्रह्मोपदिश्यते; अभ्यासात् ‘असन्नेव स भवति’ इत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्। विकारशब्दान्नेति चेन्न प्राचुर्यात् – विकारशब्देनावयवशब्दोऽभिप्रेतः; पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम्, तस्य परिहारो वक्तव्यः; अत्रोच्यते – नायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः; अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्या ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्याह, नावयवविवक्षया; यत्कारणम् ‘अभ्यासात्’ इति स्वप्रधानत्वं ब्रह्मणः समर्थितम्। तद्धेतुव्यपदेशाच्च – सर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते – ‘इदꣳ सर्वमसृजत, यदिदं किञ्च’ (तै. उ. २-६-१) इति। न च कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते। अपराण्यपि सूत्राणि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि॥१२ – १९॥

इति आनन्दमयाधिकरणम्।

[Go to Contents]

...।
॥२९॥

॥३०॥ वै.न्या.मा.

अन्तस्तद्धर्मोपदेशात्॥१.१.२०॥

इदमाम्नायते – ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्णः’ (छा. उ. १-६-६) ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ... इत्यधिदैवतम्’ (छा. उ. १-६-७) (छा. उ. १-६-८) ‘अथाध्यात्मम् ... अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते’ (छा. उ. १-७-१) (छा. उ. १-७-५) इत्यादि। तत्र संशयः – किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किं वा नित्यसिद्धः परमेश्वर इति। किं तावत्प्राप्तम्? संसारीति। कुतः? रूपवत्त्वश्रवणात्। आदित्यपुरुषे तावत् ‘हिरण्यश्मश्रुः’ इत्यादि रूपमुदाहृतम्; अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यते ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपम्’ इति। न च परमेश्वरस्य रूपवत्त्वं युक्तम्, ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १-३-१५) इति श्रुतेः; आधारश्रवणाच्च – ‘य एषोऽन्तरादित्ये य एषोऽन्तरक्षिणि’ इति। न ह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत। ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७-२४-१) इति ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०-६-३-२) इति च श्रुती भवतः। ऐश्वर्यमर्यादाश्रुतेश्च – ‘स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (छा. उ. १-६-८) इत्यादित्यपुरुषस्य ऐश्वर्यमर्यादा; ‘स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’ (छा. उ. १-७-६) इत्यक्षिपुरुषस्य। न च परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम्; ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’ (बृ. उ. ४-४-२२) इत्यविशेषश्रुतेः। तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः –

अन्तस्तद्धर्मोपदेशात् इति। ‘य एषोऽन्तरादित्ये’ ‘य एषोऽन्तरक्षिणि’ इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी। कुतः? तद्धर्मोपदेशात्। तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः। तद्यथा – ‘तस्योदिति नाम’ इति श्रावयित्वा तस्यादित्यपुरुषस्य नाम ‘स एष सर्वेभ्यः पाप्मभ्य उदितः’ इति सर्वपाप्मापगमेन निर्वक्ति। तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति – ‘यन्नाम तन्नाम’ इति। सर्वपाप्मापगमश्च परमात्मन एव श्रूयते – ‘य आत्मापहतपाप्मा’ (छा. उ. ८-७-१) इत्यादौ। तथा चाक्षुषे पुरुषे ‘सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म’ इति ऋक्सामाद्यात्मकतां निर्धारयति। सा च परमेश्वरस्योपपद्यते, सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः। पृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे, वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह – ‘तस्यर्क्च साम च गेष्णौ’ इत्यधिदैवतम्। तथाध्यात्ममपि – ‘यावमुष्य गेष्णौ तौ गेष्णौ’ इति। तच्च सर्वात्मकत्वे सत्येवोपपद्यते। ‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः’ (छा. उ. १-७-६) इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति। तच्च परमेश्वरपरिग्रह एव घटते – ‘यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्’ (भ. गी. १०-४१) इति भगवद्गीतादर्शनात्। लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति। यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः – स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम्, ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’ इति स्मरणात्। अपि च, यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम् ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १-३-१५) इत्यादि। सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते – ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा. उ. ३-१४-२) इत्यादिना। तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति। यदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यते – स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति; सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः। ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव। तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते॥२०॥

भेदव्यपदेशाच्चान्यः॥१.१.२१॥

अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी – ‘य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३-७-९) इति श्रुत्यन्तरे भेदव्यपदेशात्। तत्र हि ‘आदित्यादन्तरो यमादित्यो न वेद’ इति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते। स एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात्। तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम्॥२१॥

इति आनन्दमयाधिकरणम्।

[Go to Contents]

...।
॥३१॥

॥३२॥ वै.न्या.मा.

आकाशस्तल्लिङ्गात्॥१.१.२२॥

इदमामनन्ति ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १-९-१) इति। तत्र संशयः – किमाकाशशब्देन परं ब्रह्माभिधीयते, उत भूताकाशमिति। कुतः संशयः? उभयत्र प्रयोगदर्शनात्। भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः। ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशादसाधारणगुणश्रवणाद्वा निर्धारितं ब्रह्म भवति – यथा ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २-७-१) इति ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८-१४-१) इति चैवमादौ। अतः संशयः। किं पुनरत्र युक्तम्? भूताकाशमिति। कुतः? तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति। न चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम्, अनेकार्थत्वप्रसङ्गात्। तस्माद्ब्रह्मणि गौण एव आकाशशब्दो भवितुमर्हति। विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति। न च मुख्यसम्भवे गौणोऽर्थो ग्रहणमर्हति। सम्भवति चेह मुख्यस्यैवाकाशस्य ग्रहणम्। ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते – ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यादिः; नैष दोषः, भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः। विज्ञायते हि – ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २-१-१) इत्यादि। ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि। तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः –

आकाशस्तल्लिङ्गात्। आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम्। कुतः? तल्लिङ्गात्। परस्य हि ब्रह्मण इदं लिङ्गम् – ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इति। परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा। ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम्। सत्यं दर्शितम्। तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात्, आकाशादेवेत्यवधारणं सर्वाणीति च भूतविशेषणं नानुकूलं स्यात्। तथा ‘आकाशं प्रत्यस्तं यन्ति’ इति ब्रह्मलिङ्गम्, ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ इति च ज्यायस्त्वपरायणत्वे। ज्यायस्त्वं ह्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम् – ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’ (छा. उ. ३-१४-३) इति। तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येव उपपन्नतरं भवति। श्रुतिश्च – ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ (बृ. उ. ३-९-२८) इति। अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतः; तं चाकाशमुद्गीथे सम्पाद्योपसंहरति – ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ (छा. उ. १-९-२) इति। तच्चानन्त्यं ब्रह्मलिङ्गम्। यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमः – प्रथमतरं प्रतीतमपि सद्वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते। दर्शितश्च ब्रह्मण्यप्याकाशशब्दः ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८-१४-१) इत्यादौ। तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते – ‘ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः’ (ऋ. सं. १-१६४-३९) ‘सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता’ (तै. उ. ३-६-१) ‘ॐ कं ब्रह्म खं ब्रह्म’ (छा. उ. ४-१०-५) ‘खं पुराणम्’ (बृ. उ. ५-१-१) इति चैवमादौ। वाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा। ‘अग्निरधीतेऽनुवाकम्’ इति हि वाक्योपक्रमगतोऽप्यग्निशब्दो माणवकविषयो दृश्यते। तस्मादाकाशशब्दं ब्रह्मेति सिद्धम्॥२२॥

इति आकाशाधिकरणम्।

[Go to Contents]

...।
॥३३॥

॥३४॥ वै.न्या.मा.

अत एव प्राणः॥१.१.२3॥

उद्गीथे – ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता’ इत्युपक्रम्य श्रूयते – ‘कतमा सा देवतेति, प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता’ (छा. उ. १-११-४) (छा. उ. १-११-५) इति। तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ। ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६-८-२) ‘प्राणस्य प्राणम्’ (बृ. उ. ४-४-१८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते; वायुविकारे तु प्रसिद्धतरो लोकवेदयोः; अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः। किं पुनरत्र युक्तम्? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम्। तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम। ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम्। इहापि हि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते। न, मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्। एवं ह्याम्नायते – ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’ (श. ब्रा. १०-३-३-६) इति। प्रत्यक्षं चैतत् – स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले च पुनः प्रादुर्भवन्तीति। इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः। अपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते; न च तयोर्ब्रह्मत्वमस्ति; तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह –

अत एव प्राणः इति। तल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम्। अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति। प्राणस्यापि हि ब्रह्मलिङ्गसम्बन्धः श्रूयते – ‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ (छा. उ. १-११-५) इति। प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः। ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम्, स्वापप्रबोधयोर्दर्शनादिति। अत्रोच्यते – स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूतानाम्; इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानाम्, ‘सर्वाणि ह वा इमानि भूतानि’ इति श्रुतेः। यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते, तदापि ब्रह्मलिङ्गत्वमविरुद्धम्। ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमः – ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति’ (कौ. उ. ३-३) इति। तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैव। यत्पुनरुक्तमन्नादित्यसन्निधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम्; वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां सन्निधानस्याकिञ्चित्करत्वात्। यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम्, तदाकाशशब्दस्येव प्रतिविधेयम्। तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम्॥

अत्र केचिदुदाहरन्ति – ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनः’ इति च। तदयुक्तम्; शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः। यथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः, पितुः पिता इति गम्यते; तद्वत् ‘प्राणस्य प्राणम्’ इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते। न हि स एव तस्येति भेदनिर्देशार्हो भवति। यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते; यथा ज्योतिष्टोमाधिकारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणे ‘प्राणबन्धनं हि सोम्य मनः’ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत्। अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम्। प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः॥२३॥

इति प्राणाधिकरणम्।

[Go to Contents]

...।
॥३५॥

॥३६॥ वै.न्या.मा.

ज्योतिश्चरणाभिधानात्॥१.१.२४॥

इदमामनन्ति – ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३-१३-७) इति। तत्र संशयः – किमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा इति। अर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम्। इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते। किं तावत्प्राप्तम्? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति। कुतः? प्रसिद्धेः। तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ। चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते। तस्या एवानुग्राहकमादित्यादिकं ज्योतिः। तथा ‘दीप्यते’ इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा। न हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हति। द्युमर्यादत्वश्रुतेश्च। न हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता; कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात्। ‘परो दिवो ज्योतिः’ इति च ब्राह्मणम्। ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम्। अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम्। न, अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति। इदमेव प्रयोजनं यदुपास्यत्वमिति चेत्, न; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात्, ‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६-३-३) इति चाविशेषश्रुतेः। न चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम्। अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम्। ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरिति; नैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषः ‘परो दिवः’ इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते। न तु निष्प्रदेशस्यापि ब्रह्मणः प्रदेशविशेषकल्पना भागिनी। ‘सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु’ इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्। ‘इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३-१३-७) इति च कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते। सारूप्यनिमित्ताश्चाध्यासा भवन्ति – यथा ‘तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५-५-३) इति। कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम्। ‘तस्यैषा दृष्टिः’ (छा. उ. ३-१३-७) ‘तस्यैषा श्रुतिः’ इति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात्। ‘तदेतद्दृष्टं च श्रुतं चेत्युपासीत’ इति च श्रुतेः। ‘चक्षुष्यः श्रुतो भवति य एवं वेद’ (छा. उ. ३-१३-८) इति चाल्पफलश्रवणादब्रह्मत्वम्। महते हि फलाय ब्रह्मोपासनमिष्यते। न चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम्। न च पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदꣳ सर्वं भूतम्’ इति च्छन्दोनिर्देशात्। अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात्, एवमपि न तस्येह प्रत्यभिज्ञानमस्ति। तत्र हि ‘त्रिपादस्यामृतं दिवि’ (छा. उ. ३-१२-१) (छा. उ. ३-१२-६) इति द्यौरधिकरणत्वेन श्रूयते; अत्र पुनः ‘परो दिवो ज्योतिः’ इति द्यौर्मर्यादात्वेन। तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः –

ज्योतिरिह ब्रह्म ग्राह्यम्। कुतः? चरणाभिधानात्, पादाभिधानादित्यर्थः। पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् – ‘तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः। पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३-१२-६) इत्यनेन मन्त्रेण। तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टम्, तदेवेह द्युसम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते। तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः; परस्यामपि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्म। तस्मादिह ज्येतिरिति ब्रह्म प्रतिपत्तव्यम्। यत्तूक्तम् – ‘ज्योतिर्दीप्यते’ इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः; प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात्, दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात्; ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३-१२-९-७) इति च मन्त्रवर्णात्। यद्वा, नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् – ‘वाचैवायं ज्योतिषास्ते’ (बृ. उ. ४-३-५) ‘मनो ज्योतिर्जुषताम्’ (तै. ब्रा. १-६-३-३) इति च। तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्ज्योतिःशब्देनाभिधीयते। तथा सति ब्रह्मणोऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः। ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (क. उ. २-२-१५) (मु. उ. २-२-११) ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४-४-१६) इत्यादिश्रुतिभ्यश्च। यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति, अत्रोच्यते – सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते। ननूक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति; नायं दोषः, निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात्प्रदेशविशेषकल्पनोपपत्तेः। तथा हि – आदित्ये, चक्षुषि, हृदये इति प्रदेशविशेषसम्बन्धीनि ब्रह्मणः उपासनानि श्रूयन्ते। एतेन ‘विश्वतः पृष्ठेषु’ इत्याधारबहुत्वमुपपादितम्। यदप्येतदुक्तम् औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यज्योतिरेवेति, तदप्ययुक्तम्; परस्यापि ब्रह्मणो नामादिप्रतीकत्ववत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः। ‘दृष्टं च श्रुतं चेत्युपासीत’ इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति। यदप्युक्तमल्पफलश्रवणात् न ब्रह्मेति, तदप्यनुपपन्नम्; न हि इयते फलाय ब्रह्माश्रयणीयम्, इयते न इति नियमे हेतुरस्ति। यत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते। यत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते – ‘अन्नादो वसुदानो विन्दते वसु य एवं वेद’ (बृ. उ. ४-४-२४) इत्याद्यासु श्रुतिषु। यद्यपि न स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति, तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति। तदुक्तं सूत्रकारेण – ज्योतिश्चरणाभिधानादिति। कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् शक्या प्रच्यावयितुम्? नैष दोषः, ‘अथ यदतः परो दिवो ज्योतिः’ इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसम्बन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः। तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम्॥२४॥

छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम्॥१.१.२५॥

अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्माभिहितमस्ति, ‘गायत्री वा इदꣳ सर्वं भूतं यदिदं किञ्च’ (छा. उ. ३-१२-१) इति गायत्र्याख्यस्य च्छन्दसोऽभिहितत्वादिति; तत्परिहर्तव्यम्। कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम्? यावता ‘तावानस्य महिमा’ इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम्। नैतदस्ति। ‘गायत्री वा इदꣳ सर्वम्’ इति गायत्रीमुपक्रम्य, तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय, ‘सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं तावानस्य महिमा’ (छा. उ. ३-१२-५) (छा. उ. ३-१२-६) इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात्। योऽपि तत्र ‘यद्वै तद्ब्रह्म’ (छा. उ. ३-१२-७) इति ब्रह्मशब्दः, सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव। ‘य एतामेवं ब्रह्मोपनिषदं वेद’ (छा. उ. ३-११-३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते। तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत्, नैष दोषः। तथा चेतोर्पणनिगदात् – तथा गायत्र्याख्यच्छन्दोद्वारेण, तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते – ‘गायत्री वा इदꣳ सर्वम्’ इति। न ह्यक्षरसन्निवेशमात्राया गायत्र्याः सर्वात्मकत्वं सम्भवति। तस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म निर्दिष्टम्, तदिह सर्वमित्युच्यते, यथा ‘सर्वं खल्विदं ब्रह्म’ (छा. उ. ३-१४-१) इति। कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः – ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २-१-१४) इत्यत्र। तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते – ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एवं महाव्रते च्छन्दोगाः’ (ऐ. आ. ३-२-३-१२) इति। तस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्। तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानाय। अपर आह – साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात्। यथा गायत्री चतुष्पदा षडक्षरैः पादैः, तथा ब्रह्म चतुष्पात्। तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते। तद्यथा – ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्’ इत्युपक्रम्याह ‘सैषा विराडन्नादी’ इति। अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न च्छन्दोभिधानम्। सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म इति॥२५॥

भूतादिपादव्यपदेशोपपत्तेश्चैवम्॥१.१.२६॥

इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान्व्यपदिशति श्रुतिः। भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह – ‘सैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ४-३-८) इति। न हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्ते। अपि च ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत – ‘तावानस्य महिमा’ इति। अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३-१२-५) इति सर्वात्मत्वोपपत्तेः। पुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायते। स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति – ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १०-४२) इति। ‘यद्वै तद्ब्रह्म’ (छा. उ. ३-१२-७) इति च निर्देश एवं सति मुख्यार्थ उपपद्यते। ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३-१३-६) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवति। तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्। तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम्॥२६॥

उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्॥१.१.२७॥

यदप्येतदुक्तम् – पूर्वत्र ‘त्रिपादस्यामृतं दिवि’ इति सप्तम्या द्यौः आधारत्वेनोपदिष्टा; इह पुनः ‘अथ यदतः परो दिवः’ इति पञ्चम्या मर्यादात्वेन; तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीति – तत्परिहर्तव्यम्। अत्रोच्यते – नायं दोषः, उभयस्मिन्नप्यविरोधात्। उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते। यथा लोके वृक्षाग्रेण सम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते – वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च, एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते। अपर आह – यथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते – वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च, एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते। तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्। अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम्॥२७॥

इति ज्योतिश्चरणाधिकरणम्।

[Go to Contents]

...।
॥३७॥

॥३८॥ वै.न्या.मा.

प्राणस्तथानुगमात्॥१.१.२८॥

अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका – ‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च’ (कौ. उ. ३-१) इत्यारभ्याम्नाता। तस्यां श्रूयते – ‘स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ (कौ. उ. ३-२) इति। तथोत्तरत्रापि – ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३-३) इति। तथा ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति। अन्ते च ‘स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ (कौ. उ. ३-९) इत्यादि। तत्र संशयः – किमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेति। ननु ‘अत एव प्राणः’ इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम्; इहापि च ब्रह्मलिङ्गमस्ति – ‘आनन्दोऽजरोऽमृतः’ इत्यादि; कथमिह पुनः संशयः सम्भवति? – अनेकलिङ्गदर्शनादिति ब्रूमः। न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते। सन्ति हीतरलिङ्गान्यपि – ‘मामेव विजानीहि’ (कौ. उ. ३-१) इतीन्द्रस्य वचनं देवतात्मलिङ्गम्। ‘इदं शरीरं परिगृह्योत्थापयति’ इति प्राणलिङ्गम्। ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादि जीवलिङ्गम्। अत उपपन्नः संशयः। तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते इदमुच्यते –

प्राणशब्दं ब्रह्म विज्ञेयम्। कुतः? तथानुगमात्। तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते। उपक्रमे तावत् ‘वरं वृणीष्व’ इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप – ‘त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इति। तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात्। न ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति, ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३-८) इत्यादिश्रुतिभ्यः। तथा ‘स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया’ (कौ. उ. ३-१) इत्यादि च ब्रह्मपरिग्रहे घटते। ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः – ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ इत्याद्यासु श्रुतिषु। प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते। न ह्यचेतनस्य वायोः प्रज्ञात्मत्वं सम्भवति। तथोपसंहारेऽपि ‘आनन्दोऽजरोऽमृतः’ इत्यानन्दत्वादीनि न ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति। ‘स न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष उ एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते’ इति, ‘एष लोकाधिपतिरेष लोकपाल एष लोकेशः’ (कौ. उ. ३-९) इति च। सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते, न मुख्ये प्राणे। तस्मात्प्राणो ब्रह्म॥२८॥

न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्॥१.१.२९॥

यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते – न परं ब्रह्म प्राणशब्दम्; कस्मात्? वक्तुरात्मोपदेशात्। वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे – ‘मामेव विजानीहि’ इत्युपक्रम्य ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यहंकारवादेन। स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात्? न हि ब्रह्मणो वक्तृत्वं सम्भवति, ‘अवागमनाः’ (बृ. उ. ३-८-८) इत्यादिश्रुतिभ्यः। तथा विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्भिर्धर्मैरिन्द्र आत्मानं तुष्टाव – ‘त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छम्’ इत्येवमादिभिः। प्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते; ‘प्राणो वै बलम्’ इति हि विज्ञायते। बलस्य चेन्द्रो देवता प्रसिद्धा। ‘या च काचिद्बलकृतिः, इन्द्रकर्मैव तत्’ इति हि वदन्ति। प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः सम्भवति। अप्रतिहतज्ञाना देवता इति हि वदन्ति। निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासम्भवं तद्विषयाण्येव योजयितव्यानि। तस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते – ‘अध्यात्मसम्बन्धभूमा ह्यस्मिन्’ इति। अध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धः, तस्य भूमा बाहुल्यम्, अस्मिन्नध्याये उपलभ्यते। ‘यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः’ इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोपसंहारयोः स्वातन्त्र्यं दर्शयति, न देवताविशेषस्य पराचीनस्य। तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति। तथा ‘प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३-३) इति। ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति चोपक्रम्य ‘तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ इति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यगात्मानमेवोपसंहरति। ‘स म आत्मेति विद्यात्’ इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः, न पराचीनपरिग्रहे। ‘अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २-५-१९) इति च श्रुत्यन्तरम्। तस्मादध्यात्मसम्बन्धबाहुल्याद्ब्रह्मोपदेश एवायम्, न देवतात्मोपदेशः॥२९॥

कथं तर्हि वक्तुरात्मोपदेशः? –

शास्त्रदृष्ट्या तूपदेशो वामदेववत्॥१.१.३०॥

इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेन ‘अहमेव परं ब्रह्म’ इत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिशति स्म – ‘मामेव विजानीहि’ इति; यथा ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’ इति, तद्वत्; ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’ (बृ. उ. १-४-१०) इति श्रुतेः। यत्पुनरुक्तम् – ‘मामेव विजानीहि’ इत्युक्त्वा, विग्रहधर्मैरिन्द्रः आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम्; अत्रोच्यते – न तावत् त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासः – ‘यस्मादेवंकर्माहम्, तस्मान्मां विजानीहि’ इति; कथं तर्हि? विज्ञानस्तुत्यर्थत्वेन; यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसन्दधाति – ‘तस्य मे तत्र लोम च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते’ इत्यादिना। एतदुक्तं भवति – यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स योऽन्योऽपि मां वेद, न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति। विज्ञेयं तु ब्रह्मैव ‘प्राणोऽस्मि प्रज्ञात्मा’ इति वक्ष्यमाणम्। तस्माद्ब्रह्मवाक्यमेतत्॥३०॥

जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्॥१.१.३१॥

यद्यप्यध्यात्मसम्बन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि न ब्रह्मवाक्यं भवितुमर्हति। कुतः? जीवलिङ्गात् मुख्यप्राणलिङ्गाच्च। जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते – ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादि। अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते। तथा मुख्यप्राणलिङ्गमपि – ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ इति। शरीरधारणं च मुख्यप्राणस्य धर्मः; प्राणसंवादे वागादीन्प्राणान्प्रकृत्य – ‘तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ (प्र. उ. २-३) इति श्रवणात्। ये तु ‘इमं शरीरं परिगृह्य’ इति पठन्ति, तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम्। प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम्। मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव। एवं जीवमुख्यप्राणपरिग्रहे च, प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः, स्वरूपेण च भेदनिर्देशः, इत्युभयथापि निर्देश उपपद्यते – ‘यो वै प्राणः स प्रज्ञा या वै प्रज्ञा स प्राणः’ ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः’ इति। ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत? तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवम्; उपासात्रैविध्यात्। एवं सति त्रिविधमुपासनं प्रसज्येत – जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति। न चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम्। उपक्रमोपसंहाराभ्यां हि वाक्यैकवाक्यत्वमवगम्यते। ‘मामेव विजानीहि’ इत्युपक्रम्य, ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ इत्युक्त्वा, अन्ते ‘स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ इत्येकरूपावुपक्रमोपसंहारौ दृश्येते। तत्रार्थैकत्वं युक्तमाश्रयितुम्। न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम्; दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेः। आश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः, इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगात्, ब्रह्मोपदेश एवायमिति गम्यते। यत्तु मुख्यप्राणलिङ्गं दर्शितम् – ‘इदं शरीरं परिगृह्योत्थापयति’ इति, तदसत्; प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् – ‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २-२-५) इति श्रुतेः। यदपि ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादि जीवलिङ्गं दर्शितम्, तदपि न ब्रह्मपक्षं निवारयति। न हि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादिश्रुतिभ्यः। बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यते। तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो न विरुध्यते। ‘यद्वाचानभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १-४) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति। यत्पुनरेतदुक्तम् – ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः’ इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति, नैष दोषः; ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेः। उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः ‘प्राण एव प्रज्ञात्मा’ इत्येकीकरणमविरुद्धम्॥

अथवा ‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ इत्यस्यायमन्योऽर्थः – न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते। कथम्? उपासात्रैविध्यात्। त्रिविधमिह ब्रह्मण उपासनं विवक्षितम् – प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण च। तत्र ‘आयुरमृतमित्युपास्स्वायुः प्राणः’ इति ‘इदं शरीरं परिगृह्योत्थापयति’ इति ‘तस्मादेतदेवोक्थमुपासीत’ इति च प्राणधर्मः। ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामः’ इत्युपक्रम्य ‘वागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति’ इत्यादिः प्रज्ञाधर्मः। ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्। यदि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः। यदि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः। न ह्यन्यतरतो रूपं किञ्चन सिध्येत्। नो एतन्नाना। तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’ इत्यादिर्ब्रह्मधर्मः। तस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्। अन्यत्रापि ‘मनोमयः प्राणशरीरः’ (छा. उ. ३-१४-२) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम्; इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च। तस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम्॥३१॥

इति प्रतर्दनाधिकरणम्।

[Go to Contents]

प्रथमे पादे ‘जन्माद्यस्य यतः’ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम्। तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति। अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि। पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्ते – किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदिति। तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते –

[Go to Contents]

...।
॥१॥

॥२॥ वै.न्या.मा.

सर्वत्र प्रसिद्धोपदेशात्॥१.२.१॥

इदमाम्नायते – ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत’ (छा. उ. ३-१४-१) ‘मनोमयः प्राणशरीरः’ (छा. उ. ३-१४-२) इत्यादि। तत्र संशयः – किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेति। किं तावत्प्राप्तम्? शारीर इति। कुतः? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, न परस्य ब्रह्मणः; ‘अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २-१-२) इत्यादिश्रुतिभ्यः। ननु ‘सर्वं खल्विदं ब्रह्म’ इति स्वशब्देनैव ब्रह्मोपात्तम्; कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते? नैष दोषः; नेदं वाक्यं ब्रह्मोपासनाविधिपरम्। किं तर्हि? शमविधिपरम्; यत्कारणम् ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इत्याह। एतदुक्तं भवति – यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च – न च सर्वस्यैकात्मत्वे रागादयः सम्भवन्ति – तस्मात् शान्त उपासीतेति। न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते। उपासनं तु ‘स क्रतुं कुर्वीत’ इत्यनेन विधीयते। क्रतुः सङ्कल्पो ध्यानमित्यर्थः। तस्य च विषयत्वेन श्रूयते – ‘मनोमयः प्राणशरीरः’ इति जीवलिङ्गम्। अतो ब्रूमः – जीवविषयमेतदुपासनमिति। ‘सर्वकर्मा सर्वकामः’ इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते। ‘एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा’ इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणः। ननु ‘ज्यायान्पृथिव्याः’ इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति। अत्र ब्रूमः – न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम्, विरोधात्; अन्यतराश्रयणे च, प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम्; ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति। निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम् – ‘एतद्ब्रह्म’ (छा. उ. ३-१४-४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव। तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः –

परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्। कुतः? सर्वत्र प्रसिद्धोपदेशात्। यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम्, इह च ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रमे श्रुतम्, तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्। एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः। ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम्। अत्रोच्यते – यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम्, तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु न सन्निहितः, न च स्वशब्देनोपात्त इति वैषम्यम्॥१॥

विवक्षितगुणोपपत्तेश्च॥१.२.२॥

वक्तुमिष्टा विवक्षिताः। यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यते। लोकेऽपि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमिति। तद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम्। उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते। तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसङ्कल्पप्रभृतयः, ते परस्मिन्ब्रह्मण्युपपद्यन्ते। सत्यसङ्कल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते। परमात्मगुणत्वेन च ‘य आत्मापहतपाप्मा’ (छा. उ. ८-७-१) इत्यत्र ‘सत्यकामः सत्यसङ्कल्पः’ इति श्रुतम्, ‘आकाशात्मा’ इति च। आकाशवदात्मा अस्येत्यर्थः। सर्वगतत्वादिभिर्धर्मैः सम्भवत्याकाशेन साम्यं ब्रह्मणः। ‘ज्यायान्पृथिव्याः’ इत्यादिना चैतदेव दर्शयति। यदापि आकाश आत्मा अस्येति व्याख्यायते, तदापि सम्भवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम्। अत एव ‘सर्वकर्मा’ इत्यादि। एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते। यत्तूक्तम् – ‘मनोमयः प्राणशरीरः’ इति जीवलिङ्गम्, न तद्ब्रह्मण्युपपद्यत इति; तदपि ब्रह्मण्युपपद्यत इति ब्रूमः। सर्वात्मत्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि भवन्ति। तथा च ब्रह्मविषये श्रुतिस्मृती भवतः – ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४-३) इति; ‘सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति’ (भ. गी. ३-१३) इति च। ‘अप्राणो ह्यमनाः शुभ्रः’ इति श्रुतिः शुद्धब्रह्मविषया, इयं तु श्रुतिः ‘मनोमयः प्राणशरीरः’ इति सगुणब्रह्मविषयेति विशेषः। अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते॥२॥

अनुपपत्तेस्तु न शारीरः॥१.२.३॥

पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता। अनेन शरीरे तेषामनुपपत्तिरुच्यते। तुशब्दोऽवधारणार्थः। ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम्; न तु शारीरो जीवो मनोमयत्वादिगुणः; यत्कारणम् – ‘सत्यसङ्कल्पः’ ‘आकाशात्मा’ ‘अवाकी’ ‘अनादरः’ ‘ज्यायान्पृथिव्याः’ इति चैवंजातीयका गुणा न शारीरे आञ्जस्येनोपपद्यन्ते। शारीर इति शरीरे भव इत्यर्थः। नन्वीश्वरोऽपि शरीरे भवति। सत्यम्, शरीरे भवति; न तु शरीर एव भवति; ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्’ ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०-६-३-२) इति च व्यापित्वश्रवणात्। जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात्॥३॥

कर्मकर्तृव्यपदेशाच्च॥१.२.४॥

इतश्च न शारीरो मनोमयत्वादिगुणः; यस्मात्कर्मकर्तृव्यपदेशो भवति – ‘एतमितः प्रेत्याभिसम्भवितास्मि’ (छा. उ. ३-१४-४) इति। एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति; अभिसम्भवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन। अभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः। न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः। तथोपास्योपासकभावोऽपि भेदाधिष्ठान एव। तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः॥४॥

शब्दविशेषात्॥१.२.५॥

इतश्च शारीरादन्यो मनोमयत्वादिगुणः; यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे – ‘यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः’ (श. ब्रा. १०-६-३-२) इति। शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तः – अन्तरात्मन्निति; तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः। तस्मात्तयोर्भेदोऽधिगम्यते॥५॥

स्मृतेश्च॥१.२.६॥

स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति – ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८-६१) इत्याद्या।

अत्राह – कः पुनरयं शारीरो नाम परमात्मनोऽन्यः, यः प्रतिषिध्यते – ‘अनुपपत्तेस्तु न शारीरः’ इत्यादिना? श्रुतिस्तु ‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’ (बृ. उ. ३-७-२३) इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयति। तथा स्मृतिरपि ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३-२) इत्येवंजातीयकेति। अत्रोच्यते – सत्यमेवैतत् – पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते; यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते, तद्वत्। तदपेक्षया च कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् ‘तत्त्वमसि’ इत्यात्मैकत्वोपदेशग्रहणात्। गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात्॥६॥

अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च॥१.२.७॥

अर्भकमल्पम् ओको नीडम्, ‘एष म आत्मान्तर्हृदये’ इति परिच्छिन्नायतनत्वात्, स्वशब्देन च ‘अणीयान्व्रीहेर्वा यवाद्वा’ इत्यणीयस्त्वव्यपदेशात्, शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न सर्वगतः परमात्मा – इति यदुक्तं तत्परिहर्तव्यम्। अत्रोच्यते – नायं दोषः। न तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते। सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवति। यथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यते। कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति। निचाय्यत्वादेवमिति ब्रूमः। एवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिः। तत्रास्य बुद्धिविज्ञानं ग्राहकम्; सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति। व्योमवच्चैतद्द्रष्टव्यम्। यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्चेति व्यपदिश्यते, एवं ब्रह्मापि। तदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं च, न पारमार्थिकम्। तत्र यदाशङ्क्यते – हृदयायतनत्वाद्ब्रह्मणो हृदयानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति॥७॥

सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्॥१.२.८॥

व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात्, चिद्रूपतया च शारीरादविशिष्टत्वात्, सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येत; एकत्वाच्च – न हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, ‘नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३-७-२३) इत्यादिश्रुतिभ्यः। तस्मात्परस्यैव ब्रह्मणः सम्भोगप्राप्तिरिति चेत्, न; वैशेष्यात्। न तावत्सर्वप्राणिहृदयसम्बन्धात् चिद्रूपतया च शारीरवद्ब्रह्मणः सम्भोगप्रसङ्गः, वैशेष्यात्। विशेषो हि भवति शारीरपरमेश्वरयोः। एकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्च। एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः। एतस्मादनयोर्विशेषादेकस्य भोगः, नेतरस्य। यदि च सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसम्बन्धोऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गः। सर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौ। यदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामः – इदं तावद्देवानांप्रियः प्रष्टव्यः – कथमयं त्वयात्मान्तराभावोऽध्यवसित इति। ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ ‘नान्योऽतोऽस्ति विज्ञाता’ इत्यादिशास्त्रेभ्य इति चेत्, यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, न तत्रार्धजरतीयं लभ्यम्। शास्त्रं च ‘तत्त्वमसि’ इत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयति। कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः। अथागृहीतं शारीरस्य ब्रह्मणैकत्वम्, तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः; न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः। न हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवति। तदाह – न, वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात्। विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोः। मिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम्। न च मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते। तस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम्॥८॥

इति सर्वत्रप्रसिद्ध्यधिकरणम्।

[Go to Contents]

...।
॥३॥

॥४॥ वै.न्या.मा.

अत्ता चराचरग्रहणात्॥१.२.९॥

कठवल्लीषु पठ्यते ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ (क. उ. १-२-२४) इति। अत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयते। तत्र किमग्निरत्ता स्यात्, उत जीवः, अथवा परमात्मा, इति संशयः; विशेषानवधारणात्, त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः। किं तावत्प्राप्तम्? अग्निरत्तेति। कुतः? ‘अग्निरन्नादः’ (बृ. उ. १-४-६) इति श्रुतिप्रसिद्धिभ्याम्। जीवो वा अत्ता स्यात् ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ (मु. उ. ३-१-१) इति दर्शनात्; न परमात्मा, ‘अनश्नन्नन्योऽभिचाकशीति’ इति दर्शनादित्येवं प्राप्ते ब्रूमः –

अत्तात्र परमात्मा भवितुमर्हति। कुतः? चराचरग्रहणात्। चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते; तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कार्त्स्न्येनात्ता सम्भवति। परमात्मा तु विकारजातमुपसंहरन्सर्वमत्तीत्युपपद्यते। नन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते? नैष दोषः, मृत्यूपसेचनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात्, ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः। यत्तु परमात्मनोऽपि नात्तृत्वं सम्भवति ‘अनश्नन्नन्योऽभिचाकशीति’ इति दर्शनादिति, अत्रोच्यते – कर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनम्, तस्य सन्निहितत्वात्। न विकारसंहारस्य प्रतिषेधकम्, सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात्। तस्मात्परमात्मैवेहात्ता भवितुमर्हति॥९॥

प्रकरणाच्च॥१.२.१०॥

इतश्च परमात्मैवेहात्ता भवितुमर्हति; यत्कारणं प्रकरणमिदं परमात्मनः – ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १-२-१८) इत्यादि। प्रकृतग्रहणं च न्याय्यम्। ‘क इत्था वेद यत्र सः’ इति च दुर्विज्ञानत्वं परमात्मलिङ्गम्॥१०॥

इति अत्त्रधिकरणम्।

[Go to Contents]

...।
॥५॥

॥६॥ वै.न्या.मा.

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्॥१.२.११॥

कठवल्लीष्वेव पठ्यते – ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’ (क. उ. १-३-१) इति। तत्र संशयः – किमिह बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानाविति। यदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवति। तदपीह प्रतिपादयितव्यम्, ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १-१-२) इति पृष्टत्वात्। अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति। तदपीह प्रतिपादयितव्यम् – ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १-२-१४) इति पृष्टत्वात्। अत्राहाक्षेप्ता – उभावप्येतौ पक्षौ न सम्भवतः। कस्मात्? ऋतपानं हि कर्मफलोपभोगः, ‘सुकृतस्य लोके’ इति लिङ्गात्। तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः। ‘पिबन्तौ’ इति द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः। अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न सम्भवति। अत एव क्षेत्रज्ञपरमात्मपक्षोऽपि न सम्भवति; चेतनेऽपि परमात्मनि ऋतपानासम्भवात्, ‘अनश्नन्नन्योऽभिचाकशीति’ इति मन्त्रवर्णादिति। अत्रोच्यते – नैष दोषः; छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात्। एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम्। यद्वा जीवस्तावत्पिबति; ईश्वरस्तु पाययति; पाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात्। बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति; करणे कर्तृत्वोपचारात्, ‘एधांसि पचन्ति’ इति प्रयोगदर्शनात्। न चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतः। तस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः॥

किं तावत्प्राप्तम्? बुद्धिक्षेत्रज्ञाविति। कुतः? ‘गुहां प्रविष्टौ’ इति विशेषणात्। यदि शरीरं गुहा, यदि वा हृदयम्, उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते। न च सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम्। ‘सुकृतस्य लोके’ इति च कर्मगोचरानतिक्रमं दर्शयति। परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते, ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः। ‘छायातपौ’ इति च चेतनाचेतनयोर्निर्देश उपपद्यते, छायातपवत्परस्परविलक्षणत्वात्। तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः

विज्ञानात्मपरमात्मानाविहोच्येयाताम्। कस्मात्? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ। संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते। ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यः’ इत्युक्ते, गौरेव द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वा। तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते। ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः। गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते – ‘गुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १-२-१२) ‘यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २-१-१) ‘आत्मानमन्विच्छ गुहां प्रविष्टम्’ इत्याद्यासु। सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्येतदप्युक्तमेव। सुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम्। ‘छायातपौ’ इत्यप्यविरुद्धम्; छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्य। तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते॥११॥

कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते? –

विशेषणाच्च॥१.२.१२॥

विशेषणं च विज्ञानात्मपरमात्मनोरेव भवति। ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १-३-३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयति। ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १-३-९) इति परमात्मानं गन्तव्यं कल्पयति। तथा ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १-२-१२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ। प्रकरणं चेदं परमात्मनः। ‘ब्रह्मविदो वदन्ति’ इति च वक्तृविशेषोपादानं परमात्मपरिग्रहे घटते। तस्मादिह जीवपरमात्मानावुच्येयाताम्। एष एव न्यायः ‘द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३-१-१) इत्येवमादिष्वपि। तत्रापि ह्याध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते। ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इत्यदनलिङ्गाद्विज्ञानात्मा भवति। ‘अनश्नन्नन्योऽभिचाकशीति’ इत्यनशनचेतनत्वाभ्यां परमात्मा। अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि – ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३-१-२) इति॥

अपर आह – ‘द्वा सुपर्णा’ इति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् – ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ’ इति। सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते, तन्न; सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्। तत्रैव च व्याख्यातत्वात् – ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ’ इति। नाप्यस्याधिकरणस्य पूर्वपक्षं भजते। न ह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते। कथं तर्हि? सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः; ‘अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः’ इति वचनात्, ‘तत्त्वमसि’ ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३-२) इत्यादिश्रुतिस्मृतिभ्यश्च। तावता च विद्योपसंहारदर्शनमेवमेवावकल्पते, ‘तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसते’ इत्यादि। कथं पुनरस्मिन्पक्षे ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’ इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति, उच्यते – नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता – किं तर्हि? – चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति। तदर्थं सुखदुःखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति। इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते। परमार्थतस्तु नान्यतरस्यापि सम्भवति, अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य। अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न सम्भवति। तथा च श्रुतिः – ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति। ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४-५-१५) इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहारं निवारयति॥१२॥

इति गुहाप्रविष्टाधिकरणम्।

[Go to Contents]

...।
॥७॥

॥८॥ वै.न्या.मा.

अन्तर उपपत्तेः॥१.२.१३॥

‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति। तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ (छा. उ. ४-१५-१) इत्यादि श्रूयते। तत्र संशयः – किमयं प्रतिबिम्बात्माक्ष्यधिकरणो निर्दिश्यते, अथ विज्ञानात्मा, उत देवतात्मेन्द्रियस्याधिष्ठाता, अथवेश्वर इति। किं तावत्प्राप्तम्? छायात्मा पुरुषप्रतिरूप इति। कुतः? तस्य दृश्यमानत्वप्रसिद्धेः, ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति च प्रसिद्धवदुपदेशात्। विज्ञानात्मनो वायं निर्देश इति युक्तम्। स हि चक्षुषा रूपं पश्यंश्चक्षुषि सन्निहितो भवति। आत्मशब्दश्चास्मिन्पक्षेऽनुकूलो भवति। आदित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयते – ‘रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’ (बृ. उ. ५-५-२) इति श्रुतेः, अमृतत्वादीनां च देवतात्मन्यपि कथञ्चित्सम्भवात्। नेश्वरः, स्थानविशेषनिर्देशात् – इत्येवं प्राप्ते ब्रूमः –

परमेश्वर एवाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इति। कस्मात्? उपपत्तेः। उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम्। आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते, ‘स आत्मा तत्त्वमसि’ इति श्रुतेः। अमृतत्वाभयत्वे च तस्मिन्नसकृच्छ्रूयेते। तथा परमेश्वरानुरूपमेतदक्षिस्थानम्। यथा हि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात्; तथाक्षिस्थानं सर्वलेपरहितमुपदिष्टम् ‘तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छति’ इति श्रुतेः। संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते। ‘एतं संयद्वाम इत्याचक्षते। एतं हि सर्वाणि वामान्यभिसंयन्ति’, (छा. उ. ४-१५-२) ‘एष उ एव वामनीरेष हि सर्वाणि वामानि नयति। एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति’ (छा. उ. ४-१५-३) (छा. उ. ४-१५-४) इति च। अत उपपत्तेरन्तरः परमेश्वरः॥१३॥

स्थानादिव्यपदेशाच्च॥१.२.१४॥

कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमुपपद्यत इति, अत्रोच्यते – भवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत्। सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानि – ‘यः पृथिव्यां तिष्ठन्’ (बृ. उ. ३-७-३) इत्यादिना। तेषु हि चक्षुरपि निर्दिष्टम् ‘यश्चक्षुषि तिष्ठन्’ इति। स्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति – न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यते। किं तर्हि? नाम रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यते – ‘तस्योदिति नाम’ (छा. उ. १-६-७) ‘हिरण्यश्मश्रुः’ इत्यादि। निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव। सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव॥१४॥

सुखविशिष्टाभिधानादेव च॥१.२.१५॥

अपि च नैवात्र विवदितव्यम् – किं ब्रह्मास्मिन्वाक्येऽभिधीयते, न वेति। सुखविशिष्टाभिधानादेव ब्रह्मत्वं सिद्धम्। सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४-१४-१) इति, तदेवेहाभिहितम्; प्रकृतपरिग्रहस्य न्याय्यत्वात्, ‘आचार्यस्तु ते गतिं वक्ता’ (छा. उ. ४-१४-१) इति च गतिमात्राभिधानप्रतिज्ञानात्। कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति, उच्यते – ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४-१०-५) इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच – ‘विजानाम्यहं यत्प्राणो ब्रह्म, कं च तु खं च न विजानामि’ इति। तत्रेदं प्रतिवचनम् – ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्’ इति। तत्र खंशब्दो भूताकाशे निरूढो लोके। यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत, तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात्। तथा कंशब्दस्य विषयेन्द्रियसम्पर्कजनिते सामये सुखे प्रसिद्धत्वात्, यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत; लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात्। इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतः। तत्र द्वितीये ब्रह्मशब्देऽनुपादीयमाने ‘कं खं ब्रह्म’ इत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात्सुखस्य गुणस्याध्येयत्वं स्यात्; तन्मा भूत् – इत्युभयोः कंखंशब्दयोर्ब्रह्मशब्दशिरस्त्वम् – ‘कं ब्रह्म खं ब्रह्म’ इति। इष्टं हि सुखस्यापि गुणस्य गुणिवद्ध्येयत्वम्। तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम्। प्रत्येकं च गार्हपत्यादयोऽग्नयः स्वं स्वं महिमानमुपदिश्य ‘एषा सोम्य तेऽस्मद्विद्यात्मविद्या च’ इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति। ‘आचार्यस्तु ते गतिं वक्ता’ इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयति। ‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ (छा. उ. ४-१४-३) इति चाक्षिस्थानं पुरुषं विजानतः पाप्मनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयति। तस्मात्प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वा अर्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते – ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच’ (छा. उ. ४-१५-१) इति॥१५॥

श्रुतोपनिषत्कगत्यभिधानाच्च॥१.२.१६॥

इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ – ‘अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते। एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते’ (प्र. उ. १-१०) इति, स्मृतावपि – ‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ (भ. गी. ८-२४) इति, सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते। ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्ति’ इत्युपक्रम्य ‘आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४-१५-५) इति। तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते॥१६॥

अनवस्थितेरसम्भवाच्च नेतरः॥१.२.१७॥

यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति, अत्रोच्यते – न च्छायात्मादिरितर इह ग्रहणमर्हति। कस्मात्? अनवस्थितेः। न तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं सम्भवति। यदैव हि कश्चित्पुरुषश्चक्षुरासीदति, तदा चक्षुषि पुरुषच्छाया दृश्यते; अपगते तस्मिन्न दृश्यते। ‘य एषोऽक्षिणि पुरुषः’ इति च श्रुतिः सन्निधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति। न चोपासनाकाले च्छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम्। ‘अस्यैव शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८-९-१) इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयति। असम्भवाच्च तस्मिन्नमृतत्वादीनां गुणानां न च्छायात्मनि प्रतीतिः। तथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्बन्धे सति न चक्षुष्येवावस्थितत्वं शक्यं वक्तुम्। ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसम्बन्धः। समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसम्भवः। यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते। संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एव। देवतात्मनस्तु ‘रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’ इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात्, तथाप्यात्मत्वं तावन्न सम्भवति, पराग्रूपत्वात्। अमृतत्वादयोऽपि न सम्भवन्ति, उत्पत्तिप्रलयश्रवणात्। अमरत्वमपि देवानां चिरकालावस्थानापेक्षम्। ऐश्वर्यमपि परमेश्वरायत्तम्, न स्वाभाविकम्; ‘भीषास्माद्वातः पवते। भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः’ (तै. उ. २-८-१) इति मन्त्रवर्णात्। तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः। अस्मिंश्च पक्षे ‘दृश्यते’ इति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम्॥१७॥

इति अन्तराधिकरणम्।

[Go to Contents]

...।
॥९॥

॥१०॥ वै.न्या.मा.

अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्॥१.२.१८॥

‘य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ (बृ. उ. ३-७-१) इत्युपक्रम्य श्रूयते – ‘यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३-७-३) इत्यादि। अत्राधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं च कश्चिदन्तरवस्थितो यमयिता अन्तर्यामीति श्रूयते। स किमधिदैवाद्यभिमानी देवतात्मा कश्चित्, किं वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी, किं वा परमात्मा, किं वार्थान्तरं किञ्चित्, इत्यपूर्वसंज्ञादर्शनात्संशयः। किं तावन्नः प्रतिभाति? संज्ञाया अप्रसिद्धत्वात्संज्ञिनाप्यप्रसिद्धेनार्थान्तरेण केनचिद्भवितव्यमिति। अथवा नानिरूपितरूपमर्थान्तरं शक्यमस्त्यभ्युपगन्तुम्। अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धः। तस्मात्पृथिव्याद्यभिमानी कश्चिद्देवोऽन्तर्यामी स्यात्। तथा च श्रूयते – ‘पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः’ (बृ. उ. ३-९-१०) इत्यादि। स च कार्यकरणवत्त्वात्पृथिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृत्वम्। योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात्। न तु परमात्मा प्रतीयेत, अकार्यकरणत्वात्; इत्येवं प्राप्ते इदमुच्यते –

योऽन्तर्याम्यधिदैवादिषु श्रूयते, स परमात्मैव स्यात्, नान्य इति। कुतः? तद्धर्मव्यपदेशात्। तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते। पृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यते; सर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः। ‘एष त आत्मान्तर्याम्यमृतः’ इति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते। ‘यं पृथिवी न वेद’ इति च पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयति। पृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात्। तथा ‘अदृष्टोऽश्रुतः’ इत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इति। यत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोषः; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणवत्त्वोपपत्तेः। तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न सम्भवति, भेदाभावात्। भेदे हि सत्यनवस्थादोषोपपत्तिः। तस्मात्परमात्मैवान्तर्यामी॥१८॥

न च स्मार्तमतद्धर्माभिलापात्॥१.२.१९॥

स्यादेतत् – अदृष्टत्वादयो धर्माः सांख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात्। ‘अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः’ (मनु. १-५) इति हि स्मरन्ति। तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते। तस्मात्प्रधानमन्तर्यामिशब्दं स्यात्। ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १-१-५) इत्यत्र निराकृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसम्भवेन पुनराशङ्क्यते। अत उत्तरमुच्यते – न च स्मार्तं प्रधानमन्तर्यामिशब्दं भवितुमर्हति। कस्मात्? अतद्धर्माभिलापात्। यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य सम्भवति, तथापि न द्रष्टृत्वादिव्यपदेशः सम्भवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात्। ‘अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता’ (बृ. उ. ३-७-२३) इति हि वाक्यशेष इह भवति। आत्मत्वमपि न प्रधानस्योपपद्यते॥१९॥

यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्तर्याम्यभ्युपगम्यते, शारीरस्तर्ह्यन्तर्यामी भवतु। शारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता च भवति, आत्मा च प्रत्यक्त्वात्। अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेः। अदृष्टत्वादयश्च धर्माः शारीरे सुप्रसिद्धाः; दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात्, ‘न दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३-४-२) इत्यादिश्रुतिभ्यश्च। तस्य च कार्यकरणसङ्घातमन्तर्यमयितुं शीलम्, भोक्तृत्वात्। तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति –

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते॥१.२.२०॥

नेति पूर्वसूत्रादनुवर्तते। शारीरश्च नान्तर्यामी स्यात्। कस्मात्? यद्यपि द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति। अपि चोभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते – ‘यो विज्ञाने तिष्ठन्’ (बृ. उ. ३-७-२२) इति काण्वाः। ‘य आत्मनि तिष्ठन्’ इति माध्यन्दिनाः। ‘य आत्मनि तिष्ठन्’ इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः। ‘यो विज्ञाने तिष्ठन्’ इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति। तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम्। कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते – यश्चायमीश्वरोऽन्तर्यामी, यश्चायमितरः शारीरः? का पुनरिहानुपपत्तिः? ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुतिवचनं विरुध्येत। अत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति। नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत्, न; नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च। अत्रोच्यते – अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशः, न पारमार्थिकः। एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ सम्भवतः। एकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो महाकाश इति। ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते। तथा च श्रुतिः – ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यविद्याविषये सर्वं व्यवहारं दर्शयति। ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति विद्याविषये सर्वं व्यवहारं वारयति॥२०॥

इति अन्तर्याम्यधिकरणम्।

[Go to Contents]

...।
॥११॥

॥१२॥ वै.न्या.मा.

अदृश्यत्वादिगुणको धर्मोक्तेः॥१.२.२१॥

‘अथ परा यया तदक्षरमधिगम्यते’ (मु. उ. १-१-५) ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्, नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १-१-६) इति श्रूयते। तत्र संशयः – किमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात्, उत शारीरः, आहोस्वित्परमेश्वर इति। तत्र प्रधानमचेतनं भूतयोनिरिति युक्तम्, अचेतनानामेव तत्र दृष्टान्तत्वेनोपादानात्। ‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्’ (मु. उ. १-१-७) इति। ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ; नेति ब्रूमः। न हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं वास्ति। चेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः, पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम्। अपि च पूर्वत्रादृष्टत्वाद्यभिलापसम्भवेऽपि द्रष्टृत्वाद्यभिलापासम्भवान्न प्रधानमभ्युपगतम्। इह त्वदृश्यत्वादयो धर्माः प्रधाने सम्भवन्ति। न चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते। ननु ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १-१-९) इत्ययं वाक्यशेषोऽचेतने प्रधाने न सम्भवति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति; अत्रोच्यते – ‘यया तदक्षरमधिगम्यते’ ‘यत्तदद्रेश्यम्’ इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा, पुनरन्ते श्रावयिष्यति – ‘अक्षरात्परतः परः’ (मु. उ. २-१-२) इति। तत्र यः परोऽक्षराच्छ्रुतः, स सर्वज्ञः सर्ववित्सम्भविष्यति। प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः। यदा तु योनिशब्दो निमित्तवाची, तदा शारीरोऽपि भूतयोनिः स्यात्, धर्माधर्माभ्यां भूतजातस्योपार्जनादिति। एवं प्राप्ते अभिधीयते –

योऽयमदृश्यत्वादिगुणको भूतयोनिः, स परमेश्वर एव स्यात्, नान्य इति। कथमेतदवगम्यते? धर्मोक्तेः। परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते – ‘यः सर्वज्ञः सर्ववित्’ इति। न हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवति। नन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव एतत्सर्वज्ञत्वं सर्ववित्त्वं च, न भूतयोनिविषयमित्युक्तम्; अत्रोच्यते – नैवं सम्भवति; यत्कारणम् ‘अक्षरात्सम्भवतीह विश्वम्’ इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य, अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति – ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ इति। तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं च धर्म उच्यत इति गम्यते। ‘अक्षरात्परतः परः’ इत्यत्रापि न प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधीयते। कथमेतदवगम्यते? ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मु. उ. १-२-१३) इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात्। कथं तर्हि ‘अक्षरात्परतः परः’ इति व्यपदिश्यत इति, उत्तरसूत्रे तद्वक्ष्यामः। अपि चात्र द्वे विद्ये वेदितव्ये उक्ते – ‘परा चैवापरा च’ इति। तत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीति ‘अथ परा यया तदक्षरमधिगम्यते’ इत्यादि। तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम्। यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत, नेयं परा विद्या स्यात्। परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते। न च प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यते। तिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्। द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टे। ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १-१-३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरि। अपि च ‘स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ (मु. उ. १-१-१) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयति। सा च ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात्। अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायै – ‘प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’ (मु. उ. १-२-७) इत्येवमादिनिन्दावचनात्। निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति – ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १-२-१२) इति। यत्तूक्तम् – अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति, तदयुक्तम्; न हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्ति; अपि च स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति न स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यते। तस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव॥२१॥

विशेषणभेदव्यपदेशाभ्यां च नेतरौ॥१.२.२२॥

इतश्च परमेश्वर एव भूतयोनिः, नेतरौ – शारीरः प्रधानं वा। कस्मात्? विशेषणभेदव्यपदेशाभ्याम्। विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेन – ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २-१-२) इति। न ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यते। तस्मात्साक्षादौपनिषदः पुरुष इहोच्यते। तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति – ‘अक्षरात्परतः परः’ इति। अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतम्, सर्वस्माद्विकारात्परो योऽविकारः, तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयति। नात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य, तस्माद्भेदव्यपदेश उच्यते। किं तर्हि? यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत, परिकल्प्यताम्। तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते॥२२॥

कुतश्च परमेश्वरो भूतयोनिः? –

रूपोपन्यासाच्च॥१.२.२३॥

अपि च ‘अक्षरात्परतः परः’ इत्यस्यानन्तरम् ‘एतस्माज्जायते प्राणः’ इति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्त्वानां सर्गमुक्त्वा, तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामः – ‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ (मु. उ. २-१-४) इति। तच्च परमेश्वरस्यैवोचितम्, सर्वविकारकारणत्वात्; न शारीरस्य तनुमहिम्नः; नापि प्रधानस्य अयं रूपोपन्यासः सम्भवति, सर्वभूतान्तरात्मत्वासम्भवात्। तस्मात्परमेश्वर एव भूतयोनिः, नेतराविति गम्यते। कथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते? प्रकरणात्, ‘एषः’ इति च प्रकृतानुकर्षणात्। भूतयोनिं हि प्रकृत्य ‘एतस्माज्जायते प्राणः’ ‘एष सर्वभूतान्तरात्मा’ इति वचनं भूतयोनिविषयमेव भवति; यथा उपाध्यायं प्रकृत्य ‘एतस्मादधीष्व, एष वेदवेदाङ्गपारगः’ इति वचनमुपाध्यायविषयं भवति, तद्वत्। कथं पुनरदृश्यत्वादिगुणकस्य भूतयोनेर्विग्रहवद्रूपं सम्भवति? सर्वात्मत्वविवक्षयेदमुच्यते, न तु विग्रहवत्त्वविवक्षया इत्यदोषः, ‘अहमन्नम्’ ‘अहमन्नादः’ (तै. उ. ३-१०-६) इत्यादिवत्॥

अन्ये पुनर्मन्यन्ते – नायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात्। ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत्। उत्तरत्रापि च ‘तस्मादग्निः समिधो यस्य सूर्यः’ इत्येवमादि ‘अतश्च सर्वा ओषधयो रसश्च’ इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति। इहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत्? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यति – ‘पुरुष एवेदं विश्वं कर्म’ (मु. उ. २-१-१०) इत्यादिना। श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहे – ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १०-१२१-१) इति – समवर्ततेति अजायतेत्यर्थः – तथा, ‘स वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इति च। विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात्। अस्मिन्पक्षे ‘पुरुष एवेदं विश्वं कर्म’ इत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम्॥२३॥

इति अदृश्यत्वाधिकरणम्।

[Go to Contents]

...।
॥१३॥

॥१४॥ वै.न्या.मा.

वैश्वानरः साधारणशब्दविशेषात्॥१.२.२४॥

‘को न आत्मा किं ब्रह्म’ (छा. उ. ५-११-१) इति ‘आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि’ (छा. उ. ५-११-६) इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया च वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायते – ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति; तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५-१८-२) इत्यादि। तत्र संशयः – किं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहोस्वित्परमेश्वरः इति। किं पुनरत्र संशयकारणम्? वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगात्, आत्मेति च शारीरपरमेश्वरयोः। तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः। किं तावत्प्राप्तम्? जाठरोऽग्निरिति; कुतः? तत्र हि विशेषेण क्वचित्प्रयोगो दृश्यते – ‘अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते’ (बृ. उ. ५-९-१) इत्यादौ। अग्निमात्रं वा स्यात्, सामान्येनापि प्रयोगदर्शनात् – ‘विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्’ (ऋ. सं. १०-८८-१२) इत्यादौ। अग्निशरीरा वा देवता स्यात्, तस्यामपि प्रयोगदर्शनात् – ‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’ (ऋ. सं. १-९८-१) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां सम्भवात्। अथात्मशब्दसामानाधिकरण्यादुपक्रमे च ‘को न आत्मा किं ब्रह्म’ इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात्; तस्य भोक्तृत्वेन वैश्वानरसन्निकर्षात्, प्रादेशमात्रमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने सम्भवात्। तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्तम्॥

तत्रेदमुच्यते – वैश्वानरः परमात्मा भवितुमर्हति। कुतः? साधारणशब्दविशेषात्; साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः; यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ – वैश्वानरशब्दस्तु त्रयाणां साधारणः, आत्मशब्दश्च द्वयोः – तथापि विशेषो दृश्यते, – येन परमेश्वरपरत्वं तयोरभ्युपगम्यते – ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः’ इत्यादिः। अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते, कारणत्वात्। कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वात् द्युलोकाद्यवयवत्वमुपपद्यते। ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’ इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भवति, ‘एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५-२४-३) इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम्, ‘को न आत्मा किं ब्रह्म’ इति चात्मब्रह्मशब्दाभ्यामुपक्रमः; – इत्येवमेतानि लिङ्गानि परमेश्वरमेव गमयन्ति। तस्मात्परमेश्वर एव वैश्वानरः॥२४॥

स्मर्यमाणमनुमानं स्यादिति॥१.२.२५॥

इतश्च परमेश्वर एव वैश्वानरः; यस्मात्परमेश्वरस्यैव ‘अग्निरास्यं द्यौर्मूर्धा’ इतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते – ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः। सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः’ इति। तत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः। इतिशब्दो हेत्वर्थे – यस्मादिदं गमकम्, तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः। यद्यपि स्तुतिरियम् – ‘तस्मै लोकात्मने नमः’ इति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति। ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे। दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’ इत्येवंजातीयका च स्मृतिरिहोदाहर्तव्या॥२५॥

शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते॥१.२.२६॥

अत्राह – न परमेश्वरो वैश्वानरो भवितुमर्हति। कुतः? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च। शब्दस्तावत् – वैश्वानरशब्दो न परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात्; तथाग्निशब्दः ‘स एषोऽग्निर्वैश्वानरः’ इति। आदिशब्दात् ‘हृदयं गार्हपत्यः’ (छा. उ. ५-१८-२) इत्याद्यग्नित्रेताप्रकल्पनम्; ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५-१०-१) इत्यादिना च प्राणाहुत्यधिकरणतासङ्कीर्तनम्। एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः। तथान्तःप्रतिष्ठानमपि श्रूयते – ‘पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति। तच्च जाठरे सम्भवति। यदप्युक्तम् ‘मूर्धैव सुतेजाः’ इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमः – कुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति। अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यति। तस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णे अवगम्यते – ‘यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १०-८८-३) इत्यादौ। अथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यति। तस्मान्न परमेश्वरो वैश्वानर इति॥

अत्रोच्यते – न तथादृष्ट्युपदेशादिति। न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम्। कुतः? तथा जाठरापरित्यागेन, दृष्ट्युपदेशात्। परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यते – ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३-१८-१) इत्यादिवत्। अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यते – ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३-१४-२) इत्यादिवत्। यदि चेह परमेश्वरो न विवक्ष्येत, केवल एव जाठरोऽग्निर्विवक्ष्येत, ततः ‘मूर्धैव सुतेजाः’ इत्यादेर्विशेषस्यासम्भव एव स्यात्। यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं न शक्यते, तथोत्तरसूत्रे वक्ष्यामः। यदि च केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात्; न तु पुरुषत्वम्; पुरुषमपि चैनमधीयते वाजसनेयिनः – ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (श. ब्रा. १०-६-१-११) इति। परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते। ये तु ‘पुरुषविधमपि चैनमधीयते’ इति सूत्रावयवं पठन्ति, तेषामेषोऽर्थः – केवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यात्; न तु पुरुषविधत्वम्; पुरुषविधमपि चैनमधीयते वाजसनेयिनः – ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति। पुरुषविधत्वं च प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम्, यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम्, तत्परिगृह्यते॥२६॥

अत एव न देवता भूतं च॥१.२.२७॥

यत्पुनरुक्तम् – भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसम्बन्धदर्शनात् ‘मूर्धैव सुतेजाः’ इत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा ऐश्वर्ययोगादिति; तत्परिहर्तव्यम्। अत्रोच्यते – अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वानरः। तथा भूताग्निरपि न वैश्वानरः; न हि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासम्भवात्। तथा देवतायाः सत्यप्यैश्वर्ययोगे न द्युमूर्धत्वादिकल्पना सम्भवति, अकारणत्वात् परमेश्वराधीनैश्वर्यत्वाच्च। आत्मशब्दासम्भवश्च सर्वेष्वेषु पक्षेषु स्थित एव॥२७॥

साक्षादप्यविरोधं जैमिनिः॥१.२.२८॥

पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेन। इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते। ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि च कारणानि विरुध्येरन्निति। अत्रोच्यते – अन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते। न हीह ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्याप्रकृतत्वादसंशब्दितत्वाच्च। कथं तर्हि? यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम्, तदभिप्रायेणेदमुच्यते – ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति; यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत्। अथवा यः प्रकृतः परमात्माध्यात्ममधिदैवतं च पुरुषविधत्वोपाधिः, तस्य यत्केवलं साक्षिरूपम्, तदभिप्रायेणेदमुच्यते – ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति। निश्चिते च पूर्वापरालोचनवशेन परमात्मपरिग्रहे, तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते – विश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः परमात्मा, सर्वात्मत्वात्, विश्वानर एव वैश्वानरः; तद्धितोऽनन्यार्थः, राक्षसवायसादिवत्। अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यति। गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनोऽपि सर्वात्मत्वादुपपद्यते॥२८॥

कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति, तां व्याख्यातु मारभते –

अभिव्यक्तेरित्याश्मरथ्यः॥१.२.२९॥

अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात्। अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते। प्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यते। अतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते॥२९॥

अनुस्मृतेर्बादरिः॥१.२.३०॥

प्रादेशमात्रहृदयप्रतिष्ठेन वायं मनसानुस्मर्यते; तेन ‘प्रादेशमात्रः’ इत्युच्यते; यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत्। यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसम्बन्धाद्व्यज्यते, न चेह परमेश्वरगतं किञ्चित्परिमाणमस्ति – यद्धृदयसम्बन्धाद्व्यज्येत; तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः सम्भवति यथाकथञ्चिदनुस्मरणमालम्बनमित्युच्यते। प्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायै। एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते॥३०॥

सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति॥१.२.३१॥

सम्पत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः। कुतः? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत्प्रादेशमात्रसम्पत्तिं परमेश्वरस्य दर्शयति – ‘प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नास्तथा तु व एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति। स होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति। चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति। नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति। मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति। मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति। चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरः’ इति। चुबुकमित्यधरं मुखफलकमुच्यते। यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात्, सर्वशाखाप्रत्ययत्वाच्च। सम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते॥३१॥

आमनन्ति चैनमस्मिन्॥१.२.३२॥

आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः – ‘य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति। सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति। वरणायां नास्यां च मध्ये प्रतिष्ठित इति। का वै वरणा का च नासीति’। तत्र चेमामेव नासिकाम् ‘सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासी’ इति वरणानासीति निरुच्य, पुनरप्यामनन्ति – ‘कतमच्चास्य स्थानं भवतीति। भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्युलोकस्य परस्य च सन्धिर्भवति’ (जा. उ. १) इति। तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः। अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया। प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानः; अभिगतो वायं प्रत्यगात्मत्वात्, विमानश्च मानवियोगात् इत्यभिविमानः। अभिविमिमीते वा सर्वं जगत्, कारणत्वादित्यभिविमानः। तस्मात्परमेश्वरो वैश्वानर इति सिद्धम्॥३२॥

इति वैश्वानराधिकरणम्।

[Go to Contents]

[Go to Contents]

...।
॥१॥

॥२॥ वै.न्या.मा.

द्युभ्वाद्यायतनं स्वशब्दात्॥१.३.१॥

इदं श्रूयते – ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः’ (मु. उ. २-२-५) इति। अत्र यदेतद्द्युप्रभृतीनामोतत्ववचनादायतनं किञ्चिदवगम्यते, तत्किं परं ब्रह्म स्यात्, आहोस्विदर्थान्तरमिति सन्दिह्यते। तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम्। कस्मात्? ‘अमृतस्यैष सेतुः’ इति श्रवणात्। पारवान्हि लोके सेतुः प्रख्यातः। न च परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुम् – ‘अनन्तमपारम्’ (बृ. उ. २-४-१२) इति श्रवणात्। अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यम्, तस्य कारणत्वादायतनत्वोपपत्तेः। श्रुतिप्रसिद्धो वा वायुः स्यात् – ‘वायुर्वाव गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति’ (बृ. उ. ३-७-२) इति वायोरपि विधारणत्वश्रवणात्। शारीरो वा स्यात्; – तस्यापि भोक्तृत्वात्, भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेः इत्येवं प्राप्ते इदमाह –

द्युभ्वाद्यायतनमिति। द्यौश्च भूश्च द्युभुवौ, द्युभुवौ आदी यस्य तदिदं द्युभ्वादि। यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम्, तस्यायतनं परं ब्रह्म भवितुमर्हति। कुतः? स्वशब्दात् आत्मशब्दादित्यर्थः। आत्मशब्दो हीह भवति – ‘तमेवैकं जानथ आत्मानम्’ इति। आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते, नार्थान्तरपरिग्रहे। क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयते – ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ (छा. उ. ६-८-४) इति। स्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म सङ्कीर्त्यते – ‘पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्’ इति, ‘ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण’ (मु. उ. २-२-११) इति च। तत्र त्वायतनायतनवद्भावश्रवणात्। सर्वं ब्रह्मेति च सामानाधिकरण्यात्, यथानेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति, एवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवति; तां निवर्तयितुं सावधारणमाह – ‘तमेवैकं जानथ आत्मानम्’ इति। एतदुक्तं भवति – न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः। किं तर्हि? अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमेवैकमायतनभूतमात्मानं जानथ एकरसमिति। यथा ‘यस्मिन्नास्ते देवदत्तस्तदानय’ इत्युक्ते आसनमेवानयति, न देवदत्तम्; तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यते। विकारानृताभिसन्धस्य चापरवादः श्रूयते – ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २-१-१०) इति। ‘सर्वं ब्रह्म’ इति तु सामानाधिकरण्यं प्रपञ्चप्रविलापनार्थम्, न अनेकरसताप्रतिपादनार्थम्, ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४-५-१३) इत्येकरसताश्रवणात्। तस्माद्द्युभ्वाद्यायतनं परं ब्रह्म। यत्तूक्तम् – सेतुश्रुतेः, सेतोश्च पारवत्त्वोपपत्तेः, ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति, अत्रोच्यते – विधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते, न पारवत्त्वादि। न हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यते। सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव, न पारवत्त्वादि, षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः। अपर आह – ‘तमेवैकं जानथ आत्मानम्’ इति यदेतत्सङ्कीर्तितमात्मज्ञानम्, यच्चैतत् ‘अन्या वाचो विमुञ्चथ’ इति वाग्विमोचनम्, तत् अत्र अमृतत्वसाधनत्वात्, ‘अमृतस्यैष सेतुः’ इति सेतुश्रुत्या सङ्कीर्त्यते; न तु द्युभ्वाद्यायतनम्। तत्र यदुक्तम् – सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति, एतदयुक्तम्॥१॥

मुक्तोपसृप्यव्यपदेशात्॥१.३.२॥

इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम्; यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यते। मुक्तैरुपसृप्यं मुक्तोपसृप्यम्। देहादिष्वनात्मसु अहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागः, तत्परिभवादौ च द्वेषः, तदुच्छेददर्शनाद्भयं मोहश्च – इत्येवमयमनन्तभेदोऽनर्थव्रातः सन्ततः सर्वेषां नः प्रत्यक्षः। तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यमुपगम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति। कथम्? ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २-२-८) इत्युक्त्वा, ब्रवीति – ‘तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. २-२-८) इति। ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे – ‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ (बृ. उ. ४-४-७) इत्येवमादौ। प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम्। अपि च ‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः’ इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते। तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम् – ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः। नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्’ (बृ. उ. ४-४-२) इति। तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म॥२॥

नानुमानमतच्छब्दात्॥१.३.३॥

यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः, नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याह। नानुमानं सांख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम्। कस्मात्? अतच्छब्दात्। तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, न तच्छब्दः अतच्छब्दः। न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येत। तद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति – ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १-१-९) इत्यादिः। अत एव न वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते॥३॥

प्राणभृच्च॥१.३.४॥

यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च सम्भवति, तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसम्भवे सति अस्मादेवातच्छब्दात् प्राणभृदपि न द्युभ्वाद्यायतनत्वेनाश्रयितव्यः। न चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवति। पृथग्योगकरणमुत्तरार्थम्॥४॥

कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः? –

भेदव्यपदेशात्॥१.३.५॥

भेदव्यपदेशश्चेह भवति – ‘तमेवैकं जानथ आत्मानम्’ इति ज्ञेयज्ञातृभावेन। तत्र प्राणभृत् तावन्मुमुक्षुत्वाज्ज्ञाता; परिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते, न प्राणभृत्॥५॥

कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः? –

प्रकरणात्॥१.३.६॥

प्रकरणं चेदं परमात्मनः – ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १-१-३) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात्। परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात्, न केवले प्राणभृति॥६॥

कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः? –

स्थित्यदनाभ्यां च॥१.३.७॥

द्युभ्याद्यायतनं च प्रकृत्य, ‘द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३-१-१) इत्यत्र स्थित्यदने निर्दिश्येते; ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इति कर्मफलाशनम्; ‘अनश्नन्नन्योऽभिचाकशीति’ इत्यौदासीन्येनावस्थानम्। ताभ्यां च स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येते। यदि च ईश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितः, ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पते। अन्यथा ह्यप्रकृतवचनमाकस्मिकमसम्बद्धं स्यात्। ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत। न, तस्याविवक्षितत्वात्। क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्ध्याद्युपाधिसम्बद्धः, लोकत एव प्रसिद्धः, नासौ श्रुत्या तात्पर्येण विवक्ष्यते; ईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम्। ‘गुहां प्रविष्टावात्मानौ हि’ इत्यत्राप्येतद्दर्शितम् – ‘द्वा सुपर्णा’ इत्यस्यामृचि ईश्वरक्षेत्रज्ञावुच्येते इति। यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि न विरोधः कश्चित्। कथम्? प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं न भवतीति प्रतिषिध्यते। यस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते, परएव स भवति; यथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते। तस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधः। तस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम्। तदेतत् ‘अदृश्यत्वादिगुणको धर्मोक्तेः’ इत्यनेनैव सिद्धम्। तस्यैव हि भूतयोनिवाक्यस्य मध्ये इदं पठितम् – ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षम्’ इति। प्रपञ्चार्थं तु पुनरुपन्यस्तम्॥७॥

इति द्युभ्वाद्यधिकरणम्।

[Go to Contents]

...।
॥३॥

॥४॥ वै.न्या.मा.

भूमा सम्प्रसादादध्युपदेशात्॥१.३.८॥

इदं समामनन्ति – ‘भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति। यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन् यद्विजानाति तदल्पम्’ (छा. उ. ७-२३-१) (छा. उ. ७-२४-१) इत्यादि। तत्र संशयः – किं प्राणो भूमा स्यात्, आहोस्वित्परमात्मेति। कुतः संशयः? भूमेति तावद्बहुत्वमभिधीयते; ‘बहोर्लोपो भू च बहोः’ (पा. सू. ६-४-१५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात्। किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् ‘प्राणो वा आशाया भूयान्’ (छा. उ. ७-१५-१) इति सन्निधानात् प्राणो भूमेति प्रतिभाति। तथा ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति। सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७-१-३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति। तत्र कस्योपादानं न्याय्यम्, कस्य वा हानमिति भवति संशयः। किं तावत्प्राप्तम्? प्राणो भूमेति। कस्मात्? भूयःप्रश्नप्रतिवचनपरम्पराऽदर्शनात्। यथा हि ‘अस्ति भगवो नाम्नो भूयः’ इति, ‘वाग्वाव नाम्नो भूयसी’ इति; तथा ‘अस्ति भगवो वाचो भूयः’ इति, ‘मनो वाव वाचो भूयः’ इति च – नामादिभ्यो हि आ प्राणात् भूयःप्रश्नप्रतिवचनप्रवाहः प्रवृत्तः नैवं प्राणात्परं भूयःप्रश्नप्रतिवचनं दृश्यते – ‘अस्ति भगवः प्राणाद्भूयः’ इति, ‘अदो वाव प्राणाद्भूयः’ इति। प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् – ‘प्राणो वा आशाया भूयान्’ इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शिनश्चातिवादित्वम् ‘अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत’ इत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यते। कथं पुनः प्राणे भूमनि व्याख्यायमाने ‘यत्र नान्यत्पश्यति’ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यते – सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापि ‘यत्र नान्यत्पश्यतीति’ एतल्लक्षणम्। तथा च श्रुतिः – ‘न शृणोति न पश्यति’ इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा, ‘प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’ (प्र. उ. ४-३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति। यच्चैतद्भूम्नः सुखत्वं श्रुतम् – ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७-२३-१) इति, तदप्यविरुद्धम्; ‘अत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिञ्शरीरे सुखं भवति’ (प्र. उ. ४-६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात्। यच्च ‘यो वै भूमा तदमृतम्’ (छा. उ. ७-२४-१) इति, तदपि प्राणस्याविरुद्धम्; ‘प्राणो वा अमृतम्’ (कौ. उ. ३-२) इति श्रुतेः। कथं पुनः प्राणं भूमानं मन्यमानस्य ‘तरति शोकमात्मवित्’ इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते? प्राण एवेहात्मा विवक्षित इति ब्रूमः। तथाहि – ‘प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’ (छा. उ. ७-१५-१) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्’ इति च; सर्वात्मत्वारनाभिनिदर्शनाभ्यां च सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्य। तस्मात्प्राणो भूमेत्येवं प्राप्तम्॥

तत इदमुच्यते – परमात्मैवेह भूमा भवितुमर्हति, न प्राणः। कस्मात्? सम्प्रसादादध्युपदेशात्। सम्प्रसाद इति सुषुप्तं स्थानमुच्यते; सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात्, बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात्। तस्यां च सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्रसादोऽभिप्रेयते। प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः। प्राण एव चेद्भूमा स्यात्, स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेतत्स्यात्। न हि नामैव ‘नाम्नो भूयः’ इति नाम्न ऊर्ध्वमुपदिष्टम्। किं तर्हि? नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम् ‘वाग्वाव नाम्नो भूयसी’ इति। तथा वागादिभ्योऽपि आ प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम्। तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति। नन्विह नास्ति प्रश्नः – ‘अस्ति भगवः प्राणाद्भूयः’ इति; नापि प्रतिवचनमस्ति ‘प्राणाद्वाव भूयोऽस्ति’ इति; कथं प्राणादधि भूमोपदिश्यत इत्युच्यते? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः – ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति; तस्मान्नास्ति प्राणादध्युपदेश इति। अत्रोच्यते – न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुम्, विशेषवादात् – ‘यः सत्येनातिवदति’ इति। ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति। कथम्? यथा ‘एषोऽग्निहोत्री, यः सत्यं वदति’ इत्युक्ते, न सत्यवदनेनाग्निहोत्रित्वम्; केन तर्हि? अग्निहोत्रेणैव; सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते; तथा ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इत्युक्ते, न सत्यवदनेनातिवादित्वम्। केन तर्हि? प्रकृतेन प्राणविज्ञानेनैव। सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति। नेति ब्रूमः; श्रुत्यर्थपरित्यागप्रसङ्गात्। श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते – ‘यः सत्येनातिवदति सोऽतिवदति’ इति; नात्र प्राणविज्ञानस्य सङ्कीर्तनमस्ति; प्रकरणात्तु प्राणविज्ञानं सम्बध्येत; तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात्; प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न सङ्गच्छेत – ‘एष तु वा अतिवदति’ इति। ‘सत्यं त्वेव विजिज्ञासितव्यम्’ (छा. उ. ७-१६-१) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति। तस्माद्यथैकवेदप्रशंसायां प्रकृतायाम्, ‘एष तु महाब्राह्मणः, यश्चतुरो वेदानधीते’ इत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद्द्रष्टव्यम्। न च प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति; प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविवक्षायाः। तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति – यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् – ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इति। तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्; ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २-१-१) इति च श्रुत्यन्तरात्। तथा व्युत्पादिताय नारदाय ‘सोऽहं भगवः सत्येनातिवदानि’ इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशति। तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम्, तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधि भूम्न उपदेश इति – अतः प्राणादन्यः परमात्मा भूमा भवितुमर्हतीति। एवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति। प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते। न हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति। न चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६-१५) इति श्रुत्यन्तरात्। ‘तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७-१-३) इति चोपक्रम्योपसंहरति – ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७-२६-२) इति। तम इति शोकादिकारणमविद्योच्यते। प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत। ‘आत्मतः प्राणः’ (छा. उ. ७-२६-१) इति च ब्राह्मणम्। प्रकरणान्ते परमात्मविवक्षा भविष्यति; भूमात्र प्राण एवेति चेत्, न; ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७-२४-१) इत्यादिना भूम्न एव आ प्रकरणसमाप्तेरनुकर्षणात्। वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते॥८॥

धर्मोपपत्तेश्च॥१.३.९॥

अपि च ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते। ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इति दर्शनादिव्यवहाराभावं भूमनि अवगमयति। परमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतः – ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४-५-१५) इत्यादिश्रुत्यन्तरात्। योऽप्यसौ सुषुप्त्यवस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, न प्राणस्वभावविवक्षया, परमात्मप्रकरणात्। यदपि तस्यामवस्थायां सुखमुक्तम्, तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आह – ‘एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४-३-३२) इति। इहापि ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्’ इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति। ‘यो वै भूमा तदमृतम्’ इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति; विकाराणाममृतत्वस्यापेक्षिकत्वात्, ‘अतोऽन्यदार्तम्’ (बृ. उ. ३-४-२) इति च श्रुत्यन्तरात्। तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्र। तस्माद्भूमा परमात्मेति सिद्धम्॥९॥

इति भूमाधिकरणम्।

[Go to Contents]

...।
॥५॥

॥६॥ वै.न्या.मा.

अक्षरमम्बरान्तधृतेः॥१.३.१०॥

‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति। स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु’ (बृ. उ. ३-८-७) (बृ. उ. ३-८-८) इत्यादि श्रूयते। तत्र संशयः – किमक्षरशब्देन वर्ण उच्यते, किं वा परमेश्वर इति। तत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात्, प्रसिद्ध्यतिक्रमस्य चायुक्तत्वात्, ‘ओंकार एवेदं सर्वम्’ (छा. उ. २-२३-३) इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात्, वर्ण एवाक्षरशब्द इत्येवं प्राप्ते, उच्यते – पर एवात्माक्षरशब्दवाच्यः। कस्मात्? अम्बरान्तधृतेः; पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य ‘आकाश एव तदोतं च प्रोतं च’ इत्याकाशे प्रतिष्ठितत्वमुक्त्वा, ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ (बृ. उ. ३-८-७) इत्यनेन प्रश्नेनेदमक्षरमवतारितम्; तथा चोपसंहृतम् – ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इति। न चेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र सम्भवति। यदपि ‘ओंकार एवेदं सर्वम्’ इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्। तस्मान्न क्षरति अश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म॥१०॥

स्यादेतत् – कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकारणवादिनोऽपीयमुपपद्यते; कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति? अत उत्तरं पठति –

सा च प्रशासनात्॥१.३.११॥

सा च अम्बरान्तधृतिः परमेश्वरस्यैव कर्म। कस्मात्? प्रशासनात्। प्रशासनं हीह श्रूयते – ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३-८-९) इत्यादि। प्रशासनं च पारमेश्वरं कर्म; न अचेतनस्य प्रशासनं भवति। न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति॥११॥

अन्यभावव्यावृत्तेश्च॥१.३.१२॥

अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम्, तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित्। किमिदम् अन्यभावव्यावृत्तेरिति? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरिति। एतदुक्तं भवति – यदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिः – ‘तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३-८-११) इति। तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवति; द्रष्टृत्वादिव्यपदेशस्तु न सम्भवति, अचेतनत्वात्। तथा ‘नान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ’ इत्यात्मभेदप्रतिषेधात्, न शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम्; ‘अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३-८-८) इति चोपाधिमत्ताप्रतिषेधात्। न हि निरुपाधिकः शारीरो नाम भवति। तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः॥१२॥

इति अक्षराधिकरणम्।

[Go to Contents]

...।
॥७॥

॥८॥ वै.न्या.मा.

ईक्षतिकर्मव्यपदेशात्सः॥१.३.१३॥

‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’ (प्र. उ. ५-२) इति प्रकृत्य श्रूयते – ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५-५) इति। किमस्मिन्वाक्ये परं ब्रह्माभिध्यातव्यमुपदिश्यते, आहोस्विदपरमिति। एतेनैवायतनेन परमपरं वैकतरमन्वेतीति प्रकृतत्वात्संशयः। तत्रापरमिदं ब्रह्मेति प्राप्तम्। कस्मात्? ‘स तेजसि सूर्ये सम्पन्नः’ ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात्। न हि परब्रह्मविद्देशपरिच्छिन्नं फलमश्नुवीतेति युक्तम्; सर्वगतत्वात्परस्य ब्रह्मणः। नन्वपरब्रह्मपरिग्रहे ‘परं पुरुषम्’ इति विशेषणं नोपपद्यते। नैष दोषः – पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः; इत्येवं प्राप्ते, अभिधीयते –

परमेव ब्रह्म इह अभिध्यातव्यमुपदिश्यते। कस्मात्? ईक्षतिकर्मव्यपदेशात्; ईक्षतिर्दर्शनम्; दर्शनव्याप्यमीक्षतिकर्म; ईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति – ‘स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ इति। तत्र अभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति, मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात्; ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम्, इत्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति गम्यते। स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायते। नन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्परः; कथमितर इतरत्र प्रत्यभिज्ञायत इति। अत्रोच्यते – परपुरुषशब्दौ तावदुभयत्र साधारणौ। न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते; येन तस्मात् परात्परोऽयमीक्षितव्यः पुरुषोऽन्यः स्यात्। कस्तर्हि जीवघन इति, उच्यते – घनो मूर्तिः, जीवलक्षणो घनः जीवघनः। सैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः, परश्च विषयेन्द्रियेभ्यः, सोऽत्र जीवघन इति। अपर आह – ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः, सोऽत्र जीवघन इत्युच्यते। जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि सङ्घातोपपत्तेर्भवति ब्रह्मलोको जीवघनः। तस्मात्परो यः पुरुषः परमात्मा ईक्षणकर्मभूतः, स एवाभिध्यानेऽपि कर्मभूत इति गम्यते। ‘परं पुरुषम्’ इति च विशेषणं परमात्मपरिग्रह एवावकल्पते। परो हि पुरुषः परमात्मैव भवति यस्मात्परं किञ्चिदन्यन्नास्ति; ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ इति च श्रुत्यन्तरात्। ‘परं चापरं च ब्रह्म यदोंकारः’ इति च विभज्य, अनन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन्, परमेव ब्रह्म परं पुरुषं गमयति। ‘यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुच्यते’ इति पाप्मविनिर्मोकफलवचनं परमात्मानमिहाभिध्यातव्यं सूचयति। अथ यदुक्तं परमात्माभिध्यायिनो न देशपरिच्छिन्नं फलं युज्यत इति, अत्रोच्यते – त्रिमात्रेणोंकारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः, क्रमेण च सम्यग्दर्शनोत्पत्तिः, – इति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः॥१३॥

इति ईक्षतिकर्माधिकरणम्।

[Go to Contents]

...।
॥९॥

॥१०॥ वै.न्या.मा.

दहर उत्तरेभ्यः॥१.३.१४॥

‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८-१-१) इत्यादि वाक्यं समाम्नायते। तत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, स किं भूताकाशः, अथ विज्ञानात्मा, अथवा परमात्मेति संशय्यते। कुतः संशयः? आकाशब्रह्मपुरशब्दाभ्याम्। आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च ब्रह्मणि प्रयुज्यमानो दृश्यते। तत्र किं भूताकाश एव दहरः स्यात्, किं वा पर इति संशयः। तथा ब्रह्मपुरमिति – किं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम्, अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिति। तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः। तत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम्; तस्य च दहरायतनापेक्षया दहरत्वम्; ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति च बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावः; द्यावापृथिव्यादि च तस्मिन्नन्तःसमाहितम्, अवकाशात्मनाकाशस्यैकत्वात्। अथवा जीवो दहर इति प्राप्तम्, ब्रह्मपुरशब्दात्; जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात्; भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वम्; न हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्ति; तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम्, यथा राज्ञः; मनउपाधिकश्च जीवः; मनश्च प्रायेण हृदये प्रतिष्ठितम् – इत्यतो जीवस्यैवेदं हृदयान्तरवस्थानं स्यात्; दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पते; आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया भविष्यति; न चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रूयते; ‘तस्मिन्यदन्तः’ इति परविशेषणत्वेनोपादानादिति॥

अत उत्तरं ब्रूमः – परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो जीवो वा। कस्मात्? उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यः। तथाहि – अन्वेष्टव्यतयाभिहितस्य दहराकाशस्य ‘तं चेद्ब्रूयुः’ इत्युपक्रम्य ‘किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्’ इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति – ‘स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’ (छा. उ. ८-१-३) इत्यादि। तत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यते। यद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति। नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः सम्भवतीत्युक्तम्। नैवं सम्भवति; अगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम्। अपि च कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत। ननु परमेश्वरस्यापि ‘ज्यायानाकाशात्’ (श. ब्रा. १०-६-३-२) इति श्रुत्यन्तरात् नैवाकाशपरिमाणत्वमुपपद्यते। नैष दोषः; पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य न तावत्त्वप्रतिपादनपरत्वम्; उभयप्रतिपादने हि वाक्यं भिद्येत। न च कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तः समाधानमुपपद्यते। ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’ इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे सम्भवन्ति। यद्यप्यात्मशब्दो जीवे सम्भवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति। न ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम्। ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत्; यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि विवक्ष्यतामिति युक्तम्। यदप्युक्तम् – ‘ब्रह्मपुरम्’ इति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्विति; अत्र ब्रूमः – परस्यैवेदं ब्रह्मणः पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात्। तस्याप्यस्ति पुरेणानेन सम्बन्धः, उपलब्ध्यधिष्ठानत्वात् – ‘स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ (प्र. उ. ५-५) ‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः’ (बृ. उ. २-५-१८) इत्यादिश्रुतिभ्यः। अथवा जीवपुर एवास्मिन् ब्रह्म सन्निहितमुपलक्ष्यते, यथा सालग्रामे विष्णुः सन्निहित इति, तद्वत्। ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इति च कर्मणामन्तवत्फलत्वमुक्त्वा, ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति’ इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन्, परमात्मत्वमस्य सूचयति। यदप्येतदुक्तम् – न दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रुतं परविशेषणत्वेनोपादानादिति; अत्र ब्रूमः – यद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात् ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इत्याद्याकाशस्वरूपप्रदर्शनं नोपपद्येत। नन्वेतदप्यन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव प्रदर्श्यते, ‘तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्’ इत्याक्षिप्य परिहारावसरे आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वप्रदर्शनात्। नैतदेवम्; एवं हि सति यदन्तःसमाहितं द्यावापृथिव्यादि, तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात्; तत्र वाक्यशेषो नोपपद्येत; ‘अस्मिन्कामाः समाहिताः’ ‘एष आत्मापहतपाप्मा’ इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्’ इति समुच्चयार्थेन चशब्देनात्मानं कामाधारम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयति। तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते। स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति स्थितम्॥१४॥

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च॥१.३.१५॥

दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम्; त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते। इतश्च परमेश्वर एव दहरः; यस्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः – ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८-३-२) इति। तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयति। तथा ह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे – ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६-८-१) इत्येवमादौ। लोकेऽपि किल गाढं सुषुप्तमाचक्षते ‘ब्रह्मीभूतो ब्रह्मतां गतः’ इति। तथा ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशाशङ्कां निवर्तयन्ब्रह्मतामस्य गमयति। ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत्। गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येत; सामानाधिकरण्यवृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति। एतदेव चाहरहर्ब्रह्मलोकगमनं दृष्टं ब्रह्मलोकशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम्। न ह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम्॥१५॥

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥१.३.१६॥

धृतेश्च हेतोः परमेश्वर एवायं दहरः। कथम्? ‘दहरोऽस्मिन्नन्तराकाशः’ इति हि प्रकृत्य आकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिशति – ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय’ (छा. उ. ८-४-१) इति। तत्र विधृतिरित्यात्मशब्दसामानाधिकरण्याद्विधारयितोच्यते; क्तिचः कर्तरि स्मरणात्। यथोदकसन्तानस्य विधारयिता लोके सेतुः क्षेत्रसम्पदामसम्भेदाय, एवमयमात्मा एषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां च विधारयिता सेतुः, असम्भेदाय असङ्करायेति। एवमिह प्रकृते दहरे विधारणलक्षणं महिमानं दर्शयति। अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते – ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादेः। तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते – ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ इति। एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः॥१६॥

प्रसिद्धेश्च॥१.३.१७॥

इतश्च परमेश्वर एव ‘दहरोऽस्मिन्नन्तराकाशः’ इत्युच्यते; यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः – ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८-१४-१) ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ (छा. उ. १-९-१) इत्यादिप्रयोगदर्शनात्। जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते। भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम्॥१७॥

इतरपरामर्शात्स इति चेन्नासम्भवात्॥१.३.१८॥

यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येत, अस्ति हीतरस्यापि जीवस्य वाक्यशेषे परामर्शः – ‘अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’ (छा. उ. ८-३-४) इति; अत्र हि सम्प्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुम्, नार्थान्तरम्; तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्समुत्थानं सम्भवति, यथाकाशव्यपाश्रयाणां वाय्वादीनामाकाशात्समुत्थानम्, तद्वत्; यथा चादृष्टोऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८-१४-१) इत्येवमादौ परमेश्वरविषयोऽभ्युपगतः, एवं जीवविषयोऽपि भविष्यति; तस्मादितरपरामर्शात् ‘दहरोऽस्मिन्नन्तराकाशः’ इत्यत्र स एव जीव उच्यत इति चेत् – नैतदेवं स्यात्। कस्मात्? असम्भवात्। न हि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन् आकाशेनोपमीयेत। न चोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः सम्भवन्ति। प्रपञ्चितं चैतत्प्रथमसूत्रे। अतिरेकाशङ्कापरिहाराय अत्र तु पुनरुपन्यस्तम्। पठिष्यति चोपरिष्टात् – ‘अन्यार्थश्च परामर्शः’ (ब्र. सू. १-३-२०) इति॥१‍८॥

उत्तराच्चेदाविर्भूतस्वरूपस्तु॥१.३.१९॥


॥११॥

॥१२॥ वै.न्या.मा.

इतरपरामर्शाद्या जीवाशङ्का जाता, सा असम्भवान्निराकृता। अथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियते – उत्तरस्मात्प्राजापत्याद्वाक्यात्। तत्र हि ‘य आत्मापहतपाप्मा’ इत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं च प्रतिज्ञाय, ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’ (छा. उ. ८-७-४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति। ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८-९-३) इति च तमेव पुनः पुनः परामृश्य, ‘य एष स्वप्ने महीयमानश्चरत्येष आत्मा’ (छा. उ. ८-१०-१) इति ‘तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मा’ (छा. उ. ८-११-१) इति च जीवमेवावस्थान्तरगतं व्याचष्टे। तस्यैव चापहतपाप्मत्वादि दर्शयति – ‘एतदमृतमभयमेतद्ब्रह्म’ इति। ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ (छा. उ. ८-११-२) इति च सुषुप्तावस्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकम् ‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ इति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयति। तस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम्। अतः ‘दहरोऽस्मिन्नन्तराकाशः’ इति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्; तं प्रति ब्रूयात् – ‘आविर्भूतस्वरूपस्तु’ इति। तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः; नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थः। कस्मात्? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते। आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः; भूतपूर्वगत्या जीववचनम्। एतदुक्तं भवति – ‘य एषोऽक्षिणि’ इत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावब्राह्मणेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव ते’ इति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेण ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे; न जैवेन रूपेण। यत्तत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम्, तत्परं ब्रह्म; तच्चापहतपाप्मत्वादिधर्मकम्; तदेव च जीवस्य पारमार्थिकं स्वरूपम् – ‘तत्त्वमसि’ इत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम्। यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम् ‘अहं ब्रह्मास्मि’ इति न प्रतिपद्यते, तावज्जीवस्य जीवत्वम्। यदा तु देहेन्द्रियमनोबुद्धिसङ्घाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसङ्घातः, नासि संसारी – किं तर्हि? – तद्यत्सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीति; तदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति – ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३-२-९) इत्यादिश्रुतिभ्यः। तदेव चास्य पारमार्थिकं स्वरूपम्, येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते। कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्यत इति सम्भवति कूटस्थनित्यस्य? सुवर्णादीनां तु द्रव्यान्तरसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात्; तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात्; न तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इव, दृष्टविरोधाच्च; दृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम्; तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यते; सर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेः; तच्चेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येत। अतः किमात्मकमिदं शरीरात्समुत्थानम्, किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरिति। अत्रोच्यते – प्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवति; यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति; प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन्; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम्, विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः। तथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च मन्त्रवर्णात् ‘अशरीरं शरीरेषु’ (क. उ. १-२-२२) इति, ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ (भ. गी. १३-३१) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात्। तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते। न त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेव। एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, न वस्तुकृतः; व्योमवदसङ्गत्वाविशेषात्। कुतश्चैतदेवं प्रतिपत्तव्यम्? यतः ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इत्युपदिश्य ‘एतदमृतमभयमेतद्ब्रह्म’ इत्युपदिशति। योऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात्, ततोऽमृताभयब्रह्मसामानाधिकरण्यं न स्यात्। नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात्। तथा द्वितीयेऽपि पर्याये ‘य एष स्वप्ने महीयमानश्चरति’ इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ इत्युपक्रमात्। किञ्च ‘अहमद्य स्वप्ने हस्तिनमद्राक्षम्, नेदानीं तं पश्यामि’ इति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे। द्रष्टारं तु तमेव प्रत्यभिजानाति – ‘य एवाहं स्वप्नमद्राक्षम्, स एवाहं जागरितं पश्यामि’ इति। तथा तृतीयेऽपि पर्याये – ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, न विज्ञातारं प्रतिषेधति। यत्तु तत्र ‘विनाशमेवापीतो भवति’ इति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, न विज्ञातृविनाशाभिप्रायम्; ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४-३-३०) इति श्रुत्यन्तरात्। तथा चतुर्थेऽपि पर्याये ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इत्युपक्रम्य ‘मघवन् मर्त्यं वा इदं शरीरम्’ इत्यादिना प्रपञ्चेन शरीराद्युपाधिसम्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवम् ‘स्वेन रूपेणाभिनिष्पद्यते’ इति ब्रह्मस्वरूपापन्नं दर्शयन्, न परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयति। केचित्तु परमात्मविवक्षायाम् ‘एतं त्वेव ते’ इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्ति। तेषाम् ‘एतम्’ इति सन्निहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत; भूयःश्रुतिश्चोपरुध्येत; पर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात्। ‘एतं त्वेव ते’ इति च प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत। तस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन्। अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित्। तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम् – एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत्, अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीति। यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारः – ‘नासम्भवात्’ (ब्र. सू. १-३-१८) इत्यादिना, तत्रायमभिप्रायः – नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम्; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति – परमात्मनो जीवादन्यत्वं द्रढयति; जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति; किं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम्; एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते। प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति – ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र. सू. १-१-३०) इत्यादिना। वर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः॥१९॥

अन्यार्थश्च परामर्शः॥१.३.२०॥

अथ योऽयं दहरवाक्यशेषे जीवपरामर्शो दर्शितः – ‘अथ य एष सम्प्रसादः’ (छा. उ. ८-३-४) इत्यादिः, स दहरे परमेश्वरे व्याख्यायमाने, न जीवोपासनोपदेशः, नापि प्रकृतविशेषोपदेशः – इत्यनर्थकत्वं प्राप्नोतीत्यत आह – अन्यार्थोऽयं जीवपरामर्शो न जीवस्वरूपपर्यवसायी – किं तर्हि? – परमेश्वरस्वरूपपर्यवसायी। कथम्? सम्प्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा, तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरोऽनुभूय, श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय, सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसम्पद्य, विशेषविज्ञानवत्त्वं च परित्यज्य, स्वेन रूपेणाभिनिष्पद्यते; यदस्योपसम्पत्तव्यं परं ज्योतिः, येन स्वेन रूपेणायमभिनिष्पद्यते, स एष आत्मापहतपाप्मत्वादिगुण उपास्यः – इत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते॥२०॥

अल्पश्रुतेरिति चेत्तदुक्तम्॥१.३.२१॥

यदप्युक्तम् – ‘दहरोऽस्मिन्नन्तराकाशः’ इत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आराग्रोपमितस्याल्पत्वमवकल्पत इति; तस्य परिहारो वक्तव्यः। उक्तो ह्यस्य परिहारः – परमेश्वरेऽप्यापेक्षिकमल्पत्वमवकल्पत इति, ‘अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’ (ब्र. सू. १-२-७) इत्यत्र; स एवेह परिहारोऽनुसन्धातव्य इति सूचयति। श्रुत्यैव च इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानया ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति॥२१॥

इति दहराधिकरणम्।

[Go to Contents]

...।
॥१३॥

॥१४॥ वै.न्या.मा.

अनुकृतेस्तस्य च॥१.३.२२॥

‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (मु. उ. २-२-११) इति समामनन्ति। तत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति, स किं तेजोधातुः कश्चित्, उत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम्। कुतः? तेजोधातूनामेव सूर्यादिनां भानप्रतिषेधात्। तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमाने अहनि न भासत इति प्रसिद्धम्। तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते। अनुभानमपि तेजःस्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात्; ‘गच्छन्तमनुगच्छति’ इतिवत्। तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते ब्रूमः –

प्राज्ञ एवायमात्मा भवितुमर्हति। कस्मात्? अनुकृतेः; अनुकरणमनुकृतिः; यदेतत् ‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुभानम्, तत्प्राज्ञपरिग्रहेऽवकल्पते; ‘भारूपः सत्यसङ्कल्पः’ (छा. उ. ३-१४-२) इति हि प्राज्ञमात्मानमामनन्ति; न तु तेजोधातुं कञ्चित्सूर्यादयोऽनुभान्तीति प्रसिद्धम्; समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः; न हि प्रदीपः प्रदीपान्तरमनुभाति। यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इति – नायमेकान्तो नियमः; भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति। ‘अनुकृतेः’ इत्यनुभानमसुसूचत्। ‘तस्य च’ इति चतुर्थं पादमस्य श्लोकस्य सूचयति। ‘तस्य भासा सर्वमिदं विभाति’ इति च तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति। ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४-४-१६) इति हि प्राज्ञमात्मानमामनन्ति। तेजोन्तरेण तु सूर्यादितेजो विभातीत्यप्रसिद्धम्, विरुद्धं च; तेजोन्तरेण तेजोन्तरस्य प्रतिघातात्। अथवा न सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते। किं तर्हि? ‘सर्वमिदम्’ इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अभिव्यक्तिः, सा ब्रह्मज्योतिःसत्तानिमित्ता; यथा सूर्यज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिः, तद्वत्। ‘न तत्र सूर्यो भाति’ इति च तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयति; प्रकृतं च ब्रह्म ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्’ (मु. उ. २-२-५) इत्यादिना; अनन्तरं च ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्। तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः’ इति; कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् – ‘न तत्र सूर्यो भाति’ इति। यदप्युक्तम् सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति; तत्र तु स एव तेजोधातुरन्यो न सम्भवतीत्युपपादितम्। ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पते; यतः – यदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते; ब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वात्, येन सूर्यादयस्तस्मिन्भायुः; ब्रह्म हि अन्यद्व्यनक्ति, न तु ब्रह्मान्येन व्यज्यते, ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४-३-६) ‘अगृह्यो न हि गृह्यते’ (बृ. उ. ४-२-४) इत्यादिश्रुतिभ्यः॥२२॥

अपि च स्मर्यते॥१.३.२३॥

अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु – ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ (भ. गी. १५-६) इति। ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ (भ. गी. १५-१२) इति च॥२३॥

इति अनुकृत्यधिकरणम्।

[Go to Contents]

...।
॥१५॥

॥१६॥ वै.न्या.मा.

शब्दादेव प्रमितः॥१.३.२४॥

‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति श्रूयते; तथा ‘अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत्’ (क. उ. २-१-१३) इति च। तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते, स किं विज्ञानात्मा, किं वा परमात्मेति संशयः। तत्र परिमाणोपदेशाद्विज्ञानात्मेति तावत्प्राप्तम्। न ह्यनन्तायामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणत्वमुपपद्यते; विज्ञानात्मनस्तूपाधिमत्त्वात्सम्भवति कयाचित्कल्पनयाङ्गुष्ठमात्रत्वम्। स्मृतेश्च – ‘अथ सत्यवतः कायात्पाशबद्धं वशं गतम्। अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ (म. भा. ३-२९७-१७) इति; न हि परमेश्वरो बलात् यमेन निष्क्रष्टुं शक्यः; तेन तत्र संसारी अङ्गुष्ठमात्रो निश्चितः; स एवेहापीत्येवं प्राप्ते ब्रूमः –

परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति। कस्मात्? शब्दात् – ‘ईशानो भूतभव्यस्य’ इति। न ह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ्कुशमीशिता। ‘एतद्वै तत्’ इति च प्रकृतं पृष्टमिहानुसन्दधाति; एतद्वै तत्, यत्पृष्टं ब्रह्मेत्यर्थः; पृष्टं चेह ब्रह्म – ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १-२-१४) इति। शब्दादेवेति – अभिधानश्रुतेरेव – ईशान इति परमेश्वरोऽवगम्यत इत्यर्थः॥२४॥

कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः –

हृद्यपेक्षया तु मनुष्याधिकारत्वात्॥१.३.२५॥

सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते; आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम्। न ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते। न चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्युक्तम्। ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते – मनुष्याधिकारत्वादिति; ‘शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति; शक्तत्वात्, अर्थित्वात्, अपर्युदस्तत्वात् उपनयनादिशास्त्राच्च – इति वर्णितमेतदधिकारलक्षणे’ (जै. सू. ६-१)। मनुष्याणां च नियतपरिमाणः कायः; औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम्; अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः। यदप्युक्तम् – परिमाणोपदेशात् स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति; तत्प्रत्युच्यते – ‘स आत्मा तत्त्वमसि’ इत्यादिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति। द्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिः – क्वचित्परमात्मस्वरूपनिरूपणपरा; क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा। तदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते; नाङ्गुष्ठमात्रत्वं कस्यचित्। एतमेवार्थं परेण स्फुटीकरिष्यति – ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण। तं विद्याच्छुक्रममृतम्’ (क. उ. २-३-१७) इति॥२५॥

इति प्रमिताधिकरणम्।

[Go to Contents]

...।
॥१७॥

॥१८॥ वै.न्या.मा.

तदुपर्यपि बादरायणः सम्भवात्॥१.३.२६॥

अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षा मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम्; तत्प्रसङ्गेनेदमुच्यते। बाढम्, मनुष्यानधिकरोति शास्त्रम्; न तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्ति। तेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः, तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यते। कस्मात्? सम्भवात्। सम्भवति हि तेषामप्यर्थित्वाद्यधिकारकारणम्; तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि सम्भवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम्; तथा सामर्थ्यमपि तेषां सम्भवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात्; न च तेषां कश्चित्प्रतिषेधोऽस्ति; न चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात्, तेषां च स्वयंप्रतिभातवेदत्वात्; अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति – ‘एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास’ (छा. उ. ८-११-३) ‘भृगुर्वै वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्म’ (तै. उ. ३-१-१) इत्यादि। यदपि कर्मस्वनधिकारकारणमुक्तम् – ‘न देवानां देवतान्तराभावात्’ इति, ‘न ऋषीणाम्, आर्षेयान्तराभावात्’ (जै. सू. ६-१-६,७) इति; न तद्विद्यासु अस्ति। न हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति; न च भृग्वादीनां भृग्वादिसगोत्रतया। तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया न विरुध्यते॥२६॥

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्॥१.३.२७॥

स्यादेतत् – यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधानेन कर्माङ्गभावोऽभ्युपगम्येत; तदा च विरोधः कर्मणि स्यात्; न हीन्द्रादीनां स्वरूपसन्निधानेन यागाङ्गभावो दृश्यते; न च सम्भवति, बहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपत्तेरिति चेत्, नायमस्ति विरोधः। कस्मात्? अनेकप्रतिपत्तेः। एकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः सम्भवति। कथमेतदवगम्यते? दर्शनात्। तथाहि – ‘कति देवाः’ (बृ. उ. ३-९-१) इत्युपक्रम्य ‘त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा’ (बृ. उ. ३-९-१) इति निरुच्य ‘कतमे ते’ (बृ. उ. ३-९-१) इत्यस्यां पृच्छायाम् ‘महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः’ (बृ. उ. ३-९-२) इति ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति। तथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेण ‘कतम एको देव इति प्राणः’ इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयति। तथा स्मृतिरपि – ‘आत्मनो वै शरीराणि बहूनि भरतर्षभ। योगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्॥प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत्। संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव’ इत्येवंजातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति; किमु वक्तव्यमाजानसिद्धानां देवानाम्? अनेकरूपप्रतिपत्तिसम्भवाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति परैश्च न दृश्यते, अन्तर्धानादिशक्तियोगात् – इत्युपपद्यते। ‘अनेकप्रतिपत्तेर्दर्शनात्’ इत्यस्यापरा व्याख्या – विग्रहवतामपि कर्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते; क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं न गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यते; क्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते; तद्वदिहोद्देशपरित्यागात्मकत्वात् यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां न किञ्चित्कर्मणि विरुध्यते॥२७॥

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्॥१.३.२८॥

मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जि; शब्दे तु विरोधः प्रसज्येत। कथम्? औत्पत्तिकं हि शब्दस्यार्थेन सम्बन्धमाश्रित्य ‘अनपेक्षत्वात्’ इति वेदस्य प्रामाण्यं स्थापितम्। इदानीं तु विग्रहवती देवताभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसम्बन्धीनि हवींषि भुञ्जीत, तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति, नित्यस्य शब्दस्य नित्येनार्थेन नित्ये सम्बन्धे प्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितम्, तस्य विरोधः स्यादिति चेत्, नायमप्यस्ति विरोधः। कस्मात्? अतः प्रभवात्। अत एव हि वैदिकाच्छब्दाद्देवादिकं जगत्प्रभवति॥

ननु ‘जन्माद्यस्य यतः’ (ब्र. सू. १-१-२) इत्यत्र ब्रह्मप्रभवत्वं जगतोऽवधारितम्, कथमिह शब्दप्रभवत्वमुच्यते? अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः, कथमेतावता विरोधः शब्दे परिहृतः? यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेऽर्था अनित्या एव, उत्पत्तिमत्त्वात्; तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते? प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इति; तस्माद्विरोध एव शब्द इति चेत्, न; गवादिशब्दार्थसम्बन्धनित्यत्वदर्शनात्। न हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वं स्यात्। द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पद्यन्ते, नाकृतयः। आकृतिभिश्च शब्दानां सम्बन्धः, न व्यक्तिभिः, व्यक्तीनामानन्त्यात्सम्बन्धग्रहणानुपपत्तेः। व्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वात् न गवादिशब्देषु कश्चिद्विरोधो दृश्यते। तथा देवादिव्यक्तिप्रभवाभ्युपगमेऽप्याकृतिनित्यत्वात् न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम्। आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वाद्यवगमादवगन्तव्यः। स्थानविशेषसम्बन्धनिमित्ताश्च इन्द्रादिशब्दाः सेनापत्यादिशब्दवत्। ततश्च यो यस्तत्तत्स्थानमधितिष्ठति, स स इन्द्रादिशब्दैरभिधीयत इति न दोषो भवति। न चेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रायेणोच्यते। कथं तर्हि? स्थिते वाचकात्मना नित्ये शब्दे नित्यार्थसम्बन्धिनि शब्दव्यवहारयोग्यार्थव्यक्तिनिष्पत्तिः ‘अतः प्रभवः’ इत्युच्यते। कथं पुनरवगम्यते शब्दात्प्रभवति जगदिति? प्रत्यक्षानुमानाभ्याम्; प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात्; अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात्। ते हि शब्दपूर्वां सृष्टिं दर्शयतः; ‘एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितॄंस्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाः’ इति श्रुतिः; तथान्यत्रापि ‘स मनसा वाचं मिथुनं समभवत्’ (बृ. उ. १-२-४) इत्यादिना तत्र तत्र शब्दपूर्विका सृष्टिः श्राव्यते; स्मृतिरपि – ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः’ इति; उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासम्भवात्; तथा ‘नाम रूपं च भूतानां कर्मणां च प्रवर्तनम्। वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’ (म. स्मृ. १-२१) इति; ‘सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक्। वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे’ इति च। अपि च चिकीर्षितमर्थमनुतिष्ठन् तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तमर्थमनुतिष्ठतीति सर्वेषां नः प्रत्यक्षमेतत्। तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यते। तथा च श्रुतिः ‘स भूरिति व्याहरत् स भूमिमसृजत’ (तै. ब्रा. २-२-४-२) इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलोकान्सृष्टान्दर्शयति॥

किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते? स्फोटम् इत्याह। वर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात्; उत्पन्नध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा च प्रतीयमानत्वात्; तथा ह्यदृश्यमानोऽपि पुरुषविशेषोऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते – ‘देवदत्तोऽयमधीते, यज्ञदत्तोऽयमधीते’ इति; न चायं वर्णविषयोऽन्यथात्वप्रत्ययो मिथ्याज्ञानम्, बाधकप्रत्ययाभावात्। न च वर्णेभ्योऽर्थावगतिर्युक्ता; न ह्येकैको वर्णोऽर्थं प्रत्याययेत्, व्यभिचारात्; न च वर्णसमुदायप्रत्ययोऽस्ति, क्रमवर्तित्वाद्वर्णानाम्; पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति यद्युच्येत, तन्न; सम्बन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थं प्रत्याययेत्, धूमादिवत्; न च पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्संस्काराणाम्; कार्यप्रत्यायितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति चेत्, न; संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात्; तस्मात्स्फोट एव शब्दः। स चैकैकवर्णप्रत्ययाहितसंस्कारबीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते; न चायमेकप्रत्ययो वर्णविषया स्मृतिः, वर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेः; तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम्, भेदप्रत्ययस्य वर्णविषयत्वात्। तस्मान्नित्याच्छब्दात्स्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति॥

‘वर्णा एव तु शब्दः’ इति भगवानुपवर्षः। ननूत्पन्नप्रध्वंसित्वं वर्णानामुक्तम्; तन्न, त एवेति प्रत्यभिज्ञानात्; सादृश्यात्प्रत्यभिज्ञानं केशादिष्विवेति चेत्, न; प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेः; प्रत्यभिज्ञानमाकृतिनिमित्तमिति चेत्, न; व्यक्तिप्रत्यभिज्ञानात्; यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरन्, तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात्; न त्वेतदस्ति; वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते; द्विर्गोशब्द उच्चारितः – इति हि प्रतिपत्तिः; न तु द्वौ गोशब्दाविति। ननु वर्णा अप्युच्चारणभेदेन भिन्नाः प्रतीयन्ते, देवदत्तयज्ञदत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम्; अत्राभिधीयते – सति वर्णविषये निश्चिते प्रत्यभिज्ञाने, संयोगविभागाभिव्यङ्ग्यत्वाद्वर्णानाम्, अभिव्यञ्जकवैचित्र्यनिमित्तोऽयं वर्णविषयो विचित्रः प्रत्ययः, न स्वरूपनिमित्तः; अपि च वर्णव्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याः; तासु च परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम्; तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः, स्वरूपनिमित्तं च प्रत्यभिज्ञानम् – इति कल्पनालाघवम्। एष एव च वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययः, यत्प्रत्यभिज्ञानम्। कथं ह्येकस्मिन्काले बहूनामुच्चारयतामेक एव सन् गकारो युगपदनेकरूपः स्यात् – उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्चेति। अथवा ध्वनिकृतोऽयं भेदप्रत्ययो न वर्णकृत इत्यदोषः। कः पुनरयं ध्वनिर्नाम? यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवतरति; प्रत्यासीदतश्च पटुमृदुत्वादिभेदं वर्णेष्वासञ्जयति; तन्निबन्धनाश्चोदात्तादयो विशेषाः, न वर्णस्वरूपनिबन्धनाः, वर्णानां प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्; एवं च सति सालम्बना एवैते उदात्तादिप्रत्यया भविष्यन्ति; इतरथा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृता उदात्तादिविशेषाः कल्प्येरन्; संयोगविभागानां चाप्रत्यक्षत्वान्न तदाश्रया विशेषाः वर्णेष्वध्यवसातुं शक्यन्त इत्यतो निरालम्बना एव एते उदात्तादिप्रत्ययाः स्युः। अपि च नैवैतदभिनिवेष्टव्यम् – उदात्तादिभेदेन वर्णानां प्रत्यभिज्ञायमानानां भेदो भवेदिति; न ह्यन्यस्य भेदेनान्यस्याभिद्यमानस्य भेदो भवितुमर्हति; न हि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते। वर्णेभ्यश्चार्थप्रतीतेः सम्भवात् स्फोटकल्पनानर्थिका। न कल्पयाम्यहं स्फोटम्, प्रत्यक्षमेव त्वेनमवगच्छामि, एकैकवर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यवभासनादिति चेत्, न; अस्या अपि बुद्धेर्वर्णविषयत्वात्; एकैकवर्णग्रहणोत्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया, नार्थान्तरविषया। कथमेतदवगम्यते? यतोऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते, न तु दकारादयः; यदि ह्यस्या बुद्धेर्गकारादिभ्योऽर्थान्तरं स्फोटो विषयः स्यात्, ततो दकारादय इव गकारादयोऽप्यस्या बुद्धेर्व्यावर्तेरन्; न तु तथास्ति; तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिः। नन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तम्, तत्प्रति ब्रूमः – सम्भवत्यनेकस्याप्येकबुद्धिविषयत्वम्, पङ्क्तिः वनं सेना दश शतं सहस्रमित्यादिदर्शनात्; या तु गौरित्येकोऽयं शब्द इति बुद्धिः, सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धना औपचारिकी वनसेनादिबुद्धिवदेव। अत्राह – यदि वर्णा एव सामस्त्येन एकबुद्धिविषयतामापद्यमानाः पदं स्युः, ततो जारा राजा कपिः पिक इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात्; त एव हि वर्णा इतरत्रेतरत्र च प्रत्यवभासन्त इति। अत्र वदामः – सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधिन एव हि वर्णाः पदबुद्धिमारोक्ष्यन्ति; तत्र वर्णानामविशेषेऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते; वृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसम्बन्धाः सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना। स्फोटवादिनस्तु दृष्टहानिः, अदृष्टकल्पना च; वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्यात्॥

अथापि नाम प्रत्युच्चारणमन्येऽन्ये वर्णाः स्युः, तथापि प्रत्यभिज्ञालम्बनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्यत्वात्, या वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु सञ्चारयितव्या। ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम्॥२८॥

अत एव च नित्यत्वम्॥१.३.२९॥

स्वतन्त्रस्य कर्तुरस्मरणादिति स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्य ‘अतः प्रभवात्’ इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति – अत एव च नित्यत्वमिति। अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम्। तथा च मन्त्रवर्णः – ‘यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्’ (ऋ. सं. १०-७-३) इति स्थितामेव वाचमनुविन्नां दर्शयति। वेदव्यासश्चैवमेव स्मरति – ‘युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा’ इति॥२९॥

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च॥१.३.३०॥

अथापि स्यात् – यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयोऽपि सन्तत्यैवोत्पद्येरन् निरुध्येरंश्च, ततोऽभिधानाभिधेयाभिधातृव्यवहाराविच्छेदात्सम्बन्धनित्यत्वेन विरोधः शब्दे परिह्रियेत। यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते, प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वदन्ति, तदा कथमविरोध इति। तत्रेदमभिधीयते समाननामरूपत्वादिति। तदापि संसारस्यानादित्वं तावदभ्युपगन्तव्यम्। प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वम् – ‘उपपद्यते चाप्युपलभ्यते च’ (ब्र. सू. २-१-३६) इति। अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोधवदुत्तरप्रबोधेऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पान्तरप्रभवप्रलययोरपीति द्रष्टव्यम्। स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते – ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्यसर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३-३) इति। स्यादेतत् – स्वापे पुरुषान्तरव्यवहाराविच्छेदात्स्वयं च सुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसन्धानसम्भवादविरुद्धम्; महाप्रलये तु सर्वव्यवहारोच्छेदाज्जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसन्धातुमशक्यत्वाद्वैषम्यमिति। नैष दोषः, सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसन्धानोपपत्तेः। यद्यपि प्राकृताः प्राणिनो न जन्मान्तरव्यवहारमनुसन्दधाना दृश्यन्त इति, तथापि न प्राकृतवदीश्वराणां भवितव्यम्। यथा हि प्राणित्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्वर्यादिप्रतिबन्धः परेण परेण भूयान् भवन् दृश्यते; तथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्यक्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादेष्वसकृदनुश्रूयमाणं न शक्यं नास्तीति वदितुम्। ततश्चातीतकल्पानुष्ठितप्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरानुगृहीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरव्यवहारानुसन्धानोपपत्तिः। तथा च श्रुतिः – ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै। तꣳ ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ (श्वे. उ. ६-१८) इति। स्मरन्ति च शौनकादयः – ‘मधुच्छन्दःप्रभृतिभिऋषिभिर्दाशतय्यो दृष्टाः’ इति। प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्ते। श्रुतिरपि ऋषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति – ‘यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा प्रतिपद्यते’ इत्युपक्रम्य ‘तस्मादेतानि मन्त्रे मन्त्रे विद्यात्’ इति। प्राणिनां च सुखप्राप्तये धर्मो विधीयते; दुःखपरिहाराय चाधर्मः प्रतिषिध्यते; दृष्टानुश्रविकसुखदुःखविषयौ च रागद्वेषौ भवतः, न विलक्षणविषयौ – इत्यतो धर्माधर्मफलभूतोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते। स्मृतिश्च भवति – ‘तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते’ इति। प्रलीयमानमपि चेदं जगच्छक्त्यवशेषमेव प्रलीयते; शक्तिमूलमेव च प्रभवति; इतरथा आकस्मिकत्वप्रसङ्गात्। न चानेकाकाराः शक्तयः शक्याः कल्पयितुम्। ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोकप्रवाहाणाम्, देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवाहाणाम्, वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रियविषयसम्बन्धनियतत्ववत्प्रत्येतव्यम्; न हीन्द्रियविषयसम्बन्धादेर्व्यवहारस्य प्रतिसर्गमन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम्। अतश्च सर्वकल्पानां तुल्यव्यवहारत्वात् कल्पान्तरव्यवहारानुसन्धानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्गं विशेषाः प्रादुर्भवन्ति। समाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयलक्षणायां जगतोऽभ्युपगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः। समाननामरूपतां च श्रुतिस्मृती दर्शयतः – ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चान्तरिक्षमथो सुवः’ (ऋ. सं. १०-१९०-३) इति; यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमःप्रभृति जगत् कॢप्तम्, तथास्मिन्नपि कल्पे परमेश्वरोऽकल्पयदित्यर्थः; तथा – ‘अग्निर्वा अकामयत। अन्नादो देवानाꣳ स्यामिति। स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्’ (तै. ब्रा. ३-१-४-१) इति नक्षत्रेष्टिविधौ योऽग्निर्निरवपत् यस्मै वाग्नये निरवपत्, तयोः समाननामरूपतां दर्शयति – इत्येवंजातीयका श्रुतिरिहोदाहर्तव्या; स्मृतिरपि ‘ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः। शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः॥यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥यथाभिमानिनोऽतीतास्तुल्यास्ते साम्प्रतैरिह। देवा देवैरतीतैर्हि रूपैर्नामभिरेव च’ इत्येवंजातीयका द्रष्टव्या॥३०॥

मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥१.३.३१॥

इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यते – देवादीनामनधिकारं जैमिनिराचार्यो मन्यते। कस्मात्? मध्वादिष्वसम्भवात्। ब्रह्मविद्यायामधिकाराभ्युपगमे हि विद्यात्वाविशेषात् मध्वादिविद्यास्वप्यधिकारोऽभ्युपगम्येत; न चैवं सम्भवति। कथम्? ‘असौ वा आदित्यो देवमधु’ (छा. उ. ३-१-१) इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपासीरन्; देवादिषु ह्युपासकेष्वभ्युपगम्यमानेष्वादित्यः कमन्यमादित्यमुपासीत? पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्यनुक्रम्य, वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्तदमृतमुपजीवन्तीत्युपदिश्य, ‘स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति’ (छा. उ. ३-८-२) इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयति। वस्वादयस्तु कान् अन्यान् वस्वादीनमृतोपजीविनो विजानीयुः? कं वान्यं वस्वादिमहिमानं प्रेप्सेयुः? तथा – ‘अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः’ ‘वायुर्वाव संवर्गः’ (छा. उ. ४-३-१) ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३-११-१) इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मनामधिकारः सम्भवति। तथा ‘इमावेव गोतमभरद्वाजावयं वै गोतमोऽयं भरद्वाजः’ (बृ. उ. २-२-४) इत्यादिष्वपि ऋषिसम्बन्धेषूपासनेषु न तेषामेव ऋषीणामधिकारः सम्भवति॥३१॥

कुतश्च देवादीनामनधिकारः –

ज्योतिषि भावाच्च॥१.३.३२॥

यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगदवभासयति, तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयुज्यन्ते; लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च। न च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण चेतनतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमात्। एतेनाग्न्यादयो व्याख्याताः॥

स्यादेतत् – मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति चेत्, नेत्युच्यते; न तावल्लोको नाम किञ्चित्स्वतन्त्रं प्रमाणमस्ति; प्रत्यक्षादिभ्य एव ह्यविचारितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्ध्यन्नर्थो लोकात्प्रसिद्ध इत्युच्यते; न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति; इतिहासपुराणमपि पौरुषेयत्वात्प्रमाणान्तरमूलमाकाङ्क्षति; अर्थवादा अपि विधिनैकवाक्यत्वात् स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्ते; मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनोऽभिधानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते; तस्मादभावो देवादीनामधिकारस्य॥३२॥

भावं तु बादरायणोऽस्ति हि॥१.३.३३॥

तुशब्दः पूर्वपक्षं व्यावर्तयति। बादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यते। यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसम्भवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां सम्भवः; अर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य। न च क्वचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोऽपोद्येत। मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवति। तत्र यो न्यायः सोऽत्रापि भविष्यति। ब्रह्मविद्यां च प्रकृत्य भवति लिङ्गदर्शनं श्रौतं देवाद्यधिकारस्य सूचकम् – ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १-४-१०) इति, ‘ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानिति इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम्’ (छा. उ. ८-७-२) इत्यादि च। स्मार्तमपि च गन्धर्वयाज्ञवल्क्यसंवादादि॥

यदप्युक्तम् ‘ज्योतिषि भावाच्च’ इति, अत्र ब्रूमः – ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात्। अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम्। तथा हि श्रूयते सुब्रह्मण्यार्थवादे – ‘मेधातिथेर्मेषेति – मेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहार’ (षड्विंश. ब्रा. १-१) इति। स्मर्यते च – ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम ह’ इति। मृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्’ इत्यादिदर्शनात्। ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते। चेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्॥

यदप्युक्तम् – मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति, अत्र ब्रूमः – प्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणम्; नान्यार्थत्वमनन्यार्थत्वं वा; तथा ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यते। अत्राह – विषम उपन्यासः; तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यते; अत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे न पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम्; न हि महावाक्येऽर्थप्रत्यायकेऽवान्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्ति; यथा ‘न सुरां पिबेत्’ इति नञ्वति वाक्ये पदत्रयसम्बन्धात्सुरापानप्रतिषेध एवैकोऽर्थोऽवगम्यते; न पुनः सुरां पिबेदिति पदद्वयसम्बन्धात्सुरापानविधिरपीति। अत्रोच्यते – विषम उपन्यासः; युक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम्; विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य, अनन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते; यथा हि ‘वायव्यं श्वेतमालभेत भूतिकामः’ इत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना सम्बन्धः, नैवम् ‘वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति’ इत्येषामर्थवादगतानां पदानाम्; न हि भवति, ‘वायुर्वा आलभेत’ इति ‘क्षेपिष्ठा देवता वा आलभेत’ इत्यादि। वायुस्वभावसङ्कीर्तनेन तु अवान्तरमन्वयं प्रतिपद्य, एवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्ति। तद्यत्र सोऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति, तत्र तदनुवादेनार्थवादः प्रवर्तते; यत्र प्रमाणान्तरविरुद्धः, तत्र गुणवादेन; यत्र तु तदुभयं नास्ति, तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यात्, आहोस्त्वित्प्रमाणान्तराविरोधाद्विद्यमानार्थवाद इति – प्रतीतिशरणैर्विद्यमानार्थवाद आश्रयणीयः, न गुणवादः। एतेन मन्त्रो व्याख्यातः। अपि च विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम्; न हि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते; न च चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते; श्रावयति च – ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ (ऐ. ब्रा. ३-८-१) इति; न च शब्दमात्रमर्थस्वरूपं सम्भवति, शब्दार्थयोर्भेदात्; तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम्। इतिहासपुराणमपि व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलकत्वात् प्रभवति देवताविग्रहादि साधयितुम्। प्रत्यक्षादिमूलमपि सम्भवति; भवति ह्यस्माकमप्रत्यक्षमपि चिरंतनानां प्रत्यक्षम्; तथा च व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते; यस्तु ब्रूयात् – इदानींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्यमिति, स जगद्वैचित्र्यं प्रतिषेधेत्; इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्, ततश्च राजसूयादिचोदना उपरुन्ध्यात्; इदानीमिव च कालान्तरेऽप्यव्यवस्थितप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत, ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं कुर्यात्; तस्माद्धर्मोत्कर्षवशाच्चिरंतना देवादिभिः प्रत्यक्षं व्यवजह्रुरिति श्लिष्यते। अपि च स्मरन्ति – ‘स्वाध्यायादिष्टदेवतासम्प्रयोगः’ (यो. सू. २-४४) इत्यादि; योगोऽप्यणिमाद्यैश्वर्यप्राप्तिफलकः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम्; श्रुतिश्च योगमाहात्म्यं प्रख्यापयति – ‘पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते। न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्’ (श्वे. उ. २-१४) इति। ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम्। तस्मात्समूलमितिहासपुराणम्। लोकप्रसिद्धिरपि न सति सम्भवे निरालम्बनाध्यवसातुं युक्ता। तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः। ततश्चार्थित्वादिसम्भवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः। क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते॥३३॥

इति देवताधिकरणम्।

[Go to Contents]

...।
॥१९॥

॥२०॥ वै.न्या.मा.

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥१.३.३४॥

यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तः, तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यते। तत्र शूद्रस्याप्यधिकारः स्यादिति तावत्प्राप्तम्; अर्थित्वसामर्थ्ययोः सम्भवात्, ‘तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ (तै. सं. ७-१-१-६) इतिवत् ‘शूद्रो विद्यायामनवकॢप्त’ इति निषेधाश्रवणात्। यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वम्, न तद्विद्यास्वधिकारस्यापवादकम्; न ह्याहवनीयादिरहितेन विद्या वेदितुं न शक्यते। भवति च श्रौतं लिङ्गं शूद्राधिकारस्योपोद्बलकम्; संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशति – ‘अह हारे त्वा शूद्र तवैव सह गोभिरस्तु’ (छा. उ. ४-२-३) इति। विदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसम्पन्नाः स्मर्यन्ते। तस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते ब्रूमः –

न शूद्रस्याधिकारः, वेदाध्ययनाभावात्। अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते। न च शूद्रस्य वेदाध्ययनमस्ति; उपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य च वर्णत्रयविषयत्वात्। यत्तु अर्थित्वम्, न तदसति सामर्थ्येऽधिकारकारणं भवति। सामर्थ्यमपि न लौकिकं केवलमधिकारकारणं भवति; शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात्, शास्त्रीयस्य च सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात्। यच्चेदम् ‘शूद्रो यज्ञेऽनवकॢप्तः’ इति, तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति; न्यायस्य साधारणत्वात्। यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, न तल्लिङ्गम्; न्यायाभावात्। न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति। न चात्र न्यायोऽस्ति। कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात्, तद्विषयत्वात्; न सर्वासु विद्यासु। अर्थवादस्थत्वात्तु न क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहते। शक्यते चायं शूद्रशब्दोऽधिकृतविषये योजयितुम्; कथमित्युच्यते – ‘कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’ (छा. उ. ४-१-३) इत्यस्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुक् उत्पेदे; तामृषी रैक्वः शूद्रशब्देनानेन सूचयांबभूव आत्मनः परोक्षज्ञताख्यापनायेति गम्यते, जातिशूद्रस्यानधिकारात्। कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यते – तदाद्रवणात्; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक्वमभिदुद्राव – इति शूद्रः; अवयवार्थसम्भवात्, रूढ्यर्थस्य चासम्भवात्। दृश्यते चायमर्थोऽस्यामाख्यायिकायाम्॥३४॥

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्॥१.३.३५॥

इतश्च न जातिशूद्रो जानश्रुतिः; यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गाद्गम्यते। उत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः सङ्कीर्त्यते – ‘अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’ (छा. उ. ४-३-५) इति। चैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम्। कापेययोगो हि चित्ररथस्यावगतः ‘एतेन वै चित्ररथं कापेया अयाजयन्’ (ताण्ड्य. ब्रा. २०-१२-५) इति। समानान्वयानां च प्रायेण समानान्वया याजका भवन्ति। ‘तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायत’ इति च क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम्। तेन क्षत्रियेणाभिप्रतारिणा सह समानायां संवर्गविद्यायां सङ्कीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयति। समानानामेव हि प्रायेण समभिव्याहारा भवन्ति। क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः। अतो न शूद्रस्याधिकारः॥३५॥

संस्कारपरामर्शात्तदभावाभिलापाच्च॥१.३.३६॥

इतश्च न शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्ते – ‘तं होपनिन्ये’ (श. ब्रा. ११-५-३-१३) ‘अधीहि भगव इति होपससाद’ (छा. उ. ७-१-१) ‘ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः’ (प्र. उ. १-१) इति च। ‘तान्हानुपनीयैव’ (छा. उ. ५-११-७) इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवति। शूद्रस्य च संस्काराभावोऽभिलप्यते ‘शूद्रश्चतुर्थो वर्ण एकजातिः’ (मनु. स्मृ. १०-४) इत्येकजातित्वस्मरणात्। ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’ (मनु. स्मृ. १०-१२-६) इत्यादिभिश्च॥३६॥

तदभावनिर्धारणे च प्रवृत्तेः॥१.३.३७॥

इतश्च न शूद्रस्याधिकारः; यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं च प्रववृते – ‘नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगाः’ (छा. उ. ४-४-५) इति श्रुतिलिङ्गात्॥३७॥

श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च॥१.३.३८॥

इतश्च न शूद्रस्याधिकारः; यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवति। वेदश्रवणप्रतिषेधः, वेदाध्ययनप्रतिषेधः, तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते। श्रवणप्रतिषेधस्तावत् – ‘अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्’ इति; ‘पद्यु ह वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्’ इति च। अत एवाध्ययनप्रतिषेधः; यस्य हि समीपेऽपि नाध्येतव्यं भवति, स कथमश्रुतमधीयीत। भवति च वेदोच्चारणे जिह्वाच्छेदः, धारणे शरीरभेद इति। अत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भवति – ‘न शूद्राय मतिं दद्यात्’ इति, ‘द्विजातीनामध्ययनमिज्या दानम्’ इति च। येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः, तेषां न शक्यते फलप्राप्तिः प्रतिषेद्धुम्, ज्ञानस्यैकान्तिकफलत्वात्। ‘श्रावयेच्चतुरो वर्णान्’ इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्मरणात्। वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम्॥३८॥

इति अपशूद्राधिकरणम्।

[Go to Contents]

...।
॥२१॥

॥२२॥ वै.न्या.मा.

कम्पनात्॥१.३.३९॥

अवसितः प्रासङ्गिकोऽधिकारविचारः; प्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामः। ‘यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति’ (क. उ. २-३-२) इति एतद्वाक्यम् ‘एजृ कम्पने’ इति धात्वर्थानुगमाल्लक्षितम्। अस्मिन्वाक्ये सर्वमिदं जगत् प्राणाश्रयं स्पन्दते, महच्च किञ्चिद्भयकारणं वज्रशब्दितमुद्यतम्, तद्विज्ञानाच्चामृतत्वप्राप्तिरिति श्रूयते। तत्र, कोऽसौ प्राणः, किं तद्भयानकं वज्रम्, इत्यप्रतिपत्तेर्विचारे क्रियमाणे, प्राप्तं तावत् – प्रसिद्धेः पञ्चवृत्तिर्वायुः प्राण इति। प्रसिद्धेरेव चाशनिर्वज्रं स्यात्। वायोश्चेदं माहात्म्यं सङ्कीर्त्यते। कथम्? सर्वमिदं जगत् पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठाय एजति; वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते; वायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्नुवृष्ट्यशनयो विवर्तन्त इत्याचक्षते; वायुविज्ञानादेव चेदममृतत्वम्; तथा हि श्रुत्यन्तरम् – ‘वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद’ इति। तस्माद्वायुरयमिह प्रतिपत्तव्यः इत्येवं प्राप्ते ब्रूमः –

ब्रह्मैवेदमिह प्रतिपत्तव्यम्। कुतः? पूर्वोत्तरालोचनात्; पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे; इहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि? पूर्वत्र तावत् ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’ (क. उ. २-३-१) इति ब्रह्म निर्दिष्टम्; तदेव इहापि, सन्निधानात्, ‘जगत्सर्वं प्राण एजति’ इति च लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यते। प्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तः – ‘प्राणस्य प्राणम्’ (बृ. उ. ४-४-१८) इति दर्शनात्। एजयितृत्वमपीदं परमात्मन एवोपपद्यते, न वायुमात्रस्य; तथा चोक्तम् – ‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २-२-५) इति। उत्तरत्रापि ‘भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’ (क. उ. २-३-३) इति ब्रह्मैव निर्देक्ष्यते, न वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधानात्। तदेव इहापि सन्निधानात् ‘महद्भयं वज्रमुद्यतम्’ इति च भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते; वज्रशब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः; यथा हि ‘वज्रमुद्यतं ममैव शिरसि निपतेत्, यद्यहमस्य शासनं न कुर्याम्’ इत्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते, एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इति – भयानकं वज्रोपमितं ब्रह्म। तथा च ब्रह्मविषयं श्रुत्यन्तरम् – ‘भीषास्माद्वातः पवते। भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः’ (तै. उ. २-८-१) इति। अमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यते; ब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः, ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६-१५) इति मन्त्रवर्णात्। यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितम्, तदापेक्षिकम्; तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय ‘अतोऽन्यदार्तम्’ (बृ. उ. ३-४-२) इति वाय्वादेरार्तत्वाभिधानात्। प्रकरणादप्यत्र परमात्मनिश्चयः; ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १-२-१४) इति परमात्मनः पृष्टत्वात्॥३९॥

इति कम्पनाधिकरणम्।

[Go to Contents]

...।
॥२३॥

॥२४॥ वै.न्या.मा.

ज्योतिर्दर्शनात्॥१.३.४०॥

‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा. उ. ८-१२-३) इति श्रूयते। तत्र संशय्यते – किं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः, किं वा परं ब्रह्मेति। किं तावत्प्राप्तम्? प्रसिद्धमेव तेजो ज्योतिःशब्दमिति। कुतः? तत्र ज्योतिःशब्दस्य रूढत्वात्। ‘ज्योतिश्चरणाभिधानात्’ (ब्र. सू. १-१-२४) इत्यत्र हि प्रकरणाज्ज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते; न चेह तद्वत्किञ्चित्स्वार्थपरित्यागे कारणं दृश्यते। तथा च नाडीखण्डे – ‘अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८-६-५) इति मुमुक्षोरादित्यप्राप्तिरभिहिता। तस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति, एवं प्राप्ते ब्रूमः –

परमेव ब्रह्म ज्योतिःशब्दम्। कस्मात्? दर्शनात्। तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते; ‘य आत्मापहतपाप्मा’ (छा. उ. ८-७-१) इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञानात्; ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८-९-३) इति चानुसन्धानात्; ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८-१२-१) इति चाशरीरतायै ज्योतिःसम्पत्तेरस्याभिधानात्; ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः; ‘परं ज्योतिः’ ‘स उत्तमः पुरुषः’ (छा. उ. ८-१२-३) इति च विशेषणात्। यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति, नासावात्यन्तिको मोक्षः, गत्युत्क्रान्तिसम्बन्धात्। न ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः॥४०॥

इति ज्योतिरधिकरणम्।

[Go to Contents]

...।
॥२५॥

॥२६॥ वै.न्या.मा.

आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥१.३.४१॥

‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा’ (छा. उ. ८-१४-१) इति श्रूयते। तत्किमाकाशशब्दं परं ब्रह्म, किं वा प्रसिद्धमेव भूताकाशमिति विचारे – भूतपरिग्रहो युक्तः; आकाशशब्दस्य तस्मिन् रूढत्वात्; नामरूपनिर्वहणस्य चावकाशदानद्वारेण तस्मिन्योजयितुं शक्यत्वात्; स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादित्येवं प्राप्ते इदमुच्यते –

परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हति। कस्मात्? अर्थान्तरत्वादि व्यपदेशात्। ‘ते यदन्तरा तद्ब्रह्म’ इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति; न च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं सम्भवति, सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात्; नामरूपयोरपि निर्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र सम्भवति, ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६-३-२) इति ब्रह्मकर्तृकत्वश्रवणात्। ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढृत्वमस्ति; बाढमस्ति; अभेदस्त्विह विवक्षितः। नामरूपनिर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति। ‘तद्ब्रह्म तदमृतं स आत्मा’ (छा. उ. ८-१४-१) इति च ब्रह्मवादस्य लिङ्गानि। ‘आकाशस्तल्लिङ्गात्’ (ब्र. सू. १-१-२२) इत्यस्यैवायं प्रपञ्चः॥४१॥

इति अर्थान्तरत्वादिव्यपदेशाधिकरणम्।

[Go to Contents]

...।
॥२७॥

॥२८॥ वै.न्या.मा.

सुषुप्त्युत्क्रान्त्योर्भेदेन॥१.३.४२॥

व्यपदेशादित्यनुवर्तते। बृहदारण्यके षष्ठे प्रपाठके ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४-३-७) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः। तत्किं संसारिस्वरूपमात्रान्वाख्यानपरं वाक्यम्, उतासंसारिस्वरूपप्रतिपादनपरमिति विशयः। किं तावत्प्राप्तम्? संसारिस्वरूपमात्रविषयमेवेति। कुतः? उपक्रमोपसंहाराभ्याम्। उपक्रमे ‘योऽयं विज्ञानमयः प्राणेषु’ इति शारीरलिङ्गात्; उपसंहारे च ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४-४-२२) इति तदपरित्यागात्; मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादित्येवं प्राप्ते ब्रूमः –

परमेश्वरोपदेशपरमेवेदं वाक्यम्, न शारीरमात्रान्वाख्यानपरम्। कस्मात्? सुषुप्तावुत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्। सुषुप्तौ तावत् ‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४-३-२) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति; तत्र पुरुषः शारीरः स्यात्, तस्य वेदितृत्वात्; बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात्; प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात्। तथोत्क्रान्तावपि ‘अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति’ (बृ. उ. ४-३-३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति; तत्रापि शारीरो जीवः स्यात्, शरीरस्वामित्वात्; प्राज्ञस्तु स एव परमेश्वरः। तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते। यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमः – उपक्रमे तावत् ‘योऽयं विज्ञानमयः प्राणेषु’ इति न संसारिस्वरूपं विवक्षितम् – किं तर्हि? – अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति; यतः ‘ध्यायतीव लेलायतीव’ इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते; तथोपसंहारेऽपि यथोपक्रममेवोपसंहरति – ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ इति; योऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः; यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, स प्राचीमपि देशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत; यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षितं – किं तर्हि? – अवस्थारहितत्वमसंसारित्वं च। कथमेतदवगम्यते? यत् ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४-३-१४) इति पदे पदे पृच्छति; यच्च ‘अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१५) इति पदे पदे प्रतिवक्ति; ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति’ (बृ. उ. ४-३-२२) इति च। तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्॥४२॥

पत्यादिशब्देभ्यः॥१.३.४३॥

इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति – ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः’ इत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः; ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्’ इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाः। तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते॥४३॥

इति सुषुप्त्युत्क्रान्त्यधिकरणम्।

[Go to Contents]

ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् – ‘जन्माद्यस्य यतः’ (ब्र. सू. १-१-२) इति। तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम् – ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १-१-५) इति। गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन। इदं त्विदानीमवशिष्टमाशङ्क्यते – यदुक्तं प्रधानस्याशब्दत्वम्, तदसिद्धम्, कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात्; अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते; तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत्; अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते॥

[Go to Contents]

...।
॥१॥

॥२॥ वै.न्या.मा.

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च॥१.४.१॥

आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम्, एकेषां शाखिनां शब्दवदुपलभ्यते; काठके हि पठ्यते – ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ (क. उ. १-३-११) इति; तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, त एवेह प्रत्यभिज्ञायन्ते; तत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च न व्यक्तमव्यक्तमिति व्युत्पत्तिसम्भवात्, स्मृतिप्रसिद्धं प्रधानमभिधीयते; अतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम्; तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत्, नैतदेवम् – न ह्येतत्काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम्। न ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम्, तादृशं प्रत्यभिज्ञायते; शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते; स च शब्दः – न व्यक्तमव्यक्तमिति – यौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते; न चायं कस्मिंश्चिद्रूढः; या तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते; न च क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवति, असति तद्रूपप्रत्यभिज्ञाने; न ह्यश्वस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति। प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेः; शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते। कुतः? प्रकरणात् परिशेषाच्च। तथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयति – ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥’ (क. उ. १-३-३) ‘इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १-३-४) इति; तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम्, तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति – ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः॥’ (क. उ. १-३-१०) ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १-३-११) इति; तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः, त एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहाराय। तत्र इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह च समानशब्दा एव; अर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टाः, तेषां चेन्द्रियेभ्यः परत्वम्, इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम् इति श्रुतिप्रसिद्धेः; विषयेभ्यश्च मनसः परत्वम्, मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य; मनसस्तु परा बुद्धिः – बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति; बुद्धेरात्मा महान्परः – यः, सः ‘आत्मानं रथिनं विद्धि’ इति रथित्वेनोपक्षिप्तः। कुतः? आत्मशब्दात्, भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः; महत्त्वं चास्य स्वामित्वादुपपन्नम्; अथवा – ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः। प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते’ इति स्मृतेः, ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ (श्वे. उ. ६-१८) इति च श्रुतेः, या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महानात्मेत्युच्यते; सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः; एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतस्तु परमात्मविज्ञानात्मनोर्भेदाभावात्। तदेवं शरीरमेवैकं परिशिष्यते तेषु। इतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते। शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता; तथा च ‘एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क. उ. १-३-१२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति – ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’ (क. उ. १-३-१३) इति। एतदुक्तं भवति – वाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत; मनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत्; तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत्; महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति। तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः॥१॥

सूक्ष्मं तु तदर्हत्वात्॥१.४.२॥

उक्तमेतत् – प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम्, न प्रधानमिति। इदमिदानीमाशङ्क्यते – कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हम्, अस्पष्टवचनस्त्वव्यक्तशब्द इति; अत उत्तरमुच्यते – सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्; यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति; प्रकृतिशब्दश्च विकारे दृष्टः – यथा ‘गोभिः श्रीणीत मत्सरम्’ (ऋ. सं. ९-४६-४) इति। श्रुतिश्च – ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १-४-७) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति॥२॥

तदधीनत्वादर्थवत्॥१.४.३॥

अत्राह – यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना च शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत; अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादिति। अत्रोच्यते – यदि वयं स्वतन्त्रां काञ्चित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम तदा प्रधानकारणवादम्; परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते, न स्वतन्त्रा। सा चावश्याभ्युपगन्तव्या; अर्थवती हि सा; न हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यति, शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः। मुक्तानां च पुनरनुत्पत्तिः। कुतः? विद्यया तस्या बीजशक्तेर्दाहात्। अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः। तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् – ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ. उ. ३-८-११) इति श्रुतेः; क्वचिदक्षरशब्दोदितम् – ‘अक्षरात्परतः परः’ (मु. उ. २-१-२) इति श्रुतेः; क्वचिन्मायेति सूचितम् – ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४-१०) इति मन्त्रवर्णात्; अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात्। तदिदं ‘महतः परमव्यक्तम्’ इत्युक्तम् – अव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्। यदा तु जीवो महान् तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम्। अविद्या ह्यव्यक्तम्; अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः सन्ततो वर्तते। तच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते; सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम्, इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात्, परिशिष्टत्वाच्च शरीरस्य॥

अन्ये तु वर्णयन्ति – द्विविधं हि शरीरं स्थूलं सूक्ष्मं च; स्थूलम्, यदिदमुपलभ्यते; सूक्ष्मम्, यदुत्तरत्र वक्ष्यते – ‘तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्’ (ब्र. सू. ३-१-१) इति; तच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन सङ्कीर्तितम्; इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्; तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवात्तस्य परत्वम्; यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति। तैस्त्वेतद्वक्तव्यम् – अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन सङ्कीर्तितत्वात्, समानयोः प्रकृतत्वपरिशिष्टत्वयोः, कथं सूक्ष्ममेव शरीरमिह गृह्यते, न पुनः स्थूलमपीति। आम्नातस्यार्थं प्रतिपत्तुं प्रभवामः, नाम्नातं पर्यनुयोक्तुम्, आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति, नेतरत्, व्यक्तत्वात्तस्येति चेत्, न; एकवाक्यताधीनत्वादर्थप्रतिपत्तेः; न हीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कञ्चिदर्थं प्रतिपादयतः; प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात्; न चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्तिरस्ति; तत्राविशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं सम्बन्धेऽनभ्युपगम्यमाने एकवाक्यतैव बाधिता भवति, कुत आम्नातस्यार्थस्य प्रतिपत्तिः? न चैवं मन्तव्यम् – दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणम्, स्थूलस्य तु दृष्टबीभत्सतया सुशोधत्वादग्रहणमिति; यतो नैवेह शोधनं कस्यचिद्विवक्ष्यते; न ह्यत्र शोधनविधायि किञ्चिदाख्यातमस्ति; अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते; तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा, ‘पुरुषान्न परं किञ्चित्’ इत्याह; सर्वथापि त्वानुमानिकनिराकरणोपपत्तेः, तथा नामास्तु; न नः किञ्चिच्छिद्यते॥३॥

ज्ञेयत्वावचनाच्च॥१.४.४॥

ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते, गुणपुरुषान्तरज्ञानात्कैवल्यमिति वदद्भिः – न हि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति; क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति। न चेदमिहाव्यक्तं ज्ञेयत्वेनोच्यते; पदमात्रं ह्यव्यक्तशब्दः, नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति; न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम्; तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते; अस्माकं तु रथरूपककॢप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम्॥४॥

वदतीति चेन्न प्राज्ञो हि प्रकरणात्॥१.४.५॥

अत्राह सांख्यः – ज्ञेयत्वावचनात्, इत्यसिद्धम्। कथम्? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम् – ‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. २-३-१५) इति; अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम्, तादृशमेव निचाय्यत्वेन निर्दिष्टम्; तस्मात्प्रधानमेवेदम्; तदेव चाव्यक्तशब्दनिर्दिष्टमिति। अत्र ब्रूमः – नेह प्रधानं निचाय्यत्वेन निर्दिष्टम्; प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यते। कुतः? प्रकरणात्; प्राज्ञस्य हि प्रकरणं विततं वर्तते – ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ इत्यादिनिर्देशात्, ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते’ इति च दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात्, ‘यच्छोद्वाङ्मनसी प्राज्ञः’ इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्, मृत्युमुखप्रमोक्षणफलत्वाच्च; न हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सांख्यैरिष्यते; चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमः; सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यते; तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा॥५॥

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च॥१.४.६॥

इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते; तद्विषय एव च प्रश्नः; नातोऽन्यस्य प्रश्न उपन्यासो वास्ति; तत्र तावत् ‘स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’ (क. उ. १-१-१३) इत्यग्निविषयः प्रश्नः; ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १-१-२०) इति जीवविषयः प्रश्नः; ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १-२-१४) इति परमात्मविषयः; प्रतिवचनमपि – ‘लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’ (क. उ. १-१-१५) इत्यग्निविषयम्; ‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्। यथा च मरणं प्राप्य आत्मा भवति गौतम।’ (क. उ. २-२-६) ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २-२-७) इति व्यवहितं जीवविषयम्; ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १-२-१८) इत्यादिबहुप्रपञ्चं परमात्मविषयम्। नैवं प्रधानविषयः प्रश्नोऽस्ति। अपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति॥

अत्राह – योऽयमात्मविषयः प्रश्नः – ‘येयं प्रेते विचिकित्सा मनुष्येऽस्ति’ इति, किं स एवायम् ‘अन्यत्र धर्मादन्यत्राधर्मात्’ इति पुनरनुकृष्यते, किं वा ततोऽन्योऽयमपूर्वः प्रश्न उत्थाप्यत इति। किं चातः? स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, तदा द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोपन्यासाविति; अथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इत्युच्येत, ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोषः; एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति॥

अत्रोच्यते – नैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात्; वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः आ समाप्तेः कठवल्लीनां लक्ष्यते; मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ; नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम् – ‘येयं प्रेते’ इति ‘वराणामेष वरस्तृतीयः’ (क. उ. १-१-२०) इति लिङ्गात्। तत्र यदि ‘अन्यत्र धर्मात्’ इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येत। ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति; पूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्; जीवश्च धर्मादिगोचरत्वात् न ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति; प्राज्ञस्तु धर्माद्यतीतत्वात् ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति; प्रश्नच्छाया च न समाना लक्ष्यते, पूर्वस्यास्तित्वनास्तित्वविषयत्वात्, उत्तरस्य धर्माद्यतीतवस्तुविषयत्वाच्च; तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः; न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्, न; जीवप्राज्ञयोरेकत्वाभ्युपगमात्; भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात्; न त्वन्यत्वमस्ति, ‘तत्त्वमसि’ इत्यादिश्रुत्यन्तरेभ्यः; इह च ‘अन्यत्र धर्मात्’ इत्यस्य प्रश्नस्य प्रतिवचनम् ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १-२-१८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति; सति हि प्रसङ्गे प्रतिषेधो भागी भवति; प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, न परमेश्वरस्य; तथा – ‘स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ (क. उ. २-१-४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति; प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः; तथाग्रे – ‘यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (छा. उ. २-४-१०) इति जीवप्राज्ञभेददृष्टिमपवदति; तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् ‘अन्यं वरं नचिकेतो वृणीष्व’ इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा न चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च ‘विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १-२-४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच – ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १-२-१२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यते; यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत्, अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात्; तस्मात् ‘येयं प्रेते’ इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् ‘अन्यत्र धर्मात्’ इति। यत्तु प्रश्नच्छायावैलक्षण्यमुक्तम्, तददूषणम्, तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्; पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम्, उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति; यावद्ध्यविद्या न निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते, तन्निवृत्तौ तु प्राज्ञ एव ‘तत्त्वमसि’ इति श्रुत्या प्रत्याय्यते; न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषोऽस्ति; यथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात् ‘मा भैषीः नायमहिः रज्जुरेव’ इति, स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च, न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् – तथैवैतदपि द्रष्टव्यम्; ततश्च ‘न जायते म्रियते वा’ इत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्। सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् – एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमिति। ततश्च युक्ता अग्निजीवपरमात्मकल्पना; प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम्॥६॥

महद्वच्च॥१.४.७॥

यथा महच्छब्दः सांख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः, न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, ‘बुद्धेरात्मा महान्परः’ (क. उ. १-३-१०) ‘महान्तं विभुमात्मानम्’ (क. उ. १-२-२२) ‘वेदाहमेतं पुरुषं महान्तम्’ (श्वे. उ. ३-८) इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः; तथाव्यक्तशब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति। अतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम्॥७॥

इति आनुमानिकाधिकरणम्।

[Go to Contents]

...।
॥३॥

॥४॥ वै.न्या.मा.

चमसवदविशेषात्॥१.४.८॥

पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याह। कस्मात्? मन्त्रवर्णात् – ‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे. उ. ४-५) इति; अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्ते; लोहितं रजः, रञ्जनात्मकत्वात्, शुक्लं सत्त्वम्, प्रकाशात्मकत्वात्; कृष्णं तमः, आवरणात्मकत्वात्; तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यते – लोहितशुक्लकृष्णेति; न जायत इति च अजा स्यात्, ‘मूलप्रकृतिरविकृतिः’ इत्यभ्युपगमात्। नन्वजाशब्दश्छाग्यां रूढः; बाढम्; सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात्। सा च बह्वीः प्रजास्त्रैगुण्यान्विता जनयति; तां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेते – तामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरति; अन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति – मुच्यत इत्यर्थः। तस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते ब्रूमः –

नानेन मन्त्रेण श्रुतिमत्त्वं सांख्यवादस्य शक्यमाश्रयितुम्; न ह्ययं मन्त्रः स्वातन्त्र्येण कञ्चिदपि वादं समर्थयितुमुत्सहते, सर्वत्रापि यया कयाचित्कल्पनया अजात्वादिसम्पादनोपपत्तेः, सांख्यवाद एवेहाभिप्रेत इति विशेषावधारणकारणाभावात्। चमसवत् – यथा हि ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ (बृ. उ. २-२-३) इत्यस्मिन्मन्त्रे स्वातन्त्र्येणायं नामासौ चमसोऽभिप्रेत इति न शक्यते नियन्तुम्, सर्वत्रापि यथाकथञ्चिदर्वाग्बिलत्वादिकल्पनोपपत्तेः, एवमिहाप्यविशेषः ‘अजामेकाम्’ इत्यस्य मन्त्रस्य; नास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्यते नियन्तुम्॥८॥

तत्र तु ‘इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ इति वाक्यशेषाच्चमसविशेषप्रतिपत्तिर्भवति; इह पुनः केयमजा प्रतिपत्तव्येत्यत्र ब्रूमः –

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके॥१.४.९॥

परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या। तुशब्दोऽवधारणार्थः – भूतत्रयलक्षणैवेयमजा विज्ञेया, न गुणत्रयलक्षणा। कस्मात्? तथा ह्येके शाखिनस्तेजोबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति – ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इति। तान्येवेह तेजोबन्नानि प्रत्यभिज्ञायन्ते, रोहितादिशब्दसामान्यात्, रोहितादीनां च शब्दानां रूपविशेषेषु मुख्यत्वाद्भाक्तत्वाच्च गुणविषयत्वस्य; असन्दिग्धेन च सन्दिग्धस्य निगमनं न्याय्यं मन्यन्ते। तथेहापि ‘ब्रह्मवादिनो वदन्ति। किङ्कारणं ब्रह्म’ (श्वे. उ. १-१) इत्युपक्रम्य ‘ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्’ (श्वे. उ. १-३) इति पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमेऽवगमात्, वाक्यशेषेऽपि ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इति ‘यो योनिं योनिमधितिष्ठत्येकः’ (श्वे. उ. ४-११) इति च तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामाजामन्त्रेणाम्नायत इति शक्यते वक्तुम्। प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयोः प्रागवस्था अनेनापि मन्त्रेणाम्नायत इत्युच्यते; तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम्॥९॥

कथं पुनस्तेजोबन्नात्मना त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता न तावत्तेजोबन्नेष्वजाकृतिरस्ति, न च तेजोबन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः सम्भवतीति; अत उत्तरं पठति –

कल्पनोपदेशाच्च मध्वादिवदविरोधः॥१.४.१०॥

नायमजाकृतिनिमित्तोऽजाशब्दः; नापि यौगिकः। किं तर्हि? कल्पनोपदेशोऽयम् – अजारूपककॢप्तिस्तेजोबन्नलक्षणायाश्चराचरयोनेरुपदिश्यते; यथा हि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपबर्करा च, तां च कश्चिदजो जुषमाणोऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जह्यात् – एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति, अविदुषा च क्षेत्रज्ञेनोपभुज्यते, विदुषा च परित्यज्यत इति। न चेदमाशङ्कितव्यम् – एकः क्षेत्रज्ञोऽनुशेते अन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति; न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा; किन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषैवैषा; प्रसिद्धं तु भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते; भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितः; न पारमार्थिकः, ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६-११) इत्यादिश्रुतिभ्यः। मध्वादिवत् – यथा आदित्यस्यामधुनो मधुत्वम्, वाचश्चाधेनोर्धेनुत्वम्, ‘द्युलोकादीनां चानग्नीनामग्नित्वम्’ (छा. उ. ८-२-९) – इत्येवंजातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः। तस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य॥१०॥

इति चमसाधिकरणम्।

[Go to Contents]

...।
॥५॥

॥६॥ वै.न्या.मा.

न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च॥१.४.११॥

एवं परिहृतेऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्सांख्यः प्रत्यवतिष्ठते – ‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’ (बृ. उ. ४-४-१८) इति। अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषया अपरा पञ्चसंख्या श्रूयते, पञ्चशब्दद्वयदर्शनात्; त एते पञ्च पञ्चकाः पञ्चविंशतिः सम्पद्यन्ते; तया च पञ्चविंशतिसंख्यया यावन्तः संख्येया आकाङ्क्ष्यन्ते तावन्त्येव च तत्त्वानि सांख्यैः संख्यायन्ते – ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः’ इति; तया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतेस्तत्त्वानामुपसङ्ग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम्॥

ततो ब्रूमः – न संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या। कस्मात्? नानाभावात्; नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि; नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन्; न ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते। अथोच्येत – पञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथा ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यते; अयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात्। परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकस्वरेणैकपदत्वनिश्चयात्; प्रयोगान्तरे च ‘पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १-६-२-२) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात्; समस्तत्वाच्च न वीप्सा ‘पञ्च पञ्च’ इति। तेन न पञ्चकद्वयग्रहणं पञ्च पञ्चेति। न च पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम् ‘पञ्च पञ्चकाः’ इति, उपसर्जनस्य विशेषणेनासंयोगात्। नन्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत्; नेति ब्रूमः; युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम्; इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत्; भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषः; तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम्। अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम्; अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाः; आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्’ इति सप्तमीसूचितस्य ‘तमेव मन्य आत्मानम्’ इत्यात्मत्वेनानुकर्षणात्; आत्मा च चेतनः पुरुषः; स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्येत; अर्थान्तरपरिग्रहे वा तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत; तथा ‘आकाशश्च प्रतिष्ठितः’ इत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य न पृथगुपादानं न्याय्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम्। कथं च संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत? जनशब्दस्य तत्त्वेष्वरूढत्वात्, अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेः। कथं तर्हि पञ्च पञ्चजना इति? उच्यते – ‘दिक्संख्ये संज्ञायाम्’ (पा. सू. २-१-५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः; ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, न सांख्यतत्त्वाभिप्रायेण; ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते; पञ्चजना नाम ये केचित्, ते च पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा॥११॥

के पुनस्ते पञ्चजना नामेति, तदुच्यते –

प्राणादयो वाक्यशेषात्॥१.४.१२॥

‘यस्मिन्पञ्च पञ्चजनाः’ इत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः – ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः’ इति; तेऽत्र वाक्यशेषगताः सन्निधानात्पञ्चजना विवक्ष्यन्ते। कथं पुनः प्राणादिषु जनशब्दप्रयोगः? तत्त्वेषु वा कथं जनशब्दप्रयोगः? समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्ति; जनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति; जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः – ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३-३-६) इत्यत्र; ‘प्राणो ह पिता प्राणो ह माता’ (छा. उ. ७-१५-१) इत्यादि च ब्राह्मणम्। समासबलाच्च समुदायस्य रूढत्वमविरुद्धम्। कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम्? शक्या उद्भिदादिवदित्याह – प्रसिद्धार्थसन्निधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते; यथा ‘उद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोति’ इति, तथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यते। कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः; अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः; क्वचिच्च ‘यत्पाञ्चजन्यया विशा’ (ऋ. सं. ८-५३-९) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यते; तत्परिग्रहेऽपीह न कश्चिद्विरोधः; आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया ‘प्राणादयो वाक्यशेषात्’ इति जगाद॥१२॥

भवेयुस्तावत्प्राणादयः पञ्चजना माध्यन्दिनानाम्, येऽन्नं प्राणादिष्वामनन्ति; काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुः, येऽन्नं प्राणादिषु नामनन्तीति – अत उत्तरं पठति –

ज्योतिषैकेषामसत्यन्ने॥१.४.१३॥

असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत; तेऽपि हि ‘यस्मिन्पञ्च पञ्चजनाः’ इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते ‘तद्देवा ज्योतिषां ज्योतिः’ इति। कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्गृह्यते केषाञ्चिन्नेति – अपेक्षाभेदादित्याह – माध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवति; तदलाभात्तु काण्वानां भवत्यपेक्षा; अपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे; यथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत्। तदेवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति; स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते॥१३॥

इति संख्योपसङ्ग्रहाधिकरणम्।

[Go to Contents]

...।
॥७॥

॥८॥ वै.न्या.मा.

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः॥१.४.१४॥

प्रतिपादितं ब्रह्मणो लक्षणम्; प्रतिपादितं ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम्; प्रतिपादितं च प्रधानस्याशब्दत्वम्। तत्रेदमपरमाशङ्क्यते – न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम्। कस्मात्? विगानदर्शनात्; प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते, क्रमादिवैचित्र्यात्। तथा हि – क्वचित् ‘आत्मन आकाशः सम्भूतः’ (तै. उ. २-१-१) इत्याकाशादिका सृष्टिराम्नायते; क्वचित्तेजआदिका ‘तत्तेजोऽसृजत’ (छा. उ. ६-२-३) इति; क्वचित्प्राणादिका ‘स प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६-४) इति; क्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते – ‘स इमाँल्लोकानसृजत। अम्भो मरीचिर्मरमापः’ (ऐ. उ. १-१-२) इति; तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते – ‘असद्वा इदमग्र आसीत्। ततो वै सदजायत’ (तै. उ. २-७-१) इति, ‘असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्’ (छा. उ. ३-१९-१) इति च; क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते – ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६-२-१) इत्युपक्रम्य, ‘कुतस्तु खलु सोम्यैवꣳ स्यादिति होवाच कथमसतः सज्जायेतेति। सत्त्वेव सोम्येदमग्र आसीत्’ (छा. उ. ६-२-२) इति; क्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यते – ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत’ (बृ. उ. १-४-७) इति। एवमनेकधा विप्रतिपत्तेर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या; स्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः –

सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, न स्रष्टरि किञ्चिद्विगानमस्ति। कुतः? यथाव्यपदिष्टोक्तेः – यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते; तद्यथा – ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २-१-१) इति; अत्र तावज्ज्ञानशब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत्; अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत्; तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत्; ‘बहु स्यां प्रजायेय’ (तै. उ. २-६-१) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत; तथा ‘इदं सर्वमसृजत। यदिदं किं च’ (तै. उ. २-६-१) इति समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे; तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम्, तल्लक्षणमेवान्यत्रापि विज्ञायते – ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६-२-१) ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६-२-३) इति; तथा ‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्। स ईक्षत लोकान्नु सृजै’ (ऐ. उ. १-१-१) इति च – एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात्। कार्यविषयं तु विगानं दृश्यते – क्वचिदाकाशादिका सृष्टिः क्वचित्तेजआदिकेत्येवंजातीयकम्। न च कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम्, अतिप्रसङ्गात्। समाधास्यति चाचार्यः कार्यविषयमपि विगानम् ‘न वियदश्रुतेः’ (ब्र. सू. २-३-१) इत्यारभ्य। भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात्। न ह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपिपादयिषितः। न हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा। न च कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात्। दर्शयति च सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम् – ‘अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ (छा. उ. ६-८-४) इति। मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यते। तथा च सम्प्रदायविदो वदन्ति – ‘मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा। उपायः सोऽवताराय नास्ति भेदः कथञ्चन’ (मा. का. ३-१५) इति। ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते – ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २-१-१) ‘तरति शोकमात्मवित्’ (छा. उ. ७-१-३) ‘तमेव विदित्वाति मृत्युमेति’ (श्वे. उ. ३-८) इति। प्रत्यक्षावगमं चेदं फलम्, ‘तत्त्वमसि’ इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः॥१४॥

यत्पुनः कारणविषयं विगानं दर्शितम् ‘असद्वा इदमग्र आसीत्’ (तै. उ. २-७-१) इत्यादि, तत्परिहर्तव्यम्; अत्रोच्यते –

समाकर्षात्॥१.४.१५॥

‘असद्वा इदमग्र आसीत्’ (तै. उ. २-७-१) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते; यतः ‘असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः’ (तै. उ. २-६-१) इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य, ‘सोऽकामयत’ इति तमेव प्रकृतं समाकृष्य, सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा, ‘तत्सत्यमित्याचक्षते’ इति चोपसंहृत्य, ‘तदप्येष श्लोको भवति’ इति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरति – ‘असद्वा इदमग्र आसीत्’ (तै. उ. २-७-१) इति। यदि त्वसन्निरात्मकमस्मिञ्श्लोकेऽभिप्रेयेत, ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसम्बद्धं वाक्यमापद्येत; तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते। एषैव ‘असदेवेदमग्र आसीत्’ (छा. उ. ३-१९-१) इत्यत्रापि योजना, ‘तत्सदासीत्’ इति समाकर्षणात्; अत्यन्ताभावाभ्युपगमे हि ‘तत्सदासीत्’ इति किं समाकृष्येत? ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६-२-१) इत्यत्रापि न श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः, क्रियायामिव वस्तुनि विकल्पस्यासम्भवात्; तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम्। ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १-४-७) इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’ इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात्; निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बिना स इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत? चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते, अनुप्रविष्टस्य चेतनत्वश्रवणात् – ‘पश्यꣳश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनः’ इति; अपि च यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियते, एवमादिसर्गेऽपीति गम्यते, दृष्टविपरीतकल्पनानुपपत्तेः; श्रुत्यन्तरमपि ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६-३-२) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति; ‘व्याक्रियत’ इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः – यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरि; यद्वा कर्मण्येवैष लकारोऽर्थाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यः – यथा गम्यते ग्राम इति॥१५॥

इति कारणत्वाधिकरणम्।

[Go to Contents]

...।
॥९॥

॥१०॥ वै.न्या.मा.

जगद्वाचित्वात्॥१.४.१६॥

कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते – ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’ (कौ. ब्रा. ४-१९) इति। तत्र किं जीवो वेदितव्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयः। किं तावत्प्राप्तम्? प्राण इति। कुतः? ‘यस्य वैतत्कर्म’ इति श्रवणात्, परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात्; वाक्यशेषे च ‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्दश्रवणात्, प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात्; ये चैते पुरस्ताद्बालाकिना ‘आदित्ये पुरुषश्चन्द्रमसि पुरुषः’ इत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम् – ‘कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते’ (बृ. उ. ३-९-९) इति श्रुत्यन्तरप्रसिद्धेः। जीवो वायमिह वेदितव्यतयोपदिश्यते; तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् – ‘यस्य वैतत्कर्म’ इति; सोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यते; वाक्यशेषे च जीवलिङ्गमवगम्यते – यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति; तथा परस्तादपि जीवलिङ्गमवगम्यते – ‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’ (कौ. ब्रा. ४-२०) इति; प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम्। तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः, न परमेश्वरः, तल्लिङ्गानवगमादित्येवं प्राप्ते ब्रूमः –

परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात्। कस्मात्? उपक्रमसामर्थ्यात्। इह हि बालाकिरजातशत्रुणा सह ‘ब्रह्म ते ब्रवाणि’ इति संवदितुमुपचक्रमे; स च कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूव; तमजातशत्रुः ‘मृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणि’ इत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेप; यदि सोऽप्यमुख्यब्रह्मदृष्टिभाक्स्यात्, उपक्रमो बाध्येत; तस्मात्परमेश्वर एवायं भवितुमर्हति। कर्तृत्वं चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते। ‘यस्य वैतत्कर्म’ इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात्, असंशब्दितत्वाच्च; नापि पुरुषाणामयं निर्देशः, ‘एतेषां पुरुषाणां कर्ता’ इत्येव तेषां निर्दिष्टत्वात्, लिङ्गवचनविगानाच्च; नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरुपात्तत्वात्; पारिशेष्यात्प्रत्यक्षसन्निहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते; क्रियत इति च तदेव जगत्कर्म। ननु जगदप्यप्रकृतमसंशब्दितं च। सत्यमेतत्; तथाप्यसति विशेषोपादाने साधारणेनार्थेन सन्निधानेन सन्निहितवस्तुमात्रस्यायं निर्देश इति गम्यते, न विशिष्टस्य कस्यचित्, विशेषसन्निधानाभावात्; पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यते। एतदुक्तं भवति – य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता – किमनेन विशेषेण? – यस्य वा कृत्स्नमेव जगदविशेषितं कर्मेति वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः; ये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तिताः, तेषामब्रह्मत्वख्यापनाय विशेषोपादानम्। एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते; परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः॥१६॥

जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम्॥१.४.१७॥

अथ यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति, तत्परिहर्तव्यम्। अत्रोच्यते – परिहृतं चैतत् ‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ (ब्र. सू. १-१-३१) इत्यत्र; त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्येत – जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति; न चैतन्न्याय्यम्; उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्वमस्य वाक्यस्यावगम्यते; तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम्; उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते – ‘सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद’ इति। नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत। न निर्णीयते, ‘यस्य वैतत्कर्म’ इत्यस्य ब्रह्मविषयत्वेन तत्र अनिर्धारितत्वात्; तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवर्त्यते। प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६-८-२) इत्यत्र। जीवलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम्॥१७॥

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके॥१.४.१८॥

अपि च नैवात्र विवदितव्यम् – जीवप्रधानं वेदं वाक्यं स्यात् ब्रह्मप्रधानं वेति; यतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते। कस्मात्? प्रश्नव्याख्यानाभ्याम्। प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते – ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्’ (कौ. ब्रा. ४-१९) इति; प्रतिवचनमपि – ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. ब्रा. ४-२०) इत्यादि, ‘एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ इति च। सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति; परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा। तस्माद्यत्रास्य जीवस्य निःसम्बोधतास्वच्छतारूपः स्वापः – उपाधिजनितविशेषविज्ञानरहितं स्वरूपम्, यतस्तद्भ्रंशरूपमागमनम्, सोऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यते। अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति ‘य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागात्’ (बृ. उ. २-१-१६) इति प्रश्ने; प्रतिवचनेऽपि ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ इति; आकाशशब्दश्च परमात्मनि प्रयुक्तः ‘दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८-१-१) इत्यत्र। ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते। प्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चयः॥१८॥

इति बालाक्यधिकरणम्।

[Go to Contents]

...।
॥११॥

॥१२॥ वै.न्या.मा.

वाक्यान्वयात्॥१.४.१९॥

बृहदारण्यके मैत्रेयीब्राह्मणेऽधीयते – ‘न वा अरे पत्युः कामाय’ इत्युपक्रम्य ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम्’ (बृ. उ. ४-५-६) इति; तत्रैतद्विचिकित्स्यते – किं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यते, आहोस्वित्परमात्मेति। कुतः पुनरेषा विचिकित्सा? प्रियसंसूचितेनात्मना भोक्त्रोपक्रमाद्विज्ञानात्मोपदेश इति प्रतिभाति; तथात्मविज्ञानेन सर्वविज्ञानोपदेशात्परमात्मोपदेश इति। किं तावत्प्राप्तम्? विज्ञानात्मोपदेश इति। कस्मात्? उपक्रमसामर्थ्यात्। पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगत् आत्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुपक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्यस्यात्मनः स्यात्। मध्येऽपि ‘इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति’ इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयति। तथा ‘विज्ञातारमरे केन विजानीयात्’ इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयति। तस्मादात्मविज्ञानेन सर्वविज्ञानवचनं भोक्त्रर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमित्येवं प्राप्ते ब्रूमः –

परमात्मोपदेश एवायम्। कस्मात्? वाक्यान्वयात्। वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रत्यन्वितावयवं लक्ष्यते; कथमिति तदुपपाद्यते – ‘अमृतत्वस्य तु नाशास्ति वित्तेन’ इति याज्ञवल्क्यादुपश्रुत्य ‘येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि’ इत्यमृतत्वमाशासानायै मैत्रेय्यै याज्ञवल्क्य आत्मविज्ञानमिदमुपदिशति; न चान्यत्र परमात्मविज्ञानादमृतत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति; तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते; न चैतदौपचारिकमाश्रयितुं शक्यम्, यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति – ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’ इत्यादिना; यो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति, तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराकरोतीति भेददृष्टिमपोद्य, ‘इदꣳ सर्वं यदयमात्मा’ इति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति; ‘दुन्दुभ्यादिदृष्टान्तैश्च’ (बृ. उ. ४-५-८) तमेवाव्यतिरेकं द्रढयति; ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः’ (बृ. उ. ४-५-११) इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्चकारणतां व्याचक्षाणः परमात्मानमेवैनं गमयति; ‘तथैवैकायनप्रक्रियायामपि’ (बृ. उ. ४-५-१२) सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेवैनं गमयति। तस्मात्परमात्मन एवायं दर्शनाद्युपदेश इति गम्यते॥१९॥

यत्पुनरुक्तं प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इति, अत्र ब्रूमः –

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः॥१.४.२०॥

अस्त्यत्र प्रतिज्ञा – ‘आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति’ ‘इदꣳ सर्वं यदयमात्मा’ इति च। तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम्, यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसङ्कीर्तनम्। यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात्, ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञायत इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातम्, तद्धीयेत। तस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते॥२०॥

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः॥१.४.२१॥

विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसङ्घातोपाधिसम्पर्कात्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानात्सम्प्रसन्नस्य देहादिसङ्घातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते। श्रुतिश्चैवं भवति – ‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा. उ. ८-१२-३) इति। क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति – ‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३-२-८) इति; यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्ति, एवं जीवोऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते – दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै॥२१॥

अवस्थितेरिति काशकृत्स्नः॥१.४.२२॥

अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते। तथा च ब्राह्मणम् – ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६-३-२) इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति; मन्त्रवर्णश्च – ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३-१२-७) इत्येवंजातीयकः। न च तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता, येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात्। काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवः, नान्य इति मतम्; आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम्, तथापि ‘प्रतिज्ञासिद्धेः’ इति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते; औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते। तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपिपादयिषितार्थानुसारात् ‘तत्त्वमसि’ इत्यादिश्रुतिभ्यः; एवं च सति तज्ज्ञानादमृतत्वमवकल्पते; विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेत। अतश्च स्वाश्रयस्य नामरूपस्यासम्भवादुपाध्याश्रयं नामरूपं जीवे उपचर्यते। अत एवोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या॥

यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या। ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’ – इदमत्र प्रतिज्ञातम् – ‘आत्मनि विदिते सर्वमिदं विदितं भवति’ ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २-४-६) इति च; उपपादितं च सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात्; तस्या एव प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम्, यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितम् इत्याश्मरथ्य आचार्यो मन्यते – अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति। ‘उत्क्रमिष्यत एवंभावादित्यौडुलोमिः’ – उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्सम्प्रसन्नस्य परेणात्मनैक्यसम्भवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते। ‘अवस्थितेरिति काशकृत्स्नः’ – अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते। ननूच्छेदाभिधानमेतत् – ‘एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति’ (बृ. उ. २-४-१२) इति; कथमेतदभेदाभिधानम्? नैष दोषः; विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम्, नात्मोच्छेदाभिप्रायम्; ‘अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्ति’ इति पर्यनुयुज्य, स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् – ‘न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवति’ इति। एतदुक्तं भवति – कूटस्थनित्य एवायं विज्ञानघन आत्मा; नास्योच्छेदप्रसङ्गोऽस्ति; मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति; संसर्गाभावे च तत्कृतस्य विशेषविज्ञानस्याभावात् ‘न प्रेत्य संज्ञास्ति’ इत्युक्तमिति। यदप्युक्तम् – ‘विज्ञातारमरे केन विजानीयात्’ इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्। अपि च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २-४-१३) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य, ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति; पुनश्च विषयाभावेऽप्यात्मानं विजानीयादित्याशङ्क्य, ‘विज्ञातारमरे केन विजानीयात्’ इत्याह; ततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते। दर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम्। अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदः, न पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः – ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६-२-१) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) ‘ब्रह्मैवेदं सर्वम्’ (मु. उ. २-२-११) ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २-४-६) ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३-७-२३) ‘नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३-८-११) इत्येवंरूपाभ्यः श्रुतिभ्यः; स्मृतिभ्यश्च – ‘वासुदेवः सर्वमिति’ (भ. गी. ७-१९) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३-२) ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३-२७) इत्येवंरूपाभ्यः; भेददर्शनापवादाच्च – ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः’ (बृ. उ. १-४-१०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४-४-१९) इत्येवंजातीयकात्; ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४-४-२५) इति च आत्मनि सर्वविक्रियाप्रतिषेधात्; अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपपत्तेश्च; निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते – ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ (मु. उ. ३-२-६) इति च श्रुतेः; ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति च; ‘स्थितप्रज्ञलक्षणस्मृतेश्च’ (भ. गी. २-५४)। स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवंजातीयक आत्मभेदविषयो निर्बन्धो निरर्थकः – एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति। न हि ‘सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायाम्’ (तै. उ. २-१-१) इति काञ्चिदेवैकां गुहामधिकृत्यैतदुक्तम्; न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति, ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २-६-१) इति स्रष्टुरेव प्रवेशश्रवणात्। ये तु निर्बन्धं कुर्वन्ति, ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्ते; कृतकमनित्यं च मोक्षं कल्पयन्ति; न्यायेन च न सङ्गच्छन्त इति॥२२॥

इति वाक्यान्वयाधिकरणम्।

[Go to Contents]

...।
॥१३॥

॥१४॥ वै.न्या.मा.

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्॥१.४.२३॥

यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वाद्ब्रह्मापि जिज्ञास्यमित्युक्तम्; ब्रह्म च ‘जन्माद्यस्य यतः’ (ब्र. सू. १-१-२) इति लक्षितम्; तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः – किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति। तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति। कस्मात्? ईक्षापूर्वककर्तृत्वश्रवणात् – ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते – ‘स ईक्षाञ्चक्रे’ (प्र. उ. ६-३) ‘स प्राणमसृजत’ (प्र. उ. ६-४) इत्यादिश्रुतिभ्यः; ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम्; अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा; स च न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम्। ईश्वरत्वप्रसिद्धेश्च – ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते; तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्। कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यम्, कार्यकारणयोः सारूप्यदर्शनात्; ब्रह्म चानेवंलक्षणमवगम्यते – ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६-१९) इत्यादिश्रुतिभ्यः; पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम्, ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः –

प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम्, निमित्तकारणं च। न केवलं निमित्तकारणमेव। कस्मात्? प्रतिज्ञादृष्टान्तानुपरोधात्। एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येते। प्रतिज्ञा तावत् – ‘उत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६-१-२) इति; तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते; तच्चोपादानकारणविज्ञाने सर्वविज्ञानं सम्भवति, उपादानकारणाव्यतिरेकात्कार्यस्य; निमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात्। दृष्टान्तोऽपि ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६-१-४) इत्युपादानकारणगोचर एवाम्नायते; तथा ‘एकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ स्यात्’ (छा. उ. ६-१-५) ‘एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्यात्’ (छा. उ. ६-१-६) इति च। तथान्यत्रापि ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १-१-२) इति प्रतिज्ञा; ‘यथा पृथिव्यामोषधयः सम्भवन्ति’ (मु. उ. १-१-७) इति दृष्टान्तः। तथा ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वं विदितम्’ (बृ. उ. ४-५-६) इति प्रतिज्ञा; ‘स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’ (बृ. उ. ४-५-८) इति दृष्टान्तः। एवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ। यत इतीयं पञ्चमी – ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्यत्र ‘जनिकर्तुः प्रकृतिः’ (पा. सू. १-४-३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या। निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम्; यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातॄनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति, प्रागुत्पत्तेः ‘एकमेवाद्वितीयम्’ इत्यवधारणात्; अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः – अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात्। तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम्॥२३॥

कुतश्चात्मनः कर्तृत्वप्रकृतित्वे? –

अभिध्योपदेशाच्च॥१.४.२४॥

अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति ‘सोऽकामयत बहु स्यां प्रजायेय’ (तै. उ. २-६-१) इति, ‘तदैक्षत बहु स्यां प्रजायेय’ (तै. उ. २-६-१) इति च। तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते। बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते॥२४॥

साक्षाच्चोभयाम्नानात्॥१.४.२५॥

प्रकृतित्वस्यायमभ्युच्चयः। इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेते – ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति’ (छा. उ. १-९-१) इति। यद्धि यस्मात्प्रभवति, यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम्, यथा व्रीहियवादीनां पृथिवी। ‘साक्षात्’ इति च – उपादानान्तरानुपादानं सूचयति ‘आकाशादेव’ इति। प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः॥२५॥

आत्मकृतेः परिणामात्॥१.४.२६॥

इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ‘तदात्मानं स्वयमकुरुत’ (तै. उ. २-७-१) इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति – आत्मानमिति कर्मत्वम्, स्वयमकुरुतेति कर्तृत्वम्। कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम्? परिणामादिति ब्रूमः – पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति। विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः; स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते। ‘परिणामात्’ इति वा पृथक्सूत्रम्। तस्यैषोऽर्थः – इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ‘सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च’ (तै. उ. २-६-१) इत्यादिनेति॥२६॥

योनिश्च हि गीयते॥१.४.२७॥

इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु – ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ (मु. उ. ३-१-३) इति ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १-१-६) इति च। योनिशब्दश्च प्रकृतिवचनःसमधिगतो लोके – ‘पृथिवी योनिरोषधिवनस्पतीनाम्’ इति। स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम्। क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्र निषदे अकारि’ (ऋ. सं. १-१०४-१) इति। वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते – ‘यथोर्णनाभिः सृजते गृह्णते च’ (मु. उ. १-१-७) इत्येवंजातीयकात्। तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम्। यत्पुनरिदमुक्तम्, ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम्, नोपादानेष्वित्यादि; तत्प्रत्युच्यते – न लोकवदिह भवितव्यम्; न ह्ययमनुमानगम्योऽर्थः; शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम्; शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम। पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः॥२७॥

इति प्रकृत्यधिकरणम्।

[Go to Contents]

...।
॥१५॥

॥१६॥ वै.न्या.मा.

एतेन सर्वे व्याख्याता व्याख्याताः॥१.४.२८॥

‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १-१-५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः – तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रति भान्तीति; स च कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः, तेन तत्प्रतिषेधे एव यत्नोऽतीव कृतः, नाण्वादिकारणवादप्रतिषेधे; तेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः; तेषामप्युपोद्बलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति – अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति – एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः, तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति। व्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति॥२८॥

इति सर्वव्याख्यानाधिकरणम्।

[Go to Contents]


1. प्रथमः अध्यायः
2. द्वितीयः अध्यायः
प्रथमः पादः (२.१) ४०. स्मृत्यधिकरणम् ४१. योगप्रत्युक्त्यधिकरणम् ४२. नविलक्षणत्वाधिकरणम् ४३. शिष्टापरिग्रहाधिकरणम् ४४. भोक्त्रापत्त्यधिकरणम् ४५. आरम्भणाधिकरणम् ४६. इतरव्यपदेशाधिकरणम् ४७. उपसंहारदर्शनाधिकरणम् ४८. कृत्स्नप्रसक्त्यधिकरणम् ४९. सर्वोपेताधिकरणम् ५०. प्रयोजनवत्त्वाधिकरणम् ५१. वैषम्यनैर्घृण्याधिकरणम् ५२. सर्वधर्मोपपत्त्यधिकरणम्
द्वितीयः पादः (२.२) ५३. रचनानुपपत्त्यधिकरणम् ५४. महद्दीर्घाधिकरणम् ५५. परमाणुजगदकारणत्वाधिकरणम् ५६. समुदायाधिकरणम् ५७. अभावाधिकरणम् ५८. एकस्मिन्नसम्भवाधिकरणम् ५९. पत्यधिकरणम् ६०. उत्पत्त्यसम्भवाधिकरणम्
3. तृतीयः अध्यायः
4. चतुर्थः अध्यायः

[Go to Contents]

प्रथमेऽध्याये – सर्वज्ञः सर्वेश्वरो जगतः उत्पत्तिकारणम्, मृत्सुवर्णादय इव घटरुचकादीनाम्; उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणम्, मायावीव मायायाः; प्रसारितस्य जगतः पुनः स्वात्मन्येवोपसंहारकारणम्, अवनिरिव चतुर्विधस्य भूतग्रामस्य; स एव च सर्वेषां न आत्मा – इत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम्; प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः। इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं प्रतिवेदान्तं च सृष्ट्यादिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति –

[Go to Contents]

...।
॥१॥

॥२॥ वै.न्या.मा.

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्॥२.१.१॥

यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम्। कुतः? स्मृत्यनवकाशदोषप्रसङ्गात् – स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन्। तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते। मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति – अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम्, ईदृशश्चाचारः, इत्थं वेदाध्ययनम्, इत्थं समावर्तनम्, इत्थं सहधर्मचारिणीसंयोग इति; तथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधति। नैवं कापिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्ति। मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः। यदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येत। तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याः। कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम्; परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन्; तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन्; अस्मत्कृते च व्याख्याने न विश्वस्युः, बहुमानात्स्मृतीनां प्रणेतृषु; कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते; श्रुतिश्च भवति ‘ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्’ (श्वे. उ. ५-२) इति; तस्मान्नैषां मतमयथार्थं शक्यं सम्भावयितुम्; तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्ति; तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः॥

तस्य समाधिः – ‘नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’ इति। यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन्; ता उदाहरिष्यामः – ‘यत्तत्सूक्ष्ममविज्ञेयम्’ इति परं ब्रह्म प्रकृत्य, ‘स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते’ इति चोक्त्वा, ‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’ इत्याह; तथान्यत्रापि ‘अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे सम्प्रलीयते’ इत्याह; ‘अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः। स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयः’ इति पुराणे; भगवद्गीतासु च – ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भ. गी. ७-६) इति; परमात्मानमेव च प्रकृत्यापस्तम्बः पठति – ‘तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः’ (ध. सू. १-८-२३-२) इति। एवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते। स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासः। दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्; विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्; अनपेक्ष्या इतराः; तदुक्तं प्रमाणलक्षणे – ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ (जै. सू. १-३-३) इति। न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम्, निमित्ताभावात्। शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत्, न; सिद्धेरपि सापेक्षत्वात्; धर्मानुष्ठानापेक्षा हि सिद्धिः, स च धर्मश्चोदनालक्षणः; ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते। सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति। परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्। तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा सङ्ग्रहणीया। या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम्, कपिलमिति श्रुतिसामान्यमात्रत्वात्, अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात्, अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात्। भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः – ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २-२-१०-२) इति; मनुना च ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। सम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२-९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते; कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात्। महाभारतेऽपि च – ‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’ इति विचार्य, ‘बहवः पुरुषा राजन्सांख्ययोगविचारिणाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन – ‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’ इत्युपक्रम्य ‘ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः। सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्॥विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति भूतेषु स्वैरचारी यथासुखम्’ – इति सर्वात्मतैव निर्धारिता। श्रुतिश्च सर्वात्मतायां भवति – ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवंविधा। अतश्च सिद्धमात्मभेदकल्पनयापि कापिलस्य तन्त्रस्य वेदविरुद्धत्वं वेदानुसारिमनुवचनविरुद्धत्वं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति। वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम्, रवेरिव रूपविषये; पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः। तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः॥१॥

कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः? –

इतरेषां चानुपलब्धेः॥२.१.२॥

्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि, न तानि वेदे लोके वोपलभ्यन्ते। भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम्। अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते। यदपि क्वचित्तत्परमिव श्रवणमवभासते, तदप्यतत्परं व्याख्यातम् – ‘आनुमानिकमप्येकेषाम्’ (ब्र. सू. १-४-१) इत्यत्र। कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः। तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः। तर्कावष्टम्भं तु ‘न विलक्षणत्वात्’ (ब्र. सू. २-१-४) इत्यारभ्योन्मथिष्यति॥२॥

इति स्मृत्यधिकरणम्।

[Go to Contents]

...।
॥३॥

॥४॥ वै.न्या.मा.

एतेन योगः प्रत्युक्तः॥२.१.३॥

एतेन सांख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति। तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम्, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते। नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम्; किमर्थं पुनरतिदिश्यते। अस्ति ह्यत्राभ्यधिकाशङ्का – सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः – ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २-४-५) इति; ‘त्रिरुन्नतं स्थाप्य समं शरीरम्’ (श्वे. उ. २-८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते; लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते – ‘तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्’ (क. उ. २-३-११) इति, ‘विद्यामेतां योगविधिं च कृत्स्नम्’ (क. उ. २-३-१८) इति चैवमादीनि; योगशास्त्रेऽपि – ‘अथ तत्त्वदर्शनोपायो योगः’ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते; अतः सम्प्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति – इयमभ्यधिका शङ्कातिदेशेन निवर्त्यते, अर्थैकदेशसम्प्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात्। सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः; सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन च श्रौतेनोपबृंहितौ – ‘तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः’ (श्वे. उ. ६-१३) इति; निराकरणं तु – न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति; श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति – ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३-८) इति; द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः। यत्तु दर्शनमुक्तम् ‘तत्कारणं सांख्ययोगाभिपन्नम्’ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम्। येन त्वंशेन न विरुध्येते, तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम्; तद्यथा – ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते; तथा यौगैरपि ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते। एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि; तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत्, उपकुर्वन्तु नाम; तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति – ‘नावेदविन्मनुते तं बृहन्तम्’ (तै. ब्रा. ३-१२-९-७) ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३-९-२६) इत्येवमादिश्रुतिभ्यः॥३॥

इति योगप्रत्युक्त्यधिकरणम्।

[Go to Contents]

...।
॥५॥

॥६॥ वै.न्या.मा.

न विलक्षणत्वादस्य तथात्वं च शब्दात्॥२.१.४॥

ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः; तर्कनिमित्त इदानीमाक्षेपः परिह्रियते। कुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः? ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति; – भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः; परिनिष्पन्नरूपं तु ब्रह्मावगम्यते; परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु; यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत; दृष्टसाधर्म्येण चादृष्टमर्थं समर्पयन्ती युक्तिरनुभवस्य सन्निकृष्यते, विप्रकृष्यते तु श्रुतिः, ऐतिह्यमात्रेण स्वार्थाभिधानात्; अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते; श्रुतिरपि – ‘श्रोतव्यो मन्तव्यः’ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति; अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ‘न विलक्षणत्वादस्य’ इति॥

यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति, तन्नोपपद्यते। कस्मात्? विलक्षणत्वादस्य विकारस्य प्रकृत्याः – इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते; ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते; न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः; न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुवर्णप्रकृतिकाः; मृदैव तु मृदन्विता विकाराः क्रियन्ते, सुवर्णेन च सुवर्णान्विताः; तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति, न विलक्षणस्य ब्रह्मणः। ब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम्। अशुद्धं हीदं जगत्, सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च। अचेतनं चेदं जगत्, चेतनं प्रति कार्यकरणभावेनोपकरणभावोपगमात्। न हि साम्ये सत्युपकार्योपकारकभावो भवति; न हि प्रदीपौ परस्परस्योपकुरुतः। ननु चेतनमपि कार्यकरणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति। न, स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात्; यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः स एवान्यस्य चेतनस्योपकरोति, न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा; निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते; तस्मादचेतनं कार्यकारणम्। न च काष्ठलोष्टादीनां चेतनत्वे किञ्चित्प्रमाणमस्ति; प्रसिद्धश्चायं चेतनाचेतनविभागो लोके। तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम्। योऽपि कश्चिदाचक्षीत – श्रुत्वा जगतश्चेतनप्रकृतिकताम्, तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि, प्रकृतिरूपस्य विकारेऽन्वयदर्शनात्; अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति; यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते, एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते; एतस्मादेव च विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकरणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते; यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति, एवमिहापि भविष्यति; प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति – तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत; शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते। न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह – तथात्वं च शब्दादिति; अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्ष्यते; तच्च शब्देनैव विरुध्यते, यतः शब्दादपि तथात्वमवगम्यते; तथात्वमिति प्रकृतिविलक्षणत्वं कथयति; शब्द एव ‘विज्ञानं चाविज्ञानं च’ (तै. उ. २-६-१) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति॥४॥

ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते – यथा ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्’ (श. ब्रा. ६-१-३-२-४) इति ‘तत्तेज ऐक्षत’ (छा. उ. ६-२-३) ‘ता आप ऐक्षन्त’ (छा. उ. ६-२-४) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः; इन्द्रियविषयापि – ‘ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः’ (बृ. उ. ६-१-७) इति, ‘ते ह वाचमूचुस्त्वं न उद्गायेति’ (बृ. उ. १-३-२) इत्येवमाद्येन्द्रियविषयेति। अत उत्तरं पठति –

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्॥२.१.५॥

तुशब्द आशङ्कामपनुदति। न खलु ‘मृदब्रवीत्’ इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम्, यतोऽभिमानिव्यपदेश एषः; मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते, न भूतेन्द्रियमात्रम्। कस्मात्? विशेषानुगतिभ्याम् – विशेषो हि भोक्तॄणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः; सर्वचेतनतायां चासौ नोपपद्येत; अपि च कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिंषन्ति – ‘एता ह वै देवता अहंश्रेयसे विवदमानाः’ इति, ‘ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा’ (कौ. उ. २-१४) इति च। अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते – ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. आ. २-४-२-४) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति; प्राणसंवादवाक्यशेषे च – ‘ते ह प्राणाः प्रजापतिं पितरमेत्योचुः’ (छा. उ. ५-१-७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनम्, तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः, ‘तस्मै बलिहरणम्’ (बृ. उ. ६-१-१३) इति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति; ‘तत्तेज ऐक्षत’ इत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम्। तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत्; विलक्षणत्वाच्च न ब्रह्मप्रकृतिकम्॥५॥

इत्याक्षिप्ते, प्रतिविधत्ते –

दृश्यते तु॥२.१.६॥

तुशब्दः पक्षं व्यावर्तयति। यदुक्तम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् इति, नायमेकान्तः; दृश्यते हि लोके – चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम्। नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति। उच्यते – एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम्। महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात्, तथा गोमयादीनां वृश्चिकादीनां च। अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत। अथोच्येत – अस्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां च वृश्चिकादिष्विति। ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते। विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते, उत यस्य कस्यचित्, अथ चैतन्यस्येति वक्तव्यम्। प्रथमे विकल्पे समस्तप्रकृतिविकारभावोच्छेदप्रसङ्गः; न ह्यसत्यतिशये प्रकृतिविकार इति भवति। द्वितीये चासिद्धत्वम्; दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम्। तृतीये तु दृष्टान्ताभावः; किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मकारणवादिनं प्रत्युदाह्रियेत, समस्तस्य वस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात्। आगमविरोधस्तु प्रसिद्ध एव, चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात्। यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि सम्भवेयुरिति, तदपि मनोरथमात्रम्; रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः; लिङ्गाद्यभावाच्च नानुमानादीनाम्; आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत्; तथा च श्रुतिः – ‘नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’ (क. उ. १-२-९) इति; ‘को अद्धा वेद क इह प्रवोचत्’ ‘इयं विसृष्टिर्यत आबभूव’ (ऋ. सं. १-३०-६) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः; स्मृतिरपि भवति – ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ इति, ‘अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’ (भ. गी. २-२५) इति च, ‘न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः’ (भ. गी. १०-२) इति चैवंजातीयका। यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम्, नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः सम्भवति; श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते – स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वम्, सम्प्रसादे च प्रपञ्चपरित्यागेन सदात्मना सम्पत्तेर्निष्प्रपञ्चसदात्मत्वम्, प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेकः – इत्येवंजातीयकः; ‘तर्काप्रतिष्ठानादि’(ब्र. सू. २-१-११) ति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति। योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत, तस्यापि ‘विज्ञानं चाविज्ञानं च’ (तै. उ. २-६-१) इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम्। परस्यैव त्विदमपि विभागश्रवणं न युज्यते। कथम्? परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते – ‘विज्ञानं चाविज्ञानं चाभवत्’ इति; तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात्, एवमचेतनस्यापि चेतनभावो नोपपद्यते। प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्यैव चेतनं कारणं ग्रहीतव्यं भवति॥६॥

असदिति चेन्न प्रतिषेधमात्रत्वात्॥२.१.७॥

यदि चेतनं शुद्धं शब्दादिहीनं च ब्रह्म तद्विपरीतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत, असत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत; अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् – नैष दोषः, प्रतिषेधमात्रत्वात्; प्रतिषेधमात्रं हीदम्; नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति। न ह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति। कथम्? यथैव हीदानीमपीदं कार्यं कारणात्मना सत्, एवं प्रागुत्पत्तेरपीति गम्यते; न हीदानीमपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति – ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २-४-६) इत्यादिश्रवणात्; कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम्। ननु शब्दादिहीनं ब्रह्म जगतः कारणम्। बाढम् – न तु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वा अस्ति; तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति। विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः॥७॥

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्॥२.१.८॥

अत्राह – यदि स्थौल्यसावयवत्त्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणकमभ्युपगम्येत, तदापीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति – अपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपताप्रसङ्गात् सर्वज्ञं ब्रह्म जगतः कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम्। अपि च समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम्। अपि च भोक्तॄणां परेण ब्रह्मणा अविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम्। अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतिश्च न सम्भवति कारणाव्यतिरिक्तं च कार्यं न सम्भवतीत्यसमञ्जसमेवेति॥८॥

अत्रोच्यते –

न तु दृष्टान्तभावात्॥२.१.९॥

नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति। यत्तावदभिहितम् – कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, न तद्दूषणम्। कस्मात्? दृष्टान्तभावात् – सन्ति हि दृष्टान्ताः, यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति; तद्यथा – शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति; रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति; पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति; त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तोऽस्ति; अपीतिरेव हि न सम्भवेत्, यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत। अनन्यत्वेऽपि कार्यकारणयोः, कार्यस्य कारणात्मत्वम्, न तु कारणस्य कार्यात्मत्वम् – ‘आरम्भणशब्दादिभ्यः’ (ब्र. सू. २-१-१४) इति वक्ष्यामः। अत्यल्पं चेदमुच्यते – कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति; स्थितावपि हि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात्; ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २-४-६) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २-२-१२) ‘सर्वं खल्विदं ब्रह्म’ (छा. उ. ३-१४-१) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यते; तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः। अस्ति चायमपरो दृष्टान्तः – यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते, अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यत इति; यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात्, एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते। मायामात्रं ह्येतत्, यत्परमात्मनोऽवस्थात्रयात्मनावभासनम्, रज्ज्वा इव सर्पादिभावेनेति। अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः – ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते। अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (मा. का. १-१६) इति। तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति, एतदयुक्तम्। यत्पुनरेतदुक्तम् – समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति, अयमप्यदोषः, दृष्टान्तभावादेव – यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यति। श्रुतिश्चात्र भवति – ‘इमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति, त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति’ (छा. उ. ६-९-२) (छा. उ. ६-९-३) इति। यथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते। एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात्। यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितः – अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सोऽप्यनभ्युपगमादेव प्रतिषिद्धः। तस्मात्समञ्जसमिदमौपनिषदं दर्शनम्॥९॥

स्वपक्षदोषाच्च॥२.१.१०॥

स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युः। कथमित्युच्यते – यत्तावदभिहितम्, विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति प्रधानप्रकृतिकतायामपि समानमेतत्, शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात्; अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात् समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः; तथापीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समानः; तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेषु, इदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदाः, न ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते, कारणाभावात्; विनैव च कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः; अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केचिन्नेति चेत् – ये नापद्यन्ते, तेषां प्रधानकार्यत्वं न प्राप्नोति; इत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीति अदोषतामेवैषां द्रढयति – अवश्याश्रयितव्यत्वात्॥१०॥

तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः॥२.१.११॥

इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम्; यस्मान्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति, उत्प्रेक्षाया निरङ्कुशत्वात्; तथा हि – कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना दृश्यन्ते; तैरप्युत्प्रेक्षिताः सन्तस्ततोऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुम्, पुरुषमतिवैरूप्यात्। अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य अन्यस्य वा सम्मतस्तर्कः प्रतिष्ठित इत्याश्रीयेत – एवमप्यप्रतिष्ठितत्वमेव, प्रसिद्धमाहात्म्याभिमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात्। अथोच्येत – अन्यथा वयमनुमास्यामहे, यथा नाप्रतिष्ठादोषो भविष्यति; न हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम्; एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते, केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वकल्पनात्; सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः; अतीतवर्तमानाध्वसाम्येन ह्यनागतेऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते; श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते; मनुरपि चैवं मन्यते – ‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्। त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता’ इति ‘आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ (मनु. स्मृ. १२-१०५,१०६) इति च ब्रुवन्। अयमेव च तर्कस्यालङ्कारः – यदप्रतिष्ठितत्वं नाम; एवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति; न हि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम्। तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत् – एवमप्यविमोक्षप्रसङ्गः; यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य; न हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम्; रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम। अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः; तच्च सम्यग्ज्ञानमेकरूपम्, वस्तुतन्त्रत्वात्; एकरूपेण ह्यवस्थितो योऽर्थः स परमार्थः; लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते – यथाग्निरुष्ण इति; तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना; तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः; यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिष्ठापितम्, तदपरेण व्युत्थाप्यते; तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति च प्रसिद्धं लोके; कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत्; न च प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकैः परिगृहीतः, येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि; न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुम्, येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात्; वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेः, तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम्; अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम्; अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत। अत आगमवशेन आगमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम्॥११॥

इति नविलक्षणत्वाधिकरणम्।

[Go to Contents]

...।
॥७॥

॥८॥ वै.न्या.मा.

एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥२.१.१२॥

वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्टैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः, स परिहृतः; इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति – परिगृह्यन्त इति परिग्रहाः; न परिग्रहाः अपरिग्रहाः; शिष्टानामपरिग्रहाः शिष्टापरिग्रहाः; एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन; शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादाः, तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः; तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्ति; तुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वम्, तर्कस्य चाप्रतिष्ठितत्वम्, अन्यथानुमानेऽप्यविमोक्षः, आगमविरोधश्च – इत्येवंजातीयकं निराकरणकारणम्॥१२॥

इति शिष्टापरिग्रहाधिकरणम्।

[Go to Contents]

...।
॥९॥

॥१०॥ वै.न्या.मा.

भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्॥२.१.१३॥

अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते। यद्यपि श्रुतिः प्रमाणं स्वविषये भवति, तथापि प्रमाणान्तरेण विषयापहारेऽन्यपरा भवितुमर्हति, यथा मन्त्रार्थवादौ; तर्कोऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात्, यथा धर्माधर्मयोः। किमतः, यद्येवम्? अत इदमयुक्तम्, यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः। कथं पुनः प्रमाणान्तरप्रसिद्धोऽर्थः श्रुत्या बाध्यत इति। अत्रोच्यते – प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके – भोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इति; यथा भोक्ता देवदत्तः, भोग्य ओदन इति; तस्य च विभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृभावमापद्येत; तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणोऽनन्यत्वात्प्रसज्येत; न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम्; यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टः, तथातीतानागतयोरपि कल्पयितव्यः; तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत्, तं प्रति ब्रूयात् – स्याल्लोकवदिति। उपपद्यत एवायमस्मत्पक्षेऽपि विभागः, एवं लोके दृष्टत्वात्। तथा हि – समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते; न च समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति; न च तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवति; एवमिहापि – न भोक्तृभोग्ययोरितरेतरभावापत्तिः, न च परस्माद्ब्रह्मणोऽन्यत्वं भविष्यति। यद्यपि भोक्ता न ब्रह्मणो विकारः ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २-६-१) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्तः – इत्यतः, परमकारणाद्ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम्॥१३॥

इति भोक्त्रापत्त्यधिकरणम्।

[Go to Contents]

...।
॥११॥

॥१२॥ वै.न्या.मा.

तदनन्यत्वमारम्भणशब्दादिभ्यः॥२.१.१४॥

अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम् ‘स्याल्लोकवत्’ इति परिहारोऽभिहितः; न त्वयं विभागः परमार्थतोऽस्ति, यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते। कार्यमाकाशादिकं बहुप्रपञ्चं जगत्; कारणं परं ब्रह्म; तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते। कुतः? आरम्भणशब्दादिभ्यः। आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते – ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६-१-४) इति; एतदुक्तं भवति – एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत्; यतो वाचारम्भणं विकारो नामधेयम् – वाचैव केवलमस्तीत्यारभ्यते – विकारः घटः शराव उदञ्चनं चेति; न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति; नामधेयमात्रं ह्येतदनृतम्; मृत्तिकेत्येव सत्यम् – इति एष ब्रह्मणो दृष्टान्त आम्नातः; तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते। पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति – ‘अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’ (छा. उ. ६-४-१) इत्यादिना। आरम्भणशब्दादिभ्य इत्यादिशब्दात् ‘ऐतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि’ (छा. उ. ६-८-७) ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २-४-६) ‘ब्रह्मैवेदं सर्वम्’ (मु. उ. २-२-११) ‘आत्मैवेदꣳ सर्वम्’ (छा. उ. ७-२५-२) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४-४-१९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम्; न चान्यथा एकविज्ञानेन सर्वविज्ञानं सम्पद्यते। तस्माद्यथा घटकरकाद्याकाशानां महाकाशादनन्यत्वम्, यथा च मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम्, दृष्टनष्टस्वरूपत्वात् स्वरूपेणानुपाख्यत्वात्; एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम्॥

नन्वनेकात्मकं ब्रह्म; यथा वृक्षोऽनेकशाखः, एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म; अत एकत्वं नानात्वं चोभयमपि सत्यमेव – यथा वृक्ष इत्येकत्वं शाखा इति च नानात्वम्; यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम्, यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम्; तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति; नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति; एवं च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति। नैवं स्यात् – ‘मृत्तिकेत्येव सत्यम्’ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात्, वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात्, दार्ष्टान्तिकेऽपि ‘ऐतदात्म्यमिदꣳ सर्वं तत्सत्यम्’ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात्, ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति च शारीरस्य ब्रह्मभावोपदेशात्; स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मात्मत्वमुपदिश्यते, न यत्नान्तरप्रसाध्यम्; अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं सम्पद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम्; बाधिते च शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशोऽपरो ब्रह्मणः कल्प्येत; दर्शयति च – ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४-५-१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम्; न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयते इति युक्तं वक्तुम्, ‘तत्त्वमसि’ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात्; तस्करदृष्टान्तेन चानृताभिसन्धस्य बन्धनं सत्याभिसन्धस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति, मिथ्याज्ञानविजृम्भितं च नानात्वम्। उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसन्ध इत्युच्येत। ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४-४-१९) इति च भेददृष्टिमपवदन्नेतदेव दर्शयति। न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात्; उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते। नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्, निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि; तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत; मोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्याघातः स्यात्; कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति। अत्रोच्यते – नैष दोषः, सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः स्वप्नव्यवहारस्येव प्राक्प्रबोधात्; यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते; विकारानेव तु ‘अहम्’ ‘मम’ इत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा; तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः – यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत्। कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत? न हि रज्जुसर्पेण दष्टो म्रियते; नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति। नैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात्। तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात्, अत्र ब्रूमः – यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम्, तथापि तदवगतिः सत्यमेव फलम्, प्रतिबुद्धस्याप्यबाध्यमानत्वात्; न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित्। एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः। तथा च श्रुतिः – ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५-२-९) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्राप्तिं दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ‘न चिरमिव जीविष्यतीति विद्यात्’ इत्युक्त्वा ‘अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यमरणं सूच्यत इति दर्शयति; प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति; तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः। अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् – नातःपरं किञ्चिदाकाङ्क्ष्यमस्ति; यथा हि लोके यजेतेत्युक्ते, किं केन कथम् इत्याकाङ्क्ष्यते; नैवं ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्युक्ते, किञ्चिदन्यदाकाङ्क्ष्यमस्ति – सर्वात्मैकत्वविषयत्वावगतेः; सति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात्; न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति, य आकाङ्क्ष्येत। न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम्, ‘तद्धास्य विजज्ञौ’ (छा. उ. ६-१६-३) इत्यादिश्रुतिभ्यः, अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधीयमानत्वात्। न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम्; अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च। प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम। तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्रह्मकल्पनावकाशोऽस्ति। ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते; परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति। नेत्युच्यते – ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४-४-२५) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३-९-२६) ‘अस्थूलमनणु’ (बृ. उ. ३-८-८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यः ब्रह्मणः कूटस्थत्वावगमात्; न ह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम्। स्थितिगतिवत्स्यादिति चेत्, न; कूटस्थस्येति विशेषणात्; न हि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं सम्भवति; कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम। न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम्, एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात्; कूटस्थब्रह्मात्मैकत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् – ‘स एष नेति नेत्यात्मा’ इत्युपक्रम्य ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४-२-४) इत्येवंजातीयकम्। तत्रैतत्सिद्धं भवति – ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्याम्, यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि, तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्सन्निधावफलं तदङ्गमितिवत्; न तु स्वतन्त्रं फलाय कल्प्यत इति। न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम्, कूटस्थनित्यत्वान्मोक्षस्य। ननु कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत्, न; अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य। ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २-१-१) इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः, चेतनात्प्रधानादन्यस्माद्वा – इत्येषोऽर्थः प्रतिज्ञातः – ‘जन्माद्यस्य यतः’ (ब्र. सू. १-१-२) इति; सा प्रतिज्ञा तदवस्थैव, न तद्विरुद्धोऽर्थः पुनरिहोच्यते। कथं नोच्यते, अत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता? शृणु यथा नोच्यते – सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते; ताभ्यामन्यः सर्वज्ञ ईश्वरः, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८-१४-१) इति श्रुतेः, ‘नामरूपे व्याकरवाणि’ (छा. उ. ६-३-२) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३-१२-७) ‘एकं बीजं बहुधा यः करोति’ (श्वे. उ. ६-१२) इत्यादिश्रुतिभ्यश्च; एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि; स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये; तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च, न परमार्थतो विद्यया अपास्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते; तथा चोक्तम् – ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (छा. उ. ७-२४-१) इति; ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४-५-१५) इत्यादि च; एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे; तथेश्वरगीतास्वपि – ‘न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते’ (भ. गी. ५-१४)॥‘नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५-१५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते; व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः – ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ (बृ. उ. ४-४-२२) इति; तथा चेश्वरगीतास्वपि – ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८-६१) इति; सूत्रकारोऽपि परमार्थाभिप्रायेण ‘तदनन्यत्वम्’ इत्याह; व्यवहाराभिप्रायेण तु ‘स्याल्लोकवत्’ इति महासमुद्रस्थानीयतां ब्रह्मणः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणेषूपासनेषूपयोक्ष्यत इति॥१४॥

भावे चोपलब्धेः॥२.१.१५॥

इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे; तद्यथा – सत्यां मृदि घट उपलभ्यते, सत्सु च तन्तुषु पटः; न च नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा; न ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते; न च कुलालभाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात्। नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति; नेत्युच्यते – उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात्। अथ धूमं कयाचिदवस्थया विशिंष्यात् – ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषः; तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः; न चासावग्निधूमयोर्विद्यते। भावाच्चोपलब्धेः – इति वा सूत्रम्। न केवलं शब्दादेव कार्यकारणयोरनन्यत्वम्, प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः; भवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे; तद्यथा – तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाः। अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम्, ततः परं ब्रह्मैकमेवाद्वितीयम्; तत्र सर्वप्रमाणानां निष्ठामवोचाम॥१५॥

सत्त्वाच्चावरस्य॥२.१.१६॥

इतश्च कारणात्कार्यस्यानन्यत्वम्, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते – ‘सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६-२-१) ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. आ. १-१-१) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात्; यच्च यदात्मना यत्र न वर्तते, न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम्; तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते। यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति। एकं च पुनः सत्त्वम्; अतोऽप्यनन्यत्वं कारणात्कार्यस्य॥१६॥

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्॥२.१.१७॥

ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः – ‘असदेवेदमग्र आसीत्’ (छा. उ. ३-१९-१) इति, ‘असद्वा इदमग्र आसीत्’ (तै. उ. २-७-१) इति च; तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् – नेति ब्रूमः; न ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः – किं तर्हि? – व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम्, तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य। कथमेतदवगम्यते? वाक्यशेषात्। यदुपक्रमे सन्दिग्धार्थं वाक्यं तच्छेषान्निश्चीयते; इह च तावत् ‘असदेवेदमग्र आसीत्’ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्, तदेव पुनस्तच्छब्देन परामृश्य, सदिति विशिनष्टि – ‘तत्सदासीत्’ इति – असतश्च पूर्वापरकालासम्बन्धात् आसीच्छब्दानुपपत्तेश्च; ‘असद्वा इदमग्र आसीत्’ (तै. उ. २-७-१) इत्यत्रापि ‘तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २-७-१) इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम्; तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य; नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम्; अतः प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते॥२७॥

युक्तेः शब्दान्तराच्च॥२.१.१८॥

युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च॥

युक्तिस्तावद्वर्ण्यते – दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते; न हि दध्यर्थिभिर्मृत्तिकोपादीयते, न घटार्थिभिः क्षीरम्; तदसत्कार्यवादे नोपपद्येत। अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते, न मृत्तिकायाः, मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात्? अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम्, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे – इत्युच्येत – तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः, सत्कार्यवादसिद्धिश्च; शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत्, असत्त्वाविशेषादन्यत्वाविशेषाच्च; तस्मात्कारणस्यात्मभूता शक्तिः, शक्तेश्चात्मभूतं कार्यम्। अपि च कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम्। समवायकल्पनायामपि, समवायस्य समवायिभिः सम्बन्धेऽभ्युपगम्यमाने, तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः, अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः; अथ समवायः स्वयं सम्बन्धरूपत्वादनपेक्ष्यैवापरं सम्बन्धं सम्बध्येत, संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत; तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम्। कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तेत? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम्? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात्; न हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते; अथावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन्, यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत; कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति; अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात्; अथ प्रत्यवयवं वर्तेत, तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात्; न हि देवदत्तः स्रुघ्ने सन्निधीयमानस्तदहरेव पाटलिपुत्रेऽपि सन्निधीयते; युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात्, देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः; गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत्, न; तथा प्रतीत्यभावात्; यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात्, यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत; न चैवं नियतं गृह्यते; प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्, तस्य चैकत्वात्, शृङ्गेणापि स्तनकार्यं कुर्यात्, उरसा च पृष्ठकार्यम्; न चैवं दृश्यते। प्रागुत्पत्तेश्च कार्यस्यासत्त्वे, उत्पत्तिरकर्तृका निरात्मिका च स्यात्; उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत्; क्रिया च नाम स्यात्, अकर्तृका च – इति विप्रतिषिध्येत; घटस्य चोत्पत्तिरुच्यमाना न घटकर्तृका – किं तर्हि? – अन्यकर्तृका – इति कल्प्या स्यात्; तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत; तथा च सति ‘घट उत्पद्यते’ इत्युक्ते, ‘कुलालादीनि कारणान्युत्पद्यन्ते’ इत्युक्तं स्यात्; न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते, उत्पन्नताप्रतीतेश्च; अथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत् – कथमलब्धात्मकं सम्बध्येतेति वक्तव्यम्; सतोर्हि द्वयोः सम्बन्धः सम्भवति, न सदसतोरसतोर्वा; अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम्; सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य; न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रः – राजा बभूव भवति भविष्यतीति वा – विशेष्यते; यदि च वन्ध्यापुत्रोऽपि कारकव्यापारादूर्ध्वमभविष्यत्, तत इदमप्युपापत्स्यत – कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति; वयं तु पश्यामः – वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात्, यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यति, एवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति। नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत; यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते, एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत; व्याप्रियते च; अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभावः कार्यस्येति चेत्, नैष दोषः; यतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते; कार्याकारोऽपि कारणस्यात्मभूत एव, अनात्मभूतस्यानारभ्यत्वात् – इत्यभाणि; न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति; न हि देवदत्तः सङ्कोचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात्; तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात्; जन्मोच्छेदानन्तरितत्वात्तत्र युक्तम्, नान्यत्रेति चेत्, न; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात्; अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा; तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा; तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वापत्तिः, सतश्चासत्त्वापत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः; तथा बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च। एतेन क्षणभङ्गवादः प्रतिवदितव्यः। यस्य तु पुनः प्रागुत्पत्तेरसत्कार्यम्, तस्य निर्विषयः कारकव्यापारः स्यात्, अभावस्य विषयत्वानुपपत्तेः – आकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत्; समवायिकारणविषयः कारकव्यापारः स्यादिति चेत्, न; अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात्; समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत्, न; सत्कार्यतापत्तेः। तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं कल्पयितुम्। तथा मूलकारणमेव आ अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते। एवं युक्तेः, कार्यस्य प्रागुत्पत्तेः सत्त्वम्, अनन्यत्वं च कारणात्, अवगम्यते॥

शब्दान्तराच्चैतदवगम्यते – पूर्वसूत्रेऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम् – ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६-२-१) इत्यादि। ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इति चासत्पक्षमुपक्षिप्य, ‘कथमसतः सज्जायेत’ इत्याक्षिप्य, ‘सदेव सोम्येदमग्र आसीत्’ इत्यवधारयति; तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्, सत्त्वानन्यत्वे प्रसिध्यतः। यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्, पश्चाच्चोत्पद्यमानं कारणे समवेयात्, तदान्यत्कारणात्स्यात्, तत्र ‘येनाश्रुतꣳ श्रुतं भवति’ (छा. उ. ६-१-३) इतीयं प्रतिज्ञा पीड्येत; सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते॥१८॥

पटवच्च॥२.१.१९॥

यथा च संवेष्टितः पटो न व्यक्तं गृह्यते – किमयं पटः, किं वान्यद्द्रव्यमिति; स एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते। यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते; स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते – न संवेष्टितरूपादन्योऽयं भिन्नः पट इति, एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत्, तुरीवेमकुविन्दादिकारकव्यापाराभिव्यक्तं स्पष्टं गृह्यते। अतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः॥१९॥

यथा च प्राणादि॥२.१.२०॥

यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते, नाकुञ्चनप्रसारणादिकं कार्यान्तरम्; तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते; न च प्राणभेदानां प्रभेदवतः प्राणादन्यत्वम्, समीरणस्वभावाविशेषात् – एवं कार्यस्य कारणादनन्यत्वम्। अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा – ‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६-१-१) इति॥२०॥

इति आरम्भणाधिकरणम्।

[Go to Contents]

...।
॥१३॥

॥१४॥ वै.न्या.मा.

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥२.१.२१॥

अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते – चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते। कुतः? इतरव्यपदेशात्। इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः – ‘स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६-८-७) इति प्रतिबोधनात्; यद्वा – इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति – ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २-६-१) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात्; ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६-३-२) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती, न ब्रह्मणो भिन्नः शारीर इति दर्शयति; तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति। अतस्सः स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात्, नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम्; न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति; न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात्; कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात्; सुखकरं चोपाददीत; स्मरेच्च – मयेदं जगद्बिम्बं विचित्रं विरचितमिति; सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति – मयेदं कृतमिति; यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत्; स्वकीयमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम्; एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते॥२१॥

अधिकं तु भेदनिर्देशात्॥२.१.२२॥

तुशब्दः पक्षं व्यावर्तयति। यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तत् वयं जगतः स्रष्टृ ब्रूमः; न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते; न हि तस्य हितं किञ्चित्कर्तव्यमस्ति, अहितं वा परिहर्तव्यम्, नित्यमुक्तस्वभावत्वात्; न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च। शारीरस्त्वनेवंविधः; तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः; न तु तं वयं जगतः स्रष्टारं ब्रूमः। कुत एतत्? भेदनिर्देशात् – ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २-४-५) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८-७-१) ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६-८-१) ‘शारीर आत्मा प्राज्ञेनात्मनान्वारूढः’ (बृ. उ. ४-३-३५) इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति। नन्वभेदनिर्देशोऽपि दर्शितः – ‘तत्त्वमसि’ इत्येवंजातीयकः; कथं भेदाभेदौ विरुद्धौ सम्भवतः? नैष दोषः, महाकाशघटाकाशन्यायेनोभयसम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात्। अपि च यदा ‘तत्त्वमसि’ इत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति; अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम्, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात्; तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः। अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारः, न तु परमार्थतोऽस्तीत्यसकृदवोचाम – जन्ममरणच्छेदनभेदनाद्यभिमानवत्; अबाधिते तु भेदव्यवहारे ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि॥२२॥

अश्मादिवच्च तदनुपपत्तिः॥२.१.२३॥

यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयः, अन्ये मध्यमवीर्याः सूर्यकान्तादयः, अन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणाः – इत्यनेकविधं वैचित्र्‌यं दृश्यते; यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्‌यं चन्दनकिंपाकचम्पकादिषूपलक्ष्यते; यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति – एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, परपरिकल्पितदोषानुपपत्तिरित्यर्थः। श्रुतेश्च प्रामाण्यात्, विकारस्य च वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्च – इत्यभ्युच्चयः॥२३॥

इति इतरव्यपदेशाधिकरणम्।

[Go to Contents]

...।
॥१५॥

॥१६॥ वै.न्या.मा.

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि॥२.१.२४॥

चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तम्, तन्नोपपद्यते। कस्मात्? उपसंहारदर्शनात्। इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्रसलिलाद्यनेककारकोपसंहारेण सङ्गृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते। ब्रह्म चासहायं तवाभिप्रेतम्; तस्य साधनान्तरानुपसङ्ग्रहे सति कथं स्रष्टृत्वमुपपद्येत? तस्मान्न ब्रह्म जगत्कारणमिति चेत्, नैष दोषः; यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते – यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनम्, तथेहापि भविष्यति। ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साधनमौष्ण्यादिकम्; कथमुच्यते ‘क्षीरवद्धि’ इति? नैष दोषः; स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय; यदि च स्वयं दधिभावशीलता न स्यात्, नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत; न हि वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यते; साधनसामग्र्या च तस्य पूर्णता सम्पाद्यते; परिपूर्णशक्तिकं तु ब्रह्म; न तस्यान्येन केनचित्पूर्णता सम्पादयितव्या; श्रुतिश्च भवति – ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ (श्वे. उ. ६-८) इति। तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात् क्षीरादिवद्विचित्रपरिणाम उपपद्यते॥२४॥

देवादिवदपि लोके॥२.१.२५

स्यादेतत् – उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात्; चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते; कथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेति – देवादिवदिति ब्रूमः – यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात्; तन्तुनाभश्च स्वत एव तन्तून्सृजति; बलाका चान्तरेणैव शुक्रं गर्भं धत्ते; पद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते – एवं चेतनमति ब्रह्म अनपेक्ष्यैव बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति। स यदि ब्रूयात् – य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा न समाना भवन्ति; शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम्, न तु चेतन आत्मा; तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति; बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते; पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति, वल्लीव वृक्षम्, न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते; तस्मान्नैते ब्रह्मणो दृष्टान्ता इति – तं प्रति ब्रूयात् – नायं दोषः; कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति – यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते, न देवादयः; तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः। तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः॥२५॥

इति उपसंहारदर्शनाधिकरणम्।

[Go to Contents]

...।
॥१७॥

॥१८॥ वै.न्या.मा.

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा॥२.१.२६॥

चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम्; शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति। कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति, निरवयवत्वात् – यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत्, ततोऽस्यैकदेशः पर्यणंस्यत्, एकदेशश्चावास्थास्यत; निरवयवं तु ब्रह्म श्रुतिभ्योऽवगम्यते – ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६-१९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २-१-२) ‘इदं महद्भूतमनन्तमपारं विज्ञानघन एव’ (बृ. उ. २-४-२) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३-९-२६) ‘अस्थूलमनणु’ (बृ. उ. ३-८-८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः; ततश्चैकदेशपरिणामासम्भवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत; द्रष्टव्यतोपदेशानर्थक्यं च आपद्येत, अयत्नदृष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणोऽसम्भवात्; अजत्वादिशब्दव्याकोपश्च। अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत, तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुः; सावयवत्वे चानित्यत्वप्रसङ्ग इति – सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति॥२६॥

श्रुतेस्तु शब्दमूलत्वात्॥२.१.२७॥

तुशब्देनाक्षेपं परिहरति। न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति। न तावत्कृत्स्नप्रसक्तिरस्ति। कुतः? श्रुतेः – यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते, एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते – प्रकृतिविकारयोर्भेदेन व्यपदेशात् ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६-३-२) इति, ‘तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः। पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३-१२-६) इति चैवंजातीयकात्; तथा हृदयायतनत्ववचनात्; सत्सम्पत्तिवचनाच्च – यदि च कृत्स्नं ब्रह्म कार्यभावेनोपयुक्तं स्यात्, ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६-८-१) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात्, विकृतेन ब्रह्मणा नित्यसम्पन्नत्वादविकृतस्य च ब्रह्मणोऽभावात्; तथेन्द्रियगोचरत्वप्रतिषेधात् ब्रह्मणो, विकारस्य चेन्द्रियगोचरत्वोपपत्तेः; तस्मादस्त्यविकृतं ब्रह्म। न च निरवयवत्वशब्दकोपोऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात्; शब्दमूलं च ब्रह्म शब्दप्रमाणकम्, नेन्द्रियादिप्रमाणकम्; तद्यथाशब्दमभ्युपगन्तव्यम्; शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयति – अकृत्स्नप्रसक्तिं निरवयवत्वं च; लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते; ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते – अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति; किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत; तथा चाहुः पौराणिकाः – ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्। प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्’ इति। तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः। ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् – निरवयवं च ब्रह्म परिणमते न च कृत्स्नमिति; यदि निरवयवं ब्रह्म स्यात्, नैव परिणमेत, कृत्स्नमेव वा परिणमेत; अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति, रूपभेदकल्पनात्सावयवमेव प्रसज्येत; क्रियाविषये हि ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाति’ इत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति, पुरुषतन्त्रत्वाच्चानुष्ठानस्य; इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः सम्भवति, अपुरुषतन्त्रत्वाद्वस्तुनः; तस्माद्दुर्घटमेतदिति। नैष दोषः, अविद्याकल्पितरूपभेदाभ्युपगमात्। न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते; न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति; अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते; पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते, वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य – इति न निरवयवत्वं ब्रह्मणः कुप्यति; न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात्; सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिपत्तौ फलावगमात्; ‘स एष नेति नेत्यात्मा’ इत्युपक्रम्याह ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४-२-४) इति; तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति॥२७॥

आत्मनि चैवं विचित्राश्च हि॥२.१.२८॥

अपि च नैवात्र विवदितव्यम् – कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति; यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते – ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते’ (बृ. उ. ४-३-१०) इत्यादिना; लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते; तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति॥२८॥

॥२.१.२९॥

परेषामप्येष समानः स्वपक्षे दोषः – प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः; तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति, निरवयवत्वाभ्युपगमकोपो वा। ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते; सत्त्वरजस्तमांसि हि त्रयो गुणाः; तेषां साम्यावस्था प्रधानम्; तैरेवावयवैस्तत्सावयवमिति – नैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते, यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति – समानत्वात्स्वपक्षदोषप्रसङ्गस्य। तर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत् – एवमप्यनित्यत्वादिदोषप्रसङ्गः। अथ शक्तय एव कार्यवैचित्र्‌यसूचिता अवयवा इत्यभिप्रायः, तास्तु ब्रह्मवादिनोऽप्यविशिष्टाः। तथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्न्येन संयुज्येत, ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः; अथैकदेशेन संयुज्येत, तथापि निरवयवत्वाभ्युपगमकोप इति – स्वपक्षेऽपि समान एष दोषः। समानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्यो भवति। परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः॥२९॥

इति कृत्स्नप्रसक्त्यधिकरणम्।

[Go to Contents]

...।
॥१९॥

॥२०॥ वै.न्या.मा.

सर्वोपेता च तद्दर्शनात्॥२.१.३०॥

एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम्; तत्पुनः कथमवगम्यते – विचित्रशक्तियुक्तं परं ब्रह्मेति; तदुच्यते – सर्वोपेता च तद्दर्शनात्। सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम्। कुतः? तद्दर्शनात्। तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः – ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः’ (छा. उ. ३-४-४) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८-७-१) ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १-१-९) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३-८-९) इत्येवंजातीयका॥३०॥

विकरणत्वान्नेति चेत्तदुक्तम्॥२.१.३१॥

स्यादेतत् – विकरणां परां देवतां शास्ति शास्त्रम् – ‘अचक्षुष्कमश्रोत्रमवागमनाः’ (बृ. उ. ३-८-८) इत्येवंजातीयकम्। कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत्? देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसम्पन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते; कथं च ‘नेति नेति’ (बृ. उ. ३-९-२६) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः सम्भवेत्, इति चेत् – यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम्; श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम्; न च यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति। प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव। तथा च शास्त्रम् – ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३-१९) इत्यकरणस्यपि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति॥३१॥

इति सर्वोपेताधिकरणम्।

[Go to Contents]

...।
॥२१॥

॥२२॥ वै.न्या.मा.

न प्रयोजनवत्त्वात्॥२.१.३२॥

अन्यथा पुनश्चेतनकर्तृकत्वं जगत आक्षिपति – न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति। कुतः? प्रयोजनवत्त्वात्प्रवृत्तीनाम्। चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः, किमुत गुरुतरसंरम्भाम्; भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः – ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २-४-५) इति; गुरुतरसंरम्भा चेयं प्रवृत्तिः – यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम्; यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत, परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत; प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात्; अथ चेतनोऽपि सन् उन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टः, तथा परमात्मापि प्रवर्तिष्यते इत्युच्येत – तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत; तस्मादश्लिष्टा चेतनात्सृष्टिरिति॥३२॥

लोकवत्तु लीलाकैवल्यम्॥२.१.३३॥

तुशब्देनाक्षेपं परिहरति; यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमनभिसन्धाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति; यथा चोच्छ्वासप्रश्वासादयोऽनभिसन्धाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव सम्भवन्ति; एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति; न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति; न च स्वभावः पर्यनुयोक्तुं शक्यते। यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति,