Sorry, your browser does not support JavaScript!
Go
Top
श्रीमद्-भगवद्-गीता with शङ्कर-भाष्यम्

Ch01 Ch02 Ch03 Ch04 Ch05 Ch06 Ch07 Ch08 Ch09 Ch10 Ch11 Ch12 Ch13 Ch14 Ch15 Ch16 Ch17 Ch18

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Bhagavad-Gītā is a part of the Mahā-Bhārata, attributed to Śrī Veda-Vyāsa. It is a report of a dialogue between Bhagavān Śrī Kṛṣṇa and Śrī Arjuna.

ओम्, पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराण-मुनिना मध्ये-महा-भारतम्।
अद्वैतामृत-वर्षिणीं भगवतीम् अष्टा-दशाध्यायिनीम्
अब्म त्वाम् अनुसन्दधामि भगवद्-गीते भव-द्वेषिणीम्॥GD.1॥ (jump to GD.9)

Om; pārtha, pratibodhitā, bhagavat, nāra-ayaṇa, svayam;
vyāsa, grathitā, purāṇa-munin, madhye-mahā-bhārata.
a-dvaita-a-mṛta-varṣinī, bhagavatī, aṣṭā-daśa-adhyāyinī;
ambā, yuṣmad, anu-sam-√dhā, bhagavat-gītā, bhava-dveṣiṇī.

ओम्, अम्ब भगवद्-गीते, त्वां पुराण-मुनिना व्यासेन मध्ये-महा-भारतं ग्रथिताम् अष्टा-दश-अध्यायिनीं, भगवतीं भगवता नार-अयणेन स्वयं पार्थाय प्रतिबोधिताम्, अद्वैत-अ-मृत-वर्षिणीं भव-द्वेषिणीम् [अहम्] अनुसन्दधामि॥

नमोऽस्तु ते व्यास विशाल-बुद्धे फुल्लारविन्दायत-पत्र-नेत्र।
येन त्वया भारत-तैल-पूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥GD.2

namas, √as, yuṣmad, vyāsa, viśāla-buddhi, phulla-ara-vinda-āyata-patra-netra;
yad, yuṣmad, bhārata-taila-pūrṇa, prajvālita, jñānamaya, pradīpa.

विशाल-बुद्धे फुल्ल-अर-विन्द-आयत-पत्र-नेत्र व्यास, येन त्वया भारत-तैल-पूर्णः ज्ञानमयः प्रदीपः प्रज्वालितः, ते [=तुभ्यं] नमस् अस्तु॥

प्रपन्न-पारिजाताय तोत्त्र-वेत्रैक-पाणये।
ज्ञान-मुद्राय कृष्णाय गीतामृत-दुहे नमः॥GD.3

prapanna-pārijāta, tottra-vetra-eka-pāṇi;
jñāna-mudra, kṛṣṇa, gītā-a-mṛta-duh, namas.

कृष्णाय प्रपन्न-पारिजाताय तोत्त्र-वेत्र-एक-पाणये ज्ञान-मुद्राय गीता-अ-मृत-दुहे [तुभ्यं] नमस्॥

सर्वोपनिषदो गावो दोग्धा गो-पाल-नन्दनः।
पार्थो वत्सः सु-धीर् भोक्ता दुग्धं गीतामृतं महत्॥GD.4

sarva-upaniṣad, go, dogdhṛ, go-pāla-nandana;
pārtha, vatsa, su-dhī, bhoktṛ, dugdha, gītā-a-mṛta, mahat.

सर्व-उपनिषदः गावः। गो-पाल-नन्दनः [=कृष्णः] दोग्धा। सु-धीः पार्थः [=अर्जुनः] वत्सः महत् गीत-अ-मृतं दुग्धं भोक्ता॥

वसु-देव-सुतं देवं कंस-चाणूर-मर्दनम्।
देवकी-परमानन्दं कृष्णं वन्दे जगद्-गुरुम्॥GD.5

vasu-deva-suta, deva, kaṃsa-cāṇūra-mardana;
devakī-parama-ānanda, kṛṣṇa, √vand, jagat-guru.

वसु-देव-सुतं कंस-चाणूर-मर्दनं देवकी-परम-आनन्दं जगद्-गुरुं देवं कृष्णं वन्दे॥

भीष्म-द्रोण-तटा जयद्-रथ-जला गान्धार-नीलोत्पला
शल्य-ग्राहवती कृपेण वहनी कर्णेन वेला-कुला।
अश्व-त्थाम-विकर्ण-घोर-मकरा दुर्-योधनावर्त्तिनी
सोत्तीर्णा खलु पाण्डवै रण-नदी कै-वर्त्तकः केशवः॥GD.6

bhīṣma-droṇa-taṭā, jayat-ratha-jalā, gāndhāra-nīla-utpalā;
śalya-grāhavatī, kṛpa, vahanī, karṇa, velā-kulā.
aśva-tthāma-vikarṇa-makarā, dus-yodhana-āvarttinī;
tad, uttīrṇā, khalu, pāṇḍava, raṇa-nadī, kai-vartaka, keśava.

भीष्म-द्रोण-तटा, जयद्-रथ-जला, गान्धार-नील-उत्पला, शल्य-ग्राहवती, कृपेण वहनी, कर्णेन वेला-कुला, अश्व-त्थाम-विकर्ण-घोर-मकरा, दुर्-योधन-आवर्त्तिनी – सा रण-नदी पाण्डवैः खलु उत्तीर्णा, कै-वर्त्तकः केशवः [सन्]॥

पारा-शर्य-वचः-सरो-जम् अमलं गीतार्थ-गन्धोत्कटं
नानाख्यानक-केसरं हरि-कथा-सम्बोधनाबोधितम्।
लोके सज्-जन-षट्-पदैर् अहर्-अहः पेपीयमानं मुदा
भूयाद् भारत-पङ्क-जं कलि-मल-प्रध्वंसि नः श्रेयसे॥GD.7

pārā-śarya-vacas-saro-ja, a-mala, gītā-artha-gandha-utkaṭa;
nānā-ākhyānaka-kesara, hari-kathā-sambodhana-ābodhita.
loka, sat-jana-ṣaṣ-pada, ahar-ahan, pepīyamāna, mud;
√bhū, bhārata-paṅka-ja, kali-mala-pradhvaṃsin, asmad, śreyas.

पारा-शर्य-वचः-सरो-जं, गीता-अर्थ-गन्ध-उत्कटं, नाना-ख्यानक-केसरं, हरि-कथा-सम्बोधन-आबोधितं, लोके सज्-जन-षट्-पदैर् अहर्-अहः पेपीयमानं, कलि-मल-प्रध्वंसि अ-मलं, भारत-पङ्क-जं नः श्रेयसे भूयाद्॥

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्।
यत्-कृपा तम् अहं वन्दे परमानन्द-माधवम्॥GD.8

mūka, √kṛ, vācāla, paṅgu, √laṅgh, giri;
yad-kṛpā, tad, asmad, √vand, parama-ānanda-mādhava.

यत्-कृपा मूकं वाचालं करोति, पङ्गुं गिरिं लङ्घयते, तं परम-आनन्द-माधवम् अहं वन्दे॥

यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः॥GD.9

yad, brahman, varuṇa-indra-rudra-marut, √stu, divya, stava;
veda, sā-aṅga-pada-krama-upaniṣada, √gai, yad, sāma-gā.
dhyāna-avasthita-tad-gata, manas, √dṛś, yad, yogin;
yad, anta, na, √vid, sura-asura-gaṇa, deva, tad, namas.

ब्रह्मा वरुण-इन्द्र-रुद्र-मरुतः [च] दिव्यैः स्तवैः यं स्तुन्वन्ति, साम-गाः वेदैः सा-अङ्ग-पद-क्रम-उपनिषदैः यं गायन्ति, योगिनः ध्यान-अवस्थित-तद्-गतेन मनसा यं पश्यन्ति, सुर-असुर-गणाः यस्य अन्तं न विदुः – तस्मै देवाय नमस्॥

ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.

नारायणः परोऽव्यक्ताद् अण्डम् अव्यक्त-संभवम्।
अण्डस्यान्तस् त्व् इमे लोकाः सप्त-द्वीपा च मेदिनी॥१॥ (BrAPur)

स भगवान् सृष्ट्वेदं जगत्, तस्य च स्थितिं चिकीर्षुर्, मरीच्यादीन् अग्रे सृष्ट्वा प्रजा-पतीन्, प्रवृत्ति-लक्षणं धर्मं ग्राहयामास वेदोक्तम्।
ततोऽन्यांश् च सनक-स-नन्दनादीन् उत्पाद्य, निवृत्ति-लक्षणं धर्मं ज्ञान-वैराग्य-लक्षणं ग्राहयामास।
द्वि-विधो हि वेदोक्तो धर्मः, प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च।
(तत्रैको) जगतः स्थिति-कारणम्। प्राणिनां साक्षाद्-अभ्युदय-निःश्रेयस-हेतुर् यः स धर्मः ब्राह्मणाद्यैर् वर्णिभिर् आश्रमिभिश् च श्रेयोर्थिभिर् अनुष्ठीयमानः।
दीर्घेण कालेनानुष्ठातॄणां कामोद्भवाद् धीयमान-विवेक-विज्ञान-हेतुकेनाधर्मणाभिभूयमाने धर्मे, प्रवर्धमाने चाधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदि-कर्ता नारायणाख्यो विष्णुर् भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसु-देवाद् अंशेन कृष्णः किल संबभूव (BhG.4.6)।
ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद् वैकिको धर्मः, तद्-अधीनत्वाद् वर्णाश्रमभेदानाम्।
स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा संपन्नस् त्रि-गुणात्मिकां वैष्णवीं स्वां मायां मूल-प्रकृतिं वशी-कृत्याजोऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्व-भावोऽपि सन्, स्व-मायया देहवान् इव जात इव (च) लोकानुग्रहं कुर्वन् (इव) लक्ष्यते।
स्व-प्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं हि धर्म-द्वयम् अर्जुनाय शोक-मोह-महोदधौ निमग्नायोपदिदेश, गुणाधिकैर् हि गृहीतोऽनुष्ठीयमानश् च धर्मः प्रचयं गमिश्यतीति।
तं धर्मं भगवता यथोपदिष्टं वेद-व्यासः सर्व-ज्ञो भगवान् गीयाख्यैः सप्तभिः श्लोक-शतैर् उपनिबबन्ध।
तद् इदं गीता-शास्त्रं समस्त-वेदार्थ-सार-संग्रह-भूतं दुर्-विज्ञेयार्थं।
तद्-अर्थाविष्करणायानेकैर् विवृत-पदार्थ-वाक्यार्थ-न्यायम् अप्य्, अत्यन्त-विरुद्धानेकार्थत्वेन लौकिकैर् गृह्यमाणम् उपलभ्याहं विवेकतोऽर्थ-निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि।
तस्यास्य गीता-शास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं स-हेतुकस्य संसारस्यात्यन्तोपरम-लक्षणम्। तच् च सर्व-कर्म-सन्न्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-रूपाद् धर्माद् भवति।
तथेमम् एव गीतार्थं धर्मम् उद्दिश्य भगवतैवोक्तम् – “स हि धर्मः सुपर्याप्तो ब्रह्मणः पद-वेदने” (MBhAsv.13.12) इति अनुगीतासु।
किंचान्यद् अपि तत्रैव चोक्तम् – “नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी” (MBhAsv.19.7), “यः स्याद् एकासने लीनस् तूष्णीं किंचिद् अचिन्तयन्” (MBhAsv.19.1), “ज्ञानं सन्न्यास-लक्षणम्” (MBhAsv.43.25) इति च।
इहापि चान्ते उक्तम् अर्जुनाय – “सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज” (BhG.18.66) इति।
अभ्युदयार्थोऽपि यः प्रवृत्ति-लक्षणो धर्मो वर्णाश्रमांश् चोद्दिश्य विहितः स देवादि-स्थान-प्राप्ति-हेतुर् अपि सन्न् ईश्वरार्पण-बुद्ध्यानुष्ठीयमानः सत्त्व-शुद्धये भवति फलाभिसन्धि-वर्जितः।
शुद्ध-सत्त्वस्य च ज्ञान-निष्ठा-योग्यता-प्राप्ति-द्वारेण ज्ञानोत्पत्ति-हेतुत्वेन च निःश्रेयस-हेतुत्वम् अपि प्रतिपद्यते।
तथाचेमम् एवार्थम् अथिसंधाय वक्ष्यति – “ब्रह्मणि आधाय कर्माणि” (BhG.5.10), “योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये” (BhG.5.11) इति।
इमं द्वि-प्रकारं धर्मं निःश्रेयस-प्रयोजनं परमार्थ-तत्त्वं च वासु-देवाख्यं पर-ब्रह्माभिधेय-भूतं विशेषतोऽभिव्यञ्जयद् विशिष्ट-प्रयोजन-संबन्धाभिधेयवद् गीता-शास्त्रम्।
यतस् तद्-अर्थे विज्ञाते समस्त-पुरुषार्थ-सिद्धिर् अतस् तद्-विवरणे यत्नः क्रियते मया॥
[समाप्तेयं श्रीमच्-छांकर-भाष्योपक्रमणिका।]

Go to Top ('Home' key on many Windows browsers)

dṛta-rāṣṭra, √vac:
dharma-kṣetra, kuru-kṣetra, samaveta, yuyutsu;
māmaka, pāṇḍava, ca, eva, kim, √kṛ, sañjaya.

Dhṛta-rāṣṭra said: What indeed did my people and the Pāṇḍavas do, assembled at Kuru-kṣetra, the field of dharma, desiring to fight, O Sañjaya?
धृत-राष्ट्रः उवाच। धर्म-क्षेत्रे कुरु-क्षेत्रे युयुत्सवः समवेताः मामकाः पाण्डवाः च एव किम् अकुर्वत, सञ्जय॥
sañjaya, √vac:
dṛṣṭvā, tu, pāṇḍava-anīka, vyūḍha, dus-yodhana, tadā;
ācārya, upasaṅgamya, rājan, vacana, √brū.

Sañjaya said: Then, seeing the army of the sons of Pāṇḍu in battle formation, King Duryodhana, approaching his teacher Droṇa, spoke these words.
सञ्जयः उवाच। तदा तु राजा दुर्-योधनः पाण्डव-अनीकं व्यूढं दृष्ट्वा आचार्यं [द्रोणम्] उपसङ्गम्य वचनम् अब्रवीत्॥
√dṛś, etad, pāṇḍu-putra, ācārya, mahatī, camū;
vyūḍhā, dru-pada-putra, yuṣmad, śiṣya, dhīmat.

O Teacher, please look at this great army of the sons of Pāṇḍu, formed and led by your brilliant disciple, the son of Drupada.
आचार्य, तव धीमता शिष्येण द्रुपद-पुत्रेण व्यूढां पाण्डु-पुत्राणाम् एतां महतीं चमूं पश्य॥
atra, śūra, mahā-iṣvāsa, bhīma-arjuna-sama, √yudh;
yuyudhāna, virāṭa, ca, dru-pada, ca, mahā-ratha.
dhṛṣṭa-ketu, cekitāna, kāśi-rāja, ca, vīryavat;
puru-jit, kunti-bhoja, ca, śaibya, ca, nara-puṅgava.
yudhā-manyu, ca, vikrānta, uttama-ojas, ca, vīryavat;
sau-bhadra, drau-padeya, ca, sarva, eva, mahā-ratha.

Here are the heroes, great archers, equal in battle to Bhīma and Arjuna – Yuyudhāna (Sātyaki), Virāṭa, the great warrior Drupada, Dhṛṣṭa-ketu, Cekitāna, the valiant king of Kāśi, Purujit, Kunti-bhoja, the best of men Śaibya, the powerful Yudhāmanyu, the valiant Uttamaujas, the son of Subhadrā (Abhimanyu), and the five sons of Draupatī – every one a great warrior.
अत्र महा-इष्वासाः युधि भीम-अर्जुन-समाः शूराः – युयुधानः, विराटः च, महा-रथः द्रु-पदः च, धृष्ट-केतुः, चेकितानः, वीर्यवान् काशि-राजः च, पुरु-जित्, कुन्ति-भोजः च, नर-पुङ्गवः शैब्यः च, विक्रान्तः युधा-मन्युः च, वीर्यवान् उत्तम-ओजाः च, सौभद्रः, द्रौ-पदेयाः च – सर्वे एव महा-रथाः [सन्ति]॥
asmad, tu, viśiṣṭa, yad, tad, ni-√budh, dvi-ja-uttama;
nāyaka, asmad, sainya, sañjñā-artham, tad, √brū, yuṣmad.

Whereas, O Best of brāhmaṇas, please know those leaders of my army who are distinguished among us. I mention them for your recognition.
द्विज-उत्तम, ये तु अस्माकं विशिष्टाः मम सैन्यस्य नायकाः [सन्ति] तान् निबोध। तान् ते [=तव] सञ्ज्ञा-अर्थं ब्रवीमि॥
bhavat, bhīṣma, ca, karṇa, ca, kṛpa, ca, samitim-jaya;
aśva-tthāman, vikarṇa, ca, sauma-datti, tathā, eva, ca.

There are: Your Honor (Droṇa), Bhīṣma, Karṇa, the victorious in battle Kṛpa, Aśvatthāman, Vikarṇa, and the son of Soma-datta.
भवान्, भीष्मः च, कर्णः च, समितिञ्-जयः कृपः च, अश्वत्थामा, विकर्णः च, तथा एव च सौम-दत्तिः [सन्ति]॥
anya, ca, bahu, śūra, mad-arthe, tyakta-jīvita;
nānā-śastra-praharaṇa, sarva, yuddha-viśārada.

And many other heroes who have given up their lives for me, all armed with many kinds of hand-held weapons and missiles, experts in warfare.
अन्ये च बहवः शूराः मद्-अर्थे त्यक्त-जीविताः, सर्वे नाना-शस्त्र-प्रहरणाः युद्ध-विशारदाः [सन्ति]॥
a-paryāpta, tad, asmad, bala, bhīṣma-abhirakṣita;
paryāpta, tu, idam, etad, bala, bhīma-abhirakṣita.

That army of ours, protected by Bhīṣma, is not overwhelmed; whereas this army of theirs, protected by Bhīma, is overwhelmed.
अस्माकं तद् भीष्म-अभिरक्षितं बलम् अ-पर्याप्तम्, एतेषां तु इदं भीम-अभिरक्षितं बलं पर्याप्तम्॥
ayana, ca, sarva, yathā-bhāgam, avasthita;
bhīṣma, eva, abhi-√rakṣ, bhavat, sarva, eva, hi.

All of you stationed in your respective positions, in all the lanes of attack against your formations, protect Bhīṣma.
सर्वेषु च अयनेषु यथा-भागम् अवस्थिताः सर्वे एव हि भवन्तः भीष्मम् एव अभिरक्षन्तु॥
tad, sañjanayat, harṣa, kuru-vṛddha, pitā-maha;
siṃha-nāda, vinadya, uccais, śaṅkha, √dhmā, pratāpavat.

Grandfather Bhīṣma, the powerful elder of the Kurus, loudly let out a lion’s roar and blew his conch, elating him, Duryodhana.
प्रतापवान् कुरु-वृद्धः पिता-महः तस्य हर्षं सञ्जनयन् उच्चैः सिंह-नादं विनद्य शङ्खं दध्मौ॥
tatas, śaṅkha, ca, bheryī, ca, paṇava-ānaka-go-mukha;
sahasā, eva, abhi-√han, tad, śabda, tumula, √bhū.

Then, all at once on Duryodhana’s side, conches, kettle drums, various small and large drums and horns were sounded. The noise was tumultuous.
ततः शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः सहसा एव अभ्यहन्यन्त। सः शब्दः तुमुलः अभवत्॥
tatas, śveta, haya, yukta, mahat, syandana, sthita;
mādhava, pāṇḍava, ca, eva, divya, śaṅkha, pra-√dhmā.

Then Kṛṣṇa and Arjuna, standing in the great chariot yoked with white horses, blew their divine conches.
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः॥
pāñca-janya, hṛṣīka-īśa, deva-datta, dhanam-jaya;
pauṇḍra, √dhmā, mahā-śaṅkha, bhīma-karman, vṛka-udara.

Kṛṣṇa blew His conch called Pāñca-janya; Arjuna blew his conch called Deva-datta. Bhīma, the Wolf-Bellied, blew his huge conch called Pauṇḍra.
हृषीक-ईशः पाञ्च-जन्यं [दध्मौ], धनञ्-जयः देव-दत्तं [दध्मौ], भीम-कर्मा वृक-उदरः महा-शङ्खं पौण्ड्रं दध्मौ॥
an-anta-vijaya, rājan, kuntī-putra, yudhi-sthira;
nakula, saha-deva, ca, su-ghoṣa-maṇi-puṣpaka.

King Yudhi-ṣṭhira, the son of Kuntī, blew his conch called An-anta-vijaya. Nakula and Saha-deva blew their conches called Su-ghoṣa and Maṇi-puṣpaka.
कुन्ती-पुत्रः राजा युधि-ष्ठिरः अन्-अन्त-विजयं [दध्मौ], नकुलः सह-देवः च सु-घोष-मणि-पुष्पकौ [दध्मतुः]॥
kāśya, ca, parama-iṣvāsa, śikhaṇḍin, ca, mahā-ratha;
dhṛṣṭa-dyumna, virāṭa, ca, sātyaki, ca, a-parā-jita.
dru-pada, drau-padeya, ca, sarvaśas, pṛthivī-pati;
sau-bhadra, ca, mahā-bāhu, śañkha, √dhmā, pṛtak, pṛtak.

The expert archer king of Kāśi, the great warrior Śikhaṇḍin, Dhṛṣṭa-dyumna, Virāṭa, and the unsurpassed Sātyaki, Drupada, the five sons of Draupadī, and the mighty-armed son of Su-bhadrā (Abhimanyu) – O King Dhṛta-rāṣṭra, all on the Pāṇḍava side blew their individual conches.
परम-इष्वासः काश्यः च, महा-रथः शिखण्डी च, धृष्ट-द्युम्नः, विराटः च, अ-पराजितः सात्यकिः च, द्रु-पदः, द्रौ-पदेयाः च, महा-बाहुः सौभद्रः च – पृथिवी-पते, सर्वशः पृथक् पृथक् शङ्खान् दध्मुः॥
tad, ghoṣa, dhārta-rāṣṭra, hṛdaya, vi-√dṝ;
nabhas, ca, pṛthivī, ca, eva, tumula, vyanunādayat.

Reverberating between heaven and earth, that tumultuous sound pierced the hearts of the allies of Dhṛta-rāṣṭra.
नभः च पृथिवीं च एव व्यनुनादयन् सः तुमुलः घोषः धार्त-राष्ट्राणां हृदयानि व्यदारयत्॥
atha, vyavasthita, dṛṣṭvā, dhārta-rāṣṭra, kapi-dhvaja;
pravṛtta, śastra-sampāta, dhanus, udyama, pāṇḍava.
hṛṣīka-īśa, tadā, vākya, idam, √ah, mahī-pati;
arjuna, √vac:
senā, ubhā, madhya, ratha, √sthā, asmad, a-cyuta.
yāvat, etad, nis-√īkṣ, asmad, yoddhu-kāma, avasthita;
kim, v, saha, yoddhavya, idam, raṇa-samudyama.

O King Dhṛta-rāṣṭra, then as the clash of swords was about to begin, Arjuna, with Lord Hanumān as his banner, seeing the allies of Dhṛta-rāṣṭra assembled, raised his bow and then said these words to Kṛṣṇa. Arjuna said: O Kṛṣṇa, place my chariot between both armies so that I can examine these assembled wishing to do battle, and with whom I should fight at the outset of this war.
मही-पते, अथ शस्त्र-सम्पाते प्रवृत्ते धार्त-राष्ट्रान् व्यवस्थितान् दृष्ट्वा कपि-ध्वजः पाण्डवः धनुः उद्यम्य, तदा हृषीक-ईशम् इदं वाक्य्म् आह। अर्जुनः उवाच। अ-च्युत, मे रथम् उभयोः सेनयोः मध्ये स्थापय, यावद् अहम् एतान् अवस्थितान् योद्धु-कामान् निरीक्षे, अस्मिन् रण-समुद्यमे मया कैः सह योद्धव्यम्॥
yotsyamāna, ava-√īkṣ, asmad, yad, etad, atra, samāgata;
dhātra-rāṣṭra, dus-buddhi, yuddha, priya-cikīrṣu.

So I can see those about to fight who have assembled here, wishing to please in war the distorted-thinking Duryodhana.
ये एते युद्धे दुर्-बुद्धेः धार्त-राष्ट्रस्य प्रिय-चिकीर्षवः अत्र समागताः [तान्] योत्स्यमानान् [यावद्] अहं अवेक्षे॥
sañjaya, √vac:
evam, ukta, hṛṣīka-īśa, guḍākā-īśa, bhārata;
senā, ubhā, madhya, sthāpayitvā, ratha-uttama.
bhīṣma-droṇa-pramukhatas, sarva, ca, mahī-kṣit;
√vac, pārtha, √dṛś, etad, samaveta, kuru, iti.

Sañjaya said: O Dhṛta-rāṣṭra, having thus been ordered by Arjuna, Lord Kṛṣṇa placed the great chariot between both armies, right in front of Bhīṣma and Droṇa and all these kings, and then said, ‘Arjuna, behold these assembled Kurus.’
सञ्जयः उवाच। भारत, गुडाका-ईशेन एवम् उक्तः हृषीक-ईशः उभयोः सेनयोः मध्ये भीष्म-द्रोण-प्रमुखतः सर्वेषां मही-क्षिताम् [प्रमुखतः] च रथ-उत्तमं स्थापयित्वा – “पार्थ, एतान् समवेतान् कुरून् पश्य” इति उवाच॥
tatra, √dṛś, sthita, pārtha, pitṛ, atha, pitā-maha;
ācārya, mātula, bhātṛ, putra, pautra, sakhi, tathā.
śvaśura, su-hṛd, ca, eva, senā, ubhā, api;
tad, samīkṣya, tad, kaunteya, sarva, bandhu, avasthita.
kṛpā, parā, āviṣṭa, viṣīdat, idam, √brū;

Now Arjuna saw stationed there – in both armies – fathers, grandfathers, teachers, uncles, brothers, sons, grandsons, comrades, fathers-in-law, and friends. That Arjuna, seeing all those assembled relatives and being overwhelmed with great pity, became sad and said this.
अथ पार्थः तत्र उभयोः सेनयोः अपि स्थितान् –पितॄन् पिता-महान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सु-हृदः तथा एव च अपश्यत्। सः कौन्तेयः, तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य, परया कृपया आविष्टः, विषीदन् इदम् अब्रवीत्॥
arjuna, √vac:
dṛṣṭvā, idam, sva-jana, kṛṣṇa, yuyutsu, samupasthita.
√sad, asmad, gātra, mukha, ca, pari-√śuṣ;
vepathu, ca, śarīra, asmad, roma-harṣa, ca, √jan.

Arjuna said: O Kṛṣṇa, seeing these, my people on both sides, who have come ready to fight, my limbs are limp, my mouth is dry, my body is trembling, and my hairs are on end.
अर्जुनः उवाच। कृष्ण, इमं स्व-जनं युयुत्सुं समुपस्थितं दृष्ट्वा, मम गात्राणि सीदन्ति, मुखं च परिशुष्यति, मे शरीरे वेपथुः च, रोम-हर्षः च जायते॥
gāṇḍīva, √sraṃs, hasta, tvac, ca, eva, pari-√dah;
na, ca, √śak, avasthātum, √bhram, iva, ca, asmad, manas.

My bow Gāṇḍīva slips from my hand, and my skin burns. My mind seems to spin, and I am unable to stand.
गाण्डीवं हस्तात् स्रंसते, त्वक् च एव परिदह्यते। मे मनः च भ्रमति इव, अवस्थातुं च न शक्नोमि॥
nimitta, ca, √dṛś, viparīta, keśava;
na, ca, śreyas, anu-√dṛś, hatvā, sva-jana, āhava.

O Kṛṣṇa, I see bad omens (such as a twitching eye), and I see no good by killing my people in this war.
केशव, विपरीतानि च निमित्तानि पश्यामि, आहवे च स्व-जनं हत्वा श्रेयः न अनुपश्यामि॥
na, √kāñkṣ, vijaya, kṛṣṇa, na, ca, rājya, sukha, ca;
kim, asmad, rājya, go-vinda, kim, bhoga, jīvita, vā.

O Kṛṣṇa, I do not desire for myself victory, nor kingdom, nor pleasures. O Kṛṣṇa, what is the use of a kingdom to us? What is the use of pleasures or living?
कृष्ण, विजयं न काङ्क्षे, न राज्यं च सुखानि च। गो-विन्द, किं नः राज्येन, किं भोगैः जीवितेन वा॥
yad, arthe, kāṅkṣita, asmad, rājya, bhoga, sukha, ca;
tad, idam, avasthita, yuddha, prāṇa, tyaktvā, dhana, ca.
ācārya, pitṛ, putra, tathā, eva, ca, pitā-maha;
mātula, śvaśura, pautra, śyāla, sambandhin, tathā.

For whose sake we have desired kingdom, experiences, and pleasures – those same are assembled here in battle, giving up their lives and wealth: teachers, fathers, sons, grandfathers, uncles, fathers-in-law, grandsons, brothers-in-law, and other relations.
येषाम् अर्थे नः राज्यं भोगाः सुखानि च काङ्क्षितं, ते इमे प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः – आचार्याः, पितरः, पुत्राः, तथा एव च पिता-महाः, मातुलाः, श्वशुराः, पौत्राः, श्यालाः, तथा सम्बन्धिनः॥
etad, na, hantum, √iṣ, ghnat, api, madhu-sūdana;
api, trai-lokya-rājya, hetu, kim, nu, mahī-kṛte.

O Kṛṣṇa, though they are about to kill me, I do not wish to kill them – even for dominion over the three worlds (earth, sky, and heaven), much less for a kingdom on this earth.
मधु-सूदन, एतान् घ्नतः अपि त्रै-लोक्य-राज्यस्य हेतोः अपि हन्तुं न इच्छामि, किं नु मही-कृते॥
nihatya, dhārta-rāṣṭra, asmad, kim, prīti, √as, jana-ardana;
pāpa, eva, ā-√śri, asmad, hatvā, etad, ātata-āyin.

What satisfaction would we have by killing the sons of Dhṛta-rāṣṭra, O Kṛṣṇa? By killing these felons, only sin would befall us.
धार्त-राष्ट्रान् निहत्य नः का प्रीतिः स्यात्, जन-अर्दन। एतान् आतत-आयिनः हत्वा पापम् एव अस्मान् आश्रयेत्॥
tasmād, na, arha, asmad, hantum, dhārta-rāṣṭra, sva-bāndhava;
sva-jana, hi, katham, hatvā, sukhin, √as, mādhava.

Therefore, we ought not to kill our own relatives, the sons of Dhṛta-rāṣṭra. By killing our own relations, how would we be happy, O Kṛṣṇa?
तस्मात् वयं स्व-बान्धवान् धार्त-राष्ट्रान् हन्तुं न अर्हाः। स्व-जनं हि हत्वा कथं [वयं] सुखिनः स्याम, माधव॥
yadi, api, etad, na, √dṛś, lobha-upahata-cetasas;
kula-kṣaya-kṛta, doṣa, mitra-droha, ca, pātaka.
katham, na, jñeya, asmad, pāpa, idam, nivartitum;
kula-kṣaya-kṛta, doṣa, prapaśyat, jana-ardana.

Even if these – whose minds are overwhelmed by greed – do not see the problem wrought by destroying the family or the crime in betraying friends, how can we – who clearly see the problem wrought by destroying the family – not know to withdraw from this sin, O Kṛṣṇa?
यदि अपि एते लोभ-उपहत-चेतसः कुल-क्षय-कृतं दोषं मित्र-द्रोहे पातकं च न पश्यन्ति, कुल-क्षय-कृतं दोषं अस्माभिः प्रपश्यद्भिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम्, जन-अर्दन॥
kula-kṣaya, pra-√naś, kula-dharma, sanā-tana;
dharma, naṣṭa, kula, kṛtsna, a-dharma, abhi-√bhū, uta.

When the family is destroyed by this killing of the men, the protectors of the family, the ancient traditions (dharmas) of the family are destroyed. When tradition is destroyed, corruption (a-dharma) indeed overwhelms the entire family.
कुल-क्षये सनातनाः कुल-धर्माः प्रणश्यन्ति, धर्मे नष्टे अ-धर्मः कृत्स्नं कुलम् अभिभवति उत॥
a-dharma-abhibhava, kṛṣṇa, pra-√duṣ, kula-strī;
strī, duṣṭā, vārṣṇeya, √jan, varṇa-saṅkara.

O Kṛṣṇa, due to the family being overpowered by corruption, the women of the family are debased. O Kṛṣṇa, when the women are debased, there arises confusion of the social groups.
कृष्ण, अ-धर्म-अभिभवात् कुल-स्त्रियः प्रदुष्यन्ति। वार्ष्णेय, स्त्रीषु दुष्टासु वर्ण-सङ्करः जायते॥
saṅkara, naraka, eva, kula-ghna, kula, ca;
√pat, pitṛ, hi, etad, lupta-piṇḍa-udaka-kriya.

Confusion leads to hell for the destroyers of the family, as well as for the family. Their ancestors, being deprived of the post-death rituals of offerings of rice balls, water, etcetera, indeed fall (to a lower status).
सङ्करः कुल-घ्नानां कुलस्य च नरकाय एव [गमयति]। एषां पितरः हि लुप्त-पिण्ड-उदक-क्रियाः पतन्ति॥
doṣa, etad, kula-ghna, varṇa-saṅkara-kāraka;
ud-√sad, jāti-dharma, kula-dharma, ca, śāśvata.

Because of these crimes of the destroyers of the family, bringing about the confusion of the social groups, the ancient community traditions – as well as the family traditions – are destroyed.
कुल-घ्नानां एतैः वर्ण-सङ्कर-कारकैः दोषैः शाश्वताः जाति-धर्माः कुल-धर्माः च उत्साद्यन्ते॥
utsanna-kula-dharma, manuṣya, jana-ardana;
naraka, niyatam, vāsa, √bhū, iti, anu-√śru.

O Kṛṣṇa, we have heard that the people who destroy the family tradition (dharma) surely have a stay in hell.
जन-अर्दन, उत्सन्न-कुल-धर्माणां मनुष्याणां नियतं नरके वासः भवति इति अनुशुश्रुम॥
aho, bata, mahat, pāpa, kartum, vyavasita, asmad;
yad, rājya-sukha-lobha, hantum, sva-jana, udyata.

Oh! We are fixed to perpetrate a great sin, if, out of greed for kingdom and its pleasures, we are prepared to kill our own people.
अहो बत, यद् राज्य-सुख-लोभेन स्व-जनं हन्तुम् उद्यताः, वयं महत् पापं कर्तुं व्यवसिताः॥
yadi, asmad, a-pratīkāra, a-śastra, śastra-pāṇi;
dhārta-rāṣṭra, raṇa, √han, tad, asmad, kṣematara, √bhū.

If the armed sons of Dhṛta-rāṣṭra were in battle to kill me, unresisting and unarmed, that would be better for me (than this sin).
यदि शस्त्र-पाणयः धार्त-राष्ट्राः माम् अ-प्रतीकारम् अ-शस्त्रं रणे हन्युः, तद् मे क्षेमतरं भवेत्॥
sañjaya, √vac:
evam, uktvā, arjuna, saṅkya, ratha-upastha, upa-√viś;
visṛjya, sa-śara, cāpa, śoka-saṃvigna-mānasa.

Sañjaya said: Speaking thus, Arjuna, giving up his bow and arrows in the middle of the battle-field, sat down on the chariot seat, his mind overcome with sorrow (in the form of guilt and hurt).
सञ्जयः उवाच। अर्जुनः एवम् उक्त्वा सङ्ख्ये स-शरं चापं विसृज्य शोक-संविग्न-मानसः रथ-उपस्थे उपाविशत्॥
om, tad, sat. iti, śrīmat-bhagavat-gītā, upaniṣad, brahma-vidyā, yoga-śāstra, śrī-kṛṣṇa-arjuna-saṃvāda, arjuna-viṣāda-yoga, nāma, prathama, adhyāya.
Om (brahman, the witness of all) is that (only) reality. Thus ends the first chapter, called ‘The Topic of Arjuna’s Sorrow,’ of the (eighteen chapters of) Songs of the Glorious Lord, which is (looked upon as) sacred teaching (Upaniṣad) and (whose teaching is) in (the form of) a dialogue between Śrī Kṛṣṇa and Arjuna, (the subject matter being) knowledge of brahman and yoga.

Go to Top ('Home' key on many Windows browsers)

“दृष्ट्वा तु पाण्डवानीकम्” इति (BhG.1.2) आरभ्य “न योत्स्य इति गो-विन्दम् उक्त्वा तूष्णीं बभूव ह” इति (BhG.2.9) एतद्-अन्तः प्राणिनां शोक-मोहादि-संसार-बीज-भूत-दोषोद्भव-कारण-प्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः।
तथा ह्य् अर्जुनेन राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्व-जन-संबन्धि-बान्धवेष्व् ‘अहम् एषां’ ‘ममैते’ इति एवं भ्रान्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादि-निमित्ताव् आत्मनः शोक-मोहौ प्रदर्शितौ “कथं भीष्मम् अहं संख्ये” इत्य्-आदिना (BhG.2.4)।
शोक-मोहाभ्यां ह्य् अभिभूत-विवेक-विज्ञानः स्वत एव क्षात्र-धर्मे युद्धे प्रवृत्तोऽपि तस्माद् युद्धाद् उपरराम। पर-धर्मं च भिक्षा-जीवनादिकं कर्तुं प्रववृते।
तथाच सर्व-प्राणिनां शोक-मोहादि-दोषाविष्ट-चेतसां स्व-भावत एव स्व-धर्म-परित्यागः परिषिद्ध-सेवा च स्यात्।
स्व-धर्मे प्रवृत्तानाम् अपि तेषां वाङ्-मनः-कायादीनां प्रवृत्तिः फलाभिसन्धि-पूर्विकैव साहं-कारा च भवति।
तत्रैवं सति धर्माधर्मोपचयाद् इष्टानिष्ट-जन्म-सुख-दुःख-संप्राप्ति-लक्षणः संसारोऽनुपरतो भवतीति अतः संसार-बीज-भूतौ शोक-मोहौ।
तयोश् च सर्व-कर्म-सन्न्यास-पूर्वकाद् आत्म-ज्ञानान् नान्यतो निवृत्तिर् इति। तद्-उपदिदिक्षुः सर्व-लोकानुग्रहार्थम् अर्जुनं निमित्ती-कृत्याह भगवान् वासु-देवः – “अशोच्यान्” इत्य्-आदि (BhG.2.11)।
अत्र केचिद् आहुः, सर्व-कर्म-सन्न्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठामात्राद् एव केवलात् कैवल्यं न प्राप्यत एव। किं तर्हि? अग्नि-होत्रादि-श्रौत-स्मार्त-कर्म-सहिताज् ज्ञानात् कैवल्य-प्राप्तिर् इति सर्वासु गीतासु निश्चितोऽर्थ इति।
ज्ञापकं चाहुर् अस्यार्थस्य “अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि” (BhG.2.33), “कर्मणि एवाधिकारस् ते” (BhG.2.47), “कुरु कर्मैव तस्मात् त्वम्” (BhG.4.15) इत्य्-आदि।
हिंसादि-युक्तत्वाद् वैदिकं कर्म अधर्माय इतीयम् अपि आशङ्का न कार्या। कथम्? क्षात्रं कर्म युद्ध-लक्षणं गुरु-भ्रातृ-पुत्रादि-हिंसा-लक्षणम् अत्यन्त-क्रूरम् अपि ‘स्व-धर्म’ इति कृत्वा नाधर्माय, तद्-अकरणे च “ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि” (BhG.2.33) इति ब्रुवता “यावज्-जीव”-आदि-श्रुति-चोदितानां स्व-कर्मणां पश्वादि-हिंसा-लक्षणानां च कर्मणां प्राग् एव नाधर्मत्वम् इति सुनिश्चितम् उक्तं भवतीति।
तद् असत्, ज्ञान-कर्म-निष्ठयोर् विभाग-वचनाद् बुद्धि-द्वयाश्रययोः।
“अशोच्यान्” इत्य्-आदिना (BhG.2.11) भगवता यावत् “स्व-धर्मम् अपि चावेक्ष्य” इति (BhG.2.31) एतद्-अन्तेन ग्रन्थेन यत्-परमार्थात्म-तत्त्व-निरूपणं कृतं तत् सांख्यं, तद्-विषया बुद्धिर् आत्मनो जन्मादि-षड्-विक्रियाभावाद् अकर्तात्मेति प्रकरणार्थ-निरूपणाद् या जायते सा सांख्य-बुद्धिः, सा येषां ज्ञानिनाम् उचिता भवति ते सांख्याः।
एतस्या बुद्धेर् जन्मनः प्राग् आत्मनो देहादि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्वाद्य्-अपेक्षो धर्माधर्म-विवेक-पूर्वको मोक्ष-साधनानुष्ठान-लक्षणो योगः, तद्-विषया बुद्धिर् योग-बुद्धिः, सा येषां कर्मिणाम् उचिता भवति ते योगिनः।
तथाच भगवता विभक्ते द्वे बुद्धी निर्दिष्टे “एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु” इति (BhG.2.39)।
तयोश् च सांख्य-बुद्ध्य्-आश्रयां ‘ज्ञान-योगेन’ निष्ठां ‘सांख्यानां’ विभक्तां वक्ष्यति ‘पुरा’ वेदात्मना ‘मया प्रोक्ता’ इति (BhG.3.3)।
तथाच योग-बुद्ध्य्-आश्रयां कर्म-योगेन निष्ठां विभक्तां च वक्ष्यति “कर्म-योगेन योगिनाम्” इति (BhG.3.3)।
एवं सांख्य-बुद्धिं योग-बुद्धिं चाश्रित्य द्वे निष्ठे विभक्ते भगवतैवोक्ते ज्ञान-कर्मणोः कर्तृत्वाकृतृत्वैकत्वानेकत्व-बुद्ध्य्-आश्रययोर् एक-पुरुषाश्रयत्वासंभवं पश्यता।
यथैतद् विभाग-वचनं तथैव दर्शितं शात-पथीये ब्राह्मणे “एतम् एव प्रव्राजिनो लोकम् इच्छन्तो (ब्राह्मणाः) प्रव्रजन्ति” इति (BrhU.4.4.22) सर्व-कर्म-सन्न्यासं विधाय तच्-छेषेण “किं प्रजया करिष्यामो येषां नोऽयम् आत्मायं लोकः” इति (BrhU.4.4.22)।
तत्रैव च प्राग् दार-परिग्रहात् पुरुष “आत्मा…” प्राकृतो धर्म-जिज्ञासोत्तर-कालं लोक-त्रय-साधनं पुत्रं, द्वि-प्रकारं च वित्तं मानुषं दैवं च, तत्र मानुषं वित्तं कर्म-रूपं पितृ-लोक-प्राप्ति-साधनं, विद्यां च दैवं वित्तं देव-लोक-प्राप्ति-साधनं, “…सोऽकामयत” इति (BrhU.1.4.17) अविद्या-कामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि।
तेभ्यो ‘व्युत्थाय’ ‘प्रव्रजन्ति’ इति (BrhU.4.4.22) व्युत्थानम् आत्मानम् एव लोकम् इच्छतोऽकामस्य विहितम्।
तद् एतद् विभाग-वचनम् अनुपपन्नं स्याद् यदि श्रौत-कर्म-ज्ञानयोः समुच्चयोऽभिप्रेतः स्याद् भगवतः।
न चार्जुनस्य प्रश्न उपपन्नो भवति। “ज्यायसी चेत् कर्मणस् ते” इत्य्-आदिः (BhG.3.1)।
एक-पुरुषानुष्ठेयत्वासंभवं बुद्धि-कर्मणोर् भगवता पूर्वम् अनुक्तं कथम् अर्जुनोऽश्रुतं बुद्धेश् च कर्मणो ज्यायस्त्वं भगवति अध्यारोपयेन् मृषैव “ज्यायसी चेत् कर्मणस् ते मता बुद्धिर्” इति (BhG.3.1)।
किंच यदि बुद्धि-कर्मणोः सर्वेषां समुच्चय उक्तः स्याद् अर्जुनस्यापि स उक्त एवेति, “यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम्” इति (BhG.5.1) कथम् उभयोर् उपदेशे सति अन्यतर-विषय एव प्रश्नः स्यात्।
न हि पित्त-प्रशमार्थिनो वैद्येन मधुरं शीतलं च भोक्तव्यम् इति उपदिष्टे ‘तयोर् अन्यतरत् पित्त-प्रशमन-कारणं ब्रूहि’ इति प्रश्नो संभवति।
अथार्जुनस्य भगवद्-उक्त-वचनार्थ-विवेकानवधारण-निमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रति-वचनं देयं – ‘मया बुद्धि-कर्मणोः समुच्चय उक्तः किम्-अर्थम् इत्थं त्वं भ्रान्तोऽसि’ इति।
न तु पुनः प्रति-वचनम् अननुरूपं, पृष्टाद् अन्यद् एव ‘द्वे निष्ठे मया पुरा प्रोक्ते’ इति (BhG.3.3) वक्तुम् युक्तम्।
नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चयेऽभिप्रेते विभाग-वचनादि सर्वम् उपपन्नं स्यात्।
किं-च क्षत्रियस्य युद्धं स्मार्तं कर्म स्व-धर्मम् इति जानतः “तत् किं कर्मणि घोरे मां नियोजयसि” इति (BhG.3.1) उपालम्भोऽनुपपन्नः।
तस्माद् गीता-शास्त्र ईषन्-मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणात्म-ज्ञानस्य समुच्चयो न केनचिद् दर्शयितुं शक्यः।
यस्य त्व् अज्ञानाद् रागादि-दोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्ध-सत्त्वस्य ज्ञानम् उत्पन्नं परमार्थ-तत्त्व-विषयम् – ‘एकम् एवेदं सर्वं ब्रह्माकर्तृ च’ इति, तस्य कर्मणि कर्म-प्रयोजने च निवृत्तेऽपि लोक-संग्रहार्थं यत्न-पूर्वं यथा प्रवृत्तस् तथैव कर्मणि प्रवृत्तस्य यत् प्रवृत्ति-रूपं दृश्यते न तत् कर्म येन बुद्धेः समुच्चयः स्यात्।
यथा भगवतो वासु-देवस्य क्षात्र-कर्म चेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थ-सिद्धये तद्वत् तत्-फलाभिसन्ध्य्-अहंकाराभावस्य तुल्यत्वाद् विदुषः।
तत्त्व-वित् तु ‘नाहं करोमि’ इति मन्यते न च तत्-फलम् अभिसन्धत्ते।
यथा च स्वर्गादि-कामार्थिनोऽग्नि-होत्रादि-काम-साधनानुष्ठानाय आहिताग्नेः काम्य एवाग्नि-होत्रादौ प्रवृत्तस्य सामि-कृते विनष्टेऽपि कामे तद् एवाग्नि-होत्राद्य् अनुतिष्ठतोऽपि न तत् काम्यम् अग्नि-होत्रादि भवति।
तथा च दर्शयति भगवान् “कुर्वन्न् अपि… न करोति न लिप्यते” इति (BhG.5.7BhG.13.31) तत्र तत्र।
यच् च “पूर्वैः पूर्वतरं कृतं” (BhG.4.15) “कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः” इति (BhG.3.20) तत् तु प्रविभज्य विज्ञेयम्।
तत् कथम्? यदि तावत् पूर्वे जनकादयस् तत्त्व-विदोऽपि प्रवृत्त-कर्माणः स्युस्, ते लोक-संग्रहार्थं “गुणा गुणेषु वर्तन्ते” इति (BhG.3.28) ज्ञानेनैव संसिद्धिम् आस्थिताः। कर्म-सन्न्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिम् आस्थिता न कर्म-सन्न्यासं कृतवन्त इति एषोऽर्थः।
अथ न ते तत्त्व-विद, ईश्वर-समर्पितेन कर्मणा साधन-भूतेन संसिद्धिं सत्त्व-शुद्धिं ज्ञानोत्पत्ति-लक्षणां वा – “संसिद्धिम् आस्थिता जनकादय” इति (BhG.3.20) व्याख्येयम्।
एतम् एवार्थं वक्ष्यति भगवान् ‘सत्त्व-शुद्धये कर्म कुर्वन्ति’ इति (BhG.5.11)।
“स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः” इति (BhG.18.46) उक्त्वा सिद्धिं प्राप्तस्य च पुर्नर् ज्ञान-निष्ठां वक्ष्यति “सिद्धिं प्राप्तो यथा ब्रह्म” इत्य्-आदिना (BhG.18.50)।
तस्माद् गीतासु केवलाद् एव तत्त्व-ज्ञानान् मोक्ष-प्राप्तिः न कर्म-समुच्चिताद् इति निश्चितोऽर्थः।
यथा चायम् अर्थस् तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः॥
sañjaya, √vac:
tad, tathā, kṛpā, āviṣṭa, aśru-pūrṇa-ākula-īkṣaṇa;
viṣīdat, idam, vākya, √vac, madhu-sūdana.

Sañjaya said: Kṛṣṇa spoke these words to him, Arjuna, who in that way was overwhelmed by pity, with eyes stressed and full of tears and was sad.
सञ्जयः उवाच। मधु-सूदनः तम् [अर्जुनं] तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणं विषीदन्तम् [च] इदं वाक्य्म् उवाच॥
śrī-bhagavat, √vac:
kutas, yuṣmad, kaśmala, idam, vi-sama, samupasthita;
an-ārya-juṣṭa, a-svar-gya, a-kīrti-kara, arjuna.

The Lord said: In such a crisis, at the outset of this war, from where came to you this despair, unacceptable for a person of the Veda culture, not leading to heaven, and engendering dishonor, O Arjuna?
श्री-भगवान् उवाच। विषमे इदम् अन्-आर्य-जुष्टम् अ-स्वर्ग्यम् अ-कीर्ति-करं [च] कश्मलं कुतः त्वा समुपस्थितम्, अर्जुन॥
klaibya, mā, sma, √gam, pārtha, na, etad, yuṣmad, upa-√pad;
kṣudra, hṛdaya-daur-balya, tyaktvā, ud-√sthā, param-tapa.

Do not yield to impotency, O Arjuna. It does not befit you. Give up this lowly weakness of heart and get up, O Arjuna (Vexer of Foes)!
क्लैब्यं मा स्म गमः, पार्थ। एतद् त्वयि न उपपद्यते। क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वा उत्तिष्ठ, परन्-तप॥
arjuna, √vac:
katham, bhīṣma, asmad, saṅkhya, droṇa, ca, madhu-sūdana;
iṣu, prati-√yudh, pūjā-arha, ari-sūdana.

Arjuna said: O Kṛṣṇa (Destroyer of Demons and Foes), how will I fight in battle with arrows against Bhīṣma and Droṇa, who are worthy of my worship, thus becoming a destroyer of my gurus?
अर्जुनः उवाच। मधु-सूदन अरि-सूदन, कथम् अहं सङ्ख्ये पूजा-अर्हौ भीष्मं द्रोणं च [उभौ] इषुभिः प्रतियोत्स्यामि॥
guru, a-hatvā, hi, mahā-anubhāva, śreyas, bhoktum, bhaikṣya, api, iha, loka;
hatvā, artha-kāma, tu, guru, iha, eva, √bhuj, bhoga, rudhira-pradigdha.

It would be better I not kill these highly honored gurus and even beg alms here in the world, become a renunciate, than kill these gurus seeking their own ends and then indulge here in pleasures, drenched with their blood.
महा-अनुभावान् गुरून् अ-हत्वा हि इह लोके भैक्ष्यम् अपि भोक्तुं श्रेयः [स्यात्], अर्थ-कामान् तु गुरून् हत्वा इह एव रुधिर-प्रदिग्धान् भोगान् भुञ्जीय॥
na, ca, etad, √vid, katara, asmad, garīyas, yad, vā, √ji, yadi, vā, asmad, √ji;
yad, eva, hatvā, na, √jīv, tad, avasthita, pramukhe, dhārta-rāṣṭra.

We, I, do not know which one of the two is better for us – whether by my fighting we should conquer or by my withdrawal they should conquer us. Those allies of Dhṛta-rāṣṭra, after slaying whom we would not want to live, stand facing us.
कतरद् च नः गरीयः एतद् न विद्मः – यद् वा जयेम यदि वा नः जयेयुः। यान् एव हत्वा न जिजीविषामः, ते धार्त-राष्ट्राः प्रमुखे अवस्थिताः॥
kārpaṇya-doṣa-upahata-sva-bhāva, √prach, yuṣmad, dharma-sammūḍha-cetas;
yad, śreyas, √as, niścitam, √brū, tad, asmad, śiṣya, yuṣmad, asmad, √śās, asmad, yuṣmad, prapanna.

With my mind overcome by miserliness, yet to be spent seeking the ultimate good (śreyas), and confused about dharma, I ask You – what is definitely śreyas? That, please tell me. I am Your student. Having surrendered to You, please teach me.
[अहं] कार्पण्य-दोष-उपहत-स्व-भावः धर्म-सम्मूढ-चेताः [च] त्वां पृच्छामि – यद् निश्चितं श्रेयः स्यात्, तद् मे ब्रूहि। अहं ते शिष्यः। त्वां प्रपन्नं, मां शाधि॥
na, hi, pra-√dṛś, asmad, apa-√nud, yad, śoka, ucchoṣaṇa, indriya;
avāpya, bhūmi, a-sa-patna, ṛddha, rājya, sura, api, ca, ādhipatya.

Because, though gaining an unrivalled and prosperous kingdom on earth and even lordship over the heavenly deities, I do not see on my own what would remove the sorrow, the guilt and hurt, drying up my senses.
भूमौ हि [=यस्मात्] अ-सपत्नम् ऋद्धं राज्यं, सुराणाम् अपि च आधिपत्यम् अवाप्य, यद् मम इन्द्रियाणाम् उच्छोषणं शोकम् अपनुद्यात्, [तद्] न प्रपश्यामि॥
sañjaya, √vac:
evam, uktvā, hṛṣīka-īśa, guḍākā-īśa, param-tapa (param-tapa);
na, √yudh, iti, go-vinda, uktvā, tūṣṇīm, √bhū, ha.

Sañjaya said: Having thus spoken to Kṛṣṇa, Arjuna, the Vexer of Foes, told Kṛṣṇa ‘I will not fight’ and became silent.
सञ्जयः उवाच। हृषीक-ईशम् एवम् उक्त्वा, परन्-तपः गुडाका-ईशः गो-विन्दं “न योत्स्ये” इति उक्त्वा, तूष्णीं बभूव ह॥
tad, √vac, hṛṣīka-īśa, pra-hasat, iva, bhārata;
senā, ubhā, madhya, viṣīdat, idam, √vac.

O Dhṛta-rāṣṭra, with a smile at the new-found student in Arjuna and at the bold request to teach Arjuna between two armies at the outset of war, Kṛṣṇa said these words to him, Arjuna, who was sad in the midst of both armies.
भारत, हृषीक-ईशः प्रहसन् इव तम् उभयोः सेनयोः मध्ये विषीदन्तम् इदं वचः उवाच॥
śrī-bhagavat, √vac:
a-śocya, anu-√śuc, yuṣmad, prajñā-vāda, ca, √bhāṣ;
gata-asu, a-gata-asu, ca, na, anu-√śuc, paṇḍita.

The Lord said: You have grieved for those not to be grieved, yet proclaim words of wisdom. The wise do not grieve for those whose life’s breath is gone or not yet gone.
श्री-भगवान् उवाच। त्वम् अ-शोच्यान् अन्वशोचः, प्रज्ञा-वादान् च भाषसे। पण्डिताः गत-असून् अ-गत-असून् च न अनुशोचन्ति॥
तत्रैवं धर्म-संमूढ-चेतसो महति शोक-सागरे निमग्नस्यार्जुनस्यान्यत्रात्म-ज्ञानाद् उद्धरणम् अपश्यन् भगवान् वासु-देवस् ततोऽर्जुनम् उद्दिधारयिषुर् आत्म-ज्ञानायावतारयन्न् आह –
अशोच्यान् इत्य्-आदि। न शोच्या अशोच्या भीष्म-द्रोणादयः सद्-वृत्तत्वात् परमार्थ-रूपेण च नित्यत्वात्, तान् अशोच्यान् अन्वशोचोऽनुशोचितवान् असि ‘ते म्रियन्ते मन्-निमित्तम्, अहं तैर् विनाभूतः, किं करिष्यामि राज्य-सुखादिना’ इति।
त्वं प्रज्ञा-वादान् प्रज्ञावतां बुद्धिमतां वादांश् वचनानि च भाषसे। तद् एतन् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयस्य् उन्मत इवेति अभिप्रायः।
यस्माद् गतासून् गत-प्राणान् मृतान् अगतासून् अगत-प्राणाञ् जीवतश् च नानुशोचन्ति पण्डिता आत्म-ज्ञाः।
पण्डात्म-विषया बुद्धिर् येषां ते हि पण्डिताः, “पाण्डित्यं निर्विद्य” इति (BrhU.3.5.1) श्रुतेः।
परमार्थतस् तु नित्यान् अशोच्यान् अनुशोचस्य्, अतो मूढोऽसीति अभिप्रायः॥
na, tu, eva, asmad, jātu, na, √as, na, yuṣmad, na, idam, jana-adhipa;
na, ca, eva, na, √bhū, sarva, asmad, atas, param.

Never was there a time that I was not, nor you, nor these kings. Nor will any of us cease to exist hereafter.
न तु एव जातु अहं न आसं, न त्वं, न इमे जन-अधिपाः। न च एव सर्वे वयम् अतः परं न भविष्यामः॥
कुतस् ते शोच्या, यतो नित्याः। कथम् –
न त्व् इति। न त्व् एव जातु कदाचिद् अहं नासं किं-त्व् आसम् एव, अतीतेषु देहोत्पत्ति-विनाशेषु नित्य एवाहम् आसम् इति अभिप्रायः।
तथा न त्वं नासीः, किं-त्व् आसीर् एव। तथा च नेमे जनाधिपा नासन्, किं-त्व् आसन्न् एव।
तथा न चैव न भविष्यामः, किंतु भविष्याम एव, सर्वे वयम् अतोऽस्माद् देह-विनाशात् परम् उत्तर-कालेऽपि। त्रिष्व् अपि कालेषु नित्या आत्म-स्व-रूपेणेति अर्थः। देह-भेदानुवृत्त्या बहु-वचनं नात्म-भेदाभिप्रायेण॥
dehin, idam, yathā, deha, kaumāra, yauvana, jarā;
tathā, deha-antara-prāpti, dhīra, tatra, na, √muh.

For the one with a body (the dehī), like passing through childhood, maturity, and old age in this body, so too for the dehī who remains the same there is the gain of another body after this body dies. Concerning this, the wise person is not confused.
देहिनः, यथा अस्मिन् देहे कौमारं यौवनं जरा [च], तथा देह-अन्तर-प्राप्तिः। तत्र धीरः न मुह्यति॥
तत्र कथम् इव नित्य आत्मेति दृष्टान्तम् आह –
देहिन इति। देहोऽस्यास्तीति देही तस्य देहिनो देहवत आ<ा>त्मनोऽस्मिन् वर्तमाने देहे यथा येन प्रकारेण कैमारं कुमार-भावो बाल्यावस्था, यौवनं यूनो भावो मध्यावस्था, जरा वयो-हानिर् जीर्णावस्थेति एतास् तिस्रोऽवस्था अन्योन्य-विलक्षणाः।
तासां प्रथमावस्था-नाशे न नाशो द्वितीयावस्थोपजनने नोपजननम् आत्मनः। किं तर्ह्य्? अविक्रियस्यैव द्वितीय-तृतीयावस्था-प्राप्तिर् आत्मनो दृष्टा यथा, तथा तद्वद् एव देहाद् अन्यो देहो देहान्तरं तस्य प्राप्तिर् देहान्तर-प्राप्तिर् अविक्रियस्यैवात्मन इत्यर्थः।
धीरो धीमांस् तत्र एवं सति न मुह्यति न मोहम् आपद्यते॥
mātrā-sparśa, tu, kaunteya, śīta-uṣṇa-sukha-duḥkha-da;
āgama-apāyin, a-nitya, tad, √tij, bhārata.

O Arjuna, the contacts of the senses, or rather, the sense objects – from a distance or in contact, which give cold/hot and pleasure/pain, the natural pairs of opposites, have a beginning and an end and therefore are time bound. Endure them, accept them objectively as they are, O Arjuna.
कौन्तेय, मात्रा-स्पर्शाः [=इन्द्रिय-स्पर्शाः मात्र-स्पर्श-विषयाः वा] तु शीत-उष्ण-सुख-दुःख-दाः आगम-अपायिनः अ-नित्याः। तान् तितिक्षस्व, भारत॥
यद्य्-अप्य् आत्म-विनाश-निमित्तो मोहो न संभवति ‘नित्य आत्मा’ इति विजानतस्, तथापि शीतोष्ण-सुख-दुःख-प्राप्ति-निमित्तो मोहो लौकिको दृश्यते। सुख-वियोग-निमित्तो दुःख-संयोग-निमित्तश् च शोक इति एतद् अर्जुनस्य वचनम् आशङ्क्य आह –
मात्रा-स्पर्शा इति। मात्रा आभिर् मीयन्ते शब्दादय इति श्रोत्रादीनीन्द्रयाणि, मात्राणां स्पर्शाः शब्दादिभिः संयोगास् ते शीतोष्ण-सुख-दुःख-दाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति।
अथवा स्पृश्यन्ते इति स्पर्शा विषयाः शब्दादयः, मात्राश् च स्पर्शाश् च शीतोष्ण-सुख-दुःख-दाः
शीतं कदाचित् सुखं कदाचिद् दुःखं तथोष्णम् अप्य् अनियत-रूपं, सुख-दुःखे पुनर् नियत-रूपे यतो न व्यभिचरतोऽतस् ताभ्यां पृथक् शीतोष्णयोर् ग्रहणम्।
यस्मात् ते मात्रा-स्पर्शादयः आगमापयिन आगमापाय-शीलास् तस्माद् अनित्या। अतस् ताञ् शीतोष्णादींस् तितिक्षस्व प्रसहस्व। तेषु हर्षं विषादं च मा कार्षीर् इत्यर्थः॥
yad, hi, na, √vyath, etad, puruṣa, puruṣa-ṛṣabha;
sama-duḥkha-sukha, dhīra, tad, a-mṛtatva, √kḷp.

O Arjuna, the person whom these unavoidable contacts or sense objects do not afflict, who is the same in pleasure and pain, and who is discerning – that one is fit for freedom.
पुरुष-ऋषभ, यं हि पुरुषम् एते [स्पर्शाः विषयाः वा] न व्यथयन्ति, सम-दुःख-सुखं धीरं [च], सः अ-मृतत्वाय कल्पते॥
शीतोष्णादिन् सहतः किं स्याद् इति शृणु –
यं हीति। यं हि पुरुषं सम-दुःख-सुखं समे दुःख-सुखे यस्य तं सम-दुःख-सुखं सुख-दुःख-प्राप्तौ हर्ष-विषाद-रहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्म-दर्शनाद् एते यथोक्ताः शीतोष्णादयः।
नित्यात्म-दर्शन-निष्ठो द्वन्द्व-सहिष्णुर् अमृतत्वायमृत-भावाय मोक्षाय इत्यर्थः। कल्पते समर्थो भवति॥
na, a-sat, √vid, bhāva, na, a-bhāva, √vid, sat;
ubha, api, dṛṣṭa, anta, tu, idam, tattva-darśin.

A-sat (the unreal, the time-bound form) has no being of its own, and sat (the real, existence) has no nonbeing. This conclusion, regarding both these, is discerned by the seers of the truth. (In ‘this form exists,’ ‘that form exists,’ existence is constant. But the unreal, time-bound forms constantly change.)
अ-सतः [=सतः अन्यस्य] भावः न विद्यते, सतः अ-भावः न विद्यते। तत्त्व-दर्शिभिः उभयोः अपि अनयोः अन्तः तु दृष्टः॥
इतश् च शोक-मोहाव् अकृत्वा शीतोष्णादि-सहनं युक्तं यस्मात् –
नासत इति। नासतोऽविद्यमानस्य शीतोष्णादेः स-कारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता। न हि शीतोष्णादि स-कारणं प्रमाणैर् निरूप्यमाणं वस्तु संभवति।
विकारो हि सः। विकारश् च व्यभिचरति। यथा घटादि-संस्थानं चक्षुषा निरूप्यमाणं मृद्-व्यतिरेकेणानुपलब्धेर् असत्, तथा सर्वो विकारः कारण-व्यतिरेकेणानुपलब्धेद् असन्।
जन्म-प्रध्वंसाभ्यां प्राग् ऊर्ध्वं चानुपलब्धेः।
कार्यस्य घटादेर् मृद्-आदि-कारणस्य तत्-कारणस्य च तत्-कारण-व्यतिरेकेणानुपलब्धेर् असत्त्वम्। तद्-असत्त्वे सर्वाभाव-प्रसङ्ग इति चेत्। न, सर्वत्र बुद्धि-द्वयोपलब्धेः सद्-बुद्धिर् असद्-बुद्धिर् इति।
यद्-विषया बुद्धिर् न व्यभिचरति तत् सत्, यद्-विषया बुद्धिर् व्यभिचरति तद् असद् इति सद्-असद्-विभागे बुद्धि-तन्त्रे स्थिते –
सर्वत्र द्वे बुद्धी सर्वैर् उपलभ्येते समानाधिकरणेन (समानाधिकरणे न) नीलोत्पलवत् ‘सन् घटः सन् पटः सन् हस्ती’ इति एवं सर्वत्र।
तयोर् बुद्ध्योर् घटादि-बुद्धिर् व्यभिचरति, तथाच दर्शितम्। न तु सद्-बुद्धिः।
तस्माद् घटादि-बुद्धि-विषयोऽसन् व्यभिचाराद्, न तु सद्-बुद्धि-विषयोऽव्यभिचारात्।
घटे विनष्टे घट-बुद्धौ व्यभिचरन्त्यां सद्-बुद्धिर् अपि व्यभिचरतीति चेत्।
न, पटादाव् अपि सद्-बुद्धि-दर्शनात्। विशेषण-विषयैव सा सद्-बुद्धिः। (अतोऽपि न विनश्यति।)
सद्-बुद्धिवद् घट-बुद्धिर् अपि घटान्तरे दृश्यत इति चेत्।
न, पटादाव् अदर्शनात्।
सद्-बुद्धिर् अपि नष्टे घटे न दृश्यत इति चेत्।
न, विशेष्याभावात्। सद्-बुद्धिर् विशेषण-विषया सती विशेष्याभावे विशेषणानुपपत्तौ किं-विषया स्याद्, न तु पुनः सद्-बुद्धेर् विषयाभावात्।
एकाधिकरणत्वं घटादि-विशेष्याभावे न युक्तम् इति चेत्।
न, ‘इदम् उदकम्’ इति मरीच्यादाव् अन्यतराभावेऽपि सामानाधिकरण्य-दर्शनात्।
तस्माद् देहादेर् द्वन्द्वस्य च स-कारणस्य असतो न विद्यते भाव इति।
तथा सतश् चात्मनोऽभावऽविद्यमानता न विद्यते सर्वत्राव्यभिचाराद् इति अवोचाम।
एवम् आत्मानात्मनोः सद्-असतोर् उभयोर् अपि दृष्ट उपलब्धोऽन्तो निर्णयः ‘सत् सद् एवासद् असद् एव’ इति त्व् अनयोर् यथोक्तयोस् तत्त्व-दर्शिभिः
‘तद्’ इति सर्व-नाम, सर्वं च ब्रह्म, तस्य नाम ‘तद्’ इति, तद्-भावस् तत्त्वं ब्रह्मणो याथात्म्यं, तद् द्रष्टुं शीलं येषां ते तत्व-दर्शिनस् तैर् तत्त्व-दर्शिभिः।
त्वम् अपि तत्त्व-दर्शिनां दृष्टिम् आश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियत-रूपाणि द्वन्द्वानि ‘विकारोऽयं असन्न् एव मरीचि-जलवन् मिथ्यावभासत’ इति मनसि निश्चित्य तितिक्षस्व इति अभिप्रायः॥
avināśin, tu, tad, √vid, yad, sarva, idam, tata;
vināśa, a-vyaya, idam, na, ka-cid, kartum, √arh.

By which sat (existence/reality) all this, the a-sat (the ‘this and that’ time-bound world, including this body-mind complex), is pervaded, know that, the timeless and real, to be indestructible. Nothing is able to bring about the destruction of this that does not change.
येन तु इदं सर्वं ततं, तद् [सत्] अ-विनाशि विद्धि। न कश्-चिद् अस्य अ-व्ययस्य विनाशं कर्तुम् अर्हति॥
किं पुनस् तत् यत् सद् एव सर्वदा एव अस्ति इति उच्यते –
अविनाशीति। अविनाशि न विनष्टुं शीलम् अस्येति। तु-शब्दोऽसतो विशेषणार्थः।
तद् विद्धि विजानीहि। किम्? येन सर्वम् इदं जगत् ततं व्याप्तं सद्-आख्येन ब्रह्मणा साकाशम्, आकाशेनेव घटादयः।
विनाशम् अदर्शनम् अभावम् अव्ययस्य – न व्येत्य्, उपचयापचयौ न यातीति अव्ययं तस्याव्ययस्य।
नैतत् सद्-आख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति निरवयवत्वाद् देहादिवत्।
नाप्य् आत्मीयेन आत्मीयाभावाद्, यथा देव-दत्तो धन-हान्या व्येति न त्व् एवं ब्रह्म व्येति।
अतोऽव्ययस्य अस्य ब्रह्मणो विनाशं न कश्चित् कर्तुम् अर्हति। न कश्चिद् आत्मानं [=स्व-रूपं] विनाशयितुं शक्नोतीश्वरोऽपि।
आत्मा हि ब्रह्म, स्वात्मनि च क्रिया-विरोधात्॥
antavat, idam, deha, nitya, ukta, śarīrin;
a-nāśin, a-prameya, tasmāt, √yudh, bhārata.

These bodies of the timeless, indestructible, non-objectifiable as the self-evident subject embodied one who obtains as the being/reality of these body-mind complexes are said to be subject to unavoidable death. Therefore fight, O Arjuna.
नित्यस्य [=अ-कालस्य] अ-नाशिनः अ-प्रमेयस्य [=मनो-विषयत्वम् अयोग्यस्य] शरीरिणः इमे देहाः अन्तवन्तः [अ-सत्-रूपेण] उक्ताः। तस्माद् युध्यस्व, भारत॥
किं पुनस् तद् असद् यत् स्वात्म-सत्तां व्यभिचरति? इति उच्यते –
अन्तवन्त इति। अन्तो विनाशो विद्यते येषां तेऽन्तवन्तो, यथा मृग-तृष्णिकादौ सद्-बुद्धिर् अनुवृत्ता प्रमाण-निरूपणान्ते विच्छिद्यते स [विच्छेदः] तस्या अन्तस्, तथा इमे देहाः, स्वप्न-माया-देहादिवच् चान्तवन्तः।
नित्यस्य शरीरिणः शरीरवतोऽनाशिनोऽप्रमेयस्यात्मनोऽन्तवन्त इति उक्ता विवेकिभिर् इति अर्थः।
नित्यस्यानाशिन इति न पुनर्-उक्तं, नित्यत्वस्य द्वि-विधत्वाल् लोके, नाशस्य च।
यथा देहो भस्मी-भूतोऽदर्शनं गतो नष्ट उच्यते, विद्यमानोऽप्य् अन्यथा परिणतो व्याध्यादि-युक्तो जातो नष्ट उच्यते।
तत्रानाशिनो नित्यस्येति द्वि-विधेनापि नाशेनासंबन्धोऽस्येति अर्थः।
अन्यथा पृथिव्यादिवद् अपि [परिणामि-]नित्यत्वं स्याद् आत्मनस्, तन् मा भूद् इति ‘नित्यस्यानाशिन’ [कूट-स्थ-नित्यस्य] इति आह।
अप्रमेयस्य न प्रमेयस्य, प्रत्यक्षादि-प्रमाणैर् अपरिच्छेद्यस्येति अर्थः।
नन्व् आगमेनात्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम्।
न, आत्मनः स्वतः-सिद्धत्वात्। सिद्धे ह्य् आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति।
न हि पूर्वम् ‘इत्थम् [प्रमाता] अहम्’ इति आत्मानम् अप्रमाय पश्चात् प्रमेय-परिच्छेदाय प्रवर्तते। न ह्य् आत्मा नाम कस्यचिद् अप्रसिद्धो भवति।
शास्त्रं त्व् अन्त्यं प्रमाणम् अतद्-धर्माध्यारोपणमात्र-निवर्तकत्वेन प्रमाणत्वम् आत्मनि प्रतिपद्यते, न त्व् अज्ञातार्थ-ज्ञापकत्वेन।
तथाच श्रुतिः “यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः” इति (BrhU.3.4.1)। यस्माद् एवं नित्योऽविक्रियश् चात्मा तस्माद् युध्यस्व युद्धाद् उपरमं मा कार्षीर् इति अर्थः।
न ह्य् अत्र युद्ध-कर्तव्यता विधीयते। युद्धे प्रवृत्त एव ह्य् असौ शोक-मोह-प्रतिबद्धस् तूष्णीम् आस्ते। तस्य कर्तव्य-प्रतिबन्धापनयनमात्रं भगवता क्रियते। तस्माद् ‘युध्यस्व’ इति अनुवादमात्रं न विधिः॥
yad, enad, √vid, hantṛ, yad, ca, enad, √man, hata;
ubha, tad, na, vi-√jñā, na, idam, na, √han, na, √han.

The one who thinks this (the embodied one, the real, the self-evident subject) is the agent of destruction, change, etcetera, and the one who thinks this (the embodied one, the real) is the object of destruction – both do not know. This neither destroys nor is destroyed.
यः एनं [देहिनम्/सत्] हन्तारं वेत्ति, यः च एनं हतं मन्यते, उभौ तौ न विजानीतः। अयं न हन्ति, न हन्यते॥
शोक-मोहादि-संसार-कारण-निवृत्त्य्-अर्थं गीता-शास्त्रं न प्रवर्तकम् इत्य्, एतस्यार्थस्य साक्षि-भूते ऋचाव् [KathU.1.2.19,18] आनिनाय भगवान्।
यत् तु मन्यसे ‘युद्धे भीष्मादयो मया हन्यन्तेऽहम् एव तेषां हन्ता’ इति एषा बुद्धिर् मृषैव ते। कथम्? –

य एनम् इति। य एनं प्रकृतं देहिनं वेत्ति जानाति हन्तारं हनन-क्रियायाः कर्तारं, यश् चैनम् अन्यो मन्यते हतं देह-हनने (देह-हननेन) ‘हतोऽहम्’ इति हनन-क्रियायाः कर्म-भूतम्।
ताव् उभौ न विजानीयो न ज्ञानवन्ताव् अविवेकेनात्मानम् अहं-प्रत्यय-विषयम्।
‘हन्ताहं, हतोऽस्म्य् अहम्’ इति देह-हननेनात्मानम् यौ विजानीतस् ताव् आत्म-स्व-रूपानभिज्ञाव् इति अर्थः।
यस्मान् नायम् आत्मा हन्ति न हनन-क्रियायाः कर्ता भवति, न हन्यते न च कर्म भवति इत्यर्थः, अविक्रियत्वात्॥
na, √jan, √mṛ, vā, kadā-cid, na, idam, bhūtvā, a-bhavitṛ, vā, na, bhūyas;
a-ja, nitya, śāśvata, idam, purāṇa, na, √han, hanyamāna, śarīra.

This, the embodied one, the real, is never born, nor dies. It is not that, coming to be, it again comes not to be, nor the opposite – becoming nonexistent, it again comes to be. This – which is unborn, permanent, ever the same, and always there – is not destroyed, not changed, when the body is being destroyed, changed.
अयं न कदा-चिद् जायते, म्रियते वा। न [अस्ति] – भूत्वा भूयः अ-भविता, न वा [–अभूत्वा भूयः भविता इत्यर्थः]। अयम् अ-जः नित्यः शाश्वतः पुराणः शरीरे हन्यमाने न हन्यते॥
कथम् अविक्रिय आत्मेति द्वितीयो मन्त्रः –
न जायते नोत्पद्यते, जनि-लक्षणा वस्तु-विक्रिया नात्मनो विद्यत इत्यर्थः। (तथा) न म्रियते वा। वा-शब्धश् चार्थे।
“न म्रियते” चेत्य् अन्त्या विनाश-लक्षणा विक्रिया पर्तिषिध्यते।
कदाचिच्-छब्दः सर्व-विक्रिया-प्रतिषेधैः संबध्यते ‘न कदाचिज् जायते, न कदाचिन् म्रियत’ इत्य् एवम्।
यस्माद् अयम् आत्मा भूत्वा भवन-क्रियाम् [अस्ति-विकार-लक्षणाम्] अनुभूय पश्चाद् अभविता अभावं गन्ता न भूयः पुनस् तस्मान् न म्रियते, यो हि भूत्वा न भविता स ‘म्रियत’ इत्य् उच्यते लोके।
वा-शब्दान् -शब्दाच् चायम् आत्मा अभूत्वा भविता वा देहवन् न भूयः पुनस् तस्मान् न जायते। यो ह्य् अभूत्वा भविता स जायत इत्य् उच्यते, नैवम् आत्मा अतो न जायते।
यस्माद् एवं तस्माद् अ-जो, यस्मान् न म्रियते तस्मान् नित्यश् च।
यद्य्-अप्य् आद्य्-अन्तयोर् विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्य-भाविनीनां विक्रियाणां स्व-शब्दैर् एव तद्-अर्थैः प्रतिषेधः कर्तव्य, इत्य् अनुक्तानाम् अपि यौवनादि-समस्त-विक्रियाणां प्रतिषेधो यथा स्याद्, इत्य् आह ‘शाश्वत’ इत्य्-आदिना।
शाश्वत इत्य् अपक्षय-लक्षणा विक्रिया प्रतिषिध्यते। शश्वद्-भवः शाश्वतः। नापक्षीयते स्व-रूपेण निर्-अवयवत्वान्, निर्-गुणत्वाच् च नापि गुण-क्षयेणापक्षयः।
अपक्षय-विपरीतापि वृद्धि-लक्षणा विक्रिया प्रतिषिध्यते पुराण इति। यो ह्य् अवयवागमेनोपचीयते, स वर्धतेऽभिनव इति चोच्यते। अयं त्व् आत्मा निर्-अवयवत्वात् ‘पुरापि नव एव’ इति पुराणो, न वर्धत इत्यर्थः।
तथा न हन्यते न विपरिणम्यते हन्यमाने विपरिणम्यमानेऽपि शरीरे
हन्तिर् अत्र विपरिणामार्थो द्रष्टव्योऽपुनर्-उक्ततायै, न विपरिणम्यत इत्यर्थः।
अस्मिन् मन्त्रे षड्-भावविकारा लौकिक-वस्तु-विक्रिया आत्मनि प्रतिषिध्यन्ते। सर्व-प्रकार-विक्रिया-रहित आत्मेति वाक्यार्थः।
यस्माद् एवं तस्माद् “उभौ तौ न विजानीत” इति (BhG.2.19) पूर्वेण मन्त्रेणास्य संबन्धः॥
√vid, a-vināśin, nitya, yad, enad, a-ja, a-vyaya;
katham, tad, puruṣa, pārtha, kim, √han, √han, kim.

O Arjuna, when one knows this, the dehī (oneself, the embodied one, the real), to be indestructible, permanent, unborn, and unchanging, then how does that person cause the death of whom, or kill whom?
पार्थ, यः एनम् [देहिनम्/सत्] अ-विनाशिनं नित्यम् अ-जम् अ-व्ययं [च] वेद, कथं सः पुरुषः कं घातयति, कं [च] हन्ति॥
“य एनं वेति हन्तारम्” इत्य् (BhG.2.19) अनेन मन्त्रेण हनन-क्रियायाः कर्ता कर्म च न भवतीति प्रतिज्ञाय, “न जायत” इत्य् अनेनाविक्रियत्वे हेतुम् उक्त्वा, प्रतिज्ञातार्थम् उपसंहरति –
वेदाविनाशिनम् इति। वेद विजानात्य् अविनाशिनम् अन्त्य-भाव-विकार-रहितं नित्यं विपरिणाम-रहितं यो वेदेति संबन्धः एनं पूर्वेण मन्त्रेणोक्त-लक्षणम् अजं जन्म-रहितम् अव्ययम् अपक्षय-रहितम्।
कथं केन प्रकारेण विद्वान् पुरुषोऽधिकृतो हन्ति हनन-क्रियां करोति। कथं वा घातयति हन्तारं प्रयोजयति।
न कथं-चित् कं-चिद् धन्ति, न कथं-चित् कं-चिद् घातयतीति उभयत्राक्षेप एवार्थः, पश्नार्थासंभवात्।
हेत्व्-अर्थस्याविक्रियत्वस्य तुल्यत्वाद् विदुषः सर्व-कर्म-प्रतिषेध एव प्रकरणार्थोऽभिप्रेतो भगवतः।
हन्तेस् त्व् आक्षेप उदाहरणार्थत्वेन कथितः।
विदुषः कं कर्मासंभवे हेतु-विशेषं पश्यन्, कर्माण्य् आक्षिपति भगवान् – “कथं स पुरुष” इति?
ननूक्त एव – आत्मनोऽविक्रियत्वं सर्व-कर्मासंभव-कारण-विशेषः।
सत्यम् उक्तो, न तु स [अ-विक्रियत्व-रूपः] कारण-विशेषो, अन्यत्वाद् विदुषोऽविक्रियत्वाद् आत्मन इति। न ह्य् अविक्रियं स्थाणुं विदितवतः कर्म – न संभवतीति चेत्।
न, विदुष आत्मत्वात्, न देहादि-संघातस्य विद्वत्ता। अतः पारिशेष्याद् अ-संहत आत्मा विद्वान् अविक्रिय इति तस्य विदुषः कर्मासंभवाद्, आक्षेपो युक्तः – “कथं स पुरुष” इति।
यथा बुद्ध्य्-आद्य्-आहृतस्य शब्दाद्य्-अर्थस्याविक्रिय एव सन् बुद्धि-वृत्त्य्-अविवेक-विज्ञानेनाविद्ययोपब्धात्मा कल्प्यते।
एवम् एवात्मानात्म-विकेक-ज्ञानेन बुद्धि-वृत्त्या विद्ययासत्य-रूपयैव परमार्थतोऽविक्रिय एवात्मा ‘विद्वान्’ उच्यते।
विदुषः कर्मासंभव-वचनाद्, यानि कर्माणि शास्त्रेण विधीयन्ते तान्य् अ-विदुषो विहितानीति भगवतो निश्चयोऽवगम्यते।
ननु विद्याप्य् अ-विदुष एव विधीयते, विदित-विद्यस्य पिष्ट-पेषणवद् विद्या-विधानानर्थक्यात्। तत्र ‘अ-विदुषः कर्माणि विधीयन्ते न विदुष’ इति विशेषो नोपपद्यते, इति चेत्।
न, अनुष्ठेयस्य भावाभाव-विशेषोपपत्तेः। अग्नि-होत्रादि-विध्य्-अर्थ-ज्ञानोत्तर-कालम् ‘अग्नि-होत्रादि-कर्म अनेक-साधनोपसंहार-पूर्वकम् अनुष्ठेयं, कर्ताहं, मम कर्तव्यम्’ इत्य् एवं-प्रकारक-विज्ञानवतो(ऽ)विदुषो यथानुष्ठेयं भवति, न तु तथा “न जायत” इत्य्-आद्य् (BhG.2.20) आत्म-स्व-रूप-विध्य्-अर्थ-ज्ञानोत्तर-काल-भावि किंचिद् अनुष्ठेयं भवति।
किं-तु ‘नाहं कर्ता न भोक्ता’ इत्य्-आद्य्-आत्मैकत्वाकृतृत्वादि-विषय-ज्ञानाद् अन्यन् नोत्पद्यत इत्य् एष विशेष उपपद्यते।
यः पुनः ‘कर्ताहम्’ इति वेत्त्य् आत्मानं तस्य ‘ममेदं कर्तव्यम्’ इत्य् अवश्यं-भाविनी बुद्धिः स्यात्, तद्-अपेक्षया सोऽधिक्रियत इति तं प्रति कर्माणि। स चाविद्वान् “उभौ तौ न विजानीतः” इति (BhG.2.19) वचनाद्।
विशेषितस्य च विदुषः कर्माक्षेप-वचनात् “कथं स पुरुषः” इति। तस्माद् विशेषितस्याविक्रियात्म-दर्शिनो विदुषो मुमुक्षोश् च सर्व-कर्म-सन्न्यास एवाधिकाः।
अत एव भगवान् नारायणः सांख्यान् विदुषोऽविदुषश् च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति “ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम्” इति (BhG.3.3)।
तथाच पुत्रायाह भगवान् व्यासो “द्वाव् इमाव् अथ पन्थानौ” इत्य्-आदि (MBhSant.241.6)। तथाच ‘क्रिया-पथश् चैव पुरस्तात् पश्चात् सन्न्यासश् च’ इति (TaitAr.10.62.12)।
एतम् एव विभागं पुनः पुनर् दर्शयिष्यति भगवान्। अ-तत्त्व-विद् “अहंकार-विमूढात्मा कर्ताहम् इति मन्यते, तत्त्व-वित् तु”… ‘नाहं करोमि’ इति (BhG.3.27–28), तथाच “सर्व-कर्माणि मनसा संन्यस्यास्त” इत्य्-आदि (BhG.5.13)।
तत्र केचित् पण्डितं-मन्या वदन्ति – ‘जन्मादि-षड्-भाव-विक्रिया-रहितोऽविक्रियोऽकर्तैकऽहम् आत्मा इति न कस्यचिज् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्व-कर्म-सन्न्यास उपदिश्यते’ इति।
तन् न, “न जायत” (KathU.1.2.18, BhG.2.20) इत्य्-आदि-शास्त्रोपदेशानर्थक्यात्।
‘यथाच शास्त्रोपदेश-सामर्थ्याद् धर्मास्तित्व-विज्ञानं कर्तुश् च देहान्तर-संबन्धि-ज्ञानं चोत्पद्यते, तथा शास्त्रात् तस्यैवात्मनोऽविक्रियत्वाकर्तृत्वैकत्वादि-विज्ञानं कस्मान् नोपपद्यत’ इति प्रष्टव्यास् ते।
करणागोचरत्वाद् इति चेत्।
न, “मनसैवानुद्रष्टव्यम्” इति (BrhU.4.4.19) श्रुतेः। शास्त्राचार्योपदेश-शम-दमादि-संस्कृतं मन आत्म-दर्शने करणम्।
तथाच तद्-अधिगमायानुमान आगमे च सति ज्ञानं नोत्पद्यत इति साहसम् एतत्।
ज्ञानं चोत्पद्यमानं तद्-विपरीतम् अज्ञानम् अवश्यं बाधत इत्य् अभ्युपगन्तव्यम्।
तच् चाज्ञानं दर्शितं ‘हन्ताहं हतोऽस्मि’ इति – “उभौ तौ न विजानीत” (BhG.2.19) इति, अत्र (BhG.2.21) चात्मनो हनन-क्रियायाः कर्तृत्वं कर्मत्वं हेतु-कर्तृत्वं चाज्ञान-कृतं दर्शितम्।
तच् च सर्व-क्रियास्व् अपि समानं कर्तृत्वादेर् अविद्या-कृतत्वम् अविक्रियत्वाद् आत्मनः। विक्रियावान् हि कर्तात्मनः कर्म-भूतम् अन्यं प्रयोजयति ‘कुरु’ इति।
तद् एतद् अविशेषेण विदुषः सर्व-क्रियासु कर्तृत्वं हेतु-कर्तृत्वं च प्रतिषेधति भगवान् विदुषः कर्माधिकाराभाव-प्रदर्शनार्थं “वेदाविनाशिनं… कथं स पुरुष” इत्य्-आदिना।
क्व पुनर् विदुषोऽधिकार इत्य् एतद् उक्तं पूर्वम् एव “ज्ञान-योगेन सांख्यानाम्” इति (BhG.3.3)। तथाच सर्व-कर्म-सन्न्यासं वक्ष्यति “सर्व-कर्माणि मनसा” इत्य्-आदिना (BhG.5.13)।
ननु “मनसा” इति वचनान् न वाचिकानां कायिकानां च सन्न्यास इति चेत्।
न, “सर्व-कर्माणि” इति विशेषितत्वात्।
मानसानाम् एव सर्व-कर्मणाम् इति चेत्।
न, मनो-व्यापार-पूर्वकत्वाद् वाक्-काय-व्यापाराणां मनो-व्यापाराभावे तद्-अनुपपत्तेः।
शास्त्रीयाणां वाक्-काय-कर्मणां कारणानि मानसानि वर्जयित्वाऽन्यानि सर्व-कर्माणि मनसा संन्यसेद् इति चेत्।
न, “नैव कुर्वन् न कारयन्” इति (BhG.5.13) विशेषणात्।
सर्व-कर्म-सन्न्यासोऽयं भगवतोक्तो मरिष्यतो न जीवत इति चेत्।
न, “नव-द्वरे पुरे देह्य् आस्ते” इति (BhG.5.13) विशेषणानुपपत्तेः।
न हि सर्व-कर्म-सन्न्यासेन मृतस्य तद्-देहे आसनं संभवति, अकुर्वतोऽकारयतश् च।
“देहे संन्यस्य” इति संबन्धो [मरिष्यतः…], न “देहे आस्त” इति चेत्।
न, सर्वत्रात्मनोऽविक्रियत्वावधारणात्। आसन-क्रियायाश् चाधिकरणापेक्षत्वात्, तद्-अनपेक्षत्वाच् च सन्न्यासस्य। सं-पूर्वस् तु न्यास-शब्द इह त्यागार्थो न निक्षेपार्थः।
तस्माद् गीता-शास्त्रे ‘आत्म-ज्ञानवतः सन्न्यास एवाधिकारो न कर्मणि’ इति तत्र तत्रोपरिष्टाद् आत्म-ज्ञान-प्रकरणे दर्शयिष्यामः॥
vāsas, jīrṇa, yathā, vihāya, nava, √grah, nara, apara;
tathā, śarīra, vihāya, jīrṇa, anya, sam-√yā, nava, dehin.

Just as a person discarding worn-out clothes takes other new ones; similarly, the embodied one, discarding worn-out bodies, takes on other new ones.
यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि गृह्णाति, तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति॥
प्रकृतं तु वक्ष्यामः, तत्रात्मनोऽविनाशित्वं प्रतिज्ञातम्। तत् किम् इव? इत्य् उच्यते –
वासांसीति। वासांसि वस्त्राणि जीर्णानि दुर्-बलतां गतानि यथा लोके विहाय परित्यज्य नवान्य् अभिनवानि गृह्णात्य् उपादत्ते नरः पुरुषोऽपराण्य् अन्यानि, तथा तद्वद् एव शरीराणि विहाय जीर्णान्य् अन्यानि संयाति संगच्छति नवानि देह्य्| आत्मा पुरुषवद् अविक्रिय एवेत्य् अर्थः॥
na, enad, √chid, śastra, na, enad, √dah, pāvaka;
na, ca, enad, √klid, ap, na, √śuṣ, māruta.

Weapons made from the element earth do not cut it, nor does the element fire burn it, nor does the element water soak it, nor does the element wind wither it.
[भूमिमयानि] शस्त्राणि एनं न छिन्दन्ति, पावकः एनं न दहति, आपः एनं न क्लेदयन्ति, मारुतः न च शोषयति॥
कस्माद् अविक्रिय एवेत्य् आह –
नैनं छिन्दन्तीति। एनं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि निर्-अवयवत्वान् नावयव-विभागं कुर्वन्ति शस्त्राण्य् अस्य्-आदीनि।
तथा नैनं दहति पावकोऽग्निर् अपि न भस्मी-करोति।
तथा न चैनं क्लेदयन्त्य् आपः। अपां हि सावयवस्य वस्तुन आर्द्री-भाव-करणेनावयव-विश्लेषापादने सामर्थ्यं। तन् न निर्-अवयवे आत्मनि संभवति।
तथा स्नेहवद् द्रव्यं स्नेह-शोषणेन नाशयति वायुः। एनं स्वात्मानं न शोषयति मारुतोऽपि॥
a-chedya, idam, a-dāhya, idam, a-kledya, a-śoṣya, eva, ca;
nitya, sarva-gata, sthāṇu, a-cala, idam, sanā-tana.

This is uncutable. This is unburnable, unwetable, and unwitherable. This is timeless, locationless, stable, unmoving, and always existing.
अयम् अ-च्छेद्यः, अयम् अ-दाह्यः, अ-क्लेद्यः अ-शोष्यः एव च। अयं नित्यः सर्व-गतः [=अ-देशः] स्थाणुः अ-चलः सना-तनः [च]॥
यत एवं तस्मात् –
अच्छेद्योऽयम् इति। यस्माद् अन्योन्य-नाश-हेतूनि भूतान्य् एनम् आत्मानं नाशयितुं नोत्सहन्ते, तस्मान् नित्यः
नित्यत्वात् सर्वगतः। सर्व-गतत्वात् स्थाणुः, स्थाणुर् इव स्थिरः इत्य् एतत्। स्थिरत्वाद् अचलोऽयम् आत्मा। अतः सना-तनश् चिरन्-तनः। न कारणात् कुतश्चिन् निष्पन्नोऽभिनव इत्यर्थः।
नैतेषां श्लोकानां पौनर्-उक्त्यं चोदनीयम्। यद् एकेणैव श्लोकेनात्मनो नित्यत्वम् अ-विक्रियत्वं चोक्तं “न जायते म्रियते वा” इत्य्-आदिना (BhG.2.20)। तत्र यद् एवात्म-विषयं किंचिद् उच्यते तद् एतस्माच् छ्लोकार्थान् नातिरिच्यते, किंचिच्-छब्दतः पुनर्-उक्तं किंचिद्-अर्थत इति।
दुर्-बोधत्वाद् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासु-देवः, कथं नु नाम संसारिणाम् अ-व्यक्तं तत्त्वं बुद्धि-गो-चरताम् आपन्नं सत् संसार-निवृत्तये स्याद् इति॥
a-vyakta, idam, a-cintya, idam, a-vikārya, idam, √vac;
tasmāt, evam, viditvā, enad, na, anuśocitum, √arh.

This is said to be not manifest to the senses, not an object of thought since it is the conscious being that is aware of all thoughts, and not subject to change. Therefore, since there is no basis for grief regarding the self, knowing this as such, you cannot grieve.
अयम् अ-व्यक्तः, अयम् अ-चिन्त्यः [=मनो-विषयत्वम् अ-योग्यः], अयम् अ-विकार्यः उच्यते। तस्मात् एवम् एनं विदित्वा अनुशोचितुं न अर्हसि॥
किं-च –
अ-व्यक्तोऽयम् इति। अ-व्यक्तः सर्व-करणाविषयत्वान् न व्यज्यते इत्य् अ-व्यक्तोऽयम् आत्मा।
अत एव अ-चिन्त्योऽयम्। यद् धीन्द्रिय-गोचरं वस्तु तच् चिन्ता-विषयत्वम् आपद्यते, अयं त्व् आत्मा अन्-इन्द्रिय-गोचरत्वाद् अ-चिन्त्यः।
(अत एव) अ-विकार्योऽयम्। यथा क्षीरं दध्य्-आतञ्चनादिना विकारि न तथा अयम् आत्मा।
निर्-अवयवत्वाच् चाविक्रियः। न हि निर्-अवयवं किंचिद् विक्रियात्मकं दृष्टम्। अ-विक्रियत्वाद् अ-विकार्योऽयम् आत्मा उच्यते
तस्माद् एवं यथोक्त-प्रकारेण एनम् आत्मानं विदित्वा त्वं नानुशोचितुम् अर्हसि ‘हन्ताहम् एषां, मयैते हन्यन्ते’ इति॥
atha, ca, enad, nitya-jāta, nityam, vā, √man, mṛta;
tathā, api, yuṣmad, mahā-bāhu, na, evam, śocitum, √arh.

O Arjuna, now if you consider this, the self – as the body or as an individual soul, to continually be born and die – even in that way, you should not grieve.
महा-बाहो, अथ च एनं नित्य-जातं नित्यं मृतं वा मन्यसे, तथा अपि एवं त्वं शोचितुं न अर्हसि॥
आत्मनोऽनित्यत्वम् अभ्युपगम्येदम् उच्यते –
अथ चैनम् इति। अथ च इत्य् अभ्युपगमार्थः।
एनं प्रकृतम् आत्मानं नित्य-जातं लोक-प्रसिद्ध्या प्रत्य्-अनेक-शरीरोत्पत्तिं जातो जात इति मन्यसे। तथा प्रति-तद्-विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति।
तथापि तथा-भाविन्य् अप्य् आत्मनि त्वं महा-बाहो नैवं शोचितुम् अर्हसि, जन्मवतो नाशो नाशवतो जन्म चेत्य् एताव् अ-वश्यं-भाविनाव् इति॥
jāta, hi, dhruva, mṛtyu, dhruva, janman, mṛta, ca;
tasmāt, a-parihārya, artha, na, yuṣmad, śocitum, √arh.

Because, for what is born, death is certain, and for what is dead, birth in another form is certain. Then you should not grieve over a situation that cannot be avoided.
जातस्य हि [=यस्मात्] मृत्युः ध्रुवः, मृतस्य च जन्म ध्रुवं, तस्मात् अ-परिहार्ये अर्थे त्वं शोचितुं न अर्हसि॥
तथाच सति –
जातस्येति। जातस्य हि लब्ध-जन्मनो ध्रुवोऽव्यभिचारी मृत्युर् मरणं, ध्रुवं जन्म मृतस्य च, तस्माद् अ-परिहार्योऽयं जन्म-मरण-लक्षणोऽर्थः। तस्मिन्न् अ-परिहार्येऽर्थे न त्वं शोचितुम् अर्हसि
a-vyakta-ādi, bhūta, vyakta-madhya, bhārata;
a-vyakta-nidhana, eva, tatra, kim, paridevanā.

O Arjuna, all beings are unseen before their beginning, unknown as to whom or what they were before their birth; are seen in between; and are unseen after their end, unknown as to their lot after death. Regarding that, why grieve?
भारत, भूतानि अ-व्यक्त-आदीनि व्यक्त-मध्यानि अ-व्यक्त-निधनानि एव [च]। तत्र का परिदेवना॥
कार्य-करण-संघातात्मकान्य् अपि भूतान्य् उद्दिश्य शोको न युक्तः कर्तुं, यतः –
अ-व्यक्तादीनीति। अ-व्यक्तादीन्य् अ-व्यक्तम् अ-दर्शनम् अन्-उपलब्धिर् आदिर् येषां भूतानां पुत्र-मित्रादि-कार्य-करण-संघातात्मकानां तान्य् अ-व्यक्तादीनि भूतानि प्राग् उत्पत्तेः।
उत्पन्नानि च प्राङ् मरणाद् व्यक्त-मध्यानिअ-व्यक्त-निधनान्य् एव पुनर् अ-व्यक्तम् अ-दर्शनं निधनं मरणं येषां तान्य् अ-व्यक्त-निधनानि। मरणाद् ऊर्ध्वम् अपि अ-व्यक्तताम् एव प्रतिपद्यन्त इत्यर्थः।
तथा चोक्तम् –
अ-दर्शनाद् आपतितः पुनश् चादर्शनं गतः।
नासौ तव न तस्य त्वं वृथा का परिदेवना॥ इति (MBhStri.2.13)।
तत्र का परिदेवना को वा प्रलापोऽदृष्ट-दृष्ट-प्रनष्ट-भ्रान्ति-भूतेषु भूतेष्व् इत्यर्थः॥
āścaryavat, √dṛś, ka-cid, enad, āścaryavat, √vad, tathā, eva, ca, anya;
āścaryavat, ca, enad, anya, √śru, śrutvā, enad, √vid, na, ca, eva, ka-cid.

As a wonder, someone sees, knows, this timeless, locationless, embodied one – the real! Similarly, as a wonder, another, the teacher, speaks of this and, as a wonder, another listens about this! Even after listening, another still does not know this which is oneself!
कश्-चिद् एनम् [देहिनम्/सत्] आश्चर्यवत् पश्यति। तथा एव च अन्यः आश्चर्यवत् वदति, अन्यः च एनम् आश्चर्यवत् शृणोति। कश्-चिद् च श्रुत्वा अपि एनं न एव वेद॥
दुर्-विज्ञेयोऽयं प्रकृत आत्मा। किं त्वाम् एवैकम् उपालभे साधारणे भ्रान्ति-निमित्ते? कथं दुर्-विज्ञेयोऽयम् आत्मा? इति आह –
आश्चर्यवद् इति। आश्चर्यवद् आश्चर्यम् अ-दृष्ट-पूर्वम् अद्भुतम् अ-कस्माद् दृश्यमानं तेन तुल्यम् आश्चर्यवद् आश्चर्यम् इव एनम् आत्मानं पश्यति कश्चैत्
आश्चर्यवद् एनं वदति तथैव चान्यःआश्चर्यवच् चैनम् अन्यः शृणोतिश्रुत्वा दृष्ट्वोक्त्वा अप्य् एनं (आत्मानं) वेद न चैव कश्चित्
अथवा योऽयम् आत्मानं पश्यति स आश्चर्य-तुल्यो, यो वदति, यश् च शृणोति। सोऽनेक-सहस्रेषु कश्चिद् एव भवति। अतो दुर्-बोध आत्मेत्य् अभिप्रायः॥
dehin, nityam, a-vadhya, idam, deha, sarva, bhārata;
tasmāt, sarva, bhūta, na, yuṣmad, śocitum, √arh.

O Arjuna, this embodied one in every body is ever indestructible; therefore, you should not grieve over all these beings.
भारत, सर्वस्य देहे अयं देही नित्यम् अ-वध्यः। तस्मात् त्वं सर्वाणि भूतानि शोचितुं न अर्हसि॥
अथेदानीं प्रकरणार्थम् उपसंहरन् ब्रूते –
देहीति। देही शरीरी नित्यं सर्वदा सर्वावस्थास्व् अवध्यो निर्-अवयवत्वान् नित्यत्वाच् च, तत्रावध्योऽयं देहे शरीरे सर्वस्य सर्व-गतत्वात् स्थावरादिषु स्थितोऽपि।
सर्वस्य प्राणि-जातस्य देहे वध्यमानेऽप्य् अयं देही न वध्यो यस्मात्, तस्माद् भीष्मादीनि सर्वाणि भूतान्य् उद्दिश्य न त्वं शोचितुम् अर्हसि
sva-dharma, api, ca, avekṣya, na, vikampitum, √arh;
dharmya, hi, yuddha, śreyas, anya, kṣatriya, na, √vid.

Even in regard to your own dharma (nature and duty), you should not waver. Because, for a warrior such as you – by nature and duty, there is no greater good than a battle on the side of dharma, a battle for the protection of what supports people through their maturation to wisdom.
स्व-धर्मम् अपि च अवेक्ष्य विकम्पितुं न अर्हसि, क्षत्रियस्य हि [=यस्मात्] धर्म्यात् युद्धात् अन्यद् श्रेयः न विद्यते॥
इह परमार्थ-तत्त्वापेक्षायां शोको वा मोहो वा न संभवतीत्य् उक्तं, न केवलं परमार्थ-तत्त्वापेक्षायाम् एव किंतु –
स्व-धर्मम् इति। स्व-धर्मम् अपि स्वो धर्मः क्षत्रियस्य धर्मो युद्धं, तम् अप्य् अवेक्ष्य त्वं न विकम्पितुं प्रचलितुं न अर्हसि, क्षत्रियस्य स्वा-भाविकाद् धर्माद् आत्म-स्वा-भाव्याद् इत्य् अभिप्रायः।
तच् च युद्धं पृथिवी-जय-द्वारेण धर्मार्थं प्रजा-रक्षणार्थं च इति, धर्माद् अन्-अपेतं परं धर्म्यम्। तस्माद् धर्म्याद् युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते, हि यस्मात्॥
yad-ṛcchā, ca, upapanna, svar-ga-dvāra, apāvṛta;
sukhin, kṣatriya, pārtha, √labh, yuddha, īdṛśa.

By happenstance an open door to heaven has come. O Arjuna, fortunate are warriors who get such a battle.
यद्-ऋच्छया च अपावृतं स्वर्ग-द्वारम् उपपन्नम्। पार्थ, सुखिनः क्षत्रियाः ईदृशं युद्धं लभन्ते॥
कुतश् च? तद् युद्धं कर्तव्यम् इत्य् उच्यते –
यद्-ऋच्छयेति। यद्-ऋच्छया च अप्रार्थितया उपपन्नम् आगतं स्वर्ग-द्वारम् अपावृतम् उद्घाटितम्। य एतद् ईदृशं युद्धं लभन्ते क्षत्रियाः, हे पार्थ, किं न सुखिनस् ते॥
atha, ced, yuṣmad, idam, dharmya, saṅgrāma, na, √kṛ;
tatas, sva-dharma, kīrti, ca, hitvā, pāpa, ava-√āp.

Now if you will not undertake this battle on the side of dharma, then forfeiting your dharma (nature and duty) and honor, you will incur karma demerit (pāpa).
अथ चेद् त्वम् इमं धर्म्यं सङ्ग्रामं न करिष्यसि, ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि॥
एवं कर्तव्यता-प्राप्तम् अपि –
अथेति। अथ चेत् त्वम् इमं धम्यं धर्माद् अन्-अपेतं संग्रामं युद्धं न करिश्यसि चेत्, ततस् तद्-अकरणात् स्व-धर्मं कीर्तिं च महा-देवादि-समागम-निमित्तां हित्वा केवलं पापम् अवाप्स्यसि
a-kīrti, ca, api, bhūta, √kath, yuṣmad, a-vyayā;
sambhāvita, ca, a-kīrti, maraṇa, ati-√ric.

These creatures, even yesterday’s recruits, will also recount your unfading infamy. Dishonor for one who had been honored is worse than death.
भूतानि च अपि ते [=तव] अ-व्ययाम् अ-कीर्तिं कथयिष्यन्ति। सम्भावितस्य च अ-कीर्तिः मरणात् अतिरिच्यते॥
न केवलं स्व-धर्म-कीर्ति-परित्यागः –
अकीर्तिम् इति। अकीर्तिं चापि भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घ-कालाम्। धर्मात्मा शूर इत्य् एवम्-आदिभिर् गुणैः संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते। संभावितस्य चाकीर्तेर् वरं मरणम् इत्यर्थः॥
bhaya, raṇa, uparata, √man, yuṣmad, mahā-ratha;
yad, ca, yuṣmad, bahu-mata, bhūtvā, √yā, lāghava.

The great warriors will think you withdrew from battle out of fear. Among whom, having been highly honored, you will become insignificant.
महा-रथाः त्वां भयात् रणात् उपरतं मंस्यन्ते। येषां च बहु-मतः भूत्वा त्वं लाघवं यास्यसि॥
किं-च –
भयाद् इति। भयात् कर्णादिभ्यो रणाद् युद्धाद् उपरतं निवृत्तं संस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां मरा-रथा दुर्-योधन-प्रभृतयः। येषां च त्वं दुर्-योधनादीनां बहु-मतो बहुभिर् गुणैर् युक्त इत्य् एवं बहु-मतो भूत्वा पुनर् यास्यसि लाघवं लघु-भावम्॥
a-vācya-vāda, ca, bahu, √vad, yuṣmad, a-hita;
nindat, yuṣmad, sāmarthya, tatas, duḥkhatara, nu, kim.

Moreover, your enemies, belittling your prowess, will speak many unutterable words about you. What is more painful than that?
तव च अ-हिताः तव सामर्थ्यं निन्दन्तः बहून् अ-वाच्य-वादान् वदिष्यन्ति। किं नु ततः दुःखतरम्॥
किं-च –
अ-वाच्य-वादान् इति। अ-वाच्य-वादान् अ-वक्तव्य-वादांश् च बहुन् अन्-एक-प्रकारान् वदिष्यन्ति तवाहिताः शत्रवो निन्दन्तः कुत्सयन्तस् तव त्वदीयं सामर्थ्यं निवात-कवचादि-युद्ध-निमित्तम्।
तस्मात् ततो निन्दा-प्राप्तेर् दुःखाद् दुःखतरं नु किम्? ततः कष्टतरं दुःखं नास्तीत्य् अर्थः॥
hata, vā, pra-√āp, svar-ga, jitvā, vā, √bhuj, mahī;
tasmāt, ud-√sthā, kaunteya, yuddha, kṛta-niścaya.

Killed, you will gain heaven; conquer and you will enjoy the world. Therefore, O Arjuna, resolve to fight, and get up!
हतः वा स्वर्गं प्राप्स्यसि। जित्वा वा महीं भोक्ष्यसे। कौन्तेय, तस्मात् युद्धाय कृत-निश्चयः उत्तिष्ठ॥
युद्धे पुनः क्रियमाणे कर्णादिभिः –
हतो वेति। हतो वा प्राप्स्यसि स्वर्गं, हतः सन् स्वर्गं प्राप्स्यसि। जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम्। उभयथापि तव लाभ एवेत्य् अभिप्रायः।
यत एवं तस्माद् उत्तिष्ठ कौन्तेय, युद्धाय कृत-निश्चयः। ‘जेष्यामि शत्रून् मरिष्यामि वा’ इति निश्चयं कृत्वेत्य् अर्थः॥
sukha-duḥkha, sama, kṛtvā, lābha-a-lābha, jaya-a-jaya;
tatas, yuddha, √yuj, na, evam, pāpa, ava-√āp.

Being the same in pleasure/pain, gain/loss, or victory/defeat, thus prepare for battle, for your duty (sva-dharma), whatever it is, as it presents itself throughout life’s changes. In this way you will incur no karma demerit (pāpa).
सुख-दुःखे लाभ-अ-लाभौ जय-अ-जयौ [च] समे कृत्वा, ततः युद्धाय युज्यस्व। एवं पापं न अवाप्स्यसि॥
तत्र ‘युद्धं स्व-धर्मः’ इत्य् एवं युध्यमानस्योपदेशम् इमं शृणु –
सु-दुःखे इति। सुख-दुःखे समे तुल्ये कृत्वा राग-द्वेषाव् अकृत्वेत्य् एतत्। तथा लाभालाभौ जयाजयौ च समौ कृत्वा, ततो युद्धाय युज्यस्व घटस्व। नैवं युद्धं कुर्वन् पापम् अवाप्स्यसि इत्य् एष उपदेशः प्रासङ्गिकः॥
etad, yuṣmad, abhihita, sāṅkhya, buddhi, yoga, tu, idam, √śru;
buddhi, yukta, yad, pārtha, karma-bandha, pra-√hā.

This wisdom regarding sāṅkhya (the knowledge of reality), the ultimate good (śreyas) that you asked for, has been told to you. On the other hand, O Arjuna, listen to this wisdom regarding yoga (the means for preparing for this knowledge); endowed with which, you will be free from the bondage that is karma.
साङ्ख्ये [=सद्-वस्तु-विवेक-विषये श्रेयो-विषये] एषा बुद्धिः ते [=तुभ्यम्] अभिहिता। पार्थ, योगे तु इमां [बुद्धिं] शृणु, यया बुद्ध्या युक्तः कर्म-बन्धं प्रहास्यसि॥
शोक-मोहापनयनाय लौकिको न्यायः “स्व-धर्मम् अपि चावेक्ष” इत्य्-आद्यैः (BhG.2.31) श्लोकैर् उक्तो न तु तात्पर्येण।
परमार्थ-दर्शनं त्व् इह प्रकृतम्। तच् चोक्तम् उपसंहरति – “एषा तेऽभिहिता” इति (BhG.2.39) शास्त्र-विषय-विभाग-प्रदर्शनाय।
इह हि दर्शिते पुनः शास्त्र-विषय-विभागे उपरिष्टाद् “ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम्” इति (BhG.3.3) निष्ठा-द्वय-विषयं शास्त्रं सुखं प्रवर्तिष्यते श्रोतारश् च विषय-विभागेन सुखं ग्रहीष्यन्तीत्य् अत आह –

एषा ते इति। एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थ-वस्तु-विवेक-विषये बुद्धिर् ज्ञानं साक्षाच्-छोक-मोहादि-संसार-हेतु-दोष-निवृत्ति-कारणम्। योगे तु तत्-प्राप्त्य्-उपाये निः-सङ्गतया द्वन्द्व-प्रहाण-पूर्वकम् ईश्वराराधनार्थे (BhG.18.46) कर्म-योगे कर्मानुष्ठाने समाधि-योगे च इमाम् अन्-अन्तरम् एवोच्यमानां बुद्धिं शृणु
तां बुद्धिं स्तौति प्ररोचनार्थम् – बुद्ध्या यया योग-विषयया युक्तो, हे पार्थ, कर्म-बन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्म-बन्धस् तं प्रहास्यसि ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्तेर् इत्य् अभिप्रायः॥
na, iha, abhikrama-nāśa, √as, pratyavāya, na, √vid;
su-alpam, api, idam, dharma, √trai, mahat, bhaya.

In this, the means for complete freedom (śreyas), there is no loss of progress, nor adverse result. Even a little of this yoga, this means – which is also dharma (one’s nature and duty, which will support one through the maturation process) – protects from great fear.
इह [कर्म-योगे श्रेयो-मार्गे] अभिक्रम-नाशः न अस्ति, प्रत्यवायः न विद्यते। अस्य [कर्म-योगस्य] धर्मस्य सु-अल्पम् अपि महतः भयात् त्रायते॥
किंचान्यत् –
नेहाभीति। नेह मोक्ष-मार्गे कर्म-योगे अभिक्रम-नाशोऽभिक्रमणम् अभिक्रमः प्रारम्भस् तस्य नाशो न अस्ति यथा कृष्यादेः। योग-विषये प्रारम्भस्य नानैकान्तिक-फलत्वम् इत्यर्थः।
किं-च अपि चिकित्सावत् प्रत्यवायो विद्यते
किं तु भवति? स्व्-अल्पम् अप्य् अस्य योग-धर्मस्य अनुष्ठितं त्रायते रक्षति महतः संसार-भयाज् जन्म-मरणादि-लक्षणात्॥
vyavasāya-ātmikā, buddhi, ekā, iha, kuru-nandana;
bahu-śākhā, hi, an-antā, ca, buddhi, a-vyavasāyin.

Regarding this, the means for śreyas, the well-discerned knowledge is but one, O Arjuna. However, for those with no discernment of this fact, the notions regarding the means for śreyas are indeed many-branched and endless.
इह व्यवसाय-आत्मिका बुद्धिः एका, कुरु-नन्दन। अ-व्यवसायिनां [श्रेयो-मार्गे] बुद्धयः बहु-शाखाः हि अन्-अन्ताः च॥
येयं सांख्ये बुद्धिर् उक्ता योगे च वक्ष्यमाण-लक्षणा सा –
व्यवसायेति। व्यवसायात्मिका निश्चय-स्व-भावा एक एव बुद्धिर् इतर-विपरीत-बुद्धि-शाखा-भेदस्य बाधिका सम्यक्-प्रमाण-जनितत्वाद् इह श्रेयो-मार्गे, हे कुरु-नन्दन
याः पुनर् इतरा बुद्धयो – यासां शाखा-भेद-प्रचार-वशाद् अन्-अन्तोऽपारोऽन्-उपरतः संसारो नित्य-प्रततो विस्तीर्णो भवति, प्रमाण-जनित-विदेक-बुद्धि-निमित्त-वशाच् च उपरतास्व् अन्-अन्त-भेद-बुद्धिषु संसारोऽप्य् उपरमते – ता बुद्धयो बहु-शाखा बह्व्यः शाखा यासां ता बहु-शाखा, बहु-भेदा इत्य् एतत्। प्रति-शाखा-भेदेन ह्य् अन्-अन्ताश् च बुद्धयः, केषाम्? अ-व्यवसायिनां प्रमाण-जनित-विवेक-बुद्धि-रहितानाम् इत्यर्थः॥
yad, idam, puṣpitā, vāc, pra-√vad, a-vipaścit;
veda-vāda-rata, pārtha, na, anya, √as, iti, vādin.
kāma-ātman, svar-ga-para, janma-karma-phala-pradā;
kriyā-viśeṣa-bahulā, bhoga-aiśvarya-gati, prati.

O Arjuna, the unwise – who remain engrossed in the bulk of the words of the Vedas (scriptures) that deal with heaven-going and gaining power, wealth, and progeny; arguing that there is nothing more; who are full of desires, requirements/anticipations; and who hold heaven as primary – they spout flowery discourse full of special rituals directed toward gaining power and objects of consumption, but yield further birth as a result of their actions.
पार्थ, अ-विपश्चितः वेद-वाद-रताः “न अन्यद् अस्ति” इति वादिनः काम-आत्मानः स्वर्ग-पराः याम् इमां भोग-ऐश्वर्य-गतिं प्रति क्रिया-विशेष-बहुलां जन्म-कर्म-फल-प्रदां पुष्पितां वाचं प्रवदन्ति॥
येषां व्यवसायात्मिका बुद्धिर् नास्ति ते –
याम् इति। याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित-वृक्ष इव शोभमानां श्रूयमाण-रमणीयां वाचं वाक्य-लक्षणां प्रवदन्ति
के? अविपश्चितोऽल्प-मेधसः, अविवेकिन इत्यर्थः। वेद-वाद-रता बह्व्-अर्थ-वाद-फल-साधन-प्रकाशकेषु वेद-वाक्येषु रताः।
हे पार्थ, नान्यत् स्वर्ग-प्राप्त्य्-आदि-फल-साधनेभ्यः कर्मभ्योऽस्तीत्य् एवं वादिनो वदन-शीलाः।
ते च –
कामात्मान इति। कामात्मानः काम-स्व-भावाः, काम-परा इत्यर्थः। स्वर्ग-पराः स्वर्गः परः पुरुषार्थो येषां ते स्वर्ग-पराः स्वर्ग-प्रधाना। जन्म-कर्म-फल-प्रदां कर्मणः फलं कर्म-फलं जन्मैव कर्म-फलं जन्म-कर्म-फलं तत् प्रददातीति जन्म-कर्म-फल-प्रदा तां “वाचं प्रवदन्ति” इत्य् अनुषज्यते।
क्रिया-विशेष-बहुलां क्रियाणां विशेषाः क्रिया-विशेषास् ते बहुला यस्यां वाचि तां, स्वर्ग-पशु-पुत्राद्य्-अर्था यया वाचा बाहुल्येन प्रकाश्यन्ते। भोगैश्वर्य-गतिं प्रति भोगश् चैश्वर्यं च भोगैश्वर्ये तयोर् गतिः प्राप्तिर् भोगैश्वर्य-गतिस् तां प्रति साधन-भूता ये क्रिया-विशेषास् तद्-बहुलां तां वाचं प्रवदन्तो मूढाः संसारे परिवर्तन्त इत्य् अभिप्रायः॥
bhoga-aiśvarya-prasakta, tad, apahṛta-cetas;
vyavasāya-ātmikā, buddhi, samādhi, na, vi-√dhā.

For those whose minds are carried away by that flowery talk and who are attached to consumption and power, a well-discerned knowledge is not formed in their mind (samādhi).
तया [पुष्पितया वाचा] अपहृत-चेतसां भोग-ऐश्वर्य-प्रसक्तानां व्यवसाय-आत्मिका बुद्धिः समाधौ [=अन्तः-करणे] न विधीयते॥
तेषां च –
भोगेति। भोगैश्वर्य-प्रसक्तानां भोगः कर्तव्यम् ऐश्वर्यं चेति भोगैश्वर्ययोर् एव प्रणयवतां तद्-आत्म-भूतानां तया क्रिया-विशेष-बहुलया वाचा अपहृत-चेतसाम् आच्छादित-विवेक-प्रज्ञानां व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयतेऽस्मिन् पुरुषोपभोगाय सर्वम् इति समाधिर् अन्तः-करणं बुद्धिस् तस्मिन् समाधौ न विधीयते न भवतीत्य् अर्थः॥
trai-guṇya-viṣaya, veda, nis-trai-guṇya, √bhū, arjuna;
nis-dvan-dva, nitya-sattva-stha, nis-yoga-kṣema, ātmavat.

For them, the Vedas are only about the three-fold universe (traiguṇya). O Arjuna, be [more and more] free from traiguṇya, free from the pairs of opposites, ever established in a contemplative disposition (sattva), free from acquiring and protecting, and be attentive.
[तेषां] वेदाः त्रै-गुण्य-विषयाः [एव]। अर्जुन, निस्-त्रै-गुण्यः [तु] निर्-द्वन्-द्वः नित्य-सत्त्व-स्थः निर्-योग-क्षेमः आत्मवान् भव॥
य एवं विवेक-बुद्धि-रहितास् तेषां कामात्मनां यत् फलं तद् आह –
त्रै-गुण्येति। त्रै-गुण्य-विषयास् त्रै-गुण्यं संसारो विषयः प्रकाशयितव्यो येषां ते वेदास् त्रैगुण्य-विषयाः। त्वं तु निस्-त्रै-गुण्यो भवार्जुन, निष्-कामो भवेत्य् अर्थः।
निर्-द्वन्द्वः सुख-दुःख-हेतू स-प्रतिपक्षौ पदार्थौ द्वन्द्व-शब्द-वाच्यौ ततो निर्-गतो निर्-द्वन्द्वो भव। त्वं नित्य-सत्त्व-स्थः सदा सत्त्व-गुणाश्रितो भव।
तथा निर्-योग-क्षेमः। अन्-उपात्तस्योपादानं योग, उपात्तस्य रक्षणं क्षेमः। योग-क्षेम-प्रधानस्य श्रेयसि प्रवृत्तिर् दुष्-करा इति अतो निर्-योग-क्षेमो भव।
आत्मवान् अ-प्रमत्तश् च भव। एष तवोपदेशः स्व-धर्मम् अनुतिष्ठतः॥
yāvat, artha, uda-pāna, sarvatas, sampluta-udaka;
tāvat, sarva, veda, brāhmaṇa, vijānat.

For a contemplative person (a brāhmaṇa) who knows sat (the all pervading reality), there is as much usefulness in all the Veda rituals as there is in a small watering hole in a once-dry river bed, when the river is in a flood everywhere. Seeing the truth everywhere, one is no longer dependent on the Veda rituals.
यावान् सर्वतः सम्प्लुत-उदके उद-पाने अर्थः [=प्रयोजनं], तावान् [सद्-वस्तु] विजानतः ब्राह्मणस्य सर्वेषु वेदेषु [अर्थः]॥
सर्वेषु वेदोक्तेषु कर्मसु यान्य् अन्-अन्तानि फलानि तानि नापेक्ष्यन्ते चेत्, किम्-अर्थं तानीश्वराय इति अनुष्ठीयन्त? इति उच्यते, शृणु –
यावान् इति। यथा लोके कूप-तडागाद्य्-अन्-एकस्मिन्न् उदपाने परिच्छिन्नोदके यावान् यावत्-परिमाणः स्नान-पानादिर् अर्थः फलं प्रयोजनं स सर्वोऽर्थः सर्वतः संप्लुतोदके तावान् एव संपद्यते तत्रान्तर्-भवतीत्य् अर्थः।
एवं तावांस् तावत्-परिमाण एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु योऽर्थो यत् कर्म-फलम्, सोऽर्थो ब्राह्मणस्य सन्न्यासिनः परमार्थ-तत्त्वं विजानतो योऽर्थ विज्ञान-फलं सर्वतः संप्लुतोदक-स्थानीयं तस्मिंस् तावान् एव संपद्यते। तत्रैवान्तर्-भवतीत्य् अर्थः।
“सर्वं तद् अभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति। यस् तद् वेद यत् स वेद” इति (ChanU.4.1.4) श्रुतेः। “सर्वं कर्माखिलम्” इति (BhG.4.33) च वक्ष्यन्ति।
तस्मात् प्राग् ज्ञान-निष्ठाधिकार-प्राप्तेः कर्मण्य् अधिकृतेन कूप-तडागाद्य्-अर्थ-स्थानीयम् अपि कर्म कर्तव्यम्॥
karman, eva, adhikāra, yuṣmad, mā, phala, kadācana;
mā, karma-phala-hetu, √bhū, mā, yuṣmad, saṅga, √as, a-karman.

You, as a human, have control only in doing action, never in its results. Do not think yourself to be the cause of the results of action, that cause being but the Lord as embodied in the universal laws of karma (action and its result). Nor should you have attachment to inaction. Or – You, Arjuna, are entitled only in doing your duty, never claiming the results. Do not promote further results of action as rebirths, nor be inclined toward inaction.
कर्मणि एव ते [=तव] अधिकारः [=प्रभुत्वं], फलेषु मा कदा-चन। कर्म-फल-हेतुः मा भूः [मा मन्यस्व इत्यर्थः]। अ-कर्मणि ते [=तव] सङ्गः मा अस्तु॥
तव च –
कर्मणीति। कर्मण्य् एवाधिकारो न ज्ञान-निष्ठायां ते तव। तत्र च कर्म कुर्वतो मा फलेष्व् अधिकारोऽस्तु कर्म-फल-तृष्णा मा भूत् कदाचन। कस्यांचिद् अप्य् अवस्थायाम् इत्यर्थः।
यदा कर्म-फले तृष्णा ते स्यात् तदा कर्म-फल-प्राप्तेर् हेतुः स्याः, एवं मा कर्म-फल-हेतुर् भूः
यदा हि कर्म-फल-तृष्णा-प्रयुक्तः कर्मणि प्रवर्तते तदा कर्म-फलस्यैव जन्मनो हेतुर् भवेत्।
‘यदि कर्म-फलं नेष्यते, किं कर्मणा दुःख-रूपेण?’ इति मा ते तव सङ्गोऽस्त्व् अ-कर्मण्य्, अ-करणे प्रीतिर् मा भूत्॥
yoga-stha, √kṛ, karman, saṅga, tyaktvā, dhanam-jaya;
siddhi-a-siddhi, sama, bhūtvā, samatva, yoga, √vac.

O Arjuna, being free from attachment toward anticipated results, being the same (sama) toward success or failure, established in yoga, in this attitude, then perform action. Sameness of attitude (buddhi) toward results – whatever they are is called yoga.
धनञ्-जय, [कर्म-फले] सङ्गं त्यक्त्वा, सिद्धि-अ-सिद्ध्योः समः भूत्वा, [एवं] योग-स्थः [सन्], कर्माणि कुरु। [कर्मणि कर्म-फले च बुद्धेः] समत्वं योगः उच्यते॥
यदि कर्म-फल-प्रयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यम्? इत्य् उच्यते –
योग-स्थ इति। योग-स्थः सन् कुरु कर्माणि केवलम् ईश्वरार्थं, तत्रापि ‘ईश्वरो मे तुष्यत्व्’ इति सङ्गं त्यक्त्वा, धनं-जय
फल-तृष्णा-शून्येन क्रियमाणे कर्मणि सत्त्व-शुद्धि-जा ज्ञान-प्राप्ति-लक्षणा सिद्धिस् तद्-विपर्यय-जा असिद्धिस् तयोः सिद्ध्य्-असिद्ध्योर् अपि समस् तुल्यो भूत्वा कुरु कर्माणि।
कोऽसौ योगो यत्र-स्थः “कुरु” इत्य् उक्तम्? इदम् एव तद् सिद्ध्य्-असिद्ध्योः समत्वं योग उच्यते
dūreṇa, hi, avara, karman, buddhi-yoga, dhanam-jaya;
buddhi, śaraṇa, anu-√iṣ, kṛpaṇa, phala-hetu.

Action or ritual, by itself, is indeed far inferior to the means which is this attitude (buddhi-yoga), O Arjuna. Seek refuge in this attitude. Those whose motives are only for the results of action are misers, are yet to spend their intellect in motivation for śreyas.
कर्म बुद्धि-योगात् दूरेण हि अवरम्, धनञ्-जय। [योगे ततस् साङ्ख्ये] बुद्धौ शरणम् अन्विच्छ। कृपणाः फल-हेतवः॥
यत् पुनः समत्व-बुद्धि-युक्तम् ईश्वराराधनार्थं कर्म, एतस्मात् कर्मणः –
दूरेणेति। दूरेण अतिविप्रकर्षेण ह्य् अवरं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धि-योगात् समत्व-बुद्धि-युक्तात् कर्मणो जन्म-मरणादि-हेतुत्वाद्, धनं-जय
यत एवं योग-विषयायां बुद्धै तत्-परिपाक-जायां वा सांख्य-बुद्धौ शरणम् आश्रयम् अ-भय-प्राप्ति-कारणम् अन्विच्छ प्रार्थयस्व। परमार्थ-ज्ञान-शरणो भवेत्य् अर्थः।
यतोऽवरं कर्म कुर्वाणाः कृपणा दीनाः फल-हेतवः फल-तृष्णा-प्रयुक्ताः सन्तः “यो वा एतद् अ-क्षरं गार्ग्य विदित्वास्माल् लोकात् प्रैति स कृपणः” इति (BrhU.3.8.10) श्रुतेः॥
buddhi-yukta, √hā, iha, ubha, su-kṛta-dus-kṛta;
tasmāt, yoga, √yuj, yoga, karman, kauśala.

Endowed with this attitude, one sheds in this world both karma merit and demerit. Therefore, commit to this yoga. Propriety in actions, acting within dharma (your natural duty) where the means are as important as the end, is called yoga.
बुद्धि-युक्तः इह उभे सु-कृत-दुष्-कृते जहाति। तस्मात् योगाय युज्यस्व। कर्मसु कौशलं [=यथा-अर्थता] योगः॥
समत्व-बुद्धि-युक्तः सन् स्व-धर्मम् अनुतिष्ठन् यत् फलं प्राप्नोति तच् छृणु –
बुद्धीति। बुद्धि-युक्तः समत्व-विषयया बुद्ध्या युक्तो बुद्धि-युक्तः, जहाति परित्यजति इह अस्मिँल् लोके उभे सु-कृत-दुष्-कृते पुण्य-पापे सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यतस्, तस्मात् समत्व-बुद्धि-योगाय युज्यस्व घटस्व।
योगो हि कर्मसु कौशलं स्व-धर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्य्-असिद्ध्योः समत्व-बुद्धिर् ईश्वरार्पित-चेतस्-तया तत् कौशलं कुशल-भावः।
तद् धि कौशलं, यद् बन्धन-स्व-भावान्य् अपि कर्माणि समत्व-बुद्ध्या स्व-भावान् निवर्तन्ते। तस्मात् समत्व-बुद्धि-युक्तो भव त्वम्॥
karma-ja buddhi-yukta, hi, phala, tyaktvā, manīṣin;
jamna-bandha-vinirmukta, pada, √gam, an-āmaya.

Because the wise, endowed with this attitude – after discarding the pressure for result born of action, appreciating dharma as ‘to be done,’ accepting the results gracefully, freed by knowledge from the bondage that is birth – they reach the attainment that is free from affliction.
बुद्धि-युक्ताः हि [=यस्मात्] कर्म-जं फलं त्यक्त्वा, मनीषिणः [भूत्वा] जन्म-बन्ध-विनिर्मुक्ताः [सन्तः], [ते] अन्-आमयं पदं गच्छन्ति॥
यस्मात् –
कर्म-जम् इति। “कर्म-जं” “फलं त्यक्त्वा” इति व्यवहितेन संबन्धः।
इष्टानिष्ठ-देह-प्राप्तिः कर्म-जं फलं कर्मभ्यो जातं, बुद्धि-युक्ताः समत्व-बुद्धि-युक्ताः हि यस्मात् फलं त्यक्त्वा परित्यज्य, मनीषिणो ज्ञानिनो भूत्वा जन्म-बन्ध-विनिर्मुक्ताः जन्मैव बन्धो जन्म-बन्धस् तेन विनिर्मुक्ता जीवन्त एव जन्म-बन्ध-विनिर्मुक्ताः सन्तः पदं परमं विष्णोर् मोक्षाख्यं गच्छन्त्य् अन्-आमयं सर्वोपद्रव-रहितम् इत्यर्थः।
अथवा “बुद्धि-योगाद् धनं-जय” इत्य् (BhG.2.49) आरभ्य परमार्थ-दर्शन-लक्षणा एव “सर्वतः-संप्लुतोदक”-स्थानीया (BhG.2.46) कर्म-योग-ज-सत्त्व-शुद्धि-जनिता बुद्धिर् दर्शिता साक्षात् “सु-कृत-दुष्-कृत”-प्रहाणादि-हेतुत्व-श्रवणात् (BhG.2.50)॥
yadā, yuṣmad, moha-kalila, buddhi, vi-ati-√tṝ;
tadā, √gam, nis-veda, śrotavya, śruta, ca.

When your intellect crosses over the confusion that is delusion, then you will gain a dispassion for what has been heard and is yet to be heard from the secular and spiritual marketers.
यदा ते बुद्धिः मोह-कलिलं व्यतितरिष्यति, तदा श्रुतस्य श्रोतव्यस्य च निस्-वेदं गन्तासि॥
योगानुष्ठान-जनित-सत्त्व-शुद्धि-जा बुद्धिः कदा प्राप्स्यते? इत्य् उच्यते –
यदेति। यदा यस्मिन् काले ते तव मोह-कलिलं मोहात्मकम् अ-विवेक-रूपं कालुष्यं, येनात्मानात्म-विकेक-बोधं कलुषी-कृत्य विषयं प्रत्य् अन्तः-करणं प्रवर्तते तत्, तव बुद्धिर् व्यतितरिष्यति व्यतिक्रमिष्यति। शुद्ध-भावम् आपत्स्यत इत्यर्थः।
तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च तदा श्रोतव्यं श्रुतं च निष्-फलं प्रितिपद्यत इत्य् अभिप्रायः॥
śruti-vipratipannā, yuṣmad, yadā, √sthā, niścalā;
samādhi, a-calā, buddhi, tadā, yoga, ava-√āp.

When your intellect – previously distracted by the śruti, the bulk of the Vedas concerned with providing means for gaining heaven, power, wealth, and progeny – becomes steady and centered on your self (samādhi), then you will attain yoga.
यदा श्रुति-विप्रतिपन्ना ते बुद्धिः निस्-चला स्थास्यति, समाधौ [=आत्मनि] अ-चला, तदा योगम् अवाप्स्यसि॥
मोह-कलिलात्यय-द्वारेण लब्धात्म-विकेक-ज-प्रज्ञः कदा कर्म-योग-जं फलं परमार्थ-योगम् अवाप्स्यसि (अव्याप्स्यामि)? इति चेत् तच् छृणु –
श्रुति-विप्रतिपन्नेति। श्रुति-विप्रतिपन्ना अनेक-साध्य-साधन-संबन्ध-प्रकाशन-श्रुतिभिः श्रवणैर् विप्रतिपन्ना नाना-प्रतिपन्ना श्रुति-विप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिर् यदा यस्मिन् काले स्थास्यति स्थिरी-भूता भविष्यति निश्-चला विक्षेप-चलन-वर्जिता सती समाधौ समाधीयते चित्तम् अस्मिन्न् इति समाधिर् आत्मा तस्मिन्न्, आत्मनीत्य् एतद्। अचला तत्रापि विकल्प-वर्जितेत्य् एतद्। बुद्धिर् अन्तः-करणं।
तदा तस्मिन् काले योगम् अवाप्स्यसि विवेक-प्रज्ञां समाधिं प्राप्स्यसि॥
arjuna, √vac:
sthita-prajña, kim, bhāṣā, samādhi-stha, keśava;
sthita-dhī, kim, pra-√bhāṣ, kim, √ās, √vraj, kim.

Arjuna said: What is the description of the one whose wisdom is firm (sthita-prajña), who is established within the self (samādhi), O Kṛṣṇa? What would the one whose wisdom is firm speak? How would that one sit? How would that one walk?
अर्जुनः उवाच। स्थित-प्रज्ञस्य समाधि-स्थस्य का भाषा, केशव? स्थित-धीः किं प्रभाषेत? किम् आसीत? किं व्रजेत॥
प्रश्न-बीजं प्रतिलभ्य अर्जुन उवाच लब्ध-समाधि-प्रज्ञस्य लक्षण-बुभुत्सया –
स्थित-प्रज्ञस्य इति। स्थिता प्रतिष्ठता ‘अहम् अस्मि परं ब्रह्म’ इति प्रज्ञा यस्य स स्थित-प्रज्ञस्, तस्य का भाषा किं भाषणं वचनं कथम् असौ परैर् भाष्यते, समाधि-स्थस्य समाधौ स्थितस्य, केशव?
स्थित-धीः स्थित-प्रज्ञः स्वयं वा किं प्रभाषेत? किम् आसीत, व्रजेत किम्? आसनं व्रजनं वा तस्य कथम् इत्यर्थः।
स्थित-प्रज्ञस्य लक्षणम् अनेन श्लोकेन पृच्छति॥
śrī-bhagavat, √vac:
pra-√hā, yadā, kāma, sarva, pārtha, manas-gata;
ātman, eva, ātman, tuṣṭa, sthita-prajña, tadā, √vac.

The Lord said: O Arjuna, when one abandons all desires, notional requirements in order to become happy, as they arise in the mind and is happy by oneself, by an informed intellect, in one’s self alone, then that one is called one whose wisdom is firm (sthita-prajña).
श्री-भगवान् उवाच। पार्थ, यदा सर्वान् कामान् मनो-गतान् प्रजहाति, आत्मनि एव आत्मना [=बुद्ध्या] तुष्टः, तदा [सः] स्थित-प्रज्ञः उच्यते॥
यो ह्य् आदित एव संन्यस्य कर्माणि ज्ञान-योग-निष्ठायां प्रवृत्तो यश् च कर्म-योगेन तयोः स्थित-प्रज्ञस्य “प्रजहाति” इत्य् (BhG.2.55) आरभ्य अध्याय-परिसमाप्तिर् पर्यन्तं (स्थित-प्रज्ञ-)लक्षणं साधनं चोपदिश्यते।
सर्वत्रैव ह्य् अध्य्-आत्म-शास्त्रे कृतार्थ-लक्षणानि यानि तान्य् एव साधनान्य् उपदिश्यन्ते यत्न-साध्यत्वात्। यानि यत्न-साध्यानि साधनानि लक्षणानि (च) भवति तानि –

प्रजहातीति। प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन् काले सर्वान् समस्तान् कामान् इच्छा-भेदान्, हे पार्थ, मनो-गतान् मनसि प्रविष्टान् हृदि प्रविष्टान्।
सर्व-काम-परित्यागे तुष्टि-कारणाभावाच् छरीर-धारण-निमित्त-शेषे च सत्य् उन्मत्त-प्रमत्तस्येव प्रवृत्तिः प्राप्तेत्य् अत उच्यते –
आत्मन्य् एव प्रत्यग्-आत्म-स्व-रूप एव आत्मना स्वेनैव बाह्य-लाभ-निर्-अपेक्षस् तुष्टः परमार्थ-दर्शनामृत-रस-लाभेन अन्यस्माद् अलं-प्रत्ययवान् स्थित-प्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्म-विवेक-जा प्रज्ञा यस्य स स्थित-प्रज्ञो विद्वांस् तदोच्यते
त्यक्त-पुत्र-वित्त-लोकैषणः (Br.Up.4-4-22) ‘सन्न्यासी’ आत्माराम आत्म-क्रीडः (Br.Up.) ‘स्थित-प्रज्ञ’ इत्यर्थः॥
duḥkha, an-udvigna-manas, sukha, vigata-spṛha;
vīta-rāga-bhaya-krodha, sthita-dhī, muni, √vac.

The one whose mind is not afflicted in adversities, who has no longing in pleasures, and who is free from attraction (rāga), fear, and anger, that wise person is called one whose wisdom is firm.
दुःखेषु अन्-उद्विग्न-मनाः सुखेषु विगत-स्पृहः वीत-राग-भय-क्रोधः मुनिः स्थित-धीः उच्यते॥
किं-च –
दुःखेष्व् इति। दुःखेष्व् आध्य्-आत्मिकादिषु प्राप्तेषु नोद्विग्नं न प्रक्षुभितं दुःख-प्राप्तौ मनो यस्य सोऽयम् अन्-उद्विग्नमनाः
तथा सुखेषु प्राप्तेषु विगता स्पृहा तुष्णा यस्य, नाग्निर् इव इन्दनाद्याधाने सुखान्य् अनु विवर्धते, स विगत-स्पृहः
वीत-राग-भय-क्रोधो रागश् च भयं च क्रोधश् च वीता विगता यस्मात् स वीत-राग-भय-क्रोधः, स्थित-धीः स्थित-प्रज्ञो मुनिः सन्न्यासी तदा उच्यते
yad, sarvatra, an-abhisneha, tad, tad, prāpya, śubha-a-śubha;
na, abhi-√nand, na, √dviṣ, tad, prajñā, pratiṣṭhitā.

The one who is unattached in all situations, who neither rejoices on getting anything pleasant, nor hates getting anything unpleasant – that one’s wisdom is firm.
यः सर्वत्र अन्-अभिस्नेहः तद् तद् शुभ-अ-शुभं प्राप्य न अभिनन्दति न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता॥
किं-च –
यः सर्वत्रेति। यो मुनिः सर्वत्र देह-जीवितादिष्व् अप्य् अन्-अभिस्नेहः अभिस्नेह-वर्जितस् तत् तत् प्राप्य शुभाशुभं तत् तच् छुत्रम् अ-शुभं वा लब्ध्वा, नाभिनन्दति न द्वेष्टि। शुभं प्राप्य न तुष्यति न हृष्यत्य् अ-शुभं च प्राप्य न द्वेष्टीत्य् अर्थः।
तस्य एवं हर्ष-विषाद-वर्जितस्य विवेक-जा प्रज्ञा प्रतिष्ठिता भवति॥
yadā, sam-√hṛ, ca, idam, kūrma, aṅga, iva, sarvaśas;
indriya, indriya-artha, tad, prajñā, pratiṣṭhitā.

When, like a turtle and its limbs, one is at will able to completely withdraw the senses from their sense pursuits and again extend them out at will – that one’s wisdom is firm.
यदा च अयं, कूर्मः अङ्गानि इव, इन्द्रिय-अर्थेभ्यः इन्द्रियाणि सर्वशः संहरते [संहर्तुम् अर्हति इत्यर्थः], तस्य प्रज्ञा प्रतिष्ठिता॥
किं-च –
यदा संहरत इति। यदा संहरते सम्यग् उपसंहरते चायं ज्ञान-निष्ठायां प्रवृत्तो यतिः, कूर्मोऽङ्गानीव सर्वशो यथा कूर्मो भयात् स्वान्य् अङ्गान्य् उपसंहरति सर्वत, एवं ज्ञान-निष्ठ इन्द्रियाणीन् इन्द्रियार्थेभ्यः सर्व-विषयेभ्य उपसंहरते।
तस्य प्रज्ञा प्रतिष्ठिता इत्य् उक्तार्थं वाक्यम्॥
viṣaya, vi-ni-√vṛt, nis-āhāra, dehin;
rasa-varjam, rasa, api, idam, para, dṛṣṭvā, ni-√vṛt.

For the embodied one who does not feed, does not indulge the senses, the objects turn back, are not pursued, but the longing remains. Knowing the ultimate (para, brahman reality), even one’s longing ceases.
निर्-आहारस्य देहिनः विषयाः रस-वर्जं विनिवर्तन्ते। परं दृष्ट्वा अस्य रसः अपि निवर्तते॥
तत्र विषयान् अन्-आहरत आतुरस्यापीन्द्रियाणि निवर्तन्ते कूर्माङ्गानीव संह्रियन्ते, न तु तद्-विषयो रागः। स कथं संह्रियते? इत्य् उच्यते –
विषया इति। यद्य् अपि विषयोपलक्षितानि विषय-शब्द-वाच्यानि इन्द्रियाण्य् अथवा विषया एव निर्-आहारस्य अन्-आह्रियमाण-विषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः, रस-वर्जं रसो रागो विषयेषु यस् तं वर्जयित्वा।
रस-शब्दो रागे प्रसिद्धः – ‘स्व-रसेन प्रवृत्तो’ ‘रसिको’ ‘रस-ज्ञ’ इत्य्-आदि-दर्शनात्।
सोऽपि रसो रञ्जन-रूपः सूक्ष्मोऽस्य यतेः परं परमार्थ-तत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ‘अहम् एव तद्’ इति वर्तमानस्य निवर्तते। निर्-बीजं विषय-विज्ञानं संपद्यत इत्यर्थः।
नासति सम्यग्-दर्शने रसस्योच्छेदस्, तस्मात् सम्यग्-दर्वनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यम् इत्य् अभिप्रायः॥
yatat, hi, api, kaunteya, puruṣa, vipaścit;
indriya, pramāthin, √hṛ, prasabham, manas.

Because, O Arjuna, even though a discerning person puts forth effort, the distracting senses forcefully take away the mind.
कौन्तेय, विपश्चितः हि [=यस्मात्] पुरुषस्य यततः अपि, प्रमाथीनि इन्द्रियाणि मनः प्रसभं हरन्ति॥
सम्यग्-दर्शन-लक्षण-प्रज्ञा-स्थैर्यं चिकीर्षता आदाव् इन्द्रियाणि स्व-वशे स्थापयितव्यानि, यस्मात् तद्-अनवस्थापने दोषम् आह –
यतत इति। यततः प्रयत्नं कुर्वतोऽपि हि यस्मात्, कौन्तेय, पुरुषस्य विपश्चितो मेधाविनो‘ऽपि’ इति व्यवहितेन संबन्धः। इन्द्रियाणि प्रमाथीनि प्रमथन-शीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्त्य् आकुली-कुर्वन्ति। आकुली-कृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशम् एव पश्यतो विवेक-विज्ञान-युक्तं मनः
tad, sarva, saṃyamya, yukta, √ās, mad-para;
vaśa, hi, yad, indriya, tad, prajñā, pratiṣṭhitā.

Mastering all those senses, the one who is disciplined should remain with Me, the Lord, reality, as the para (highest, the limitless). For the one whose senses are indeed under authority of an informed intellect, wisdom is firm.
[यतः तस्मात्] तानि सर्वाणि [इन्द्रियाणि] संयम्य युक्तः [सन्] मत्-परः आसीत। यस्य हि इन्द्रियाणि [संस्कृत-बुद्धेः see भ॰गी॰३.४२-३] वशे, तस्य प्रज्ञा प्रतिष्ठिता॥
यतस् तस्मात् –
तानीति। तानि सर्वाणि संयम्य संयमनं वशी-करणं कृत्वा युक्तः समाहितः सन्न् आसीतमत्-परोऽहं वासु-देवः सर्व-प्रत्यग्-आत्मा परो यस्य स मत्-परो ‘नान्योऽहं तस्माद्’ इत्य् आसीतेत्य् अर्थः।
एवम् आसीनस्य यतेर् वशे हि यस्येन्द्रियाणि वर्तन्तेऽभ्यास-बलात् तस्य प्रज्ञा प्रतिष्ठिता
dhyāyat, viṣaya, pumaṃs, saṅga, tad, upa-√jan;
saṅga, sam-√jan, kāma, kāma, krodha, abhi-√jan.
krodha, √bhū, sammoha, sammoha, smṛti-vibhrama;
smṛti-bhraṃśa, buddhi-nāśa, buddhi-nāśa, pra-√naś.

For a person who mentally dwells on objects, attachment to them arises; from attachment allowed to flame up by one’s value structure arises binding desire, requirements in order to be happy and anticipations of their fruition; from thwarted anticipations arises anger; from anger is delusion, error in judgment; from delusion is lapse of memory, what has been taught; from lapse of memory is lapse of intellect, wisdom; from lapse of intellect, what distinguishes the human condition, the person is destroyed. [The unique human opportunity to attain the ultimate good (śreyas) is wasted, and the person remains in the life of becoming (in saṃsāra).]
विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते, सङ्गात् कामः सञ्जायते, कामात् क्रोधः अभिजायते, क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृति-विभ्रमः [भवति], स्मृति-भ्रंशात् बुद्धि-नाशः [भवति], बुद्धि-नाशात् [पुमान्] प्रणश्यति॥
अथेदानीं पराभविष्यतः सर्वानर्थ-मूलम् इदम् उच्यते –
ध्यायत इति। ध्यायतश् चिन्तयतो विषयाञ् शब्दादिन् विषय-विशेषान् आलोचयतः पुंसः पुरुषस्य सङ्ग आसक्तिः प्रीतिस् तेषु विषयेषु उपजायतेसङ्गात् प्रीतेः संजायते समुत्पद्यते कामस् तृष्णः। (तस्मात्) कामात् कुतश्चित् प्रतिहतात् क्रोधोऽभिजायते
क्रोधाद् भवति संमोहोऽविवेकः कार्याकार्य-विषयः। क्रुद्धो हि संमूढः सन् गुरुम् अप्य् आक्रोशति।
संमोहात् स्मृति-विभ्रमः शास्त्राचार्योपदेशाहित-संस्कार-जनितायाः स्मृतेः स्याद् विभ्रमो भ्रंशः स्मृत्य्-उत्पत्ति-निमित्त-प्राप्ताव् अन्-उत्पत्तिः।
ततः स्मृति-भ्रंशात् बुद्धेर् नाशः। कार्याकार्य-विषय-विवेकायोग्यता अन्तः-करणस्य बुद्धेर् नाश उच्यते।
बुद्धि-नाशात् प्रणश्यति। तावद् एव हि पुरुषो यावद् अन्तः-करणं तदीयं कार्याकार्य-विषय-विवेक-योग्यं, तद्-अयोग्यत्वे नष्ट एव पुरुषो भवति।
अतस् तस्यान्तः-करणस्य बुद्धेर् नाशात् प्रणश्यति। पुरुषार्थायोग्यो भवतीत्य् अर्थः॥
rāga-dveṣa-viyukta, tu, viṣaya, indriya, carat;
ātma-vaśya, vidheya-ātman, prasāda, adhi-√gam.

Whereas, moving among the objects with the senses under authority of the intellect and freed from being overpowered by attraction and repulsion (rāga-dveṣa – see 3.34), the one whose mind is disciplined attains clarity.
राग-द्वेष-वियुक्तैः तु आत्म-वश्यैः इन्द्रियैः विषयान् चरन्, विधेय-आत्मा [=वश्य-अन्तः-करणः] प्रसादम् [=शान्तिम्] अधिगच्छति॥
सर्वानर्थस्य मूलम् उक्तं विषयाभिध्यानम्। अथेदानीं मोक्ष-कारणम् इदम् उच्यते –
राग-द्वेषेति। राग-द्वेष-वियुक्तैः रागश् च द्वेषश् च राग-द्वेषौ, तत्-पुरः-सरा हीन्द्रियाणां प्रवृत्तिः स्वा-भाविकी, तत्र यो मुमुक्षुर् भवति स ताभ्यां वियुक्तैः श्रोत्रादिभिर् इन्द्रियैः विषयान् अवर्जनीयांश् चरन्न् उपलभमान, आत्म-वश्यैर् आत्मनो वश्यानि वशी-भूतानि तैर् आत्म-वश्यैर् विधेयात्मा इच्छातो विधेय आत्मा अन्तः-करणं यस्य सोऽयं प्रसादम् अधिगच्छति। प्रसादः प्रसन्नता स्वा-स्थ्यम्॥
prasāda, sarva-duḥkha, hāni, idam, upa-√jan;
prasanna-cetas, hi, āśu, buddhi, pari-ava-√sthā.

When there is clarity, there comes the destruction of all one’s sorrows in the form of guilt and hurt, because, for the one whose mind is clear, the self-knowledge which destroys the sorrow quickly becomes firm.
प्रसादे [सति] अस्य सर्व-दुःखानां हानिः उपजायते, प्रसन्न-चेतसः हि [=यस्मात्] बुद्धिः आशु पर्यवतिष्ठते॥
प्रसादे सति किं स्वाद्, इत्य् उच्यते –
प्रसाद इति। प्रसादे सर्व-दुःखानाम् आध्यात्मिकादीनां हानिर् विनाशोऽस्य यतेर् उपजायते
किं-च प्रसन्न-चेतसः स्व-स्थान्तः-करणस्य हि यस्माद् आशु शीघ्रं बुद्धिः पर्यवतिष्ठत आकाशम् इव परि समन्ताद् अवतिष्ठते। आत्म-स्व-रूपेणैव निश्चली-भवतीत्य् अर्थः।
एवं प्रसन्न-चेतसोऽवस्थित-बुद्धेः कृत-कृत्यता यतस्, तस्माद् राग-द्वेष-वियुक्तैर् इन्द्रियैः शास्त्राविरुद्धेष्व् अवर्जनीयेषु युक्तः समाचरेद् इति वाक्यार्थः॥
na, √as, buddhi, a-yukta, na, ca, a-yukta, bhāvanā;
na, ca, a-bhāvayat, śānti, a-śānti, kutas, sukha.

For the one who is not disciplined, knowledge is not there, nor contemplation. For the noncontemplative, there is no clarity. For the nonclear, how can there be the appreciation of the sukha (fulfillment that is the nature of the limitless self, known as I)?
अ-युक्तस्य बुद्धिः न अस्ति, न च अ-युक्तस्य भावना [=धारणम्]। न च अ-भावयतः शान्तिः। अ-शान्तस्य कुतः सुखम्॥
सेयं प्रसन्नता स्तूयते –
नास्तीति। नास्ति न विद्यते। न भवतीत्य् अर्थः। बुद्धिर् आत्म-स्व-रूप-विषया अयुक्तस्य असमाहितान्तः-करणस्य। न च अस्त्य् अयुक्तस्य भावना आत्म-ज्ञानाभिनिवेशः।
तथा न च अस्त्य् अभावयत आत्म-ज्ञानाभिनिवेशम् अकुर्वतः शान्तिर् उपशमः।
अशान्तस्य कुतः सुखम्? इन्द्रियाणां हि विषय-सेवा-तृष्णातो निवृत्तिर् या तत् सुखं, न विषय-विषया तृष्णा, दुःखम् एव हि सा।
न तृष्णायां सत्यां सुखस्य गन्धमात्रम् अपि उपपद्यत इत्यर्थः॥
indriya, hi, carat, yad, manas, anu-vi-√dhā;
tad, idam, √hṛ, prajñā, vāyu, nau, iva, ambhas.

Because, that very mind, which follows after the roaming senses, takes away one’s wisdom, like a small boat on the water, which follows after the wind.
यद् मनः हि [=यस्मात्] चरताम् इन्द्रियाणाम् अनुविधीयते, तद् [मनः] अस्य प्रज्ञां हरति, वायुः अम्भसि नावम् इव [हरति]॥
अयुक्तस्य कस्माद् बुद्धिर् नास्तीत्य् उच्यते –
इन्द्रियाणाम् इति। इन्द्रियाणां हि यस्माच् चरतां स्व-स्व-विषयेषु प्रवर्तमानानां यन् मनोऽनुविधीयतेऽनुप्रवर्तते तद् इन्द्रिय-विषय-विकल्पने प्रवृत्तं मनोऽस्य यतेर् हरति प्रज्ञाम् आत्मानात्म-विवेक-जां नाशयति।
कथम्? वायुर् नावम् इवाम्भस्य् उदके जिगमिषतां मार्गाद् उद्धृत्योन्मार्गे यथा वायुर् नावं प्रवर्तयत्य्, एवम् आत्म-विषयां प्रज्ञां हृत्या मनो विषय-विषयां करोति॥
tasmāt, yad, mahā-bāhu, nigṛhīta, sarvaśas;
indriya, indriya-artha, tad, prajñā, pratiṣṭhitā.

Therefore, O Arjuna, the one whose senses under authority of the intellect are, or rather, are capable of being, completely withdrawn from the sense pursuits – that one has wisdom that is firm.
महा-बाहो, तस्मात् यस्य इन्द्रियाणि इन्द्रिय-अर्थेभ्यः सर्वशः निगृहीतानि [निगृहीतुम् अर्ह्यन्ते इत्यर्थः], तस्य प्रज्ञा प्रतिष्ठिता॥
“यततो ह्य् अपि” इत्य् (BhG.2.60) उपन्यस्तस्यार्थस्यानेकधोपपत्तिम् उक्त्वा तं चार्थम् उपपाद्योपसंहरति –
तस्माद् इति। इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् – तस्माद् यस्य यतेः, हे महा-बाहो, निगृहीतानि सर्वशः सर्व-प्रकारैर् मानसादि-भेदैर् इन्द्रियाणीन्द्रियार्थेभ्यः शब्दादिभ्यस् तस्य प्रज्ञा प्रतिष्ठिता
yad, niśā, sarva-bhūta, tad, √jāgṛ, saṃyamin;
yad, √jāgṛ, bhūta, tad, niśā, paśyat, muni.

What is like night for all beings – in that, the wise who is disciplined is awake. In what it is that beings are awake to, that is like night for the wise one who sees clearly. [The wise are awake to reality (sat), and others are only awake to what they believe is reality, but is unreal (a-sat).]
या सर्व-भूतानां निशा [इव], तस्यां संयमी [मुनिः] जागर्ति। यस्यां भूतानि जाग्रति, सा [सद्-वस्तु] पश्यतः मुनेः निशा [इव]॥
योऽयं लौकिको वैदिकश् च व्यवहारः स उत्पन्न-विवेक-ज्ञानस्य स्थित-प्रज्ञस्याविद्या-कार्यत्वाद् अविद्या-निवृत्तै निवर्तते। अविद्यायाश् च विद्या-विरोधान् निवृत्तिर् इत्य् एतम् अर्थं स्फुटी-कुर्वन्न् आह –
या निशेति। या निशा रात्रिः सर्व-पदार्थानाम् अ-विवेक-करी तमः-स्व-भावत्वान् सर्वेषां भूतानां सर्व-भूतानाम्। किं तत्? परमार्थ-तत्त्वं स्थित-प्रज्ञस्य विषयः। यथा नक्तं-चराणाम् अहर् एव सद् अन्येषां निशा भवति, तद्वन् नक्तं-चर-स्थानीयानाम् अ-ज्ञानां सर्व-भूतानां निशा इव निशा परमार्थ-तत्त्वम्, अ-गोचरत्वाद् अ-तद्-बुद्धीनाम्।
तस्यां परमार्थ-तत्त्व-लक्षणायाम् अ-ज्ञान-निद्रायाः(-निशायाः) प्रवृद्धो जागर्ति संयमी संयमवान् जितेन्द्रियो योगीत्य् अर्थः।
यस्यां ग्राह्य-ग्राहक-भेद-लक्षणायाम् अ-विद्या-निद्रायां(-निशायां) प्रसुप्तान्य् एव भूतानिजाग्रति’ इत्य् उच्यते यस्यां निशायां प्रसुप्ता इव स्वप्न-दृशः सा निशा अ-विद्या-रूपत्वात् परमार्थ-तत्त्वं पश्यतो मुनेः
अतः कर्माण्य् अ-विद्यावस्थायाम् एव चोद्यन्ते, न विद्यावस्थायाम्। विद्यायां हि सत्याम्, उदिते सवितरि शार्वरम् इव तमः, प्रणाशम् उपगच्छत्य् अ-विद्या।
प्राग् विद्योत्पत्तेर् अ-विद्या प्रमाण-बुद्ध्या गृह्यमाणा क्रिया-कारक-फल-भेद-रूपा सती सर्व-कर्म-हेतुत्वं प्रतिपद्यते, न अ-प्रमाण-बुद्ध्या गृह्यमाणायाः कर्म-हेतुत्वोपपत्तिः।
प्रमाण-भूतेन वेदेन ‘मम चोदितं कर्तव्यं कर्म’ इति हि कर्मणि कर्ता प्रवर्तते, न अ-विद्यामात्रम् इदं सर्वं ‘निशा इव’ इति।
यस्य पुनर् ‘निशा इव अ-विद्यामात्रम् इदं सर्वं भेद-जातम्’ इति ज्ञानं तस्यात्म-ज्ञस्य सर्व-कर्म-सन्न्यास एवाधिकारो न प्रवृत्तौ।
तथा च दर्वयिष्यति – “तद्-बुद्धयस् तद्-आत्मानः” इत्य्-आदिना (BhG.5.17), ज्ञान-निष्ठायाम् एव तस्याधिकारम्।
तत्रापि प्रवर्तक-प्रमाणाभावे प्रवृत्त्य्-अनुपपत्तिर् इति चेत्।
न, स्वात्म-विषयत्वाद् आत्म-विज्ञानस्य। न ह्य् आत्मनः स्वात्मनि प्रवर्तक-प्रमाणापेक्षता आत्मत्वाद् एव, तद्-अन्तत्वाच् च सर्व-प्रमाणानां प्रमाणत्वस्य। न ह्य् आत्म-स्व-रूपाधिगमे सति पुनः प्रमाण-प्रमेय-व्यवहारः संभवति।
प्रमातृत्वं ह्य् आत्मनो निवर्तयत्य् अन्त्यं प्रमाणम्। निवर्तयद् एव चाप्रमाणी-भवति, स्वप्न-काल-प्रमाणम् इव प्रबोधे।
लोके च वस्त्व्-अधिगमे प्रवृत्ति-हेतुत्वादर्शनात् प्रमाणस्य।
तस्मान् नात्म-विदः कर्मण्य् अधिकार (cf. BhG.2.47) इति सिद्धम्॥
āpūryamāṇa, a-cala-pratiṣṭha, samudra, ap, pra-√viś, yadvat;
tadvat, kāma, yad, pra-√viś, sarva, tad, śānti, √āp, na, kāma-kāmin.

Like the full and unmoved ocean into which the waters enter, their source being the ocean, yet its nature being unaffected by their variations, the one whom all objects of desire enter yet remains the same in nature – that one gains peace. Not so the one who requires/anticipates these objects, like a small pond requires its streams.
यद्वत् आपः आपूर्यमाणं [स्वरूपतः] अ-चल-प्रतिष्ठं समुद्रं प्रविशन्ति, तद्वत् सर्वे कामाः यं प्रविशन्ति – सः शान्तिम् आप्नोति, न काम-कामी॥ [cf. KathU.2.2.12]
विदुषस् त्यक्तैषणस्य स्थित-प्रज्ञस्य यतेर् एव मोक्ष-प्राप्तिर् न त्व् अ-सन्न्यासिनः काम-कामिन इत्य् एतम् अर्थं दृष्टान्तेन प्रतिपादयिषन्न् आह –
आपूर्येति। आपूर्यमाणम् अद्भिर् अ-चल-प्रतिष्ठम् अ-चलतया प्रतिष्ठा अवस्थितिर् यस्य तम् अ-चल-प्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्म-स्थम् अ-विक्रियम् एव सन्तं यद्वत्,
तद्वत् कामा विषय-संनिधाव् अपि सर्वत इच्छा-विशेषा यं पुरुषं समुद्रम् इव आपोऽविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्य् एव प्रलीयन्ते न स्वात्म-वशं कुर्वन्ति।
स शान्तिं मोक्षम् आप्नोति, इतरः काम-कामी – काम्यन्त इति कामा विषयास् तान् कामयितुं शीलं यस्य स काम-कामी नैव प्राप्नोतीत्य् अर्थः॥
vihāya, kāma, yad, sarva, pumaṃs, √car, nis-spṛha;
nis-manas, nis-aham-kāra, tad, śānti, adhi-√gam.

Giving up all binding desires, requirements/anticipations, the person who moves about free from longing, free from the judgment “this is mine” and free from the judgment “I am only this much” – that person attains peace.
सर्वान् कामान् विहाय, यः पुमान् निः-स्पृहः निर्-ममः निर्-अहङ्कारः चरति, सः शान्तिम् अधिगच्छति॥
यस्माद् एवं तस्मात् –
विहायेति। विहाय परित्यज्य कामान् यः सन्न्यासी पुमान् सर्वान् अ-शेषतः कार्त्स्नेयेन चरति। जीवनमात्र-चेष्टा-शेषः पर्यटतीत्य् अर्थः।
निः-स्पृहः शरीर-जीवनमात्रेऽपि निर्गता स्पृहा यस्य स निः-स्पृहः सन्।
निर्-मम इति ममत्व-वर्जितः शरीर-जीवनमात्राक्षिप्त-परिग्रहेऽपि ‘मम इदम्’ इत्य् अभिनिवेश-वर्जितः।
निर्-अहंकारो विद्यावत्त्वादि-निमित्तात्म-संभावना-रहित इत्यर्थः।
एवं-भूतः स्थित-प्रज्ञो ब्रह्म-विच् छान्तिं सर्व-संसार-दुःखोपरम-लक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति। ब्रह्म-भूतो भवतीत्य् अर्थः॥
etad, brāhmī, sthiti, pārtha, na, enad, prāpya, vi-√muh;
sthitvā, idam, anta-kāla, api, brahma-nirvāṇa, √ṛ.

This is being firm in/as reality (brahman, sat), O Arjuna. Attaining this, one is not any longer deluded. Being firm in this, even just at the moment of death, one attains liberation in/as brahman.
एषा ब्राह्मी [=ब्रह्मणि अधिष्ठिता] स्थितिः, पार्थ। प्राप्य एनां, न विमुह्यति। अन्त-काले अपि अस्यां स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति॥
सैषा ज्ञान-निष्ठा स्तूयते –
एषा ब्राह्मीति। एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्म-रूपेणैवावस्थानम् इत्य् एतत्।
हे पार्थ, नैनां स्थितिं प्राप्य लब्धा विमुह्यति मोहं प्राप्नोति।
स्थित्वा अस्यां स्थितौ ब्राह्म्यां यथोक्तायाम् अन्त-कालेऽन्ते वयस्य् अपि ब्रह्म-निर्वाणं ब्रह्म-निर्वृतिं मोक्षम् ऋच्छति गच्छति, किम्-उ वक्तव्यं ब्रह्म-चर्याद् एव संन्यस्य यावज्-जीवं यो ब्रह्मण्य् एवावतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छतीति॥

इति श्रीमत्-परम-हंस-परिव्राजकाचार्य-गोविन्द-भगवत्-पूज्य-पाद-शिष्य-श्रीमच्-छङ्कर-भगवतः कृतौ श्री-भगवद्-गीता-भाष्ये साङ्ख्य-योगो नाम द्वितीयोऽध्यायः॥२॥
om, tad, sat. iti, śrīmat-bhagavat-gītā, upaniṣad, brahma-vidyā, yoga-śāstra, śrī-kṛṣṇa-arjuna-saṃvāda, sāṅkhya-yoga, nāma, dvitīya, adhyāya.
Om (brahman, the witness of all) is that (only) reality (sat). Thus ends the second chapter, called ‘The Topic of Knowledge,’ of the (eighteen chapters of) Songs of the Glorious Lord, which is (looked upon as) sacred teaching (Upaniṣad) and (whose teaching is) in (the form of) a dialogue between Śrī Kṛṣṇa and Arjuna, (the subject matter being) knowledge of brahman and yoga.

Go to Top ('Home' key on many Windows browsers)

शास्त्रस्य प्रवृत्ति-निवृत्ति-विषय-भूते द्वे बुद्धी भगवता निर्दिष्टे, “साङ्ख्ये बुद्धिः योगे बुद्धिः” (BhG.2.39) इति च।
तत्र “प्रजहाति यदा कामान्” (BhG.2.55) इत्यारभ्य आ अध्याय-परिसमाप्तेः साङ्ख्य-बुद्ध्य्-आश्रितानां सन्न्यासं कर्तव्यम् उक्त्वा तेषां तन्-निष्ठतयैव च कृतार्थता उक्ता – “एषा ब्राह्मी स्थितिः” (BhG.2.72) इति।
अर्जुनाय च “कर्मण्येवाधिकारस्ते … मा ते सङ्गोऽस्त्वकर्मणि” (BhG.2.47) इति कर्मैव कर्तव्यम् उक्तवान् योग-बुद्धिम् आश्रित्य, न तत एव श्रेयः-प्राप्तिम् उक्तवान्।
तद् एतद् आलक्ष्य पर्याकुली-कृत-बुद्धिः अर्जुनः उवाच।
कथं भक्ताय श्रेयोर्थिने यत् साक्षात् श्रेयः-साधनं साङ्ख्य-बुद्धि-निष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थ-युक्ते पारंपर्येणापि अनेकान्तिक-श्रेयः-प्राप्ति-फले नियुञ्ज्यात् इति युक्तः पर्याकुली-भावः अर्जुनस्य।
तद्-अनुरूपश् च प्रश्नः “ज्यायसी चेद्” (BhG.3.1) इत्यादिः।
प्रश्नापाकरण-वाक्यं च भगवता उक्तं यथोक्त-विभाग-विषये शास्त्रे।
केचित् तु – अर्जुनस्य प्रश्नार्थम् अन्यथा कल्पयित्वा तत्-प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा च आत्मना सम्बन्ध-ग्रन्थे गीतार्थो निरूपितः तत्-प्रतिकूलं च इह पुनः प्रश्न-प्रतिवचनयोः अर्थं निरूपयन्ति।
कथम्? तत्र सम्बन्ध-ग्रन्थे तावत् – सर्वेषाम् आश्रमिणां ज्ञान-कर्मणोः समुच्चयः गीता-शास्त्रे निरूपितः अर्थः इत्युक्तम्; पुनर् विशेषितं च “यावज्-जीव”-श्रुति-चोदितानि कर्माणि परित्यज्य केवलाद् एव ज्ञानात् मोक्षः प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धम् इति।
इह तु आश्रम-विकल्पं दर्शयता “यावज्-जीव”-श्रुति-चोदितानाम् एव कर्मणां परित्याग उक्तः।
तत् कथम् ईदृशं विरुद्धम् अर्थम् अर्जुनाय ब्रूयात् भगवान्, श्रोता वा कथं विरुद्धम् अर्थम् अवधारयेत्?
तत्रैतत् स्यात् – गृहस्थानाम् एव श्रौत-कर्म-परित्यागेन केवलाद् एव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणाम् इति।
एतद् अपि पूर्वोत्तर-विरुद्धम् एव। कथम्? सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह कथं तद्-विरुद्धं केवलाद् एव ज्ञानात् मोक्षं ब्रूयात् आश्रमान्तराणाम्?
अथ मतं श्रौत-कर्मापेक्षया एतद् वचनम् “केवलाद् एव ज्ञानात् श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते” इति; तत्र गृहस्थानां विद्यमानम् अपि स्मार्तं कर्म अ-विद्यमानवत् उपेक्ष्य ‘ज्ञानादेव केवलात् न मोक्षः’ इत्युच्यते इति।
एतद् अपि विरुद्धम्। कथम्? गृहस्थस्यैव स्मार्त-कर्मणा समुच्चितात् ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणाम् इति कथं विवेकिभिः शक्यम् अवधारयितुम्?
किञ्च – यदि मोक्ष-साधनत्वेन स्मार्तानि कर्माणि ऊर्ध्व-रेतसां समुच्चीयन्ते, तथा गृहस्थस्यापि इष्यतां स्मार्तैर् एव समुच्चयो न श्रौतैः। अथ श्रौतैः स्मार्तैश् च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्व-रेतसां तु स्मार्त-कर्ममात्र-समुच्चितात् ज्ञानात् मोक्ष इति।
तत्रैवं सति गृहस्थस्य आयास-बाहुल्यात् श्रौतं स्मार्तं च बहु-दुःख-रूपं कर्म शिरसि आरोपितं स्यात्।
अथ गृहस्थस्यैव आयास-बाहुल्य-कारणात् मोक्षः स्यात्, न आश्रमान्तराणां श्रौत-नित्य-कर्म-रहितत्वात् इति।
तद् अप्य् अ-सत्, सर्वोपनिषत्सु इतिहास-पुराण-योग-शास्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोः सर्व-कर्म-सन्न्यास-विधानात्, आश्रम-विकल्प-समुच्चय-विधानाच् च श्रुति-स्मृत्योः।
सिद्धस् तर्हि सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयः।
न, मुमुक्षोः सर्व-कर्म-सन्न्यास-विधानात्।
“(पुत्रैषणाया वित्तैषणायाश् च लोकैषणायाश् च) व्युत्थाय अथ भिक्षा-चर्यं चरन्ति” (BrhU.3.5.1) “तस्मात् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः” (MNārU.2.79) “न्यास एवात्यरेचयत्” (MNārU.2.78) इति, “न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः” (MNārU.2.12) इति च। “ब्रह्म-चर्याद् एव प्रव्रजेत्” (JābU.4) इत्याद्याः श्रुतयः।
“त्यज धर्मम् अ-धर्मं च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज।” (MBhSant.329.40) “संसारम् एव निःसारं दृष्ट्वा सार-दिदृक्षया। प्रव्रजन्त्य् अ-कृतोद्वाहाः परं वैराग्यम् आश्रिताः” (some Smṛti and NārParU.3.15) इति बृहस्पतिः। “कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते। तस्मात् कर्म न कुर्वन्ति यतयः पार-दर्शिनः” (MBhSant.241.7) इति शुकानुशासनम्।
इहापि च “सर्व-कर्माणि मनसा संन्यस्य” (BhG.5.13) इत्यादि।
मोक्षस्य च अ-कार्यत्वात् मुमुक्षोः कर्मानर्थक्यम्।
नित्यानि प्रत्यवाय-परिहारार्थम् अनुष्ठेयानि इति चेत्।
न; अ-सन्न्यासि-विषयत्वात् प्रत्यवाय-प्राप्तेः। न हि अग्नि-कार्याद्य्-अकरणात् सन्न्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्म-चारिणाम् अ-सन्न्यासिनाम् अपि कर्मिणाम्।
न तावत् नित्यानां कर्मणाम् अ-भावाद् एव भाव-रूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या (युक्ता च), “कथम् अ-सतः सज् जायेत?” (ChanU.6.2.2) इति अ-सतः सज्-जन्मासम्भव-श्रुतेः।
यदि विहिताकरणात् अ-सम्भाव्यम् अपि प्रत्यवायं ब्रूयात् वेदः, तदा अन्-अर्थकरः वेदः अ-प्रमाणम् इत्युक्तं स्यात्।
विहितस्य करणाकरणयोः दुःखमात्र-फलत्वात्।
तथा च ‘कारकं शास्त्रं, न ज्ञापकम्’ इत्य् अन्-उपपन्नार्थं कल्पितं स्यात्। न चैतद् इष्टम्।
तस्मात् न सन्न्यासिनां कर्माणि। अतो ज्ञान-कर्मणोः समुच्चयानुपपत्तिः।
“ज्यायसी चेत् कर्मणस् ते मता बुद्धिः” (BhG.3.1) इति अर्जुनस्य प्रश्नानुपपत्तेश् च।
यदि हि भगवता द्वितीयाध्याये ज्ञानं कर्म च समुच्चयेन त्वया अनुष्ठेयम् इत्युक्तं स्यात्, ततः अर्जुनस्य प्रश्नः अन्-उपपन्नः “ज्यायसी चेत् कर्मणस् ते मता बुद्धिः” (BhG.3.1) इति।
अर्जुनाय चेत् बुद्धि-कर्मणी त्वया अनुष्ठेय इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः सापि उक्तैव इति “तत् किं कर्मणि घोरे मां नियोजयसि केशव” (BhG.3.1) इति प्रश्नो न कथंचन उपपद्यते।
न च ‘अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम्’ इति कल्पयितुं युक्तम्, येन “ज्यायसी चेत्” इति प्रश्नः स्यात्।
यदि पुनः एकस्य पुरुषस्य ज्ञान-कर्मणोर् विरोधात् युगपद् अनुष्ठानं न सम्भवतीति भिन्न-पुरुषानुष्ठेयत्वं भगवता पूर्वम् उक्तं स्यात्, ततोऽयं प्रश्न उपपन्नः ‘ज्यायसी चेद्’ इत्यादिः।
अ-विवेकतः प्रश्न-कल्पनायाम् अपि भिन्न-पुरुषानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्यते।
न च अ-ज्ञान-निमित्तं भगवत्-प्रतिवचनं कल्प्यम्।
अस्माच् च भिन्न-पुरुषानुष्ठेयत्वेन ज्ञान-कर्म-निष्ठयोः भगवतः प्रतिवचन-दर्शनात्, ज्ञान-कर्मणोः समुच्चयानुपपत्तिः।
तस्मात् केवलाद् एव ज्ञानात् मोक्ष इत्य् एषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च।
ज्ञान-कर्मणोः “एकं वद निश्चित्य” (BhG.3.2) इति च एक-विषयैव प्रार्थना अन्-उपपन्ना, उभयोः समुच्चय-सम्भवे।
“कुरु कर्मैव तस्मात् त्वम्” (BhG.4.15) इति च ज्ञान-निष्ठासम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यति॥
arjuna, √vac:
jyāyasī, ced, karman, yuṣmad, matā, buddhi, jana-ardana;
tad, kim, karman, ghora, asmad, ni-√yuj, keśava.

Arjuna said: O Kṛṣṇa, if it is Your contention that knowledge is better than action, then why do You compel me into this gruesome action, O Kṛṣṇa?
अर्जुनः उवाच। जन-अर्दन, कर्मणः चेद् ज्यायसी बुद्धिः ते [=तव] मता, तद् किं घोरे कर्मणि मां नियोजयसि, केशव॥
ज्यायसी श्रेयसी चद् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिः ज्ञानं, हे जनार्दन
यदि बुद्धि-कर्मणी समुच्चिते इष्टे, तदा ‘एकं श्रेयः-साधनम्’ इति, ‘कर्मणो ज्यायसी बुद्धिः’ इति कर्मणः अतिरिक्त-करणं बुद्धेर् अनुपपन्नम् अर्जुनेन कृतं स्यात्।
न हि ‘तद् एव तस्मात्’ फलतोऽतिरिक्तं स्यात्।
तथा च कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः, ‘अ-श्रेयस्करं कर्म कुरु’ इति मां प्रतिपादयति, तत् – किं नु कारणम्? इति भगवत उपालम्भम् इव कुर्वन् ‘तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसा-लक्षणे मां नियोजयसि केशव?’ इति च यद् आह तच् च नोपपद्यते।
अथ च स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश् चेत्, “तत् किं कर्मणि घोरे मां नियोजयसि” इत्यादि कथं युक्तं वचनम्॥
vyāmiśra, iva, vākya, buddhi, √muh, iva, asmad;
tad, eka, √vad, niścitya, yad, śrayas, asmad, √āp.

With apparently contradictory words, You seem to confuse my mind. Please decide on just one and tell me that one by which I may gain complete freedom (śreyas).
व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव। तद् एकं निश्चित्य वद, येन अहं श्रेयः आप्नुयाम्॥
किञ्च –
व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान्, तथापि मम मन्द-बुद्धेः व्यामिश्रम् इव भगवद्-वाक्यं प्रतिभाति। तेन मम बुद्धिं मोहयसि इव।
मम बुद्धि-व्यामोहापनयाय हि प्रवृत्तः त्वं तु कथं मोहयसि? अतः ब्रवीमि “बुद्धिं मोहयसि इव मे” मम इति।
त्वं तु भिन्न-कर्तृकयोः ज्ञान-कर्मणोः एक-पुरुषानुष्ठानासम्भवं यदि मन्यसे, तत्रैवं सति तत् तयोः एकं बुद्धिं कर्म वा ‘इदम् एव अर्जुनस्य योग्यं बुद्धि-शक्त्यवस्थानुरूपम्’ इति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम्।
यदि हि कर्मिष्ठायां गुण-भूतम् अपि ज्ञानं भगवता उक्तं स्यात्, तत् कथं तयोः “एकं वद” इति एक-विषयैव अर्जुनस्य शुश्रूषा स्यात्।
न हि भगवता पूर्वम् उक्तम् ‘अन्यतरद् एव ज्ञान-कर्मणोः वक्ष्यामि, नैव द्वयम्’ इति, येन उभय-प्राप्त्यसम्भवम् आत्मनो मन्यमानः एकम् एव प्रार्थयेत्॥
śrī-bhagavat, √vac:
loka, idam, dvi-vidhā, niṣṭhā, purā, proktā, asmad, an-agha;
jñāna-yoga, sāṅkhya, karma-yoga, yogin.

The Lord said: O Arjuna, long ago in this world I taught (in the Upaniṣads) two different lifestyles – one through the means that is knowledge (jñāna-yoga) for those dedicated to knowledge, and the other through the means that is duty (karma-yoga) for yogīs, (those dedicated to duty as a means).
श्री-भगवान् उवाच। अन्-अघ, अस्मिन् लोके पुरा मया द्वि-विधा निष्ठा प्रोक्ता – ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम्॥
प्रश्नानुरूपम् एव प्रतिवचनं (श्री-भगवान् उवाच) –
लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रै-वर्णिकानां द्वि-विधा द्वि-प्रकारा निष्ठा स्थितिः अनुष्ठेय-तात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदय-निःश्रेयस-प्राप्ति-साधनं वेदार्थ-सम्प्रदायम् आविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपाप।
तत्र का सा द्वि-विधा निष्ठा? इत्याह – ज्ञान-योगेन ज्ञानम् एव योगः तेन सांख्यानाम् आत्मानात्म-विषय-विवेक-विज्ञानवतां ब्रह्मचर्याश्रमाद् एव कृत-सन्न्यासानां वेदान्त-विज्ञान-सुनिश्चितार्थानां (KaivU.4) परम-हंस-परिव्राजकानां ब्रह्मण्येव अवस्थितानां निष्ठा प्रोक्ता।
कर्म-योगेन कर्मैव योगः कर्म-योगः तेन कर्म-योगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थः।
यदि च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम्, कथम् इह अर्जुनाय उपसन्नाय प्रियाय विशिष्ट-भिन्न-पुरुष-कर्तृके एव ज्ञान-कर्म-निष्ठे ब्रूयात्?
यदि पुनः ‘अर्जुनः ज्ञानं कर्म च द्वयं श्रुत्वा स्वयम् एवानुष्ठास्यति अन्येषां तु भिन्न-पुरुषानुष्ठेयतां वक्ष्यामि’ इति मतं भगवतः कल्प्येत, तदा राग-द्वेषवान् अप्रमाण-भूतो भगवान् कल्पितः स्यात्। तच् च अयुक्तम्।
तस्मात् कयापि युक्त्या न समुच्चयो ज्ञान-कर्मणोः।
यत् अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धेः, तच्च स्थितम्, अनिराकरणात्।
तस्याश्च ज्ञान-निष्ठायाः सन्न्यासिनाम् एवानुष्ठेयत्वम्, भिन्न-पुरुषानुष्ठेयत्व-वचनात्, भगवतः एवम् एव अनुमतम् इति गम्यते॥
na, karman, an-ārambha, naiṣ-karmya, puruṣa, √aś;
na, ca, sannyasana, eva, siddhi, sam-adhi-√gam.

A person does not gain actionlessness, (complete freedom), by not undertaking action, nor does one gain this success, complete freedom, merely by (taking the vow of) renunciation (sannyāsa).
पुरुषः कर्मणाम् अन्-आरम्भात् नैष्कर्म्यं न अश्नुते, [ज्ञान-ज्ञानयोग्य-रहितात्] सन्न्यसनात् एव च सिद्धिं न समधिगच्छति॥
‘मां च बन्ध-कारणे कर्मण्येव नियोजयसि’ इति विषण्ण-मनसम् अर्जुनम् ‘कर्म न आरभे’ इत्येवं मन्वानम् आलक्ष्य आह भगवान् – “न कर्मणाम् अनारम्भात्” इति।
अथवा – ज्ञान-कर्म-निष्ठयोः परस्पर-विरोधात् एकेन पुरुषेण युगपत् अनुष्ठातुम् अशक्त्यत्वे सति इतरेतरानपेक्षयोर् एव पुरुषार्थ-हेतुत्वे प्राप्ते – कर्म-निष्ठाया ज्ञान-निष्ठा-प्राप्ति-हेतुत्वेन पुरुषार्थ-हेतुत्वम्, न स्वा-तन्त्र्येण; ज्ञान-निष्ठा तु कर्म-निष्ठोपाय-लब्धात्मिका सती स्वा-तन्त्र्येण पुरुषार्थ-हेतुः अन्यानपेक्षा, इत्येतम् अर्थं प्रदर्शयिष्यन् आह भगवान् –

न कर्मणाम् अनारम्भाद् अप्रारम्भात् कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्त-दुरित-क्षय-हेतुत्वेन सत्त्व-शुद्धि-कारणानां तत्कारणत्वेन च ज्ञानोत्पत्ति-द्वारेण ज्ञान-निष्ठा-हेतूनाम्, “ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः। (यथादर्श-तले प्रख्ये पश्यत्यात्मानम् आत्मनि)” (MBhSant.204.8) इत्यादिस्मरणात्, अनारम्भात् अननुष्ठानात्।
नैष्कर्म्यं निष्कर्म-भावं कर्म-शून्यतां ज्ञान-योगेन निष्ठां निष्क्रियात्म-स्वरूपेणैव अवस्थानम् इति यावत्। पुरुषःअश्नुते न प्राप्नोतीत्यर्थः।
“कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुते” इति वचनात् तद्विपर्ययात् ‘तेषाम् आरम्भात् नैष्कर्म्यम् अश्नुते’ इति गम्यते। कस्मात् पुनः कारणात् कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुते इति?
उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात्। न ह्युपायम् अन्तरेण उपेय-प्राप्तिर् अस्ति।
कर्म-योगोपायत्वं च नैष्कर्म्य-लक्षणस्य ज्ञान-योगस्य, श्रुतौ इह च प्रतिपादनात्।
श्रुतौ तावत् प्रकृतस्य आत्म-लोकस्य वेद्यस्य वेदनोपायत्वेन “तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन” (BrhU.4.4.22) इत्यादिना कर्म-योगस्य ज्ञान-योगोपायत्वं प्रतिपादितम्।
इहापि च –
“सन्न्यासस्तु महा-बाहो दुःखम् आप्तुम् अयोगतः” (BhG.5.6)
“योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये” (BhG.5.11)
“यज्ञो दानं तपश् चैव पावनानि मनीषिणाम्” (BhG.18.5) इत्यादि प्रतिपादयिष्यति।
ननु च “अभयं सर्व-भूतेभ्यो दत्त्वा नैष्कर्म्यम् आचरेद्” (MBhAsv.46.18) इत्यादौ कर्तव्य-कर्म-सन्न्यासाद् अपि नैष्कर्म्य-प्राप्तिं दर्शयति। लोके च कर्मणाम् अनारम्भान् ‘नैष्कर्म्यम्’ इति प्रसिद्धतरम्। अतश्च नैष्कर्म्यार्थिनः किं कर्मारम्भेण? इति प्राप्तम्। अत आह – न च संन्यसनाद् एव इति। नापि संन्यसनाद् एव केवलात् कर्म-परित्यागमात्राद् एव ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां ज्ञान-योगेन निष्ठां समधिगच्छति न प्राप्नोति॥
na, hi, ka-cid, kṣaṇam, api, jātu, √sthā, a-karma-kṛt;
√kṛ, hi, a-vaśa, karman, sarva, prakṛti-ja, guṇa.

Because nobody ever remains, even for a second, without performing action. Because everybody, being helpless, is made to perform action by the modifications of the three constituent principles of the universe (guṇas) born of nature (prakṛti).
न हि [=यस्मात्] कश्-चिद् क्षणम् अपि जातु अ-कर्म-कृत् तिष्ठति। सर्वः हि [=यस्मात्] अ-वशः प्रकृति-जैः गुणैः कर्म कार्यते॥
कस्मात् पुनः कारणात् कर्म-सन्न्यासमात्राद् एव ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां पुरुषो नाधिगच्छति? इति हेत्वाकाङ्क्षायाम् आह –
न हि यस्मात् क्षणम् अपि कालं जातु कदाचित् कश्चित् तिष्ठति अकर्म-कृत् सन्। कस्मात्? कार्यते प्रवर्त्यते हि यस्मात् अवश एव कर्म सर्वः प्राणी प्रकृति-जैः प्रकृतितो जातैः सत्व-रजस्-तमोभिः गुणैः
‘अज्ञ’ इति वाक्यशेषः, यतो वक्ष्यति “गुणैर्यो न विचाल्यते” (BhG.14.23) इति। साङ्ख्यानां पृथक्-करणात् अज्ञानाम् एव हि कर्म-योगः, न ज्ञानिनाम्।
ज्ञानिनां तु गुणैर् अचाल्यमानानां स्वतश् चलनाभावात् कर्म-योगो नोपपद्यते।
तथा च व्याख्यातम् “वेदाविनाशिनम्” (BhG.2.21) इत्यत्र॥
karma-indriya, saṃyamya, yad, √ās, manas, smarat;
indriya-artha, vimūḍha-ātman, mithyā-ācāra, tad, √vac.

The one who sits, restraining the organs of action, yet contemplating the sense objects with the mind – that one is called one whose mind is deluded and whose conduct is useless. (Such is the predicament of a renunciate not prepared for a contemplative lifestyle.)
यः कर्म-इन्द्रियाणि संयम्य मनसा इन्द्रिय-अर्थान् स्मरन् आस्ते, सः विमूढ-आत्मा मिथ्या-आचारः उच्यते॥
यत् तु अनात्म-ज्ञः चोदितं कर्म नारभते इति तद् असद् एवेत्याह –
कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य यः आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणः मिथ्याचारो मृषाचारः पापाचारः सः उच्यते
yad, tu, indriya, manas, niyamya, ā-√rabh, arjuna;
karma-indriya, karma-yoga, a-sakta, tad, vi-√śiṣ.

However, O Arjuna, the one who rules the senses with the mind, is unattached, (not anticipating results), who through the organs of action undertakes action as a yajña, (means for preparing for knowledge) – that one is better (than the deluded of useless conduct).
अर्जुन, यः तु इन्द्रियाणि मनसा नियम्य अ-सक्तः कर्म-इन्द्रियैः कर्म-योगम् आरभते, सः विशिष्यते॥
यस् तु पुनः कर्मण्यधिकृतः अज्ञः बुद्धि-इन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्-पाण्यादिभिः।
किम् आरभते? इत्याह – कर्म-योगम् असक्तः सन् (फलाभिसंधि-वर्जितः) सः विशिष्यते इतरस्मात् मिथ्याचारात्॥
niyata, √kṛ, karman, yuṣmad, karman, jyāyas, hi, a-karman;
śarīra-yātrā, api, ca, yuṣmad, na, pra-√sidh, a-karman.

You Arjuna, (personally), should do your enjoined duty (rather than do nothing or try to take to a contemplative life of sannyāsa), since duty is superior to inaction and, through inaction, even the maintenance of your body would be impossible.
त्वं नियतं कर्म कुरु, कर्म हि अ-कर्मणः ज्यायः, अ-कर्मणः च ते शरीर-यात्रा अपि न प्रसिद्ध्येत्॥
यतः एवम् अतः –
नियतं नित्यं शास्त्रोपदिष्टं, यो यस्मिन् कर्मणि अधिकृतः फलाय च अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे अर्जुन, यतः कर्म ज्यायः अदिकतरं फलतः, हि यस्मात् अकर्मणः अकरणात् अनारम्भात्।
कथम्? शरीर-यात्रा शरीर-स्थितिः अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणः अकरणात्। अतः दृष्टः कर्माकर्मणोर् विशेषो लोके॥
yajña-artha, karman, anyatra, loka, idam, karma-bandhana;
tad-artham, karman, kaunteya, mukta-saṅga, sam-ā-√car.

A person is one whose actions bind, apart from duty/action performed as a yajña (act of worship). O Arjuna, free from attachment (to the results of action), perform action for the sake of that yajña.
यज्ञ-अर्थात् कर्मणः अन्यत्र अयं लोकः कर्म-बन्धनः। कौन्तेय, मुक्त-सङ्गः तद्-अर्थं कर्म समाचर॥
यच् च मन्यसे ‘बन्धार्थत्वात् कर्म न कर्तव्यम्’ इति तद् अप्यसत्। कथम्? –
“यज्ञो वै विष्णुः” (TaitSamh.1.7.4) इति श्रुतेः यज्ञः ईश्वरः, तद्-अर्थं यत् क्रियते तत् यज्ञार्थं कर्म। तस्मात् यज्ञार्थात् कर्मणः अन्यत्र अन्येन कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्म-बन्धनः कर्म बन्धनं यस्य सोऽयं कर्म-बन्धनः लोकः, न तु यज्ञार्थात्। अतः तद्-अर्थं यज्ञार्थं कर्म कौन्तेय, मुक्त-सङ्गः कर्म-फल-सङ्ग-वर्जितः सन् समाचर निर्वर्तय॥
saha-yajñā, prajā, sṛṣṭvā, purā, √vac, prajā-pati;
idam, pra-√su, etad, yuṣmad, √as, iṣṭa-kāma-dūh.

In the beginning, the Lord of the universe manifested the people along with yajña and said (through the Vedas), ‘With this yajña may all of you multiply. Let this yajña be what yields all your desired results.’
पुरा प्रजा-पतिः सह-यज्ञाः [सह-यज्ञ-ज्ञान-रूप-वेदाः इत्यर्थः] प्रजाः सृष्ट्वा उवाच – ‘अनेन प्रसविष्यध्वम्, एषः वः इष्ट-काम-धुक् अस्तु’॥
इतश् च अधिकृतेन कर्म कर्तव्यम् –
सह-यज्ञाः यज्ञ-सहिताः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा उत्पाद्य पुरा पूर्वं सर्गादौ उवाच उक्तवान् प्रजा-पतिः प्रजानां स्रष्टा। अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं कुरुध्वम्। एष यज्ञः वः युष्माकम् अस्तु भवतु इष्ट-काम-धुक् इष्टान् अभिप्रेतान् कामान् फल-विशेषान् दोग्धीति इष्ट-काम-धुक्॥
deva, √bhū, idam, tad, deva, √bhū, yuṣmad;
paras-para, bhāvayat, śreyas, para, ava-√āp.

Support the deities, (the Lord viewed through all the various aspects of nature), with this yajña. May those deities support all of you. Supporting one another, all of you will attain limitless śreyas (complete freedom), (or heaven if this is your ultimate goal).
देवान् अनेन भावयत, ते देवाः वः भावयन्तु, परस्-परं भावयन्तः परं श्रेयः अवाप्स्यथ॥
कथम्? –
देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन। ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान्। एवं परस्-परम् अन्योन्यं भावयन्तः श्रेयः परम् मोक्ष-लक्षणं ज्ञान-प्राप्ति-क्रमेण अवाप्स्यथ। स्वर्गं वा परं श्रेयोऽवाप्स्यथ॥
iṣṭa, bhoga, hi, yuṣmad, deva, √dā, yajña-bhāvita;
tad, datta, a-pradāya, idam, yad,√bhuj, stena, eva, tad.

Supported through yajña, the deities will give to all of you desired objects indeed. One who consumes the objects given by those deities, (the forces of nature), without offering to these deities is but a thief.
यज्ञ-भाविताः देवाः वः इष्टान् भोगान् हि दास्यन्ते। यः तैः दत्तान् एभ्यः अ-प्रदाय भुङ्क्ते, सः स्तेनः एव॥
किञ्च –
इष्टान् अभिप्रेतान् भोगान् हि वः युष्मभ्यं देवाः दास्यन्ते वितरिष्यन्ति स्त्री-पशु-पुत्रादीन् यज्ञ-भाविताः यज्ञैः वर्धिताः तोषिताः इत्यर्थः।
तैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा, आनृण्यम् अकृत्वा इत्यर्थः, एभ्यः देवेभ्यः, यः भुङ्क्ते स्व-देहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव सः देवादि-स्वापहारी॥
yajña-śiṣṭa-aśin, sat, √muc, sarva-kilbiṣa;
√bhuj, tad, tu, agha, pāpa, yad, √pac, ātma-kāraṇa.

Those who eat the food left after first offering to the Lord are freed from all transgressions; whereas those who cook only for themselves, those sinners, eat sin, (karmic demerit).
यज्ञ-शिष्ट-अशिनः सन्तः सर्व-किल्बिषैः मुच्यन्ते। ये तु आत्म-कारणात् पचन्ति, ते पापाः अघं भुञ्जते॥
ये पुनः –
देव-यज्ञादीन् निर्वर्त्य तच्-छिष्टम् अशनम् अमृताख्यम् अशितुं शीलं येषां ते यज्ञ-शिष्टाशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः सर्व-पापैः चुल्ल्यादि-पञ्च-सूनाकृतैः प्रमाद-कृत-हिंसादि-जनितैश्च अन्यैः।
ये तु आत्म-संभरयः, भुञ्जते ते तु अघं पापं स्वयम् अपि पापाःये पचन्ति पाकं निर्वर्तयन्ति आत्म-कारणात् आत्म-हेतोः॥
anna, √bhū, bhūta, parjanya, anna-sambhava;
yajña, √bhū, parjanya, yajña, karma-samudbhava.

All creatures are born from food. Food is born from rain. Rain is born from (the cyclic karma results of) ritual (yajña). That yajña is born from karma (action – ritual, prayer, duty, etcetera).
अन्नात् भूतानि भवन्ति। पर्जन्यात् अन्न-सम्भवः। यज्ञात् पर्जन्यः भवति। कर्म-समुद्भवः यज्ञः॥
इतश् च अधिकृतेन कर्म कर्तव्यम् जगच्-चक्र-प्रवृत्ति-हेतुर् हि कर्म। कथम्? इति उच्यते –
अन्नात् भुक्तात् लोहित-रेतः-परिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानिपर्जन्यात् वृष्टेः अन्नस्य सम्भवः अन्न-सम्भवःयज्ञात् भवति पर्जन्यः
“अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः” (ManSmrt.3.76) इति स्मृतेः।
यज्ञः अपूर्वम्। स च यज्ञः कर्म-समुद्भवः ऋत्विग्-यजमानयोश् च व्यापारः कर्म, ततः समुद्भवः यस्य यज्ञस्य अपूर्वस्य स यज्ञः कर्म-समुद्भवः॥
karman, brahma-udbhava, √vid, brahman, a-kṣara-samudbhava;
tasmāt, sarva-gata, brahman, nityam, yajña, prati-sthā.

Know that karma is born from the Brahman (the Veda, the scriptures), and the Veda comes from the imperishable Lord. Therefore, (being given by the all-knowing Lord for all humankind), the Veda is all encompassing and is ever established in yajña (ritual and duty).
कर्म ब्रह्म-उद्भवं विद्धि, ब्रह्म [=वेद-शास्त्रम्] अ-क्षर-समुद्भवं [विद्धि]। तस्मात् सर्व-गतं ब्रह्म, नित्यं यज्ञे प्रतिष्ठितम्॥
तच् चैवंविधं कर्म कुतो जातम्? इत्याह –
कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि। ब्रह्म पुनः वेदाख्यम् अक्षर-समुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षर-समुद्भवं ब्रह्म वेद इत्यर्थः।
यस्मात् साक्षात् परमात्माख्यात् अक्षरात् पुरुष-निःश्वासवत् समुद्भूतं ब्रह्म तस्मात् सर्वार्थ-प्रकाशकत्वात् सर्वगतम्
सर्व-गतम् अपि सत् नित्यं सदा यज्ञ-विधि-प्रधानत्वात् यज्ञे प्रतिष्ठितम्
evam, pravartita, cakra, na, anu-√vṛt, iha, yad;
agha-āyus, indriya-ārāma, mogham, pārtha, tad, √jīv.

O Arjuna, the one who does not cause oneself to follow in this life the cosmic wheel thus set in motion, whose life is (thus mostly of) karma demerit, and whose pleasure is through the senses – that one lives in vain.
पार्थ, यः एवं प्रवर्तितं चक्रम् इह न अनुवर्तयति, अघ-आयुः इन्द्रिय-आरामः [च], सः मोघं जीवति॥
एवम् इत्थम् ईश्वरेण वेद-यज्ञ-पूर्वकं जगच्-चक्रं प्रवर्तितं न अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अघायुः अघं पापम् आयुः जीवनं यस्य सः अघायुः, पाप-जीवनः इति यावत्। इन्द्रियारामः इन्द्रियैः आरामः आरमणम् आक्रीडा विषयेषु यस्य सः इन्द्रियारामः मोघं वृथा, हे पार्थ, स जीवति
तस्मात् अज्ञेन अधिकृतेन कर्तव्यम् एव कर्मेति प्रकरणार्थः।
प्राग् आत्म-ज्ञान-निष्ठा-योग्यता-प्राप्तेः तादर्थ्येन कर्म-योगानुष्ठानम् अधिकृतेन अनात्मज्ञेन कर्तव्यम् एवेत्येतत् “न कर्मणाम् अनारम्भात्” (BhG.3.4) इत्यत आरभ्य “शरीर-यात्रापि च ते न प्रसिध्येद् अकर्मणः” (BhG.3.8) इत्येवम् अन्तेन प्रतिपाद्य, “यज्ञार्थात् कर्मणोऽन्यत्र” (BhG.3.9) इत्यादिना “मोघं पार्थ स जीवति” इत्येवम् अन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्य अनात्म-विदः कर्मानुष्ठाने बहु-कारणम् उक्तम्। (तद् अकरणे च दोष-संकीर्तनं कृतम्)॥
yad, tu, ātma-rati, eva, √as, ātma-tṛpta, ca, mānava;
ātman, eva, ca, santuṣṭa, tad, kārya, na, √vid.

Whereas, the person who would find pleasure within the self alone, be satisfied with the self, and be contented in the self alone – that one has nothing yet to be done.
यः तु मानवः आत्म-रतिः एव, आत्म-तृप्तः च, आत्मनि एव च सन्तुष्टः स्यात्, तस्य कार्यं न विद्यते॥
एवं स्थिते किम् एवं प्रवर्तितं चक्रं सर्वेणानुवर्तनीयम्? आहोस्वित् पूर्वोक्त-कर्म-योगानुष्ठानोपाय-प्राप्याम् अनात्म-विदः ज्ञान-योगेनैव निष्ठाम् आत्म-विद्भिः सांख्यैः अनुष्ठेयाम् अप्राप्तेनैव, इत्येवम् अर्थम् अर्जुनस्य प्रश्नम् आशङ्क्य; स्वयम् एव वा शास्त्रार्थस्य विवेक-प्रतिपत्त्यर्थम् ‘एतं वै तम् आत्मानं विदित्वा निवृत्त-मिथ्या-ज्ञानाः सन्तः ब्राह्मणाः मिथ्या-ज्ञानवद्भिः अवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थाय अथ भिक्षाचर्यं शरीर-स्थितिमात्र-प्रयुक्तं चरन्ति न तेषाम् आत्म-ज्ञान-निष्ठा-व्यतिरेकेण अन्यत् कार्यम् अस्ति’ (BrhU.3.5.1) इत्येवं श्रुत्यर्थम् इह गीता-शास्त्रे प्रतिपिपादयिषितम् आविष्कुर्वन् आह भगवान् –
यस् तु सांख्यः आत्म-ज्ञान-निष्ठः आत्म-रतिः आत्मनि एव रतिः न विषयेषु यस्य सः आत्म-रतिर् एव स्यात् भवेत्, आत्म-तृप्तश् च आत्मनैव तृप्तः न अन्न-रसादिना सः मानवः मनुष्यः सन्न्यासी। आत्मन्येव च सन्तुष्टः संतोषो हि बाह्यार्थ-लाभे सर्वस्य भवति – तम् अनपेक्ष्य आत्मन्येव सन्तुष्टः सर्वतो वीत-तृष्ण इत्येतत्। यः ईदृशः आत्म-वित् तस्य कार्यं करणीयं न विद्यते नास्ति इत्यर्थः॥
na, eva, tad, kṛta, artha, na, a-kṛta, iha, kaścana;
na, ca, idam, sarva-bhūta, ka-cid, artha-vyapāśraya.

For that one in this world, there is, indeed, no goal by doing, nor by not doing. Nor for that one is there any dependence for any-thing toward any being.
तस्य इह न एव कश्चन अर्थः कृतेन, न [वा अनर्थः] अ-कृतेन। न च अस्य सर्व-भूतेषु कश्-चिद् अर्थ-व्यपाश्रयः॥
किञ् च –
नैव तस्य परमात्म-रतेः कृतेन कर्मणा अर्थः प्रयोजनम् अस्ति।
अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः।
न, अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवाय-प्राप्ति-रूपः आत्म-हानि-लक्षणो वा एव अस्ति। न च अस्य सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु भूतेषु कश्चित् अर्थ-व्यपाश्रयः प्रयोजन-निमित्त-क्रिया-साध्यः व्यपाश्रयः व्यपाश्रयणम्।
आलम्बनं कंचिद् भूत-विशेषम् आश्रित्य न साध्यः कश्चिद् अर्थः अस्ति, येन तद्-अर्था क्रिया अनुष्ठेया स्यात्॥
tasmāt, a-sakta, sa-tatam, kārya, karman, sam-ā-√car;
hi, ācarat, karman, para, √āp, pūruṣa.

Therefore, unattached, please always perform what is to be done, because the person who is unattached (in attitude, then eventually in knowledge, while) performing action attains the limitless.
तस्मात् अ-सक्तः कार्यं कर्म सततं समाचर, अ-सक्तः हि [=यस्मात्] पूरुषः कर्म आचरन् परम् आप्नोति॥
न त्वम् एतस्मिन् सर्वतः सम्प्लुतोदक-स्थानीये (BhG.2.46) सम्यग्दर्शने वर्तसे। यतः एवम् –
तस्मात् असक्तः सङ्ग-वर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय। असक्तो हि यस्मात् सम्-आचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्व-शुद्धि-द्वारेण इत्यर्थः॥
karman, eva, hi, saṃsiddhi, āsthita, janaka-ādi; loka-saṅgraha, eva, api, sampaśyat, kartum, √arh.
Indeed, along with performing their duties, King Janaka and others attained complete freedom. Even considering just the rallying of the people (to the path of dharma, i.e., not leading others astray), you ought to act (approriately).
कर्मणा [सह] एव हि जनक-आदयः संसिद्धिम् आस्थिताः। लोक-सङ्ग्रहम् एव सम्पश्यन् अपि कर्तुम् अर्हसि॥
यस्माच् च –
कर्मणैव हि यस्मात् पूर्वे च क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः जनकादयः जनकाश्वपति-प्रभृतयः।
यदि ते प्राप्त-सम्यग्दर्शनाः, ततः लोक-सङ्ग्रहार्थं प्रारब्ध-कर्मत्वात् (-कर्म-बलात्) कर्मणा सहैव अ-संन्यस्यैव कर्म संसिद्धिम् आस्थिता इत्यर्थः। अथ अप्राप्त-सम्यग्दर्शनाः जनकादयः, तदा कर्मणा सत्त्व-शुद्धि-साधन-भूतेन क्रमेण संसिद्धिम् आस्थिता इति व्याख्येयः श्लोकः।
अथ मन्यसे ‘पूर्वैर् अपि जनकादिभिः अपि अ-जानद्भिर् एव कर्तव्यं कर्म कृतम्, तावता नावश्यम् अन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेन’ इति।
तथापि प्रारब्ध-कर्मायत्तः त्वं लोक-सङ्ग्रहम् एव अपि लोकस्य उन्मार्ग-प्रवृत्ति-निवारणं लोक-सङ्ग्रहः तम् एवापि प्रयोजनं सम्पश्यन् कर्तुम् अर्हसि
yad, yad, ā-√car, śreṣṭha, tad, tad, eva, itara, jana;
tad, yad, pramāṇa, √kṝ, loka, tad, anu-√vṛt.

Whatever an important person does, that alone the other people do. The authority which that one accepts, that the people accept.
यद् यद् श्रेष्ठः आचरति तद् तद् एव इतरः जनः [आचरति]। यद् प्रमाणं सः कुरुते, तद् लोकः अनुवर्तते॥
लोक-सङ्ग्रहः किमर्थं कर्तव्य (लोक-सङ्ग्रहं कः कर्तुम् अर्हति कथं च) इत्युच्यते –
यद् यत् कर्म आचरति करोति श्रेष्ठः प्रधानः, तत् तद् एव कर्म आचरति इतरः अन्यः जनः तद्-अनुगतः।
किञ्च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तद् एव प्रमाणी-करोति इत्यर्थः॥
na, asmad, pārtha, √as, kartavya, tri, loka, kiñcana;
na, an-avāpta, avāptavya, √vṛt, eva, ca, karman.

O Arjuna, for me (as an individual who has this knowledge) there is nothing in the three worlds (earth, sky, and heaven) that must be done, nothing to be attained that has not been attained; yet I indeed engage in action.
पार्थ, मे त्रिषु लोकेषु न किञ्-चन कर्तव्यम् अस्ति, न [किञ्-चन] अवाप्तव्यम् अन्-अवाप्तं, कर्मणि एव च वर्ते॥
यदि अत्र ते लोक-सङ्ग्रह-कर्तव्यतायां विप्रतिपत्तिः तर्हि मां किं न पश्यसि? –
न मे मम पार्थ अस्ति न विद्यते कर्तव्यं त्रिषु अपि लोकेषु किञ्चन किञ्चिद् अपि। कस्मात्? न अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम्, तथापि वर्ते एव च कर्मणि अहम्॥
yadi, hi, asmad, na, √vṛt, jātu, karman, a-tandrita; asmad, varman, anu-√vṛt, manuṣya, pārtha, sarvaśas.
O Arjuna, if indeed I (as Kṛṣṇa, as an incarnation of the Lord and as leader of the province of Dvārakā, thus an important person,) were ever to not engage in action unwearied, then the people would follow my path in every way (including into lazy inaction).
पार्थ, यदि हि अहम् अ-तन्द्रितः कर्मणि जातु न वर्तेयं, मनुष्याः मम वर्त्म सर्वशः अनुवर्तन्ते॥
यदि हि पुनः अहं न वर्तेय जातु कदाचित् कर्मणि अ-तन्द्रितः अन्-अलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्व-प्रकारैः॥
ud-√sad, idam, loka, na, √kṛ, karman, ced, asmad;
saṅkara, ca, kartṛ, √as, upa-√han, idam, praja.

If I were not to perform action, these people would perish. I would become the author of social confusion, and I would thus destroy these people.
अहं चेद् कर्म न कुर्याम् इमे लोकाः उत्सीदेयुः। सङ्करस्य कर्ता स्याम्, इमाः प्रजाः च उपहन्याम्॥
उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोक-स्थिति-निमित्तस्य कर्मणः अभावात् न कुर्यां कर्म चेत् अहम्। किञ्च, सङ्करस्य च कर्ता स्याम्। तेन कारणेन उपहन्याम् इमाः प्रजाः। ‘प्रजानाम् अनुग्रहाय प्रवृत्तः उपहतिम् उपहननं कुर्याम्’ इत्यर्थः। ‘मम ईश्वरस्य अन्-अनुरूपम् आपद्येत’॥
sakta, karman, a-vidvas, yathā, √kṛ, bhārata;
√kṛ, vidvas, tathā, a-sakta, cikīrṣu, loka-saṅgraha.

O Arjuna, as (dedicatedly as) the unwise, who are bound (to the results of) action, engage in action, so the wise – unattached, (not requiring/anticipating results), and desirous for rallying the people (to dharma) – would likewise engage in action.
भारत, कर्मणि सक्ताः अ-विद्वांसः यथा कुर्वन्ति, लोक-सङ्ग्रहं चिकीर्षुः अ-सक्तः विद्वान् तथा कुर्यात्॥
यदि पुनः अहम् इव त्वं च कृतार्थ-बुद्धिः, आत्म-वित् अन्यो वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव कर्तव्य इत्याह –
सक्ताः कर्मणि ‘अस्य कर्मणः फलं मम भविष्यति’ इति केचित् अ-विद्वांसः यथा कुर्वन्ति भारत, कुर्याद् विद्वान् आत्म-वित् तथा अ-सक्तः सन्।
तद्वत् किम् अर्थं करोति? तत् शृणु – चिकीर्षुः कर्तुम् इच्छुः लोक-सङ्ग्रहम्
na, buddhi-bheda, √jan, a-jña, karma-saṅgin;
√juṣ, sarva-karman, vidvas, yukta, samācarat.

One should not sow dissension in the understanding of the unwise who are bound to (the results of) action. The wise one, who is committed (to dharma) and to performing all duties (appropriate to one’s status), should encourage (the others).
अ-ज्ञानां कर्म-सङ्गिनां बुद्धि-भेदं न जनयेत्, विद्वान् युक्तः सर्व-कर्माणि समाचरन् [तान् अ-विदुषः] जोषयेत्॥
एवं लोक-सङ्ग्रहं चिकीर्षोः मम आत्म-विदः न कर्तव्यम् अस्ति अन्यस्य वा लोक-सङ्ग्रहं मुक्त्वा। ततः तस्य आत्म-विदः इदम् उपदिश्यते –
बुद्धेर् भेदः बुद्धि-भेदः ‘मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम्’ इति निश्चय-रूपाया बुद्धेः भेदनं चालनं बुद्धि-भेदः तं बुद्धि-भेदं न जनयेत् न उत्पादयेत् अ-ज्ञानाम् अ-विवेकिनां कर्म-सङ्गिनां कर्मणि आसक्तानाम् आसङ्गवताम्।
किं तु कुर्यात्? जोषयेत् कारयेत् सर्व-कर्माणि विद्वान् स्वयं तद् एव अ-विदुषां कर्म युक्तः अभियुक्तः समाचरन्
prakṛti, kriyamāṇa, guṇa, karman, sarvaśas;
aham-kāra-vimūḍha-ātman, kartṛ, asmad, iti, √man.

Actions are in all ways done by the constituent principles (guṇas, i.e., products) of nature (prakṛti). But one whose mind is confused – (in many and various ways) by a notion about ‘I’ – thinks ‘I am the doer.’
प्रकृतेः गुणैः कर्माणि सर्वशः क्रियमाणानि। अहङ्कार-विमूढ-आत्मा ‘अहं कर्ता’ इति मन्यते॥
अविद्वान् अज्ञः कथं कर्मसु सज्जते? इत्याह –
प्रकृतेः प्रकृतिः प्रधानं सत्त्व-रजस्-तमसां गुणानां साम्यावस्था तस्याः प्रकृतेः गुणैः विकारैः कार्य-करण-रूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्व-प्रकारैः। अहङ्कार-विमूढात्मा कार्य-करण-सङ्घाते आत्म-प्रत्ययः अहङ्कारः, तेन विविधं नाना-विधं मूढः आत्मा अन्तःकरणं यस्य सः अयं, कार्य-करण-धर्मा कार्य-करणाभिमानी – अ-विद्यया कर्माणि आत्मनि मन्यमानः तत्-तत्-कर्मणाम् ‘अहं कर्ता’ इति मन्यते
tattva-vid, tu, mahā-bāhu, guṇa-karma-vibhāga;
guṇa, guṇa, √vṛt, iti, matvā, na,√sañj.

Whereas, O Arjuna, the one who knows the truth of the distinction of the guṇas (from ‘I’) and of their actions (from ‘I’), thinking, ‘the guṇas (as the body and mind) engage amongst the guṇas (as the objects: physical and mental),’ that one is not bound.
महा-बाहो, गुण-कर्म-विभागयोः तत्त्व-विद् तु ‘गुणाः गुणेषु वर्त्तन्ते’ इति मत्वा न सज्जते॥
यः पुनर् विद्वान् –
तत्त्व-वित् तु महा-बाहो। कस्य तत्त्व-वित्? गुण-कर्म-विभागयोः गुण-विभागस्य कर्म-विभागस्य च तत्त्व-विद् इत्यर्थः। गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति॥
prakṛti, guṇa-sammūḍha, √sañj, guṇa-karman;
tad, a-kṛtsna-vid, manda, kṛtsna-vid, na, vi-√cal.

Those who confuse themselves with the guṇas of nature are bound in the guṇas and their actions (or the actions of the guṇas). Lacking this discernment and of incomplete knowledge, they are the ones that one who has complete knowledge should not disturb.
प्रकृतेः गुण-सम्मूढाः गुण-कर्मसु सज्जन्ते। तान् अ-कृत्स्न-विदः मन्दान् कृत्स्न-विद् न विचालयेत्॥
ये पुनः –
प्रकृतेः गुणैः समयक् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुण-कर्मसु ‘वयं कर्म कुर्मः फलाय’ इति। तान् कर्म-सङ्गिनः अ-कृत्स्न-विदः कर्म-फलमात्र-दर्शिनः मन्दान् मन्द-प्रज्ञान् कृत्स्न-विद् आत्म-वित् स्वयं न विचालयेत्। बुद्धि-भेद-करणम् एव चालनं, तद् न कुर्याद् इत्यर्थः॥
asmad, sarva, karman, sannyasya, adhi-ātma-cetas;
nis-āśīs, nis-mama, bhūtvā, √yudh, vigata-jvara.

With a mind centered on oneself (in relation to the Lord, to reality), offering all action in Me, (the Lord – as prakṛti, nature, the cosmic order, the wielder of this order), being free from anticipations, free from the judgment ‘this is mine,’ and without anguish, O Arjuna, fight.
अधि-आत्म-चेतसा सर्वाणि कर्माणि मयि सन्न्यस्य निर्-आशीः निर्-ममः भूत्वा विगत-ज्वरः युध्यस्व॥
कथं पुनः कर्मण्य् अधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्यम्? इति उच्यते –
मयि वासु-देवे परमेश्वरे सर्व-ज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्य अध्यात्म-चेतसा विवेक-बुद्ध्या ‘अहं कर्ता ईश्वराय भृत्यवत् करोमि’ इत्य् अनया बुद्ध्या। किञ्च, निराशीः त्यक्ताशीः निर्ममः मम-भावश् च निर्गतः यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगत-ज्वरः विगत-संतापः विगत-शोकः सन्न् इत्यर्थः॥
yad, asmad, mata, idam, nityam, anu-√sthā, mānava;
śrad-dhāvat, an-asūyat, √muc, tad, api, karman.

Those people who have trust (in My teaching), who are not cynical and who constantly follow this, My teaching – they also, (whether karma-yogīs or sannyāsīs (who pursue this teaching while engaged in duties or as renunciates),) are freed from (the bond that is) karma.
ये मानवाः श्रद्धावन्तः अन्-असूयन्तः मे इदं मतं नित्यम् अनुतिष्ठन्ति, ते अपि कर्मभिः मुच्यन्ते॥
यद् एतन् मम मतं ‘कर्म कर्तव्यम्’ इति स-प्रमाणम् उक्तं तत् तथा –
ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवाः मनुष्याः श्रद्धावन्तः श्रद्दधानाः अनसूयन्तः असूयां च मयि परम-गुरौ वासु-देवे अकुर्वन्तः, मुच्यन्ते तेऽपि एवं भूताः कर्मभिः धर्माधर्माख्यैः॥
yad, tu, etad, abhyasūyat, na, anu-√sthā, asmad, mata;
sarva-jñāna-vimūḍha, tad, √vid, naṣṭa, a-cetas.

Whereas, those who are cynical, who do not follow this, My teaching, know them – who are thus variously confused in all other areas of knowledge (because they do not know who the ‘I’ is) and lacking discernment – as lost.
ये तु अभ्यसूयन्तः, मे एतद् मतं न अनुतिष्ठन्ति, तान् सर्व-ज्ञान-विमूढान् अ-चेतसः [च] नष्टान् विद्धि॥
ये तु तद्-विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्दन्तः न अनुतिष्ठन्ति नानुवर्तन्ते मे मतम्, सर्वेषु ज्ञानेषु विविधं मूढाः ते। सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् नाशं गतान् अचेतसः अविवेकिनः॥
sa-dṛśam, √ceṣṭ, svā, prakṛti, jñānavat, api;
prakṛti, √yā, bhūta, nigraha, kim, √kṛ.

Even a wise person acts in keeping with his or her own nature. Creatures go (with their own) nature. What will (external behavioral) restraint accomplish?
ज्ञानवान् अपि स्वस्याः प्रकृतेः स-दृशं चेष्टते। भूतानि प्रकृतिं यान्ति – निग्रहः किं करिष्यति॥
कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्ति, पर-धर्मान् अनुतिष्ठन्ति, स्व-धर्मं च नानुवर्तन्ते, त्वत्-प्रतिकूलाः कथं न बिभ्यति त्वच्-छासनातिक्रम-दोषात्? तत्राह –
स-दृशम् अनुरूपं चेष्टते (चेष्टां करोति), कस्य? स्वस्याः स्वकीयायाः प्रकृतेः। प्रकृतिर् नाम पूर्व-कृत-धर्माधर्मादि-संस्कारः वर्तमान-जन्मादौ अभिव्यक्तः, सा प्रकृतिः। तस्याः स-दृशम् एव सर्वो जन्तुः ज्ञानवान् अपि चेष्टते, किं पुनर् मूर्खः।
तस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि (प्राणिनः)। निग्रहः निषेध-रूपः किं करिष्यति मम वा अन्यस्य वा॥
indriya, indriya, artha, rāga-dveṣa, vyavasthita;
tad na vaśa, ā-√gam, tad, hi, idam, paripanthin.

Attraction and repulsion (rāga and dveṣa) are (naturally) there toward the object of each of the senses. One should not come under their control, because those two are one’s enemies, (not the object, nor the resulting, natural behavior).
इन्द्रियस्य इन्द्रियस्य अर्थे राग-द्वेषौ व्यवस्थितौ, तयोः वशं न आगच्छेत्, तौ हि [=यस्मात्] अस्य परिपन्थिनौ॥
यदि सर्वो जन्तुः आत्मनः प्रकृति-सदृशम् एव चेष्टते, न च प्रकृति-शून्यः कश्चिद् अस्ति, ततः पुरुष-कारस्य विषयानुपपत्तेः शास्त्रानर्थक्य-प्राप्तौ इदम् उच्यते –
इन्द्रियस्येन्द्रियस्य अर्थे सर्वेन्द्रियाणाम् अर्थे शब्दादि-विषये इष्टे रागः अन्-इष्टे द्वेषः इत्येवं प्रतीन्द्रियार्थे राग-द्वेषौ [व्यवस्थितौ] अवश्यं-भाविनौ।
तत्र अयं पुरुष-कारस्य शास्त्रार्थस्य च विषय उच्यते – शास्त्रार्थे प्रवृत्तः पूर्वम् एव राग-द्वेषयोर् वशं नागच्छेत्।
या हि पुरुषस्य प्रकृतिः सा राग-द्वेष-पुरःसरैव स्व-कार्ये पुरुषं प्रवर्तयति। तदा स्व-धर्म-परित्यागः पर-धर्मानुष्ठानं च भवति।
यदा पुनः राग-द्वेषौ तत्-प्रतिपक्षेण नियमयति तदा शास्त्र-दृष्टिर् एव पुरुषः भवति, न प्रकृति-वशः। तस्मात् तयोः राग-द्वेषयोः वशं न आगच्छेत्। यतः तौ हि अस्य पुरुषस्य परिपन्थिनौ श्रेयो-मार्गस्य विघ्न-कर्तारौ तस्करौ इव पथीत्यर्थः॥
śreyas, sva-dharma, vi-guṇa, para-dharma, su-anuṣṭhita;
sva-dharma, nidhana, śreyas, para-dharma, bhaya-āvaha.

One’s own duty, (though sometimes) lacking virtue, is better than a different duty, (even though) well performed (or more enjoyable). Death in one’s own duty is better; as a different duty brings fear (in the forms of conflict, regret, and retribution).
सु-अनुष्ठितात् पर-धर्मात् स्व-धर्मः वि-गुणः [अपि] श्रेयान्। स्व-धर्मे निधनं श्रेयः, [यस्मात्] पर-धर्मः भय-आवहः॥
तत्र राग-द्वेष-प्रयुक्तो मन्यते शास्त्रार्थम् अप्यन्यथा ‘पर-धर्मोऽपि धर्मत्वात् अनुष्ठेय एव’ इति, तद् असत् –
श्रेयान् प्रशस्यतरः स्वो धर्मः स्व-धर्मः वि-गुणः अपि विगत-गुणोऽपि अनुष्ठीयमानः पर-धर्मात् स्वनुष्ठितात् साद्गुण्येन सम्पादिताद् अपि।
स्व-धर्मे स्थितस्य निधनं मरणम् अपि श्रेयः पर-धर्मे स्थितस्य जीवितात्। कस्मात्? पर-धर्मः भयावहः नरकादि-लक्षणं भयम् आवहति यतः॥
arjuna, √vac:
atha, kim, prayukta, idam, pāpa, √car, pūruṣa;
an-icchat, api, vārṣṇeya, bala, iva, niyojita.

Arjuna said: O Kṛṣṇa, now what compels a person – even though not choosing – to commit prohibited acts, as if pushed by force?
अर्जुनः उवाच। वार्ष्णेय, अथ केन प्रयुक्तः अयं पूरुषः अन्-इच्छन् अपि पापं चरति, बलात् इव नियोजितः॥
यद्यपि अनर्थ-मूलम् “ध्यायतो विषयान् पुंसः” (BhG.2.62) “राग-द्वेषौ ह्यस्य परिपन्थिनौ” (BhG.3.34) इति च उक्तम्, विक्षिप्तम् अनवधारितं च तद् उक्तम्। तत् संक्षिप्तं निश्चितं च ‘इदम् एव’ इति ज्ञातुम् इच्छन् अर्जुनः उवाच ‘ज्ञाते हि तस्मिन् तद्-उच्छेदाय यत्नं कुर्याम्’ इति –
अथ केन हेतु-भूतेन प्रयुक्तः सन् राज्ञा इव भृत्यः अयं पापं कर्म चरति आचरति पूरुषः (पुरुषः) स्वयम् अनिच्छन् अपि हे वार्ष्णेय वृष्णि-कुल-प्रसूत, बलात् इव नियोजितः राज्ञा इव इत्युक्तो दृष्टान्तः॥
śrī-bhagavat, √vac:
kāma, etad, krodha, etad, rajas-guṇa-samudbhava;
mahā-aśana, mahā-pāpman, √vid, enad, iha, vairin.

The Lord said: (That seeming force is) this binding desire (kāma – whether positive or negative, empowered attraction or repulsion) (and when thwarted) this anger. It, kāma, is born of the agitation principle (rajas guṇa), is a glutton, and accumulates a lot of karma demerit. Know it to be the enemy here.
श्री-भगवान् उवाच। एषः कामः एषः क्रोधः [च]। [एषः] रजो-गुण-समुद्भवः महा-अशनः महा-पाप्मा। इह एनं वैरिणं विद्धि॥
शृणु त्वं तं वैरिणं सर्वानर्थ-करं यं त्वं पृच्छसि –
(भगवान् उवाच)
“ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना॥” (VisPur.6.5.74) ऐश्वर्यादि-षट्कं यस्मिन् वासु-देवे नित्यम् अ-प्रतिबद्धत्वेन सामस्त्येन च वर्तते,
“उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम्।
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति॥” (VisPur.6.5.78) उत्पत्त्यादि-विषयं च विज्ञानं यस्य स वासु-देवः वाच्यः भगवान् इति।
काम एषः सर्व-लोक-शत्रुः यन्-निमित्ता सर्वानर्थ-प्राप्तिः प्राणिनाम्। स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते। अतः क्रोधः अपि एष एव।
रजो-गुण-समुद्भवः रजश् च तद् गुणश् च रजो-गुणः सः समुद्भवः यस्य सः कामः रजो-गुण-समुद्भवः। रजो-गुणस्य वा समुद्भवः, कामः हि उद्भूतः रजः प्रवर्तयन् पुरुषं प्रवर्तयति। ‘तृष्णया हि अहं कारितः’ इति दुःखिनां रजः-कार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते।
महाशनः महत् अशनं अस्य इति महाशनः। अत एव महा-पाप्मा, कामेन हि प्रेरितः जन्तुः पापं करोति। अतः विद्धि एनं कामम् इह संसारे वैरिणम्
dhūma, ā-√vṛ, vahni, yathā, ādarśa, mala, ca;
yathā, ulba, āvṛta, garbha, tathā, tad, idam, āvṛta.

Like fire is covered by smoke, like a mirror covered by dirt, and like a fetus covered by the womb, similarly, by that (kāma) this (knowledge) is covered. (And that covering is removed by the breath of teaching, by the action of dharma (duty and justice), and by time, respectively).
यथा धूमेन वह्निः आव्रियते, यथा मलेन आदर्शः [आव्रियते], यथा च उल्बेन गर्भः आवृतः, तथा तेन इदम् [ज्ञानम्] आवृतम्॥
कथं वैरी? इति दृष्टान्तैः प्रत्याययति –
धूमेन सह-जेन आव्रियते वह्निः प्रकाशात्मकः अप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथा उल्बेन च जरायुणा गर्भ-वेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन इदम् आवृतम्
āvṛta, jñāna, etad, jñānin, nitya-vairin;
kāma-rūpa, kaunteya, dus-pūra, an-ala, ca.

O Arjuna, by this constant enemy in the form of binding desire, insatiable like fire, the knowledge of the (one who is yet to be) wise is covered.
कौन्तेय, एतेन नित्य-वैरिणा काम-रूपेण दुष्-पूरेण अन्-अलेन च ज्ञानिनः ज्ञानम् आवृतम्॥
किं पुनस् तद् इदं-शब्द-वाच्यं यत् कामेनावृतम्? इत्युच्यते –
आवृतम् एतेन ज्ञानं ज्ञानिनः नित्य-वैरिणा, ज्ञानी हि जानाति ‘अनेन अहम् अनर्थे प्रयुक्तः’ पूर्वम् एव इति। दुःखी च भवति नित्यम् एव। अतः असौ ज्ञानिनो नित्य-वैरी, न तु मूर्खस्य। स हि कामं तृष्णा-काले मित्रम् इव पश्यन् तत्-कार्ये दुःखे प्राप्ते जानाति – ‘तृष्णया अहं दुःखित्वम् आपादितः’ इति, न पूर्वम् एव। अतः असौ ज्ञानिन एव नित्य-वैरी।
किं-रूपेण? काम-रूपेण कामः इच्छैव रूपम् अस्य इति काम-रूपः तेन दुष्पूरेण दुःखेन पूरणम् अस्य इति दुष्पूरः तेन अन्-अलेन न अस्य अलं पर्याप्तिः विद्यते इत्यनलः तेन
indriya, manas, buddhi, idam, adhiṣṭhāna, √vac;
etad, vi-√muh, etad, jñāna, āvṛtya, dehin.

Its, (desire’s), abode is said to be the senses, the mind, and the intellect. Covering knowledge through (misdirecting) these, it variously deludes the individual, (the one identified with one’s body).
अस्य अधिष्ठानम् इन्द्रियाणि मनः बुद्धिः [च] उच्यते। एषः [कामः] एतैः ज्ञानम् आवृत्य देहिनं विमोहयति॥
किम्-अधिष्ठानः पुनः कामः ज्ञानस्य आवरणत्वेन वैरी सर्वस्य? इत्यपेक्षायाम् आह। ज्ञाते हि शत्रोर् अधिष्ठाने सुखेन शत्रु-निबर्हणं कर्तुं शक्यत इति –
इन्द्रियाणि मनः बुद्धिश् च अस्य कामस्य अधिष्ठानम् आश्रयः उच्यतेएतैः इन्द्रियादिभिः आश्रयैः विमोहयति विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम्॥
tasmāt, yuṣmad, indriya, ādi, niyamya, bharata-ṛṣabha;
pāpman, pra-√hā (pra-√han, hi), enad, jñāna-vijñāna-nāśana.

Therefore, O Arjuna, exercising authority over the senses at their source, please indeed destroy this sinful destroyer of knowledge and of the assimilation (of that knowledge).
भरत-ऋषभ, तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य, प्रजहिहि (प्रजहि हि) एनं पाप्मानं ज्ञान-विज्ञान-नाशनम्॥
यतः एवम् –
तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वम् एव नियम्य वशी-कृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञान-विज्ञान-नाशनम्
ज्ञानं शास्त्रतः आचार्यतश् च आत्मादीनाम् अवबोधः, विज्ञानं विशेषतः तद्-अनुभवः, तयोः ज्ञान-विज्ञानयोः श्रेयः-प्राप्ति-हेत्वोः नाशनं नाश-करं प्रजहिहि आत्मनः परित्यज इत्यर्थः॥
indriya, para, √ah, indriya, para, manas;
manas, tu, parā, buddhi, yad, buddhi, paratas, tu, tad.

They say that the senses are superior (to the body and all other objects), the mind is superior to the senses, the intellect is superior to the mind; whereas the one who is superior to the intellect is that (limitless self).
[अर्थेभ्यः] पराणि इन्द्रियाणि, इन्द्रियेभ्यः परं मनः, मनसः तु परा बुद्धिः, यः तु बुद्धेः परतः सः [परः आत्मा] [इति] आहुः॥
इन्द्रियाण्य्-आदौ नियम्य कामं शत्रुं जहिहि इत्य् उक्तम्, तत्र किम्-आश्रयः कामं जह्यात्? इत्य् उच्यते –
इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं च अपेक्ष्य सौक्ष्म्यान्तरस्थत्व-व्यापित्वाद्य्-अपेक्षया पराणि प्रकृष्टानि आहुः पण्डिताः।
तथा इन्द्रियेभ्यः परं मनः सङ्कल्प-विकल्पात्मकम्। तथा मनसः तु परा बुद्धिः निश्चयात्मिका।
तथा यः सर्व-दृश्येभ्यः बुद्ध्यन्तेभ्यः अभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरण-द्वारेण मोहयति इत्युक्तम्, बुद्धेः परतस् तु सः। सः बुद्धेः द्रष्टा पर आत्मा॥
evam, buddhi, para, buddhvā, saṃstabhya, ātman, ātman;
√han, śatru, mahā-bāhu, kāma-rūpa, dus-āsada.

O Arjuna, in this way of knowing (oneself) as superior to the intellect, steadying the one by the other one, (steadying the senses by the mind, the mind by the intellect, and the intellect by self-knowledge), destroy the enemy in the form of kāma, (otherwise so) difficult to get a fix on.
महा-बाहो, एवं बुद्धेः परं [आत्मानं] बुद्ध्वा, आत्मानम् आत्मना संस्तभ्य, काम-रूपं दुर्-आसदं शत्रुं जहि॥
ततः किम्?
एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वा (आत्मानं) स्वेन एव आत्मना संस्कृतेन मनसा, सम्यक् समाधाय इत्यर्थः।
जहि एनं शत्रुं हे महा-बाहो काम-रूपं दुर्-आसदं दुःखेन आसदः आसादनं प्राप्तिः यस्य तं दुर्-आसदं दुर्-विज्ञेयानेक-विशेषम् इति॥

इति श्रीमत्-परम-हंस-परिव्राजकाचार्य-गोविन्द-भगवत्-पूज्य-पाद-शिष्य-श्रीमच्-छङ्कर-भगवतः कृतौ श्री-भगवद्-गीता-भाष्ये कर्म-प्रशंसा-योगो नाम तृतीयोऽध्यायः॥३॥
om, tad, sat. iti, śrīmat-bhagavat-gītā, upaniṣad, brahma-vidyā, yoga-śāstra, śrī-kṛṣṇa-arjuna-saṃvāda, karma-yoga, nāma, tṛtīya, adhyāya.
Om (brahman, the witness of all) is that (only) reality. Thus ends the third chapter, called ‘The Topic of Action,’ of the (eighteen chapters of) Songs of the Glorious Lord, which is (looked upon as) sacred teaching (Upaniṣad) and (whose teaching is) in (the form of) a dialogue between Śrī Kṛṣṇa and Arjuna, (the subject matter being) knowledge of brahman and yoga.

Go to Top ('Home' key on many Windows browsers)

योऽयं योगः अध्याय-द्वयेन उक्तः ज्ञान-निष्ठा-लक्षणः स-सन्न्यासः कर्म-योगोपायः, यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्ति-लक्षणः निवृत्ति-लक्षणश् च, गीतासु च सर्वासु अयम् एव योगो विवक्षितो भगवता। अतः परिसमाप्तं वेदार्थं मन्वानः तं वंश-कथनेन स्तौति श्री-भगवान् –
śrī-bhagavat, √vac:
idam, vivasvat, yoga, proktavat, asmad, a-vyaya;
vivasvat, manu, pra-√ah, manu, ikṣvāku, √brū.

I taught this unchanging yoga (both jñāna-yoga and karma-yoga) to Vivasvān (the sun deity – considered the progenitor of the solar-clan of rulers on earth). Vivasvān taught it to Manu (the first human and first of the solar kings on earth in this age, kalpa). Manu taught it to (his son) Ikṣvāku
श्री-भगवान् उवाच। अहं विवस्वते इमम् अ-व्ययं योगं प्रोक्तवान्। विवस्वान् मनवे प्राह। मनुः इक्ष्वाकवे अब्रवीत्॥
इमम् अध्याय-द्वयेन उक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहं जगत्-परिपालयितॄणां क्षत्रियाणां बलाधानाय, तेन योग-बलेन युक्ताः समर्था भवन्ति ब्रह्म-परिरक्षितुम्। ब्रह्म-क्षत्रे परिपालिते जगत्-परिपालयितुम् अलम्। अ-व्ययम् अ-व्यय-फलत्वात्। न ह्य् अस्य (योगस्य) सम्यग्-दर्शन-निष्ठा-लक्षणस्य मोक्षाख्यं फलं व्येति। स च विवस्वान् मनवे प्राहमनुः इक्ष्वाकवे स्व-पुत्राय आदि-राजाय अब्रवीत्
evam, param-parā-prāpta, idam, rāja-ṛṣi, √vid;
tad, kāla, ih, mahat, yoga, naṣṭa, param-tapa.

In this way, being handed down from one to another, the kings who were sages (or the kings and sages) knew this yoga. After a long time, here (today, among these kings), that yoga has been lost, O Arjuna.
एवं राज-ऋषयः परम्-परा-प्राप्तम् इमं [योगं] विदुः। इह सः योगः महता कालेन नष्टः, परन्-तप॥
एवं क्षत्रिय-परम्परा-प्राप्तम् इमं राज-र्षयः राजानश् च ते ऋषयश् च राज-र्षयः विदुः इमं योगम्। स योगः कालेन इह महता दीर्घेण नष्टः विच्छिन्न-सम्प्रदायः संवृत्तः, हे परन्-तप, आत्मनः वि-पक्ष-भूताः परे उच्यन्ते, तान् शौर्य-तेजो-गभस्तिभिः भानुर् इव तापयति इति परन्-तपः शत्रु-तापन इत्यर्थः॥
tad, eva, idam, asmad, yuṣmad, adya, yoga, prokta, purā-tana;
bhakta, √as, asmad, sakhi, ca, iti, rahasya, hi, etad, uttama.

I just taught to you this very same ancient yoga because you are My devotee and friend. This secret (teaching of yoga) is the most profound indeed.
मया सः एव अयं पुरा-तनः योगः ते अद्य प्रोक्तः, मे भक्तः सखा च असि इति [=यस्मात्]। एतद् [योग-ज्ञानम्] हि [=यस्मात् च] उत्तमं रहस्यम्॥
दुर्-बलान् अ-जितेन्द्रियान् प्राप्य, नष्टं योगम् इमम् उपलभ्य, लोकं च अ-पुरुषार्थ-सम्बन्धिनम् –
स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरा-तनः, ‘भक्तः असि मे सखा च असिइतिरहस्यं हि यस्माद् एतद् उत्तमं योगः ज्ञानम् इत्यर्थः॥
arjuna, √vac:
a-para, bhavat, janman, para, janman, vivasvat;
katham, etad, vi-√jñā, yuṣmad, ādi, proktavat, iti.

Arjuna said: Your birth was not long ago; Vivasvān’s birth was long ago. How should I understand that You taught Vivasvān in the beginning?
अर्जुनः उवाच। भवतः जन्म अ-परं, विवस्वतः जन्म परम्। त्वम् आदौ “प्रोक्तवान्” इति – एतद् कथं विजानीयाम्॥
‘भगवता विप्रतिषिद्धम् उक्तम् इति मा भूत् कस्यचिद् बुद्धिः’ इति परिहारार्थं चोद्यम् इव कुर्वन् अर्जुन उवाच –
अपरम् अर्वाक् वसु-देव-गृहे भवतो जन्मपरं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य। तत् कथम् एतद् विजानीयाम् अ-विरुद्धार्थतया, यः त्वम् एव आदौ प्रोक्तवान् इमं योगं, सः एव त्वम् इदानीं मह्यं प्रोक्तवान् असि, इति
śrī-bhagavat, √vac;
bahu, asmad, vyatīta, janman, yuṣmad, ca, arjuna;
tad, asmad, √vid, sarva, na, yuṣmad, √vid, param-tapa.

The Lord said: Many births have passed for Me and for you, O Arjuna. I know them all; you do not, O Arjuna.
श्री-भगवान् उवाच। मे तव च बहूनि जन्मानि व्यतीतानि, अर्जुन। अहं तानि सर्वाणि वेद, त्वं न वेत्थ, परन्-तप॥
या वासु-देवे अन्-ईश्वरासर्वज्ञाशङ्का मूर्खाणाम्, तां परिहरन् श्री-भगवान् उवाच, यद्-अर्थो ह्य् अर्जुनस्य प्रश्नः –
बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुनतानि अहं वेद जाने सर्वाणि न त्वं वेत्थ न जानीषे, धर्माधर्मादि-प्रतिबद्ध-ज्ञान-शक्तित्वात्। अहं पुनः नित्य-शुद्ध-बुद्ध-मुक्त-स्व-भावत्वाद् अन्-आवरण-ज्ञान-शक्तिर् इति वेद अहं हे परन्-तप
aja, api, sat, a-vyaya-ātman, bhūta, īśvara, api, sat;
prakṛti, svā, adhiṣṭhāya, sam-√bhū, ātma-māyā.

Though unborn, undiminished, and the Lord of all beings, wielding My prakṛti (the projecting power of the Lord, which manifests as all of nature), I (as an incarnate form) am (as though) born by My own māyā (projecting power, My prakṛti).
अ-जः अपि सन् अ-व्यय-आत्मा [सन्] भूतानाम् ईश्वरः अपि सन् स्वां प्रकृतिम् अधिष्ठाय आत्म-मायया सम्भवामि॥
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावेऽपि जन्म? इति, उच्यते –
अ-जोऽपि जन्म-रहितोऽपि सन्, तथा अ-व्ययात्मा अ-क्षीण-ज्ञान-शक्ति-स्व-भावोऽपि सन्, तथा भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वरः ईशन-शीलोऽपि सन्, प्रकृतिं स्वां मम वैष्णवीं मायां त्रि-गुणात्मिकाम्, यस्या वशे सर्वं जगद् वर्तते, यया मोहितं सत् स्वम् आत्मानं वासु-देवं न जानाति, तां प्रकृतिं स्वाम् अधिष्ठाय वशी-कृत्य सम्भवामि देहवान् इव भवामि जात इव आत्म-मायया आत्मनः मायया, न परमार्थतो लोकवत्॥
yadā, yadā, hi, dharma, glāni, √bhū, bhārata;
abhyutthāna, a-dharma, tadā, ātman, √sṛj, asmad.

O Arjuna, whenever indeed there is a wane of dharma (tradition and justice) and an ascendancy of a-dharma (disorder and injustice), then I manifest Myself (appropriate to the situation).
भारत, यदा यदा हि धर्मस्य ग्लानिः अ-धर्मस्य [च] अभ्युत्थानं भवति, तदा अहम् आत्मानं [=स्वं] सृजामि॥
तच् च जन्म कदा, किम्-अर्थं च? इत्य् उच्यते –
यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादि-लक्षणस्य प्राणिनाम् अभ्युदय-निःश्रेयस-साधनस्य भवति भारत, अभ्युत्थानम् उद्भवः अ-धर्मस्य, तदा आत्मानं सृजामि अहं मायया॥
paritrāṇa, sādhu, vināśa, ca, dus-kṛt;
dharma-saṃsthāpana-artha, sam-√bhū, yuga, yuga.

I appear in various yugas (the various ages within the cycles of the universe) for the protection of those committed to dharma, for the destruction of those committed to a-dharma (what is opposed to dharma), and for the reestablishment of dharma.
साधूनां परित्राणाय, दुष्-कृतां विनाशाय, धर्म-संस्थापन-अर्थाय च युगे युगे सम्भवामि॥
किम्-अर्थम्?
परित्राणाय परिरक्षणाय साधूनां सन्-मार्ग-स्थानाम्, विनाशाय च दुष्-कृतां पाप-कारिणाम्, किञ्च धर्म-संस्थापनार्थाय धर्मस्य सम्यक् स्थापनं तद्-अर्थं सम्भवामि युगे युगे प्रति-युगम्॥
janmam, karman, ca, asmad, divya, evam, yad, √vid, tattvatas;
tyaktvā, deha, punar-janman, na, √i, asmad, √i, tad, arjuna.

The one who thus knows in reality My divine birth and action (knows the nature of Me and prakṛti) – that one, upon giving up the body, is not reborn. That one attains Me, O Arjuna.
यः एवं मे दिव्यं जन्म कर्म च तत्त्वतः वेत्ति, सः देहं त्यक्त्वा पुनर्-जन्म न एति। माम् एति, अर्जुन॥
तत् –
जन्म माया-रूपं कर्म च साधु--परित्राणादि मे मम दिव्यम् अ-प्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वतः तत्त्वेन यथावत्, त्यक्त्वा देहम् इमं पुनर्-जन्म पुनर्-उत्पत्तिं न एति न प्राप्नोति। माम् एति आगच्छति सः मुच्यते हे अर्जुन
vīta-rāga-bhaya-krodha, manmaya, asmad, upāśrita;
bahu, jñāna-tapas, pūta, mad-bhāva, āgata.

Freed from longing, fear, and anger, having taken refuge in Me by being Me alone, and purified by the discipline that is knowledge – many have attained My nature (complete freedom).
वीत-राग-भय-क्रोधाः, मन्मयाः माम् उपाश्रिताः, ज्ञान-तपसा पूताः – बहवः मद्-भावम् आगताः॥
न एष मोक्ष-मार्ग इदानीं प्रवृत्तः, किं तर्हि? पूर्वम् अपि –
वीत-राग-भय-क्रोधाः रागश् च भयं च क्रोधश् च वीताः विगताः येभ्यः ते वीत-राग-भय-क्रोधाः, मन्मयाः ब्रह्म-विदः ईश्वराभेद-दर्शिनः माम् एव परमेश्वरम् उपाश्रिताः केवल-ज्ञान-निष्ठाः इत्यर्थः। बहवः अन्-एके ज्ञान-तपसा ज्ञानम् एव च परमात्म-विषयं तपः तेन ज्ञान-तपसा पूताः परां शुद्धिं गताः सन्तः, मद्-भावम् ईश्वर-भावं मोक्षम् आगताः समनुप्राप्ताः। इतर-तपो-निर्-अपेक्ष-ज्ञान-निष्ठाः इत्य् अस्य लिङ्गम् ‘ज्ञान-तपसा’ इति विशेषणम्॥
yad, yathā, asmad, pra-√pad, tad, tathā, eva, √bhaj, asmad;
asmad, vartman, anu-√vṛt, manuṣya, pārtha, sarvaśas.

In which-ever way the people worship to Me, in that very same way I bless them. O Arjuna, people follow My path in every way.
यथा ये मां प्रपद्यन्ते, तथा एव अहं तान् भजामि। पार्थ, मनुष्याः मम वर्त्म सर्वशः अनुवर्तन्ते॥
तव तर्हि राग-द्वेषौ स्तः, येन केभ्यश्चिद् एव आत्म-भावं प्रयच्छसि न सर्वेभ्यः इत्य् उच्यते –
ये यथा येन प्रकारेण येन प्रयोजनेन यत्-फलार्थितया मां प्रपद्यन्ते तान् तथा एव तत्-फल-दानेन भजामि अनुगृह्णामि अहम् इत्येतत्। तेषां मोक्षं प्रति अन्-अर्थित्वात्। न हि एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति। अतः ये फलार्थिनः तान् फल-प्रदानेन, ये यथोक्त-कारिणस् तु अ-फलार्थिनः मुमुक्षवश् च तान् ज्ञान-प्रदानेन, ये ज्ञानिनः सन्न्यासिनः मुमुक्षवश् च तान् मोक्ष-प्रदानेन, तथा आर्तान् आर्ति-हरणेन इत्य् एवं यथा प्रपद्यन्ते ये तान् तथ एव भजामि इत्यर्थः। न पुनः राग-द्वेष-निमित्तं मोह-निमित्तं वा कञ्चिद् भजामि। सर्वथा अपि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः – यत्-फलार्थितया यस्मिन् कर्मणि अधिकृताः, ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते – हे पार्थ सर्वशः सर्व-प्रकारैः॥
kāṅkṣat, karman, siddhi, √yaj, iha, devatā;
kṣipram, hi, mānuṣa, loka, siddhi, √bhū, karma-jā.

Desiring a result of action here, many worship the deities – because in the human world a result born of action comes quickly.
कर्मणां सिद्धिं काङ्क्षन्तः इह [बहवः मनुष्याः] देवताः [प्रति] यजन्ते, मानुषे लोके हि [=यस्मात्] कर्म-जा सिद्धिः क्षिप्रं भवति॥
यदि तव ईश्वरस्य रागादि-दोषाभावात् सर्व-प्राणिषु अनुजिघृक्षायां तुल्यायां, सर्व-फल-प्रदान-समर्थे च त्वयि सति, ‘वासु-देवः सर्वम्’ इति ज्ञानेन एव मुमुक्षवः सन्तः कस्मात् त्वाम् एव सर्वे न प्रतिपद्यन्ते? इति शृणु तत्र कारणम् –
काङ्क्षन्तः अभीप्सन्तः कर्मणां सिद्धिं फल-निष्पत्तिं प्रार्थयन्तः यजन्ते इह अस्मिन् लोके देवताः इन्द्राग्न्याद्याः, “अथ योऽन्यां देवताम् उपास्ते ‘अन्योऽसाव् अन्योऽहम् अस्मि’ इति न स वेद यथा पशुर् एवं स देवानाम्” (BrhU.1.4.10, cf. BrhU.1.4.7) इति श्रुतेः। तेषां हि भिन्न-देवता-याजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान् मानुषे लोके, मनुष्य-लोके हि शास्त्राधिकारः। “क्षिप्रं हि मानुषे लोके” इति विशेषणाद् अन्येष्व् अपि कर्म-फल-सिद्धिं दर्शयति भगवान्। मानुषे लोके वर्णाश्रमादि-कर्मधिकरणः इति विशेषः, तेषां वर्णाश्रमाद्य्-अधिकारि-कर्मणां फल-सिद्धिः क्षिप्रं भवति कर्म-जा कर्मणो जाता॥
cātur-varṇya, asmad, sṛṣṭa, guṇa-karma-vibhāgaśas;
tad, kartṛ, api, asmad, √vid, a-kartṛ, a-vyaya.

I manifested the four-fold varṇa (grouping within society – educators, administrators, entrepreneurs, and laborers) according to the divisions of guṇa (mental disposition) and karma (duty). Though its author, know Me to be changeless and not a doer.
मया गुण-कर्म-विभागशः चातुर्-वर्ण्यं सृष्टम्। तस्य कर्तारम् अपि, माम् अ-व्ययम् अ-कर्तारं विद्धि॥
मानुषे एव लोके वर्णाश्रमादि-कर्माधिकारः, न अन्येषु लोकेषु इति (BhG.4.12) नियमः किं-निमित्त? इति।
अथवा, वर्णाश्रमादि-प्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः इत्य् (BhG.4.11) उक्तम् , कस्मात् पुनः कारणान् नियमेन तव एव वर्त्म अनुवर्तन्ते न अन्यस्य? इति उच्यते –

चत्वार एव वर्णाः चातुर्-वर्ण्यं मया ईश्वरेण सृष्टम् उत्पादितम्, “ब्राह्मणोऽस्य मुखम् आसीत्” (RgV.10.8.91) इत्य्-आदि-श्रुतेः। गुण-कर्म-विभागशः गुण-विभागशः कर्म-विभागशश् च। गुणाः सत्त्व-रजस्-तमांसि। तत्र सात्त्विकस्य सत्त्व-प्रधानस्य ब्राह्मणस्य “शमो दमस् तपः” (BhG.18.42) इत्य्-आदीनि कर्माणि, सत्त्वोपसर्जन-रजः-प्रधानस्य क्षत्रियस्य शौर्य-तेजः-प्रभृतीनि कर्माणि, तम-उपसर्जन-रजः-प्रधानस्य वैश्यस्य कृष्य्-आदीनि कर्माणि, रज-उपसर्जन-तमः-प्रधानस्य शूद्रस्य शुश्रूषा एव कर्म इत्य् एवं गुण-कर्म-विभागशः चातुर्-वर्ण्यं मया सृष्टम् इत्यर्थः। तच् च इदं चातुर्-वर्ण्यं न अन्येषु लोकेषु, अतः “मानुषे लोके” (BhG.4.12) इति विशेषणम्।
हन्त तर्हि चातुर्-वर्ण्यस्य सर्गादेः कर्मणः कर्तृत्वात् तत्-फलेन युज्यसे, अतः न त्वं नित्य-मुक्तः नित्येश्वरश् च इति उच्यते – यद्य्-अपि माया-संव्यवहारेण तस्य कर्मणः कर्तारम् अपि सन्तं मां परमार्थतः विद्धि अ-कर्तारम्। अत एव अ-व्ययम् अ-संसारिणं च मां विद्धि॥
na, asmad, karman, √lip, na, asmad, karma-phala, spṛhā;
iti, asmad, yad, abhi-√jñā, karman, na, tad, √bandh.

Actions do not affect Me, nor do I have longing toward the result of action. The one who knows Me thus, that one is not bound by actions.
कर्माणि मां न लिम्पन्ति, मे न कर्म-फले स्पृहा। इति यः माम् अभिजानाति, सः कर्मभिः न बध्यते॥
येषां तु कर्मणां कर्तारं मां मन्यसे, परमार्थतः तेषाम् अ-कर्ता एव अहम्, यतः –
न मां तानि कर्माणि लिम्पन्ति देहाद्य्-आरम्भकत्वेन, अहङ्काराभावात्। च [कर्म-फले] तेषां कर्मणां फलेषु मे मम स्पृहा तृष्णा। येषां तु संसारिणाम् ‘अहं कर्ता’ इत्य्-अभिमानः कर्मसु, स्पृहा तत्-फलेषु च, तान् कर्माणि लिम्पन्ति इति युक्तम्, तद्-अभावान् “न मां कर्माणि लिम्पन्ति”। इति एवं यः अन्योऽपि माम् आत्मत्वेन अभिजानाति ‘न अहं कर्ता न मे कर्म-फले स्पृहा’ इति सः कर्मभिः न बध्यते, तस्य अपि न देहाद्य्-आरम्भकाणि कर्माणि भवन्ति इत्यर्थः॥
evam, jñātvā, kṛta, karman, pūrva, api, mumukṣu;
√kṛ, karman, eva, tasmāt, yuṣmad, pūrva, pūrvatara, kṛta.

Knowing (Me) in this way, even previous desirers of complete freedom performed their duty. Therefore, you also perform your duty, as the previous ones did before.
एवं ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम्। तस्मात् त्वं पूर्वैः पूर्वतरं कृतं [एवं] कर्म एव कुरु॥
‘न अहं कर्ता न मे कर्म-फले स्पृहा’ इति –
एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिःकुरु तेन कर्म एव त्वम्, न तूष्णीम् आसनं न अपि सन्न्यासः कर्तव्यः, तस्मात् त्वं पूर्वैर् अपि अनुष्ठितत्वात् – यदि अन्-आत्म-ज्ञः त्वं तदा आत्म-शुद्ध्य्-अर्थम्, तत्त्व-विच् चेल् लोक-सङ्ग्रहार्थं – पूर्वैः जनकादिभिः पूर्वतरं कृतं न अधुना-तनं कृतं निर्वर्तितम्॥
kim, karman, kim, a-karman, iti, kavi, api, atra, mohita;
tad, yuṣmad, karman, pra-√vac, yad, jñātvā, √muc, a-śubha.

What is action? What is inaction? Regarding this, even the (so-called) wise are confused. I will teach you about that action, knowing which you will be free from the unpleasant (life of becoming, from saṃsāra).
किं कर्म? किम् अ-कर्म? इति अत्र कवयः अपि मोहिताः। तद् [=अतः] ते कर्म प्रवक्ष्यामि, यद् ज्ञात्वा अ-शुभात् मोक्ष्यसे॥
तत्र कर्म चेत् कर्तव्यं ‘त्वद्-वचनाद् एव करोम्य् अहम्, किं विशेषितेन पूर्वैः पूर्वतरं कृतम्’? इत्य् उच्यते, यस्मान् महद् वैषम्यं कर्मणि। कथम्?
किं कर्म किंअ-कर्म इति कवयः मेधाविनः अपि अत्र अस्मिन् कर्मादि-विषये मोहिताः मोहं गताः। तद् अतः ते तुभ्यम् अहं कर्म अ-कर्म च प्रवक्ष्यामि, यज् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे अ-शुभात् संसारात्॥
karman, hi, api, boddhavya, boddhavya, ca, vi-karman;
a-karman, ca, boddhavya, gahanā, karman, gati.

Because what is to be known is also about (enjoined) action, about prohibited action, and about inaction. The nature of action is difficult to know.
कर्मणः [तत्त्वं] हि [=यस्मात्] अपि बोद्धव्यं, वि-कर्मणः च बोद्धव्यम्, अ-कर्मणः च बोद्धव्यं। गहना कर्मणः गतिः॥
न च एतत् त्वया मन्तव्यम् – ‘कर्म नाम देहादि-चेष्टा लोक-प्रसिद्धम्, अ-कर्म नाम तद्-अ-क्रिया तूष्णीम् आसनम्, किं तत्र बोद्धव्यम्?’ इति। कस्माद्? उच्यते –
कर्मणः शास्त्र-विहितस्य हि यस्माद् अपि अस्ति बोद्धव्यम्, बोद्धव्यं च अस्त्य् एव वि-कर्मणः प्रतिषिद्धस्य, तथा अ-कर्मणश् च तूष्णीम्-भावस्य बोद्धव्यम्। ‘अस्ति [इह अधुना]’ इति त्रिष्व् अप्य् अध्याहारः कर्तव्यः। यस्माद् गहना विषमा दुर्-ज्ञेया – ‘कर्मणः’ इति उपलक्षणार्थं कर्मादीनाम् – कर्माकर्म-वि-कर्मणां गतिः याथात्म्यं तत्त्वम् इत्यर्थः॥
karman, a-karman, yad, √dṛś, a-karman, ca, karman, yad;
tad, buddhimat, manuṣya, tad, yukta, kṛtsna-karma-kṛt.

The one who can see inaction (actionlessness) in action, and action in inaction (in not doing one’s duty) – that one is wise among people. That one is a yogī and has accomplished everything that is (essential) to be done.
यः कर्मणि अ-कर्म [=कर्म-अ-भावं नित्यं] [परमार्थतः] पश्येत्, यः च अ-कर्मणि [=प्रवृत्ति-निर्वृत्तौ] कर्म [व्यवहारतः पश्येत्], सः मनुष्येषु बुद्धिमान्। सः युक्तः कृत्स्न-कर्म-कृत् [च]॥
किं पुनस् तत्त्वं कर्मादेः यद् “बोद्धव्यं वक्ष्यामि” (BhG.4.17) इति प्रतिज्ञातम्? उच्यते –
कर्मणि, क्रियते इति कर्म व्यापारमात्रम्, तस्मिन् कर्मणि अ-कर्म कर्माभावं यः पश्येत्, अ-कर्मणि च कर्माभावे कर्तृ-तन्त्रत्वात् प्रवृत्ति-निवृत्त्योः – वस्तु अ-प्राप्य एव हि सर्व एव क्रिया-कारकादि-व्यवहारः अ-विद्या-भूमौ एव – कर्म यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्तः योगी, कृत्स्न-कर्म-कृत् समस्त-कर्म-कृच् च सः, इति स्तूयते कर्माकर्मणोर् इतरेतर-दर्शी।
ननु किम् इदं विरुद्धम् उच्यते “कर्मणि अ-कर्म यः पश्येत्” इति “अ-कर्मणि च कर्म” इति? न हि कर्म अ-कर्म स्यात्, अ-कर्म वा कर्म। तत्र विरुद्धं कथं पश्येत् द्रष्टा?
(ननु), अ-कर्म एव परमार्थतः सत् कर्मवद् अवभासते मूढ-दृष्टेः लोकस्य, तथा कर्म एव अ-कर्मवत्। तत्र यथा-भूत-दर्शनार्थम् आह भगवान् – “कर्मण्य् अ-कर्म यः पश्येद्” इत्यादि, अतो न विरुद्धम्। बुद्धिमत्त्वाद्य्-उपपत्तेश् च। “बोद्धव्यम्” (BhG.4.17) इति च यथा-भूत-दर्शनम् उच्यते। न च विपरीत-ज्ञानाद् अ-शुभाद् मोक्षणं स्याद्, “यद् ज्ञात्वा मोक्ष्यसेऽशुभाद्” (BhG.4.16) इति च उक्तम्। तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः, तद्-विपर्यय-ग्रहण-निवृत्त्य्-अर्थं भगवतो वचनम् “कर्मण्य् अ-कर्म यः” इत्यादि।
न च अत्र कर्माधिकरणम् अ-कर्म अस्ति, कुण्डे बदराणि इव। न अपि अ-कर्माधिकरणं कर्म अस्ति, कर्माभावत्वाद् अ-कर्मणः। अतः विपरीत-गृहीते एव कर्माकर्मणी लौकिकैः, यथा मृग-तृष्णिकायाम् उदकं शुक्तिकायां वा रजतम्।
ननु कर्म कर्म एव सर्वेषां, न क्वचिद् व्यभिचरति –
तन् न, नौ-स्थस्य नावि गच्छन्त्यां तट-स्थेषु अ-गतिषु न-गेषु प्रतिकूल-गति-दर्शनाद्, दूरेषु चक्षुषा अ-संनिकृष्टेषु गच्छत्सु गत्य्-अभाव-दर्शनाद्, एवम् इह अपि अ-कर्मणि ‘अहं करोमि’ इति कर्म-दर्शनम् , कर्मणि च अ-कर्म-दर्शनं विपरीत-दर्शनं, येन तन्-निराकरणार्थम् उच्यते “कर्मण्य् अ-कर्म यः पश्येद्” इत्यादि।
तद् एतद् उक्त-प्रतिवचनम् अपि अ-सकृद् अत्यन्त-विपरीत-दर्शन-भाविततया मोमुह्यमानो लोकः, श्रुतम् अपि अ-सकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्या-प्रसङ्गम् अवतार्य अवतार्य चोदयति, इति पुनः पुनः उत्तरम् आह भगवान्, दुर्-विज्ञेयत्वं च आलक्ष्य वस्तुनः। “अ-व्यक्तोऽयम् अ-चिन्त्योऽयम्” (BhG.2.25) “न जायते म्रियते” (BhG.2.20) इत्यादिना आत्मनि कर्माभावः श्रुति-स्मृति-न्याय-प्रसिद्धः उक्तः वक्ष्यमाणश् च। तस्मिन् आत्मनि कर्माभावे अ-कर्मणि कर्म-विपरीत-दर्शनम् अत्यन्त-निरूढम्, यतः “किं कर्म किम् अ-कर्म इति कवयोऽप्य् अत्र मोहिताः” (BhG.4.16)। देहाद्य्-आश्रयं कर्म आत्मन्य् अध्यारोप्य ‘अहं कर्ता, मम एतत् कर्म, मया अस्य कर्मणः फलं भोक्तव्यम्’ इति च, तथा ‘अहं तूष्णीं भवामि, येन अहं निर्-आयासः अ-कर्मा सुखी स्याम्’ इति कार्य-करणाश्रयं व्यापारोपरमं तत्-कृतं च सुखित्वम् आत्मनि अध्यारोप्य ‘न करोमि किञ्चित्, तूष्णीं सुखम् आसम्’ इति अभिमन्यते लोकः। तत्र इदं लोकस्य विपररीत-दर्शनापनयाय आह भगवान् – ‘कर्मण्य् अ-कर्म यः पश्येद्’ इत्य-आदि।
अत्र च कर्म ‘कर्म एव’ सत्, कार्य-करणाश्रयं कर्म-रहिते अ-विक्रिये आत्मनि सर्वैः अध्यस्तम्, यतः पण्डितोऽपि ‘अहं करोमि’ इति मन्यते। अतः आत्म-समवेततया सर्व-लोक-प्रसिद्धे “कर्मणि” नदी-कूल-स्थेष्व् इव वृक्षेषु गतिः प्रातिलोम्येन “अ-कर्म” कर्माभावं यथा-भूतं गत्य्-अभावम् इव वृक्षेषु “यः पश्येद्”, अ-कर्मणि च कार्य-करण-व्यापारोपरमे कर्मवद् आत्मनि अध्यारोपिते, ‘तूष्णीं अ-कुर्वन् सुखं आसे’ इत्य्-अहङ्काराभिसन्धि-हेतुत्वात्, तस्मिन् “अ-कर्मणि च कर्म यः पश्येद्”, यः एवं कर्माकर्म-विभाग-ज्ञः “सः बुद्धिमान्” पण्डितः “मनुष्येषु, सः युक्तः” योगी “कृत्स्न-कर्म-कृच्” च सः अ-शुभाद् मोक्षितः कृत-कृत्यः भवति इत्यर्थः।
अयं श्लोकः अन्यथा व्याख्यातः कैश्चित्। कथम्? नित्यानां किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानां तत्-फलाभावाद् ‘अ-कर्माणि’ तानि उच्यन्ते गौण्या वृत्त्या। तेषां च अ-करणम् अ-कर्म, तच् च प्रत्यवाय-फलत्वात् ‘कर्म’ उच्यते गौण्या एव वृत्त्या। तत्र नित्ये “कर्मणि अ-कर्म यः पश्येत्” फलाभावात्, यथा धेनुर् अपि गौः ‘अ-गौः’ इत्य् उच्यते क्षीराख्यं फलं न प्रयच्छति इति, तद्वत्। तथा नित्याकरणे तु “अ-कर्मणि कर्म यः पश्येन्” नरकादि-प्रत्यवाय-फलं प्रयच्छति इति।
न एतद् युक्तं व्याख्यानम्। एवं ज्ञानाद्, अ-शुभाद् मोक्षानुपपत्तेः, “यज् ज्ञात्वा मोक्ष्यसेऽशुभाद्” (BhG.4.16) इति भगवता उक्तं वचनं बाध्येत। कथम्? नित्यानाम् अनुष्ठानाद्, अ-शुभात् स्यान् नाम मोक्षणं, न तु तेषां फलाभाव-ज्ञानात्। न हि नित्यानां फलाभाव-ज्ञानम् अ-शुभ-मुक्ति-फलत्वेन चोदितम्, नित्य-कर्म-ज्ञानं वा। न च भगवता एव इह उक्तम्। एतेन अ-कर्मणि कर्म-दर्शनं प्रत्युक्तम्। न हि अ-कर्मणि ‘कर्म’ इति दर्शनं कर्तव्यतया इह चोद्यते, नित्यस्य तु कर्तव्यतामात्रम्। न च ‘अ-करणाद् नित्यस्य प्रत्यवायो भवति’ इति विज्ञानात् किञ्चित् फलं स्यात्। न अपि नित्याकरणं ज्ञेयत्वेन चोदितम्। न अपि ‘कर्म अ-कर्म’ इति मिथ्या-दर्शनाद् अ-शुभाद् मोक्षणं बुद्धिमत्त्वं युक्तता कृत्स्न-कर्म-कृत्त्वादि च फलम् उपपद्यते, स्तुतिर् वा। मिथ्या-ज्ञानम् एव हि साक्षाद् अ-शुभ-रूपम्। कुतः अन्यस्माद् अ-शुभाद् मोक्षणम्? न हि तमः तमसो निवर्तकं भवति।
ननु कर्मणि यद् अ-कर्म-दर्शनम् अ-कर्मणि वा कर्म-दर्शनं न तद् मिथ्या-ज्ञानम्, किं तर्हि? गौणं फल-भावाभाव-निमित्तम् –
न, कर्माकर्म-विज्ञानाद् अपि गौणात् फलस्य अ-श्रवणात्। न अपि श्रुत-हान्य्-अश्रुत-परिकल्पनायां कश्चिद् विशेषो लभ्यते। स्व-शब्देन अपि शक्यं वक्तुम् ‘नित्य-कर्मणां फलं न अस्ति, अ-करणाच् च तेषां नरक-पातः स्याद्’ इति, तत्र व्याजेन पर-व्यामोह-रूपेण ‘कर्मण्य् अ-कर्म यः पश्येद्’ इत्य्-आदिना किम्? तत्र एवं व्याचक्षाणेन ‘भगवता उक्तं वाक्यं लोक-व्यामोहार्थम्’ इति व्यक्तं कल्पितं स्यात्। न च एतच् छद्म-रूपेण वाक्येन रक्षणीयं वस्तु, न अपि शब्दान्तरेण पुनः पुनः उच्यमानं सु-बोधं स्याद् इत्य्-एवं वक्तुं युक्तम्। “कर्मण्य् एवाधिकारस् ते” (BhG.2.47) इत्य् अत्र हि स्फुटतर उक्तः अर्थः, न पुनः वक्तव्यो भवति। सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यम् एव। न निष्-प्रयोजनं बोद्धव्यम् इत्य् उच्यते। न च मिथ्या-ज्ञानं बोद्धव्यं भवति, तत्-प्रत्युपस्थापितं वा वस्त्व्-आभासम्।
न अपि नित्यानाम् अ-करणाद् अ-भावात् प्रत्यवाय-भावोत्पत्तिः, “न अ-सतो विद्यते भावः” (BhG.2.16) इति वचनात्, “कथम् अ-सतः सज् जायेत” (ChanU.6.2.2) इति (च दर्शितम्) अ-सतः सज्-जन्म-प्रतिषेधात्। अ-सतः सद्-उत्पत्तिं ब्रुवता ‘अ-सद् एव सद् भवेत्, सच् च अ-सद् भवेद्’ इत्य् उक्तं स्यात्। तच् च अ-युक्तम्, सर्व-प्रमाण-विरोधात्। न च निष्-फलं विदध्यात् कर्म शास्त्रं दुःख-रूपत्वाद्, दुःखस्य च बुद्धि-पूर्वकतया कार्यत्वानुपपत्तेः। तद्-अ-करणे च नरक-पाताभ्युपगमेऽन्-अर्थाय एव उभयथा अपि करणे च अ-करणे च शास्त्रं निष्-फलं कल्पितं स्यात्। स्वाभ्युपगम-विरोधश् च ‘नित्यं निष्-फलं कर्म’ इति अभ्युपगम्य ‘मोक्ष-फलाय’ इति ब्रुवतः। तस्माद् यथा-श्रुत एव अर्थः ‘कर्मण्य् अ-कर्म यः’ इत्य्-आदेः, तथा च व्याख्यातः अस्माभिः श्लोकः॥
yad, sarva, samārambha, kāma-saṅkalpa-varjita;
jñāna-agni-dagdha-karman, tad, √ah, paṇḍita, budha.

Whose every activity is free from kāma (requiring and anticipating) and (its cause) saṅkalpa (self-purpose), that one – whose (accumulated) karmas are burned up by the fire that is knowledge – the sages call wise.
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः, तं ज्ञान-अग्नि-दग्ध-कर्माणं बुधाः ‘पण्डितम्’ आहुः॥
तद् एतत् कर्मणि अ-कर्मादि-दर्शनं स्तूयते –
यस्य यथोक्त-दर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि, समारभ्यन्ते इति समारम्भाः, काम-सङ्कल्प-वर्जिताः कामैः तत्-कारणैश् च सङ्कल्पैः वर्जिताः मुधा एव चेष्टामात्रा अनुष्ठीयन्ते, प्रवृत्तेन चेल् लोक-सङ्ग्रहार्थं, निवृत्तेन चेज् जीवनमात्रार्थम्। तं ज्ञानाग्नि-दग्ध-कर्माणं कर्मादौ अ-कर्मादि-दर्शनं ज्ञानं तद् एव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य तम् आहुः परमार्थतः ‘पण्डितंबुधाः ब्रह्म-विदः॥
tyaktvā, karma-phala-āsaṅga, nitya-tṛpta, nis-āśraya;
karman, abhipravṛtta, api, na, eva, ka-cid, √kṛ, tad.

Giving up identification with actions and attachment to results, always contented, without dependence (on anything), that one – though fully engaged in action – does not (in reality) do anything (is truly actionless).
कर्म-फल-आसङ्गं त्यक्त्वा, नित्य-तृप्तः, निर्-आश्रयः, सः कर्मणि अभिप्रवृत्तः अपि किञ्-चिद् एव न करोति॥
यस् तु अ-कर्मादि-दर्शी, सः अ-कर्मादि-दर्शनाद् एव निष्-कर्मा सन्न्यासी जीवनमात्रार्थ-चेष्टः सन् कर्मणि न प्रवर्तते, यद्य्-अपि प्राक् विवेकतः प्रवृत्तः। यस्य तु प्रारब्ध-कर्मा सन् उत्तर-कालम् उत्पन्नात्म-सम्यग्-दर्शनः स्यात्, सः कर्मणि प्रयोजनम् अ-पश्यन् स-साधनं कर्म परित्यजत्य् एव। सः कुतश्चिद् निमित्तात् कर्म-परित्यागासम्भवे सति कर्मणि तत्-फले च सङ्ग-रहिततया स्वप्रयोजनाभावाल् लोक-सङ्ग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तोऽपि न एव किञ्चित् करोति, ज्ञानाग्नि-दग्ध-कर्मत्वात् तदीयं कर्म अ-कर्म एव सम्पद्यते इत्य् एतम् अर्थं दर्शयिष्यन् आह –
त्यक्त्वा [कर्म-फलासङ्गं] कर्मसु अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्य-तृप्तः निर्-आकाङ्क्षो विषयेषु इत्यर्थः। निर्-आश्रयः आश्रय-रहितः, आश्रयो नाम यद् आश्रित्य पुरुषार्थं सिसाधयिषति, दृष्टादृष्टेष्ट-फल-साधनाश्रय-रहित इत्यर्थः। विदुषा क्रियमाणं कर्म परमार्थतोऽकर्म एव, तस्य निष्-क्रियात्म-दर्शन-सम्पन्नत्वात्। तेन एवं-भूतेन स्वप्रयोजनाभावात् स-साधनं कर्म परित्यक्तव्यम् एव इति प्राप्ते, ततः निर्-गमासम्भवाल् लोक-सङ्ग्रह-चिकीर्षया शिष्ट-विगर्हणा-परिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि निष्-क्रियात्म-दर्शन-सम्पन्नत्वाद् न एव किञ्चित् करोति सः
nis-āśīs, yata-citta-ātman, tyakta-sarva-parigraha;
śārīra, kevalam, karman, kurvat, na, √āp, kilbiṣa.

Free from fancies (of the future), by whom the body and mind are mastered, who has disowned every possession, doing action only for sustaining the body, that one (a renunciate, sannyāsī) incurs no fault (no binding karma merit or demerit).
निर्-आशीः, यत-चित-आत्मा, त्यक्त-सर्व-परिग्रहः, शारीरं [शरीर-स्थिति-मात्र-अथं] केवलं कर्म कुर्वन्, [सः] किल्बिषं न आप्नोति॥
यः पुनः पूर्वोक्त-विपरीतः प्राग् एव कर्मारम्भाद् ब्रह्मणि सर्वान्तरे प्रत्यग्-आत्मनि निष्-क्रिये सञ्जातात्म-दर्शनः, स दृष्टादृष्टेष्ट-विषयाशीर्-विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनम् अ-पश्यन् स-साधनं कर्म संन्यस्य शरीर-यात्रामात्र-चेष्टः यतिः ज्ञान-निष्ठो मुच्यते इत्य् एतम् अर्थं दर्शयितुम् आह –
निर्-आशीः निर्-गताः आशिषः यस्मात् सः निर्-आशीः, यत-चित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्य-करण-सङ्घातः तौ उभाव् अपि यतौ संयतौ येन सः यत-चित्तात्मा, त्यक्त-सर्व-परिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्त-सर्व-परिग्रहः, शारीरं शरीर-स्थितिमात्र-प्रयोजनम्, केवलं तत्र अपि अभिमान-वर्जितम्, कर्म कुर्वन् न आप्नोति न प्राप्नोति किल्बिषम् अन्-इष्ट-रूपं पापं, धर्मं च। धर्मोऽपि मुमुक्षोः अन्-इष्ठ-रूपात् किल्बिषम् एव बन्धापादकत्वात्। तस्मात् ताभ्यां मुक्तः भवति, संसार-मुक्तो भवति इत्यर्थः।
किं च “शारीरं केवलं कर्म” इत्य् अत्र किं शरीर-निर्वर्त्यं शारीरं कर्म अभिप्रेतम्, आहोस्वित् शरीर-स्थितिमात्र-प्रयोजनं शारीरं कर्म इति? किं च अतः यदि शरीर-निर्वर्त्यं शारीरं कर्म यदि वा शरीर-स्थितिमात्र-प्रयोजनं शारीरम् इति? उच्यते – यदा शरीर-निर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात्, तदा ‘दृष्टादृष्ट-प्रयोजनं कर्म प्रतिषिद्धम् अपि शरीरेण कुर्वन् न आप्नोति किल्बिषम्’ इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत। ‘शास्त्रीयं च कर्म दृष्टादृष्ट-प्रयोजनं शरीरेण कुर्वन् न आप्नोति किल्बिषम्’ इत्य् अपि ब्रुवतः अ-प्राप्त-प्रतिषेध-प्रसङ्गः। “शारीरं कर्म कुर्वन्” इति विशेषणात् ‘केवल’-शब्द-प्रयोगाच् च ‘वाङ्-मनस-निर्वर्त्यं कर्म विधि-प्रतिषेध-विषयं धर्माधर्म-शब्द-वाच्यं कुर्वन् प्राप्नोति किल्बिषम्’ इत्य् उक्तं स्यात्। तत्र अपि वाङ्-मनसाभ्यां विहितानुष्ठान-पक्षे किल्बिष-प्राप्ति-वचनं विरुद्धम् आपद्येत। प्रतिषिद्ध-सेवा-पक्षेऽपि भूतार्थानुवादमात्रम् अन्-अर्थकं स्यात्। यदा तु शरीर-स्थितिमात्र-प्रयोजनं “शारीरं कर्म” अभिप्रेतं भवेत्, तदा दृष्टादृष्ट-प्रयोजनं कर्म विधि-प्रतिषेध-गम्यं शरीर-वाङ्-मनस-निर्वर्त्यम् अन्यद् अ-कुर्वन्, तैर् एव शरीरादिभिः शरीर-स्थितिमात्र-प्रयोजनं ‘केवल’-शब्द-प्रयोगाद् ‘अहं करोमि’ इत्य्-अभिमान-वर्जितः शरीरादि-चेष्टामात्रं लोक-दृष्ट्या कुर्वन् न आप्नोति किल्बिषं। एवं-भूतस्य ‘पाप’-शब्द-वाच्य-किल्बिष-प्राप्त्य्-असम्भवात्, किल्बिषं संसारं न आप्नोति। ज्ञानाग्नि-दग्ध-सर्व-कर्मत्वाद् अ-प्रतिबन्धेन मुच्यत एव इति पूर्वोक्त-सम्यग्-दर्शन-फलानुवाद (BhG.4.18) एव एषः। एवं “शारीरं केवलं कर्म” इत्य् अस्य अर्थस्य परिग्रहे निर्-अ-वद्यं भवति॥
yad-ṛcchā-lābha-santuṣṭa, dvam-dva-atīta, vi-matsara;
sama, siddhi, a-siddhi, ca, kṛtvā, api, na, ni-√bandh.

Satisfied with whatever happens (unasked), (whose mind is) unaffected by the natural pairs of opposites, free of repulsion (on account of another’s virtue or prosperity), and equanimous in success or failure, that one – though engaged in action – is not bound.
यद्-ऋच्छा-लाभ-सन्तुष्टः, द्वन्-द्व-अतीतः, वि-मत्सरः, सिद्धौ अ-सिद्धौ च समः, [सः] कृत्वा अपि न निबध्यते॥
त्यक्त-सर्व-परिग्रहस्य यतेः अन्नादेः शरीर-स्थिति-हेतोः परिग्रहस्य अ-भावाद्, याचनादिना शरीर-स्थितौ कर्तव्यतायां प्राप्तायाम् “अ-याचितम् अ-सङ्कॢप्तम् उपपन्नं यद्-ऋच्छया” (MBhAsv.46.19) इत्य्-आदिना वचनेन अनुज्ञातं यतेः शरीर-स्थिति-हेतोः अन्नादेः प्राप्ति-द्वारम् आविष्-कुर्वन् आह –
यद्-ऋच्छा-लाभ-सन्तुष्टः अ-प्रार्थितोपनतो लाभो यद्-ऋच्छा-लाभः तेन सन्तुष्टः सञ्जातालं-प्रत्ययः। द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिः हन्यमानोऽपि अ-विषण्ण-चित्तः द्वन्द्वातीतः उच्यते। वि-मत्सरः विगत-मत्सरः निर्-वैर-बुद्धिः समः तुल्यः यद्-ऋच्छा-लाभस्य सिद्धौ अ-सिद्धौ च। यः एवं-भूतो यतिः अन्नादेः शरीर-स्थिति-हेतोः लाभालाभयोः समः हर्ष-विषाद-वर्जितः कर्मादौ अ-कर्मादि-दर्शी यथा-भूतात्म-दर्शन-निष्ठः सन् शरीर-स्थितिमात्र-प्रयोजने भिक्षाटनादि-कर्मणि शरीरादि-निर्वर्त्ये “न एव किञ्चित् करोम्य् अहम्” (BhG.5.8), “गुणा गुणेषु वर्तन्ते” (BhG.3.28) इत्य्-एवं सदा सम्परिचक्षाणः आत्मनः कर्तृत्वाभावं पश्यन् नैव किञ्चित् भिक्षाटनादिकं कर्म करोति। लोक-व्यवहार-सामान्य-दर्शनेन तु लौकिकैः आरोपित-कर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति, स्वानुभवेन तु शास्त्र-प्रमाणादि-जनितेन अ-कर्ता एव। स एवं पराध्यारोपित-कर्तृत्वः शरीर-स्थितिमात्र-प्रयोजनं भिक्षाटनादिकं कर्म कृत्वा अपि न निबध्यते बन्ध-हेतोः कर्मणः स-हेतुकस्य ज्ञानाग्निना दग्धत्वाद् इति उक्तानुवाद एव एषः॥
gata-saṅga, mukta, jñāna-avasthita-cetas;
yajña, ācarat, karman, samagra, karman, pra-vi-√lī.

For the one who is without attachment, who is free, whose mind is rooted in (self-)knowledge, and who acts for the sake of a sacred act (yajña), all karma (along with its pending results) dissolves.
गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः यज्ञाय आचरतः समग्रं कर्म प्रविलीयते॥
“त्यक्त्वा कर्म-फलासङ्गम्” (BhG.4.20) इत्य् अनेन श्लोकेन यः प्रारब्ध-कर्मा सन् यदा निष्-क्रिय-ब्रह्मात्म-दर्शन-सम्पन्नः स्यात् तदा तस्य आत्मनः कर्तृ-कर्म-प्रयोजनाभाव-दर्शिनः कर्म-परित्यागे प्राप्ते कुतश्चिन् निमित्तात् तद्-असम्भवे सति पूर्ववत् तस्मिन् कर्मणि अभिप्रवृत्तः अपि “न एव किञ्चित् करोति सः” (BhG.4.20) इति कर्माभावः प्रदर्शितः। यस्य एवं कर्माभावो दर्शितः तस्य एव –
गत-सङ्गस्य सर्वतो-निवृत्तासक्तेः, मुक्तस्य निवृत्त-धर्माधर्मादि-बन्धनस्य, ज्ञानावस्थित-चेतसः ज्ञाने एव अवस्थितं चेतः यस्य सोऽयं ज्ञानावस्थित-चेताः तस्य, यज्ञाय यज्ञ-निर्वृत्त्य्-अर्थम् आचरतः निर्वर्तयतः कर्म समग्रं सह अग्रेण फलेन वर्तते इति समग्रं कर्म तत् समग्रं प्रविलीयते विनश्यति इत्यर्थः॥
brahman, arpaṇa, brahman, havis, brahma-agni, brahman, huta;
brahman, eva, tad, gantavya, brahma-karma-samādhi.

The instrument for offering is brahman (reality, the limitless self). The oblation is brahman, offered by brahman into the fire that is brahman. Brahman indeed is to be attained by the one whose vision of identity is that (every aspect of) action is brahman.
अर्पणं ब्रह्म। हविः ब्रह्म, ब्रह्म-अग्नौ ब्रह्मणा हुतं। तेन ब्रह्म-कर्म-समाधिना ब्रह्म एव गन्तव्यम्॥
कस्मात् पुनः कारणात् क्रियमाणं कर्म स्व-कार्यारम्भम् अ-कुर्वत् समग्रं प्रविलीयते इत्य् उच्यते यतः –
ब्रह्म अर्पणं ‘येन करणेन ब्रह्म-विद् हविः अग्नौ अर्पयति तद् ब्रह्म एव’ इति पश्यति, तस्य आत्म-व्यतिरेकेण अ-भावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति, तद् (तथा) उच्यते ब्रह्म एव अर्पणम् इति, यथा यद् रजतं तत् शुक्तिका एव इति। ‘ब्रह्म अर्पणम्’ इति अ-समस्ते पदे। यद् अर्पण-बुद्ध्या गृह्यते लोके तद् अस्य ब्रह्म-विदः ब्रह्म एव इत्यर्थः। ब्रह्म हविः तथा यद् हविर्-बुद्ध्या गृह्यमाणं तद् ब्रह्म एव अस्य। तथा ‘ब्रह्माग्नौ’ इति समस्तं पदम्। अग्निर् अपि ब्रह्म एव यत्र हूयते। ब्रह्मणा कर्त्रा, ब्रह्म एव कर्ता इत्यर्थः। यत् तेन हुतं हवन-क्रिया तद् ब्रह्म एव। यत् तेन गन्तव्यं फलं तद् अपि ब्रह्म एवब्रह्म-कर्म-समाधिना ब्रह्म एव कर्म ब्रह्म-कर्म तस्मिन् समाधिः यस्य सः ब्रह्म-कर्म-समाधिः तेन ब्रह्म-कर्म-समाधिना ब्रह्म एव गन्तव्यम्।
एवं लोक-सङ्ग्रहं चिकीर्षुणा अपि क्रियमाणं कर्म परमार्थतः अ-कर्म, ब्रह्म-बुद्ध्य्-उपमृदितत्वात्। एवं सति निवृत्त-कर्मणोऽपि सर्व-कर्म-सन्न्यासिनः सम्यग्-दर्शन-स्तुत्य्-अर्थं यज्ञत्व-सम्पादनं ज्ञानस्य सुतराम् उपपद्यते, यद् अर्पणादि अधि-यज्ञे प्रसिद्धं तद् अस्य अध्यात्मं ब्रह्म एव परमार्थ-दर्शिन इति। अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अन्-अर्थकं स्यात्। तस्माद् ब्रह्म एव इदं सर्वम् इति अभिजानतः विदुषः सर्व-कर्माभावः।
कारक-बुद्ध्य्-अभावाच् च। न हि कारक-बुद्धि-रहितं यज्ञाख्यं कर्म दृष्टम्। सर्वम् एव अग्नि-होत्रादिकं कर्म शब्द-समर्पित-देवता-विशेष-सम्प्रदानादि-कारक-बुद्धिमत् कर्त्रभिमान-फलाभिसन्धिमच् च दृष्टम्, न उपमृदित-क्रिया-कारक-फल-भेद-बुद्धिमत् कर्तृत्वाभिमान-फलाभिसन्धि-रहितं वा। इदं तु ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धि कर्म। अतः अ-कर्म एव तत्। तथा च दर्शितम् “कर्मण्य् अ-कर्म यः पश्येत्” (BhG.4.18) “कर्मण्य् अभिप्रवृत्तोऽपि न एव किञ्चित् करोति सः” (BhG.4.20) “गुणा गुणेषु वर्तन्ते” (BhG.3.28) “न एव किञ्चित् करोमि इति युक्तो मन्येत तत्त्व-विद्” (BhG.5.8) इत्य्-आदिभिः। तथा च दर्शयन् तत्र तत्र क्रिया-कारक-फल-भेद-बुद्ध्य्-उपमर्दं करोति। दृष्टा च काम्याग्नि-होत्रादौ कामोपमर्देन काम्याग्नि-होत्रादि-हानिः। तथा मति-पूर्वकामति-पूर्वकादीनां कर्मणां कार्य-विशेषस्य आरम्भकत्वं दृष्टम्। तथा इह अपि ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धेः बाह्य-चेष्टामात्रेण कर्म अपि विदुषः अ-कर्म सम्पद्यते। अतः उक्तम् “समग्रं प्रविलीयते” (BhG.4.23) इति।
अत्र केचिद् आहुः – यद् ब्रह्म तद्-अर्पणादीनि, ब्रह्म एव किल अर्पणादिना पञ्च-विधेन कारकात्मना व्यवस्थितं सत् तद् एव कर्म करोति। तत्र न अर्पणादि-बुद्धिः निवर्त्यते, किं तु अर्पणादिषु ब्रह्म-बुद्धिः आधीयते, यथा प्रतिमादौ विष्ण्व्-आदि-बुद्धिः, यथा वा नामादौ ब्रह्म-बुद्धिर् (ChanU.7.1.5) इति।
सत्यम्, एवम् अपि स्याद् यदि ज्ञान-यज्ञ-स्तुत्य्-अर्थं प्रकरणं न स्यात्। अत्र तु सम्यग्-दर्शनं ज्ञान-यज्ञ-शब्दितम् अन्-एकान् यज्ञ-शब्दितान् क्रिया-विशेषान् उपन्यस्य “श्रेयान् द्रव्यमयाद् यज्ञाद् ज्ञान-यज्ञः” (BhG.4.33) इति ज्ञानं स्तौति। अत्र च समर्थम् इदं वचनम् ‘ब्रह्मार्पणम्’ इत्य्-आदि ज्ञानस्य यज्ञत्व-सम्पादने, अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अन्-अर्थकं स्यात्। ये तु अर्पणादिषु प्रतिमायां विष्णु-दृष्टिवद् ब्रह्म-दृष्टिः क्षिप्यते नामादिष्व् इव च इति ब्रुवते न तेषां ब्रह्म-विद्या उक्ता इह विवक्षिता स्याद्, अर्पणादि-विषयत्वाद् ज्ञानस्य। न च दृष्टि-सम्पादन-ज्ञानेन मोक्ष-फलं प्राप्यते। ‘ब्रह्म एव तेन गन्तव्यम्’ इति चोच्यते। विरुद्धं च सम्यग्-दर्शनम् अन्तरेण मोक्ष-फलं प्राप्यते इति। प्रकृत-विरोधश् च, सम्यग्-दर्शनम् च प्रकृतम् “कर्मण्य् अ-कर्म यः पश्येद्” (BhG.4.18) इत्य् अत्र, अन्ते च सम्यग्-दर्शनम्, तस्य एव उपसंहारात्। “श्रेयान् द्रव्यमयाद् यज्ञाद् ज्ञान-यज्ञः” (BhG.4.33), “ज्ञानं लब्ध्वा परां शान्तिम्” (BhG.4.39) इत्य्-आदिना सम्यग्-दर्शन-स्तुतिम् एव कुर्वन् उपक्षीणः अध्यायः। तत्र अ-कस्माद् अर्पणादौ ब्रह्म-दृष्टिः अ-प्रकरणे प्रतिमायाम् इव विष्णु-दृष्टिः उच्यते इति अन्-उपपन्नम्, तस्माद् यथाव्याख्यातार्थ एव अयं श्लोकः॥
daiva, eva, apara, yajña, yogin, pari-upa-√ās;
brahma-agni, apara, yajña, yajña, eva, upa-√hu.

Some (karma-)yogīs perform yajña only for invoking (the Lord in the form of) a deity. Others (who are sannyāsīs, who have given up entitlement to ritual) offer yajña (as themselves) by yajña (as themselves) into the fire (the knowledge) that is brahman.
अपरे योगिनः दैवम् एव यज्ञं पर्युपासते। अपरे ब्रह्म-अग्नौ यज्ञं [=ब्रह्म-आत्मानं] यज्ञेन [=ब्रह्म-आत्मना] एव उपजुह्वति॥
तत्र अधुना सम्यग्-दर्शनस्य यज्ञत्वं सम्पाद्य तत्-स्तुत्य्-अर्थम् अन्येऽपि यज्ञा उपक्षिप्यन्ते –
दैवम् एव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तम् एव अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्ति इत्यर्थः। ब्रह्माग्नौ “सत्यं ज्ञानम् अन्-अन्तं ब्रह्म” (TaitU.2.1.1) “विज्ञानम् आनन्दं ब्रह्म” (BrhU.3.9.28) “यत् साक्षाद् अ-परोक्षाद् ब्रह्म य आत्मा सर्वान्तरः” (BrhU.3.4.1) इत्य्-आदि-वचनोक्तम् अशनायादि-सर्व-संसार-धर्म-वर्जितम् ‘न इति न इति’ (BrhU.4.4.22) इति निरस्ताशेष-विशेषं ब्रह्म-शब्देन उच्यते। ब्रह्म च तद् अग्निश् च सः होमाधिकरणत्व-विवक्षया ब्रह्माग्निः। तस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्म-विदः यज्ञम् – यज्ञ-शब्द-वाच्य आत्मा, आत्म-नामसु यज्ञ-शब्दस्य पाठात् – तम् आत्मानं यज्ञं परमार्थतः परम् एव ब्रह्म सन्तं बुद्ध्य्-आद्य्-उपाधि-संयुक्तम् अध्यस्त-सर्वोपाधि-धर्मकम् आहुति-रूपं यज्ञेन एव आत्मना एव उक्त-लक्षणेन उपजुह्वति प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निर्-उपाधिकेन पर-ब्रह्म-स्वरूपेण एव यद् दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैकत्व-दर्शन-निष्ठाः सन्न्यासिनः इत्यर्थः॥
śrotra-ādi, indriya, anya, saṃyama-agni, √hu;
śabda-ādi, viṣaya, anya, indriya-agni, √hu.

Others offer their sense organs – such as hearing, etcetera – into the fires that are the mastery (over each of the senses). Others (deliberately) offer sense objects – such as (only proper) sound, etcetera – into the fires that are the senses (themselves).
अन्ये संयम-अग्निषु श्रोत्र-आदीनि इन्द्रियाणि जुह्वति। अन्ये इन्द्रिय-अग्निषु शब्द-आदीन् विषयान् जुह्वति॥
सोऽयं सम्यग्-दर्शन-लक्षणः यज्ञः दैव-यज्ञादिषु यज्ञेषु उपक्षिप्यते ‘ब्रह्मार्पणम्’ इत्य्-आदि-श्लोकैः प्रस्तुतः “श्रेयान् द्रव्यमयाद् यज्ञाद् ज्ञान-यज्ञः परन्-तप” (BhG.4.33) इत्य्-आदिना स्तुत्य्-अर्थम् –
श्रोत्रादीनि इन्द्रियाण्य् अन्ये योगिनः संयमाग्निषु। प्रतीन्द्रियं संयमो भिद्यते इति बहु-वचनम्। संयमा एवम् अग्नयः तेषु जुह्वति इद्रिय-संयमम् एव कुर्वन्ति इत्यर्थः। शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्य् एव अग्नयः तेषु इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिर् अ-विरुद्ध-विषय-ग्रहणं होमं मन्यन्ते॥
sarva, indriya-karman, prāṇa-karman, ca, apara;
ātma-saṃyama-yoga-agni, √hu, jñāna-dīpita.

Others offer all activities of the organs and activities of the vital energies into the fire, lit by knowledge, that is the discipline consisting of mastery over oneself (the body-mind complex) [or consisting of contemplation on the self (YS.3.4)].
अपरे सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च ज्ञान-दीपिते आत्म-संयम-योग-अग्नौ जुह्वति॥
किञ्च –
सर्वाणि इन्द्रिय-कर्माणि इन्द्रियाणां कर्माणि इन्द्रिय-कर्माणि, तथा प्राण-कर्माणि प्राणो वायुः आध्यात्मिकः तत्-कर्माणि आकुञ्चन-प्रसारणादीनि तानि च अपरे आत्म-संयम-योगाग्नौ आत्मनि संयमः आत्म-संयमः स एव योगाग्निः तस्मिन् आत्म-संयम-योगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञान-दीपिते स्नेहेन एव प्रदीपे विवेक-विज्ञानेन उज्ज्वल-भावम् आपादिते प्रविलापयन्ति इत्यर्थः॥
dravya-yajña, tapas-yajña, yoga-yajña, tathā, apara;
sva-adhyāya-jñāna-yajña, ca, yati, saṃśita-vrata.

So too others of firm vows and efforts are those whose (distribution of) wealth is the yajña, those for whom prayerful discipline is the yajña, those whose very yoga practices are the yajña, and those who recite their Veda as a yajña and those who (later) study the meaning of their Veda as a yajña.
तथा अपरे संशित-व्रताः यतयः द्रव्य-यज्ञाः, तपो-यज्ञाः, योग-यज्ञाः, स्व-अध्याय-ज्ञान-यज्ञाः च॥
द्रव्य-यज्ञाः तीर्थेषु द्रव्य-विनियोगं यज्ञ-बुद्ध्या कुर्वन्ति ये ते द्रव्य-यज्ञाः। तपो-यज्ञाः तपः यज्ञः येषां तपस्विनां ते तपो-यज्ञाः। योग-यज्ञाः प्राणायाम-प्रत्याहारादि-लक्षणो योगो यज्ञो येषां ते योग-यज्ञाः। तथा अपरे स्वाध्याय-ज्ञान-यज्ञाश् च स्वाध्यायः यथा-विधि ऋगाद्य्-अभ्यासः यज्ञः येषां ते स्वाध्याय-यज्ञाः, ज्ञान-यज्ञाः ज्ञानं शास्त्रार्थ-परिज्ञानं यज्ञः येषां ते ज्ञान-यज्ञाश् च। यतयः यतन-शीलाः संशित-व्रताः सम्यक् शितानि तनू-कृतानि तीक्ष्णी-कृतानि व्रतानि येषां ते संशित-व्रताः॥
apāna, √hu, prāṇa, prāṇa, apāna, tathā, apara;
prāṇa-apāna-gati, ruddhvā, prāṇa-āyāma-parāyaṇa.

So too, others whose ultimate end is the practice of breath control – they offer (as a discipline) the outgoing breath into the ingoing breath, the ingoing breath into the outgoing breath, and (offer by) stopping the flow of both exhalation and inhalation.
तथा अपरे प्राण-आयाम-परायणाः अपाने प्राणं, प्राणे अपानं जुह्वति, प्राण-अपान-गती रुद्ध्वा [च]॥
किञ्च –
अपाने अपान-वृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राण-वृत्तिम्, पूरकाख्यं प्राणायामं कुर्वन्ति इत्यर्थः। प्राणे अपानं तथा अपरे जुह्वति, रेचकाख्यं च प्राणायामं कुर्वन्ति इत्य् एतत्। प्राणापान-गती मुख-नासिकाभ्यां वायोः निर्गमनं प्राणस्य गतिः, तद्-विपर्ययेण अधो-गमनम् अपानस्य गतिः, ते प्राणापान-गती एते रुद्ध्वा निरुध्य प्राणायाम-परायणाः प्राणायाम-तत्-पराः, कुम्भकाख्यं प्राणायामं कुर्वन्ति इत्यर्थः॥
apara, niyata-āhāra, prāṇa, prāṇa, √hu;
sarva, api, etad, yajña-vid, yajña-kṣapita-kalmaṣa.

Others whose food (consumption) is regulated offer (submit for discipline) their (undisciplined) prāṇas into their (disciplined) prāṇas (such as a well-kindled digestive fire). All of those (preceding) who have an attitude of worship (during their activities) have (to that extent) their impurities (that obstruct self-knowledge) destroyed by yajña.
अपरे नियत-आहाराः [नियत-]प्राणेषु [अ-नियत-]प्राणान् जुह्वति। सर्वे अपि एते यज्ञ-विदः यज्ञ-क्षपित-कल्मषाः [सन्ति]॥
किञ्च –
अपरे नियताहाराः नियतः परिमितः आहारः येषां ते नियताहाराः सन्तः प्राणान् वायु-भेदान् प्राणेषु एव जुह्वति यस्य यस्य वायोः जयः क्रियते इतरान् वायु-भेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति। सर्वेऽपि एते यज्ञ-विदः यज्ञ-क्षपित-कल्मषाः यज्ञैः यथोक्तैः क्षपितः नाशितः कल्मषो येषां ते यज्ञ-क्षपित-कल्मषाः॥
yajña-śiṣṭa-a-mṛta-bhuj, √yā, brahman, sanā-tana;
na, idam, loka, √as, a-yajña, kutas, anya, kuru-sattama.

Those who (seek brahman and) partake of the offering (made) immortal after yajña proceed to gaining (in knowledge) the ever existent brahman (reality). This human world is not there for (the benefit of) one without yajña, much less another world (where effort is not available), O Arjuna.
यज्ञ-शिष्ट-अ-मृत-भुजः सना-तनं ब्रह्म यान्ति। अ-यज्ञस्य अयं लोकः न अस्ति, अन्यः [लोकः] कुतः, कुरु-सत्तम॥
एवं यथोक्तान् यज्ञान् निर्वर्त्य –
यज्ञ-शिष्टामृत-भुजः यज्ञानां शिष्टं यज्ञ-शिष्टं, यज्ञ-शिष्टं च तद् अ-मृतं च यज्ञ-शिष्टामृतं तद् भुञ्जते इति यज्ञ-शिष्टामृत-भुजः। यथोक्तान् यज्ञान् कृत्वा तच्-छिष्टेन कालेन यथा-विधि-चोदितम् अन्नम् अ-मृताख्यं भुञ्जते इति यज्ञ-शिष्टामृत-भुजः यान्ति गच्छन्ति ब्रह्म सना-तनं चिरन्-तनं, मुमुक्षवश् चेत् कालातिक्रमापेक्षया इति सामर्थ्याद् गम्यते। न अयं लोकः सर्व-प्राणि-साधारणोऽपि अस्ति यथोक्तानां यज्ञानां एकोऽपि यज्ञः यस्य न अस्ति सः अ-यज्ञः तस्य [अ-यज्ञस्य]। कुतः अन्यो विशिष्ट-साधन-साध्यः कुरु-सत्तम
evam, bahu-vidha, yajña, vitata, brahman, mukha;
karma-ja, √vid, tad, sarva, evam, jñātvā, vi-√muc.

In this manner, there are many and various yajñas elaborated in the words of the Veda. Know all of them to be produced by (traiguṇya-)karma (by the action of nature, not by ātmā, oneself). With this understanding, you will be freed (from their otherwise binding nature).
एवं ब्रह्मणः मुखे [=वेद-शब्दे] बहु-विधाः यज्ञाः वितताः। तान् सर्वान् कर्म-जान् विद्धि। एवं ज्ञात्वा विमोक्ष्यसे॥
एवं यथोक्ताः बहु-विधाः बहु-प्रकाराः यज्ञाः वितताः विस्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेण अवगम्यमानाः ब्रह्मणो मुखे वितता उच्यन्ते, तद् यथा “वाचि हि प्राणं जुहुमः” (AitAr.3.2.6) इत्य्-आदयः। कर्म-जान् कायिक-वाचिक-मानस-कर्मोद्भावान् विद्धि तान् सर्वान् अन्-आत्म-जान्, निर्-व्यापारो हि आत्मा। अत एवं ज्ञात्वा विमोक्ष्यसे अ-शुभात्। ‘न मद्-व्यापारा इमे, निर्-व्यापारोऽहम् उदासीन’ इत्य् एवं ज्ञात्वा अस्मात् सम्यग्-दर्शनाद् अ-शुभाद् मोक्ष्यसे संसार-बन्धनाद् इत्यर्थः॥
śreyas, dravyamaya, yajña, jñāna-yajña, param-tapa;
sarva, karman, a-khila, pārtha, jñāna, pari-sam-√āp.

Yajña consisting of knowledge is superior to yajña consisting of materials (and action), O Arjuna. O Arjuna, all action in its entirety is culminated in knowledge.
द्रव्यमयाद् यज्ञाद् ज्ञान-यज्ञः श्रेयान्, परन्-तप। पार्थ, सर्वम् अ-खिलं कर्म ज्ञाने परिसमाप्यते॥
“ब्रह्म अर्पणम्” (BhG.4.24) इत्य्-आदि-श्लोकेन सम्यग्-दर्शनस्य यज्ञत्वं सम्पादितम्, यज्ञाश् च अन्-एके उपदिष्टाः। तैः सिद्ध-पुरुषार्थ-प्रयोजनैः ज्ञानं स्तूयते। कथम्? –
श्रेयान् द्रव्यमयाद् द्रव्य-साधन-साध्याद् यज्ञाद् ज्ञान-यज्ञः हे परन्-तप। द्रव्यमयो हि यज्ञः फलस्य आरम्भकः, ज्ञान-यज्ञः न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः। कथम्? यतः सर्वं कर्म समस्तम् अ-खिलम् अ-प्रतिबद्धं पार्थ ज्ञाने मोक्ष-साधने सर्वतः-सम्प्लुतोदक-स्थानीये परिसमाप्यते अन्तर्-भवति इत्यर्थः “यथा कृताय विजिताय अधरेऽयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत्किञ्चि प्रजाः साधु कुर्वन्ति, यस् तद् वेद यत् स वेद” (ChanU.4.1.4) इति श्रुतेः॥
tad, √vid, praṇipāta, paripraśna, sevā;
upa-√diś, yuṣmad, jñāna, jñānin, tattva-darśin.

Understand that (knowledge). By surrender (to the feet of the teacher, that is, with an attitude of acceptance of the teacher as a source of knowledge), by inquiry, and by service (to the teacher – as traditionally no tuition is charged during the study) the wise – who have the vision of the truth – will teach you this knowledge.
तद् [ज्ञानं] विद्धि। प्रणिपातेन परिप्रश्नेन सेवया ज्ञानिनः तत्त्व-दर्शिनः ते ज्ञानम् उपदेक्ष्यन्ति॥
तद् एतद् विशिष्टं ज्ञानं, तर्हि केन प्राप्यते? इत्य् उच्यते –
तद् विद्धि विजानीहि, येन विधिना प्राप्यते इति। आचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः दीर्घ-नमस्कारः तेन, ‘कथं बन्धः? कथं मोक्षः? का विद्या? का च अ-विद्या?’ इति परिप्रश्नेन, सेवया गुरु-शुश्रूषया एवम्-आदिना, प्रश्रयेण आवर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्त-विशेषणं ज्ञानिनः, ज्ञानवन्तोऽपि केचिद् यथावत् तत्त्व-दर्शन-शीलाः, अपरे न, अतो विशिनष्टि तत्त्व-दर्शिनः इति। ये सम्यग्-दर्शिनः तैः उपदिष्टं ज्ञानं कार्य-क्षमं भवति, न इतरद् इति भगवतो मतम्॥
yad, jñātvā, na, punar, moha, evam, √yā, pāṇḍava;
yad, bhūta, a-śeṣeṇa, √dṛś, ātman, atha-u, asmad.

Understanding this (knowledge), you will not again in this way become deluded, O Arjuna. By this (knowledge) you will see all beings in Me and even in yourself.
यद् ज्ञात्वा न पुनः एवं मोहं यास्यसि, पाण्डव। येन, अ-शेषेण भूतानि मयि अथ-उ आत्मनि द्रक्ष्यसि॥
तथा च सति, इदम् अपि समर्थं वचनम् –
यद् ज्ञात्वा यद् ज्ञानं तैः उपदिष्टं अधिगम्य प्राप्य (न) पुनः भूयः मोहम् एवं यथा इदानीं मोहं गतोऽसि पुनः एवं न यास्यसि हे पाण्डव। किञ्च येन ज्ञानेन भूतानि अ-शेषेण ब्रह्मादीनि स्तम्ब-पर्यन्तानि द्रक्ष्यसि साक्षाद् आत्मनि प्रत्यग्-आत्मनि ‘मत्-संस्थानि इमानि भूतानि’ इति अथो अपि मयि वासु-देवे ‘परमेश्वरे च इमानि’ इति, क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्-प्रसिद्धं द्रक्ष्यसि इत्यर्थः॥
api, ced, √as, pāpa, sarva, pāpa-kṛttama;
sarva, jñāna-plava, eva, vṛjina, sam-√tṝ.

Even if you are one who has done sins worse than any sinner, by the raft that is knowledge alone you will cross over all (forms of) karma demerit.
अपि चेद् सर्वेभ्यः पापेभ्यः पाप-कृत्तमः असि, ज्ञान-प्लवेन एव सर्वं वृजिनं [=पापं] सन्तरिष्यसि॥
किञ्च एतस्य ज्ञानस्य माहात्म्यम् –
अपि चेद् असि पापेभ्यः पाप-कृद्भ्यः सर्वेभ्यः अतिशयेन पाप-कृत् पाप-कृत्तमः सर्वं ज्ञान-प्लवेन एव ज्ञानम् एव प्लवं कृत्वा वृजिनं वृजिनार्णवं पापं सन्तरिष्यसि। धर्मोऽपि इह मुमुक्षोः पापम् उच्यते॥
yathā, edhas, samiddha, agni, bhasma-sāt, √kṛ, arjuna;
jñāna-agni, sarva-karman, bhasama-sāt, √kṛ, tathā.

O Arjuna, just as a well-ignited fire reduces logs to ashes, so this fire that is knowledge reduces all karmas (all results of karma waiting to fructify in the individual jīva’s karma account) to ashes.
अर्जुन, यथा समिद्धः अग्निः एधांसि भस्म-सात् कुरुते, तथा ज्ञान-अग्निः सर्व-कर्माणि भस्म-सात् कुरुते॥
ज्ञानं कथं नाशयति पापम् इति स-दृष्टान्तम् उच्यते –
यथा एधांसि काष्ठानि समिद्धः सम्यक् इद्धः दीप्तः अग्निः भस्मसाद् भस्मी-भावं कुरुते हे अर्जुन, एवं ज्ञानम् एव अग्निः ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा निर्-बीजी-करोति इत्यर्थः। न हि साक्षाद् एव ज्ञानाग्निः तानि कर्माणि इन्धनवद् भस्मी-कर्तुं शक्नोति। तस्मात् सम्यग्-दर्शनं सर्व-कर्मणां निर्-बीजत्वे कारणम् इत्यभिप्रायः। सामर्थ्याद् येन कर्मणा शरीरम् आरब्धं तत् प्रवृत्त-फलत्वाद् उपभोगेन एव क्षीयते, [“तस्य तावद् एव चिरं यावन् न विमोक्ष्येऽथ सम्पत्स्ये” (ChanU.6.14.2) इत्यि श्रुतेः]। अतो यानि अ-प्रवृत्त-फलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञान-सह-भावीनि च अतीतानेक-जन्म-कृतानि च तान्य् एव सर्वाणि भस्मसात् कुरुते॥
na, hi, jñāna, sa-dṛśa, pavitra, iha, √vid;
tad, svayam, yoga-saṃsidda, kāla, ātman, √vid.

In this world, indeed, there is no purifier equal to knowledge. In time, the one who is prepared by (karma-)yoga (and has a proper teacher) gains that (knowledge) easily in one’s (prepared) mind.
इह हि ज्ञानेन स-दृशं पवित्रं न विद्यते। कालेन योग-संसिद्धः आत्मनि स्वयं तद् [ज्ञानं] विन्दति॥
यतः एवम् अतः –
न हि ज्ञानेन स-दृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह विद्यतेतद् ज्ञानं स्वयम् एव योग-संसिद्धः योगेन कर्म-योगेन समाधि-योगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः॥
śrad-dhāvat, √labh, jñāna, tad-para, saṃyata-indriya;
jñāna, labdhvā, parā, śānti, a-cireṇa, adhi-√gam.

One who has trust (in this teaching as a valid means of knowledge), for whom that (knowledge) is the ultimate, and whose senses are mastered (by karma-yoga) – that one attains knowledge. Having gained knowledge, one immediately attains limitless peace.
श्रद्धावान् तत्-परः संयत-इन्द्रियः ज्ञानं लभते। ज्ञानं लब्ध्वा परां शान्तिम् अ-चिरेण अधिगच्छति॥
येन एकान्तेन ज्ञान-प्राप्तिः भवति स उपायः उपदिश्यते –
श्रद्धावान् श्रद्धालुः लभते ज्ञानम्। श्रद्धालुत्वेऽपि भवति कश्चिद् मन्द-प्रस्थानः, अत आह – तत्-परः, गुरूपासनादाव् अभियुक्तः ज्ञान-लब्ध्य्-उपाये। श्रद्धावान् तत्परः अपि अ-जितेन्द्रियः स्याद् इति, अतः आह – संयतेन्द्रियः, संयतानि विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः। य एवं-भूतः श्रद्धावान् तत्-परः संयतेन्द्रियश् च, सः अ-वश्यं ज्ञानं लभते। प्रणिपातादिस् तु बाह्योऽनैकान्तिकोऽपि भवति, मायावित्वादि-सम्भवाद्, न तु तत् श्रद्धावत्त्वादौ इत्य् एकान्ततः ज्ञान-लब्ध्य्-उपायः। किं पुनः ज्ञान-लाभात् स्याद्? इत्य् उच्यते – ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम् अ-चिरेण क्षिप्रम् एव अधिगच्छति। सम्यग्-दर्शनात् क्षिप्रम् एव मोक्षो भवति इति सर्व-शास्त्र-न्याय-प्रसिद्धः सु-निश्चितः अर्थः॥
a-jña, ca, a-śrad-dadhāna, ca, saṃśaya-ātman, vi-√naś;
na, idam, loka, √as, na, para, na, sukha, saṃśaya-ātman.

The nondiscerning, having no trust, whose mind is full of doubts – that one perishes (remains in the life of becoming, saṃsāra). For the one whose mind is full of doubts, this world is not there, nor the next, nor is there any happiness (because of constant doubts).
अ-ज्ञः च अ-श्रद्-दधानः च संशय-आत्मा [च] विनश्यति। संशय-आत्मनः अयं लोकः न अस्ति, न परः, न सुखम्॥
अत्र संशयः न कर्तव्यः, पापिष्ठो हि संशयः। कथम्? इति उच्यते –
अ-ज्ञश् च अन्-आत्म-ज्ञः अ-श्रद्दधानश् च गुरु-वाक्य-शास्त्रेषु अ-विश्वासवांश् च संशयात्मा च संशय-चित्तश् च विनश्यति। अज्ञाश्रद्दधानौ यद्य् अपि विनश्यतः, न तथा यथा संशयात्मा। संशयात्मा तु पापिष्ठः सर्वेषाम्। कथम्? न अयं साधारणोऽपि लोकोऽस्ति। तथा न परः लोकः। न सुखम्, तत्र अपि संशयोपपत्तेः (संशयोत्पत्तेः) संशयात्मनः संशय-चित्तस्य। तस्मात् संशयो न कर्तव्यः॥
yoga-sannyasta-karman, jñāna-sañchinna-saṃśaya;
ātmavat, na, karman, ni-√bandh, dhanam-jaya.

Actions do not bind the one who has renounced karma through (jñāna-)yoga (knowledge as the means even though engaged in activity), whose doubt has been completely severed by knowledge, and who is attentive (whose vision of reality is never lost), O Arjuna.
कर्माणि योग-सन्न्यस्त-कर्माणं ज्ञान-सञ्छिन्न-संशयम् आत्मवन्तं न निबध्नन्ति, धनञ्-जय॥
कस्मात्? –
योग-संन्यस्त-कर्माणं परमार्थ-दर्शन-लक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थ-दर्शिना धर्माधर्माख्यानि तं योग-संन्यस्त-कर्माणम्। कथं योग-संन्यस्त-कर्मा? इत्य् आह – ज्ञान-सञ्छिन्न-संशयं ज्ञानेन आत्मेश्वरैकत्व-दर्शन-लक्षणेन सञ्छिन्नः संशयो यस्य सः ज्ञान-सञ्छिन्न-संशयः, य एवं योग-संन्यस्त-कर्मा, तम्। आत्मवन्तम् अ-प्रमत्तं गुण-चेष्टा-रूपेण दृष्टानि कर्माणि न निबध्नन्ति अन्-इष्टादि-रूपं फलं न आरभन्ते, हे धनञ्-जय
tasmāt, a-jñāna-sambhūta, hṛd-stha, jñāna-asi, ātman;
chittvā, enad, saṃśaya, yoga, ā-√sthā, ud-√sthā, bhārata.

Therefore, severing with the sword that is knowledge this doubt about yourself (initially in regard to one’s duty, later in regard to oneself, ātmā), rooted in the intellect and born of a lack of discernment, commit to (karma-)yoga and get up, O Arjuna!
तस्माद् ज्ञान-असिना अ-ज्ञान-सम्भूतं हृत्-स्थम् एनम् आत्मनः संशयं छित्त्वा, योगम् आतिष्ठ, उत्तिष्ठ [च], भारत॥
यस्मात् कर्म-योगानुष्ठानाद् अ-शुद्धि-क्षय-हेतुक-ज्ञान-सञ्छिन्न-संशयः न निबध्यते कर्मभिः ज्ञानाग्नि-दग्ध-कर्मत्वाद् एव, यस्माच् च ज्ञान-कर्मानुष्ठान-विषये संशयवान् विनश्यति –
तस्मात् पापिष्ठम् अ-ज्ञान-सम्भूतम् अ-ज्ञानाद् अ-विवेकाद् जातं हृत्-स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोक-मोहादि-दोष-हरं सम्यग्-दर्शनं ज्ञानं तद् एव असिः खङ्गः तेन ज्ञानासिना आत्मनः स्वस्य, आत्म-विषयत्वात् संशयस्य। न हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन ‘स्वस्य’ इति विशेष्येत, अतः आत्म-विषयोऽपि स्वस्य एव भवति। छित्त्वा एनं संशयं स्व-विनाश-हेतु-भूतम्, योगं सम्यग्-दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुर्व् अत्यर्थः। उत्तिष्ठ च इदानीं युद्धाय भारत इति॥
इति श्रीमत्-परम-हंस-परिव्राजकाचार्य-गोविन्द-भगवत्-पूज्य-पाद-शिष्य-श्रीमच्-छङ्कर-भगवतः कृतौ श्री-भगवद्-गीता-भाष्ये ब्रह्म-यज्ञ-प्रशंसा-पर-नामा ज्ञान-कर्म-सन्न्यास-योगो नाम चतुर्थोऽध्यायः॥४॥
om, tad, sat. iti, śrīmat-bhagavat-gītā, upaniṣad, brahma-vidyā, yoga-śāstra, śrī-kṛṣṇa-arjuna-saṃvāda, jñāna-karma-sannyāsa-yoga, nāma, caturtha, adhyāya.
Om (brahman, the witness of all) is that (only) reality. Thus ends the forth chapter, called “The Topic of Knowledge and the Renunciation of Action,” of the (eighteen chapters of) Songs of the Glorious Lord, which is (looked upon as) sacred teaching (Upaniṣad) and (whose teaching is) in (the form of) a dialogue between Śrī Kṛṣṇa and Arjuna, (the subject matter being) knowledge of brahman and yoga.

Go to Top ('Home' key on many Windows browsers)

“कर्मण्य् अकर्म यः पश्येद्” (BhG.4.18) इत्यारभ्य “स युक्तः कृत्स्न-कर्म-कृत्” (BhG.4.18) “ज्ञानाग्नि-दग्ध-कर्माणम्” (BhG.4.19) “शारीरं केवलं कर्म कुर्वन्” (BhG.4.21) “यद्-ऋच्छा-लाभ-सन्तुष्टः” (BhG.4.22) “ब्रह्मार्पणं ब्रह्म हविः” (BhG.4.24) “कर्म-जान् विद्धि तान् सर्वान्” (BhG.4.32) “सर्वं कर्माखिलं पार्थ” (BhG.4.33) “ज्ञानाग्निः सर्व-कर्माणि” (BhG.4.37) “योग-संन्यस्त-कर्माणम्” (BhG.4.41) इत्य्-अन्तैः वचनैः सर्व-कर्म-सन्न्यासम् अवोचद् भगवान्।
“छित्त्वैनं संशयं योगम् आतिष्ठ (उत्तिष्ठ)” (BhG.4.42) इत्य् अनेन वचनेन ‘योगं च कर्मानुष्ठान-लक्षणम् अनुतिष्ठ’ इत्य् उक्तवान्।
तयोर् उभयोश् च कर्मानुष्ठान-कर्म-सन्न्यासयोः स्थिति-गतिवत् परस्पर-विरोधाद्, एकेन सह कर्तुम् अशक्यत्वात्, काल-भेदेन च अनुष्ठान-विधानाभावाद्, अर्थाद् एतयोः अन्यतर-कर्तव्यता-प्राप्तौ सत्यां, यत् प्रशस्यतरम् एतयोः कर्मानुष्ठान-कर्म-सन्न्यासयोः तत् कर्तव्यं न इतरद् इत्य् एवं मन्यमानः प्रशस्यतर-बुभुत्सया अर्जुन उवाच – “सन्न्यासं कर्मणां कृष्ण” (BhG.5.1) इत्यादिना।
ननु च आत्म-विदः ज्ञान-योगेन निष्ठां प्रतिपिपादयिषन् पूर्वोदाहृतैः वचनैः भगवान् सर्व-कर्म-सन्न्यासम् अवोचत्, न तु अन्-आत्म-ज्ञस्य। अतश् च कर्मानुष्ठान-कर्म-सन्न्यासयोः भिन्न-पुरुष-विषयत्वाद् अन्यतरस्य प्रशस्यतरत्व-बुभुत्सया प्रश्नः अन्-उपपन्नः।
सत्यम् एव त्वद्-अभिप्रायेण प्रश्नो न उपपद्यते, प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नः युज्यत एवेति वदामः।
कथम्? पूर्वोदाहृतैः वचनैः भगवता कर्म-सन्न्यासस्य कर्तव्यतया विवक्षितत्वात् प्राधान्यम्, अन्तरेण च कर्तारं तस्य कर्तव्यत्वासम्भवाद् अनात्म-विद् अपि कर्ता पक्षे प्राप्तः अनूद्यते एव, न पुनः आत्मवित्-कर्तृकत्वम् एव सन्न्यासस्य विवक्षितम् इति।
एवं मन्वान् ‘अस्य अर्जुनस्य कर्मानुष्ठान-कर्म-सन्न्यासयोः अविद्वत्-पुरुष-कर्तृकत्वम् अपि अस्ति’ इति पूर्वोक्तेन प्रकारेण ‘तयोः परस्पर-विरोधाद् अन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यम् न इतरद्’ इति प्रशस्यतर-विविदिषया प्रश्नः न अन्-उपपन्नः।
प्रतिवचन-वाक्यार्थ-निरूपणेनापि प्रष्टुः अभिप्रायः एवम् एवेति गम्यते।
कथम्? ‘सन्न्यास-कर्म-योगौ निःश्रेयस-करौ तयोस् तु कर्म-योगो विशिष्यते’ (BhG.5.2) इति प्रतिवचनम्।
एतद् निरूप्यम् – किं अनेन आत्मवित्-कर्तृकयोः सन्न्यास-कर्म-योगयोः निःश्रेयस-करत्वं प्रयोजनम् उक्त्वा, तयोर् एव कुतश्चिद् विशेषात् कर्म-सन्न्यासात् कर्म-योगस्य विशिष्टत्वम् उच्यते? आहोस्विद् अनात्मवित्-कर्तृकयोः सन्न्यास-कर्म-योगयोः तद्-उभयम् उच्यते? इति।
किञ् च अतः – यदि आत्मवित्-कर्तृकयोः सन्न्यास-कर्म-योगयोः निःश्रेयस-करत्वम्, तयोस् तु कर्म-सन्न्यासात् कर्म-योगस्य विशिष्टत्वम् उच्यते, यदि वा अनात्मवित्-कर्तृकयोः सन्न्यास-कर्म-योगयोः तद्-उभयम् उच्यते? इति।
अत्र उच्यते – आत्मवित्-कर्तृकयोः सन्न्यास-कर्म-योगयोः असम्भवात्, तयोः निःश्रेयस-करत्व-वचनं तदीयाच् च कर्म-सन्न्यासात् कर्म-योगस्य विशिष्टत्वाभिधानम् इत्य् एतद् उभयम् अन्-उपपन्नम्।
यदि अनात्म-विदः कर्म-सन्न्यासः तत्-प्रतिकूलश् च कर्मानुष्ठान-लक्षणः कर्म-योगः सम्भवेताम्, तदा तयोः निःश्रेयस-करत्वोक्तिः कर्म-योगस्य च कर्म-सन्न्यासाद् विशिष्टत्वाभिधानम् इत्य् एतद् उभयम् उपपद्यते।
आत्म-विदस् तु सन्न्यास-कर्म-योगयोः असम्भवात्, तयोः निःश्रेयस-करत्वाभिधानं कर्म-सन्न्यासाच् च कर्म-योगः विशिष्यते इति च अन्-उपपन्नम्।
अत्र आह – किम् आत्म-विदः सन्न्यास-कर्म-योगयोः उभयोर् अपि असम्भवः? आहोस्विद् अन्यतरस्य असम्भवः? यदा च अन्यतरस्य असम्भवः, तदा किं कर्म-सन्न्यासस्य, उत कर्म-योगस्य? इति, असम्भवे कारणं च वक्तव्यम्? इति।
अत्र उच्यते – आत्म-विदः निवृत्त-मिथ्या-ज्ञानत्वाद्, विपर्यय-ज्ञान-मूलस्य कर्म-योगस्य असम्भवः स्यात्।
जन्मादि-सर्व-विक्रिया-रहितत्वेन निष्-क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति – तस्य आत्म-विदः सम्यग्-दर्शनेन अपास्त-मिथ्या-ज्ञानस्य निष्-क्रियात्म-स्वरूपावस्थान-लक्षणं सर्व-कर्म-सन्न्यासम् उक्त्वा, तद्-विपरीतस्य मिथ्या-ज्ञान-मूल-कर्तृत्वाभिमान-पुरः-सरस्य स-क्रियात्म-स्वरूपावस्थान-रूपस्य कर्म-योगस्य इह शास्त्रे तत्र तत्र आत्म-स्वरूप-निरूपण-प्रदेशेषु सम्यग्-ज्ञान-मिथ्या-ज्ञान-तत्-कार्य-विरोधाद् अभावः प्रतिपाद्यते यस्मात्, तस्माद् आत्म-विदः निवृत्त-मिथ्या-ज्ञानस्य विपर्यय-ज्ञान-मूलः कर्म-योगो न सम्भवतीति युक्तम् उक्तं स्यात्।
केषु केषु पुनः आत्म-स्वरूप-निरूपण-प्रदेशेषु आत्म-विदः कर्माभावः प्रतिपाद्यते? इति।
अत्र उच्यते – “अविनाशि तु तत् विद्धि” (BhG.2.17) इति प्रकृत्य “य एनं वेत्ति हन्तारम्” (BhG.2.19) “वेदाविनाशिनं नित्यम्” (BhG.2.21) इत्यादौ तत्र तत्र आत्म-विदः कर्माभावः उच्यते।
ननु च कर्म-योगोऽपि आत्म-स्वरूप-निरूपण-प्रदेशेषु तत्र तत्र प्रतिपाद्यते एव, तद् यथा – “तस्माद् युध्यस्व भारत” (BhG.2.18) “स्व-धर्मम् अपि चावेक्ष्य” (BhG.2.3)“कर्मण्य् एवाधिकारस् ते” (BhG.2.47) इत्यादौ। अतश् च कथम् आत्म-विदः कर्म-योगस्य असम्भवः स्याद्? इति।
अत्र उच्यते – सम्यग्-ज्ञान-मिथ्या-ज्ञान-तत्-कार्य-विरोधात्।
“ज्ञान-योगेन साङ्ख्यानाम्” (BhG.3.3) इत्य् अनेन साङ्ख्यानाम् आत्म-तत्त्व-विदाम् अनात्म-वित्-कर्तृक-कर्म-योग-निष्ठातः निष्-क्रियात्म-स्वरूपावस्थान-लक्षणायाः ज्ञान-योग-निष्ठायाः पृथक्-करणात्।
कृत-कृत्यत्वेन आत्म-विदः प्रयोजनान्तराभावात्।
“तस्य कार्यं न विद्यते” (BhG.3.17) इति कर्तव्यान्तराभाव-वचनाच् च।
“न कर्मणाम् अनारम्भात्” (BhG.3.4) “सन्न्यासस् तु महा-बाहो दुःखम् आप्तुम् अयोगतः” (BhG.5.6) इत्यादिना च आत्म-ज्ञानाङ्गत्वेन कर्म-योगस्य विधानात्।
“योगारूढस्य तस्यैव शमः कारणम् उच्यते” (BhG.6.3) इत्य् अनेन च उत्पन्न-सम्यग्-दर्शनस्य कर्म-योगाभाव-वचनात्।
“शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम्” (BhG.4.21) इति च शरीर-स्थिति-कारणातिरिक्तस्य कर्मणो निवारणात्।
“नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्व-वित्” (BhG.5.8) इत्य् अनेन च शरीर-स्थितिमात्र-प्रयुक्तेष्व् अपि दर्शन-श्रवणादि-कर्मसु आत्म-याथात्म्य-विदः ‘करोमि’-इति-प्रत्ययस्य समाहित-चेतस्तया सदा अकर्तव्यत्वोपदेशात्।
आत्म-तत्त्व-विदः सम्यग्-दर्शन-विरुद्धो मिथ्या-ज्ञान-हेतुकः कर्म-योगः स्वप्नेऽपि न सम्भावयितुं शक्यते।
यस्मात् तस्माद् अनात्म-वित्-कर्तृकयोर् एव सन्न्यास-कर्म-योगयोः निःश्रेयस-करत्व-वचनम्; तदीयाच् च कर्म-सन्न्यासात् पूर्वोक्तात्म-वित्-कर्तृक-सर्व-कर्म-सन्न्यास-विलक्षणात्, सत्य् एव कर्तृत्व-विज्ञाने [गार्हस्थ्य-]कर्मैक-देश-विषयाद्, यम-नियमादि-सहितत्वेन च दुर्-अनुष्ठेयात् – सु-करत्वेन च कर्म-योगस्य विशिष्टत्वाभिधानम्, इति एवं प्रतिवचन-वाक्यार्थ-निरूपणेनापि पूर्वोक्तः प्रष्टुर् अभिप्रायः निश्चीयते इति स्थितम्।
“ज्यायसी चेत् कर्मणस् ते” (BhG.3.1) इत्य् अत्र ज्ञान-कर्मणोः सह असम्भवे “यच् छ्रेय एतयोः तद् मे ब्रूहि” (BhG.3.2) इत्य् एवं पृष्टोऽर्जुनेन भगवान् साङ्ख्यानां सन्न्यासिनां ज्ञान-योगेन निष्ठा पुनः कर्म-योगेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार।
“न च संन्यसनाद् एव केवलात् सिद्धिं समधिगच्छति” (BhG.3.4) इति वचनाज् ज्ञान-सहितस्य सिद्धि-साधनत्वम् इष्टम् कर्म-योगस्य च, विधानात्। ज्ञान-रहितस्य सन्न्यासः श्रेयान्, किं वा कर्म-योगः श्रेयान्? इति एतयोः विशेष-बुभुत्सया –
arjuna, √vac:
sannyāsa, karman, kṛṣṇa, punar, yoga, ca, √śaṃs;
yad, śreyas, etad, eka, tad, asmad, √brū, su-niścitam.

Arjuna said: O Kṛṣṇa, You praise the renunciation (sannyāsa) of action and also (karma-)yoga. Of these two, please tell me definitely that one which is better (for me who does not yet wise).
अर्जुनः उवाच। कृष्ण, कर्मणां सन्न्यासं पुनः योगं च शंससि। एतयोः यद् श्रेयः तद् एकं मे सु-निश्चितं ब्रूहि॥
सन्न्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठान-विशेषाणां शंससि कथयसि इत्येतत्। पुनः योगं च तेषाम् एव अनुष्ठानम् अवश्य-कर्तव्यं शंससि।
अतः मे ‘कतरत् श्रेयः’ इति संशयः – किं कर्मानुष्ठानं श्रेयः? किं वा तद्-धानम्? इति।
प्रशस्यतरं च अनुष्ठेयम्। अतश् च यत् श्रेयः प्रशस्यतरम् एतयोः कर्म-सन्न्यास-कर्मानुष्ठानयोः यद् अनुष्ठानात् श्रेयो-ऽवाप्तिः मम स्याद् इति मन्यसे, तद् एकम् अन्यतरत् सह-एक-पुरुषानुष्ठेयत्वासम्भवाद् मे ब्रूहि सु-निश्चितम् अभिप्रेतं तवेति॥
śrī-bhagavat, √vac:
sannyāsa, karma-yoga, ca, niḥśreyasa-kara, ubha;
tad, tu, karma-sannyāsa, karma-yoga, vi-√śiṣ.

The Lord said: Both (lifestyles of) sannyāsa and karma-yoga lead to complete freedom. But, of the two, karma-yoga is better than renunciation of action (for the unwise you, Arjuna).
श्री-भगवान् उवाच। सन्न्यासः कर्म-योगः च उभौ निःश्रेयस-करौ। तयोः तु कर्म-सन्न्यासात् [केवलात्, ज्ञान-रहितात् अधिकार-विहीनात् वा इत्यर्थः] कर्म-योगः [तव] विशिष्यते॥
स्वाभिप्रायम् आचक्षाणो निर्णयाय –
सन्न्यासः कर्मणां परित्यागः कर्म-योगश् च तेषाम् अनुष्ठानं तौ उभौ अपि निःश्रेयस-करौ निश्रेयसं मोक्षं कुर्वाते ज्ञानोत्पत्ति-हेतुत्वेन, उभौ यद्य्-अपि निःश्रेयस-करौ, तथापि तयोस् तु निःश्रेयस-हेत्वोः कर्म-सन्न्यासात् केवलात् कर्म-योगो विशिष्यते इति कर्म-योगं स्तौति॥
jñeya, tad, nitya-sannyāsin, yad, na, √dviṣ, na, √kāṅkṣ;
nis-dvam-dva, hi, mahā-bāhu, sukham, bandha, pra-√muc.

The (karma-yogī) who neither hates nor longs (for anything) should be known as always a sannyāsī (renunciate in quality, though not in lifestyle). Because, O Arjuna, being free from (the hold of) the opposites (rāga and dveṣa – binding likes and dislikes), one is effortlessly freed from bondage (i.e., easily qualified for knowledge).
यः [कर्म-योगी] न द्वेष्टि न काङ्क्षति, सः नित्य-सन्न्यासी ज्ञेयः। महा-बाहो, निर्-द्वन्-द्वः हि [=यस्मात्] बन्धात् सुखं प्रमुच्यते॥
कस्माद्? इति आह –
ज्ञेयः ज्ञातव्यः कर्म-योगी ‘नित्य-सन्न्यासी’ इति यो न द्वेष्टि किञ्चिन् न काङ्क्षति दुःख-सुखे तत्-साधने च। एवं-विधो यः, कर्मणि वर्तमानोऽपि स ‘नित्य-सन्न्यासी’ इति ज्ञातव्यः इत्यर्थः।
निर्-द्वन्-द्वः द्वन्-द्व-वर्जितः हि यस्माद् महा-बाहो सुखं बन्धाद् अन्-आयासेन प्रमुच्यते
sāṅkhya-yoga, pṛthak, bāla, pra-√vad, na, paṇḍita;
eka, api, āsthita, samyak, ubha, √vid, phala.

Children (that is, the nondiscerning), not the wise, claim that sāṅkhya (renunciation by knowlege) and (karma-)yoga are different. One who has completely followed just one (of the two) attains the common result of both.
बालाः साङ्ख्य-योगौ पृथक् प्रवदन्ति, न पण्डिताः। एकम् अपि सम्यक् आस्थितः उभयोः फलं विन्दते॥
सन्न्यास-कर्म-योगयोः भिन्न-पुरुषानुष्ठेययोः विरुद्धयोः फलेऽपि विरोधो युक्तः, न तु उभयोः निःश्रेयस-करत्वम् एव इति प्राप्ते, इदम् उच्यते –
साडङ्ख्य-योगौ पृथक् विरुद्ध-भिन्न-फलौ बालाः प्रवदन्ति, न पण्डिताः
पण्डितास् तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छन्ति।
कथम्? एकम् अपि साङ्ख्य-योगयोः सम्यक् आस्थितः सम्यग्-अनुष्ठितवान् इत्यर्थः उभयोः विन्दते फलम्
उभयोः तद् एव हि निःश्रेयसं फलम्, अतः न फले विरोधः अस्ति।
ननु ‘सन्न्यास-कर्म-योग’-शब्देन प्रस्तुत्य साडङ्ख्य-योगयोः फलैकत्वं कथम् इह अप्रकृतं ब्रवीति?
नैष दोषः – यद्यपि अर्जुनेन [अ-विद्वत्-]सन्न्यासं कर्म-योगं च केवलम् अभिप्रेत्य प्रश्नः कृतः, भगवांस् तु तद्-अपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तर-वाच्यतया प्रतिवचनं ददौ “साडङ्ख्य-योगौ” इति [विद्वत्-सन्न्यास-कर्म-योगौ अपि इत्यर्थः]।
तौ एव सन्न्यास-कर्म-योगौ ज्ञान-तद्-उपाय-सम-बुद्धित्वादि-संयुक्तौ [ज्ञान-संयुक्त-सन्न्यासः ज्ञान-उपाय-सम-बुद्धित्वादि-संयुक्त-कर्म-योगः च तौ इत्यर्थः] साडङ्ख्य-योग-शब्द-वाच्यौ इति भगवतो मतम्। अतः न अप्रकृत-प्रक्रिया इति॥
yad, sāṅkhya, pra-√āp, sthāna, tad, yoga, api, √gam;
eka, sāṅkhya, ca, yoga, ca, yad, √dṛś, tad, √dṛś.

The status (complete freedom – mokṣa) that is gained by those who renounce through knowledge is also gained by those who follow (karma-)yoga. One (really) sees, who sees that renunciation through knowledge (sāṅkhya) and (karma-)yoga are one (in result).
साङ्ख्यैः यद् स्थानं प्राप्यते, योगैः अपि तद् गम्यते। यः साङ्ख्यं च योगं च एकं पश्यति, सः पश्यति॥
एकस्यापि सम्यग्-अनुष्ठानात् कथम् उभयोः फलं विन्दते? इति उच्यते –
यत् साङ्ख्यैः ज्ञान-निष्ठैः सन्न्यासिभिः प्राप्यते स्थानं मोक्षाख्यम्, तद् योगैर् अपि
ज्ञान-प्राप्त्य्-उपायत्वेन ईश्वरे समर्प्य कर्माणि आत्मनः फलम् अन्-अभिसन्धाय अनुतिष्ठन्ति ये ते योगाः योगिनः तैर् अपि परमार्थ-ज्ञान-सन्न्यास-प्राप्ति-द्वारेण गम्यते इत्यभिप्रायः।
अतः एकं साडङ्ख्यं च योगं च यः पश्यति फलैकत्वात् स पश्यति सम्यक् पश्यतीत्यर्थः॥
sannyāsa, tu, mahā-bāhu, duḥkha, āptum, a-yogatas;
yoga-yukta, muni, brahman, na-cireṇa, adhi-√gam.

Whereas, O Arjuna, without (first following karma-)yoga, sannyāsa (as renunciation or as a lifestyle) is difficult to accomplish. The one who is contemplative (muni) who has been prepared through (karma-)yoga (in this life and/or prior lives) in no time attains brahman (limitless reality).
महा-बाहो, अ-योगतः तु [विद्वत्-]सन्न्यासः दुःखम् आप्तुम्। योग-युक्तः मुनिः न-चिरेण ब्रह्म [परम-अर्थ-सन्न्यासं ब्रह्म-आख्यम्] अधिगच्छति॥
एवं तर्हि योगात् सन्न्यास एव विशिष्यते, कथं तर्हि इदम् उक्तं “तयोस् तु कर्म-सन्न्यासात् कर्म-योगो विशिष्यते” (BhG.5.2) इति?
शृणु तत्र कारणम् – ‘त्वया पृष्टं केवलं कर्म-सन्न्यासं कर्म-योगं च अभिप्रेत्य, तयोः अन्यतरः कः श्रेयान्’ इति। तद्-अनुरूपं प्रतिवचनं ‘मया उक्तं कर्म-सन्न्यासात् कर्म-योगः विशिष्यते’ इति ज्ञानम् अनपेक्ष्य।
ज्ञानापेक्षस् तु सन्न्यासः ‘साडङ्ख्यम्’ इति मया अभिप्रेतः। परमार्थ-योगश् च स एव। यस् तु कर्म-योगः वैदिकः, स च तादर्थ्याद् ‘योगः’ ‘सन्न्यास’ इति च उपचर्यते। कथं तादर्थ्यम्? इति उच्यते –

सन्न्यासस् तु पारमार्थिकः हे महा-बाहो दुःखम् आप्तुं प्राप्तुम् अयोगतः योगेन विना।
योग-युक्तः वैदिकेन कर्म-योगेन ईश्वर-समर्पित-रूपेण फल-निरपेक्षेण युक्तः, मुनिः मननाद् ईश्वर-स्व-रूपस्य मुनिः, ब्रह्म – परमात्म-ज्ञान-लक्षणत्वात् प्रकृतः सन्न्यासः ब्रह्म उच्यते, “न्यास इति ब्रह्मा ब्रह्मा हि परः” (MahU.78) इति श्रुतेः – ब्रह्म परमार्थ-सन्न्यासं परमार्थ-ज्ञान-निष्ठा-लक्षणं न-चिरेण क्षिप्रम् एव अधिगच्छति प्राप्नोति। अतः मया उक्तम् “कर्म-योगो विशिष्यते” (BhG.5.2) इति॥
yoga-yukta, viśuddha-ātman, vijita-ātman, jita-indriya;
sarva-bhūta-ātma-bhūta-ātman, kurnat, api, na, √lip.

Prepared by (karma-)yoga, (thus) whose character is without defect, who has discipline over the body, who has mastered the senses, and (finally) whose self is (known as) the self of all beings – though performing action, that one is not affected.
योग-युक्तः विशुद्ध-आत्मा विजित-आत्मा जित-इन्द्रियः सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि न लिप्यते॥
यदा पुनः अयं सम्यग्-ज्ञान-प्राप्त्य्-उपायत्वेन –
योगेन युक्तः योग-युक्तः, विशुद्धात्मा विशुद्ध-सत्त्वः, विजितात्मा विजित-देहः, जितेन्द्रियश् च, सर्व-भूतात्म-भूतात्मा सर्वेषां ब्रह्मादीनां स्तम्ब-पर्यन्तानां भूतानाम् आत्म-भूतः आत्मा प्रत्यक्-चेतनो यस्य सः सर्व-भूतात्म-भूतात्मा सम्यग्-दर्शी इत्यर्थः।
स तत्र एवं वर्तमानः लोक-सङ्ग्रहाय कर्म कुर्वन्न् अपि न लिप्यते न कर्मभिः बध्यते इत्यर्थः॥
na, eva, ka-cid, √kṛ, iti, yukta, √man, tattva-vid;
paśyat, śṛṇvat, spṛśat, jighrat, aśnat, gacchat, svapat, śvasat.
pralapat, visṛsat, gṛhṇat, unmiṣat, nimiṣat, api;
indriya, indriya-artha, √vṛt, iti, dhārayat.

The contemplative knower of the truth, maintaining that the organs (of sense and action) engage in their objects, would (or should) think “I do not do anything,” even though seeing, hearing, touching, smelling, tasting, moving, reclining, breathing, talking, releasing, grasping, or opening and closing (the eyes).
इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् युक्तः तत्त्व-विद् – पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि – न एव किञ्-चिद् करोमि इति मन्येत॥
न च असौ परमार्थतः करोति इति अतः –
नैव किञ्चित् करोमि इति युक्तः समाहितः सन् मन्येत चिन्तयेत्, तत्त्व-विद् आत्मनो याथात्म्यं तत्त्वं वेत्ति इति तत्त्व-वित् परमार्थ-दर्शी इत्यर्थः।
कदा कथं वा तत्त्वम् अवधारयन् मन्येत? इति उच्यते –
पश्यन्न् इति। ‘मन्येत’ इति पूर्वेण सम्बन्धः। यस्य एवं तत्त्व-विदः सर्व-कार्य-करण-चेष्टासु कर्मसु अकर्म एव पश्यतः सम्यग्-दर्शिनः, तस्य सर्व-कर्म-सन्न्यासे एव अधिकारः, कर्मणः अभाव-दर्शनात्।
न हि मृग-तृष्णिकायाम् उदक-बुद्ध्या पानाय प्रवृत्तः उदकाभाव-ज्ञानेऽपि तत्रैव पान-प्रयोजनाय प्रवर्तते॥
brahman, ādhāya, karman, saṅga, tyaktvā, √kṛ, yad;
√lip, na, tad, pāpa, padma-patra, iva, ambhas.

Giving up attachment (not anticipating results), the one who performs actions, offering (them) unto brahman (the Lord – as prakṛti, nature, the cosmic order) – that one is not affected by karma demerit (pāpa), like a lotus leaf (is not soaked) by water.
यः सङ्गं त्यक्त्वा कर्माणि ब्रह्मणि आधाय करोति, सः पद्म-पत्रम् अम्भसा इव पापेन न लिप्यते॥
यस् तु पुनः अतत्त्व-वित् प्रवृत्तश् च कर्म-योगे –
ब्रह्मणि ईश्वरे आधाय निक्षिप्य ‘तद्-अर्थं कर्म करोमि’ इति भृत्य इव स्वाम्य्-अर्थं सर्वाणि कर्माणि मोक्षेऽपि फले सङ्गं त्यक्त्वा करोति यः सर्व-कर्माणि लिप्यते न स पापेन न सम्बध्यते पद्म-पत्रम् इव अम्भसा उदकेन॥
kāya, manas, buddhi, kevala, indriya, api;
yogin, karman, √kṛ, saṅga, tyaktvā, ātma-śuddhi.

Giving up attachment, the (karma-)yogīs perform action with their body, mind, intellect, and senses only (not by “I”), for ātma-śuddhi (transparency/clarity of character/mind).
योगिनः सङ्गं त्यक्त्वा आत्म-शुद्धये केवलैः कायेन मनसा बुद्ध्या इन्द्रियैः अपि कर्म कुर्वन्ति॥
केवलं सत्त्व-शुद्धिमात्र-फलम् एव तस्य कर्मणः स्यात्, यस्मात् –
कायेन देहेन मनसा बुद्ध्याकेवलैः ममत्व-वर्जितैः ‘ईश्वराय एव कर्म करोमि, न मम फलाय’ इति ममत्व-बुद्धि-शून्यैः इन्द्रियैर् अपि – केवल-शब्दः कायादिभिर् अपि प्रत्येकं सम्बध्यते – सर्व-व्यापारेषु ममता-वर्जनाय। योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फल-विषयम् आत्म-शुद्धये सत्त्व-शुद्धये इत्यर्थः।
तस्मात् तत्र एव तव अधिकारः इति कुरु कर्म एव॥
yukta, karma-phala, tyaktvā, śānti, √āp, naiṣṭhikī;
a-yukta, kāma-kāra, phala, sakta, ni-√bandh.

Giving up (the notion of control – adhikāratva) (over) the result of action, the (karma-)yogī attains a peace born of (the degree of) commitment; (whereas) with no (commitment to) karma-yoga, attached to results by the pressure of requirements, that one is bound.
युक्तः कर्म-फलं त्यक्त्वा नैष्ठिकीं शान्तिम् आप्नोति। अ-युक्तः काम-कारेण फले सक्तः निबध्यते॥
यस्माच् च –
युक्तः ‘ईश्वराय कर्माणि, न मम फलाय’ इत्य् एवं समाहितः सन् कर्म-फलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवाम्।
सत्त्व-शुद्धि-ज्ञान-प्राप्ति-सर्व-कर्म-सन्न्यास-ज्ञान-निष्ठा-क्रमेणेति वाक्यशेषः।
यस् तु पुनः अयुक्तः असमाहितः काम-कारेण करणं कारः कामस्य कारः काम-कारः तेन काम-कारेण, काम-प्रेरिततया इत्यर्थः, ‘मम फलाय इदं करोमि कर्म’ इति एवं फले सक्तः निबध्यते। अतः त्वं युक्तो भव इत्यर्थः॥
sarva-karman, manas, sannyasya, √ās, sukham, vaśin;
nava-dvāra, pūra, dehin, na, eva, kurvat, na, kārayat.

The embodied one who has self-control, renouncing all actions through the mind (by knowledge, not by bodily inaction), remains happy within the nine-gated city (the body with its nine apertures), neither doing nor causing activity.
वशी देही मनसा सर्व-कर्माणि सन्न्यस्य न एव कुर्वन् न कारयन् नव-द्वारे पुरे सुखम् आस्ते॥
यस् तु परमार्थ-दर्शी सः –
सर्वाणि कर्माणि सर्व-कर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा विवेक-बुद्ध्या, कर्मादौ अकर्म-सन्दर्शनेन सन्त्यज्य इत्यर्थः, आस्ते तिष्ठति सुखम्
त्यक्त-वाङ्-मनः-काय-चेष्टः निर्-आयासः प्रसन्न-चित्तः आत्मनः अन्यत्र निवृत्त-सर्व-बाह्य-प्रयोजनः इति “सुखम् आस्ते” इत्युच्यते।
वशी जितेन्द्रिय इत्यर्थः। क्व कथम् आस्ते? इति, आह –
नव-द्वारे पुरे। सप्त शीर्षण्यानि आत्मन उपलब्धि-द्वाराणि, अवाक् द्वे मूत्र-पुरीष-विसर्गार्थे, तैः द्वारैः नव-द्वारं पुरम् उच्यते शरीरम्, पुरम् इव पुरम्, आत्मैक-स्वामिकम्, तद्-अर्थ-प्रयोजनैश् च इन्द्रिय-मनो-बुद्धि-विषयैः अनेक-फल-विज्ञानस्य उत्पादकैः पौरैर् इव अधिष्ठितम्। तस्मिन् नव-द्वारे पुरे देही सर्वं कर्म संन्यस्य आस्ते।
किं विशेषणेन? सर्वो हि देही सन्न्यासी असन्न्यासी वा देहे एव आस्ते, तत्र अनर्थकं विशेषणम् इति।
उच्यते – यस् तु अज्ञः देही देहेन्द्रिय-सङ्घात-मात्रात्म-दर्शी स सर्वोऽपि ‘गेहे भूमौ आसने वा आसे’ इति मन्यते। न हि देह-मात्रात्म-दर्शिनः गेहे इव देहे आसे इति प्रत्ययः सम्भवति।
देहादि-सङ्घात-व्यतिरिक्तात्म-दर्शिनस् तु ‘देहे आसे’ इति प्रत्ययः उपपद्यते।
पर-कर्मणां च परस्मिन् आत्मनि अविद्यया अध्यारोपितानां विद्यया विवेक-ज्ञानेन मनसा सन्न्यास उपपद्यते।
उत्पन्न-विवेक-ज्ञानस्य सर्व-कर्म-सन्न्यासिनोऽपि गेहे इव देहे एव नव-द्वारे पुरे आसनम् प्रारब्ध-फल-कर्म-संस्कार-शेषानुवृत्त्या देह एव विशेष-विज्ञानोत्पत्तेः।
देहे एव आस्ते इति अस्ति एव विशेषण-फलम्, विद्वद्-अविद्वत्-प्रत्यय-भेदापेक्षत्वात्।
यदि अपि कार्य-करण-कर्माणि अविद्यया आत्मनि अध्यारोपितानि संन्यस्य आस्ते इत्युक्तम्, तथापि आत्म-समवायि तु कर्तृत्वं कारयितृत्वं च स्याद् इति आशङ्क्य आह –
नैव कुर्वन् स्वयम्, च कार्य-करणानि कारयन् क्रियासु प्रवर्तयन्।
किं यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्म-समवायि सत् सन्न्यासाद् न सम्भवति, यथा गच्छतो गतिः गमन-व्यापार-परित्यागे न स्यात् तद्वत्? किं वा स्वत एव आत्मनः न अस्ति इति?
अत्र उच्यते – न अस्ति आत्मनः स्वतः कर्तृत्वं कारयितृत्वं च। उक्तं हि “अविकार्योऽयम्…उच्यते” (BhG.2.25) “शरीर-स्थोऽपि न करोति न लिप्यते” (BhG.13.31) इति। “ध्यायति इव लेलायति इव” (BrhU.4.3.7) इति श्रुतेः॥
na, kartṛtva, na, karman, loka, √sṛj, prabhu;
na, karma-phala-saṃyoga, sva-bhāva, tu, pra-√vṛt.

The master (of the nine-gated city, and who is ātmā) effects neither doership nor actions (or objects) for the person, nor connection with (attainment of) the results of action; whereas the person’s constitution (aparā prakṛti, the complex of the guṇas) engages in action.
प्रभुः लोकस्य न कर्तृत्वं न कर्माणि न कर्म-फल-संयोगं सृजति स्व-भावः तु प्रवर्तते॥
किञ्च –
न कर्तृत्वं स्वतः ‘कुरु’ इति अपि कर्माणि रथ-घट-प्रासादादीनि ईप्सिततमानि लोकस्य सृजति उत्पादयति प्रभुः आत्मा। नापि रथादि कृतवतः तत्-फलेन संयोगं न कर्म-फल-संयोगम्
यदि किञ्चिद् अपि स्वतः न करोति न कारयति च देही, कः तर्हि कुर्वन् कारयंश् च प्रवर्तते इति, उच्यते।
स्व-भावस् तु स्वो भावः स्व-भावः अविद्या-लक्षणा प्रकृतिः माया प्रवर्तते “दैवी हि” (BhG.7.14) इत्यादिना वक्ष्यमाणा॥
na, ā-√dā, ka-cid, pāpa, na, ca, eva, su-kṛta, vubhu;
a-jñāna, āvṛta, jñāna, tad, √muh, jantu.

The locationless (self – ātmā) takes on neither the karma demerit nor merit of anyone (whether of a jñānī, a karma-yogī or a non-karma-yogī). Knowledge is covered by ignorance and, because of that, individuals are deluded (thinking, ‘I have merit or demerit’).
विभुः कस्य-चिद् न पापं न च एव सु-कृतम् आदत्ते। अ-ज्ञानेन ज्ञानम् आवृतं, तेन जन्तवः मुह्यन्ति॥
परमार्थतस् तु –
न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम्न चैव आदत्ते सु-कृतं भक्तैः प्रयुक्तं विभुः
किम्-अर्थं तर्हि भक्तैः पूजादि-लक्षणं याग-दान-होमादिकं च सु-कृतं प्रयुज्यते इत्य् आह –
अज्ञानेन आवृतं ज्ञानं विवेक-विज्ञानम्, तेन मुह्यन्ति “करोमि कारयामि भोक्ष्ये भोजयामि” इत्य् एवं मोहं गच्छन्ति अविवेकिनः संसारिणो जन्तवः
jñāna, tu, tad, a-jñāna, yad, nāśita, ātman;
tad, ādityavat, jñāna, pra-√kāś, tad, para.

Whereas, for those whose very ignorance is destroyed by knowledge of the self, this knowledge, like the sun, reveals (the fact that their self-evident self is) that limitless (reality – brahman).
येषां तु आत्मनः ज्ञानेन तद् अ-ज्ञानं नाशितं, तेषां ज्ञानम् आदित्यवत् तद् परं प्रकाशयति॥
ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवः तद् अज्ञानं येषां जन्तूनां विवेक-ज्ञानेन आत्म-विषयेण नाशितम् आत्मनः भवति, तेषाम् आदित्यवद् यथा आदित्यः समस्तं रूप-जातम् अवभासयति तद्वज् ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत् परं परमार्थ-तत्त्वम्॥
tad-buddhi, tad-ātman, tad-niṣṭha, tad-para-ayana;
√gam, a-punar-āvṛti, jñāna-nirdhūta-kalmaṣa.

Those whose intellect (knowledge) has attained that (brahman), (because) self is (recognized as) that (brahman), (because) commitment is in that (brahman), (because) having that (brahman) as the ultimate end – (thus) having impurities shaken off by knowledge they gain no rebirth.
तद्-बुद्धयः तद्-आत्मानः तन्-निष्ठाः तत्-पर-अयणाः – ज्ञान-निर्धूत-कल्मषाः अ-पुनर्-आवृत्तिं गच्छन्ति॥
यत् परं ज्ञानं प्रकाशितम् –
तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्-बुद्धयः, तद्-आत्मानः तद् एव परं ब्रह्म आत्मा येषां ते तद्-आत्मानः, तन्-निष्ठाः निष्ठा अभिनिवेशः तात्पर्यं सर्वाणि कर्माणि संन्यस्य ब्रह्मण्य् एव अवस्थानं येषां ते तन्-निष्ठाः।
तत्-परायणाश् च तद् एव परम् अयनं परा गतिः येषां भवति ते तत्-परायणाः केवलात्म-रतय इत्यर्थः। येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते गच्छन्ति एवं-विधाः अ-पुनर्-आवृत्तिम् अ-पुनर्-देह-सम्बन्धं ज्ञान-निर्धूत-कल्मषाः यथोक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापादि-संसार-कारण-दोषः येषां ते ज्ञान-निर्धूत-कल्मषाः यतयः इत्यर्थः॥
vidyā-vinaya-sampanna, brāhmaṇa, go, hastin;
śvan, ca, eva, śva-pāka, ca, paṇḍita, sama-darśin.

These wise people see sama (the same one – immutable brahman – in all beings): in a brāhmaṇa person endowed with knowledge and discretion, in a cow, an elephant, a dog, and a dog-eater (that is, one who lives outside the cultural norms of Veda society).
विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च श्व-पाके च एव सम-दर्शिनः पण्डिताः॥
येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्ति? इत्य् उच्यते –
विद्या-विनय-सम्पन्ने विद्या च विनयश् च विद्या-विनयौ, विनयः उपशमः, ताभ्यां विद्या-विनयाभ्यां सम्पन्नः विद्या-विनय-सम्पन्नः विद्वान् विनीतश् च यो ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि च एव श्व-पाके च पण्डिताः समदर्शिनः
विद्या-विनय-सम्पन्ने उत्तम-संस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि संस्कार-हीनायां, अत्यन्तम् एव केवल-तामसे हस्त्य्-आदौ च, सत्त्वादि-गुणैः तज्-जैश् च संस्कारैः, तथा राजसैः, तथा तामसैश् च संस्कारैः अत्यन्तम् एव अस्पृष्टं समम् एकम् अविक्रियं तद् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः॥
iha, eva, tad, jita, sarga, yad, sāmya, sthita, manas;
nis-doṣa, hi, sama, brahman, tasmāt, brahman, tad, sthita.

Those whose mind is rooted in what is by nature sama (the same) win over birth here itself. Because the defectless brahman is sama (the same), therefore they abide in brahman (reality).
येषां मनः साम्ये स्थितम्, इह एव तैः सर्गः जितः। निर्-दोषं हि [=यस्मात्] ब्रह्म समं, तस्मात् ते ब्रह्मणि स्थिताः॥
ननु अ-भोज्यान्नाः ते दोषवन्तः, “सम-असमाभ्यां विषम-समे पूजातः” (GautSmr.2.8.20, 17.18) इति स्मृतेः।
न ते दोषवन्तः। कथम्? –

इह एव जीवद्भिर् एव तैः सम-दर्शिभिः पण्डितैः जितः वशी-कृतः सर्गः जन्म, येषां साम्ये सर्व-भूतेषु ब्रह्मणि (ब्रह्मणः) सम-भावे स्थितं निश्चली-भूतं मनः अन्तःकरणम्।
निर्-दोषं यद्य्-अपि दोषवत्सु श्व-पाकादिषु मूढैः तद्-दोषैः दोषवद् इव विभाव्यते, तथापि तद्-दोषैः अस्पृष्टम् इति निर्-दोषं दोष-वर्जितं हि यस्मात्।
न अपि स्व-गुण-भेद-भिन्नम्, निर्-गुणत्वाच् चैतन्यस्य। वक्ष्यति च भगवान् “इच्छा” आदीनां (BhG.13.6) क्षेत्र-धर्मत्वम्, “अन्-आदित्वान् निर्-गुणत्वात्” (BhG.13.31) इति च। न अपि [वैशेषिक-दर्शिनाम्] अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रति-शरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः।
अतः समं ब्रह्म एकं च। तस्माद् ब्रह्मणि एव ते स्थिताः। तस्माद् न दोष-गन्धमात्रम् अपि तान् स्पृशति, देहादि-सङ्घातात्म-दर्शनाभिमाना(सं)भावात् तेषाम्। देहादि-सङ्घातात्म-दर्शनाभिमानवद्-विषयं तु तत् सूत्रम् “समासमाभ्यां विषमसमे पूजातः” (GautSmr.2.8.20) इति, पूजा-विषयत्वेन विशेषणात्।
दृश्यते हि ब्रह्म-वित् षड्-अङ्गवित् चतुर्-वेदविद् इति पूजा-दानादौ गुण-विशेष-सम्बन्धः कारणम्।
ब्रह्म तु सर्व-गुण-दोष-सम्बन्ध-वर्जितम् इति, अतः “ब्रह्मणि ते स्थिताः” इति युक्तम्।
कर्म-विषयं च “समासमाभ्याम्” (GautSmr.2.8.20) इत्यादि। इदं तु सर्व-कर्म-सन्न्यास-विषयं प्रस्तुतम्, “सर्व-कर्माणि मनसा” (BhG.5.13) इत्य्-आरभ्य आ अध्याय-परिसमाप्तेः॥
na, pra-√hṛṣ, priya, prāpya, na, ud-√vij, prāpya, ca, a-priya;
sthira-buddhi, a-sammūḍha, brahma-vid, brahman, sthita.

The one who knows brahman, who is established in brahman, whose knowledge is without doubts, and who is no longer deluded would not be elated at obtaining what is liked, nor agitated at obtaining what is disliked.
ब्रह्म-विद् [श्रवनवान्] स्थिर-बुद्धिः [मननवान्] अ-सम्मूढः [निदिध्यासनवान्] [च] [अतः] ब्रह्मणि स्थितः [यः], [सः] प्रियं प्राप्य न प्रहृष्येत् अ-प्रियं च प्राप्य न उद्विजेत्॥
यस्माद् निर्-दोषं समं ब्रह्म आत्मा, तस्मात् –
न प्रहृष्येत् प्रहर्षं न कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा। न उद्विजेत् प्राप्य च अप्रियम् अन्-इष्टं लब्ध्वा।
देहमात्रात्म-दर्शिनां हि प्रियाप्रिय-प्राप्ती हर्ष-विषादौ कुर्वाते, न केवलात्म-दर्शिनः, तस्य प्रियाप्रिय-प्राप्त्य्-असम्भवात्।
किञ्च – “सर्व-भूतेषु एकः समः निर्-दोषः आत्मा” इति स्थिरा निर्-विचिकित्सा बुद्धिः यस्य सः स्थिर-बुद्धिः असंमूढः संमोह-वर्जितश् च स्याद् यथोक्त-ब्रह्म-विद् ब्रह्मणि स्थितः, अकर्म-कृत् सर्व-कर्म-सन्न्यासी इत्यर्थः॥
bāhya-sparśa, a-sakta-ātman, √vid, ātman, yad, sukha;
tad, brahma-yoga-yukta-ātman, sukha, akṣaya, √aś.

The one whose mind is (relatively or absolutely) not attached to external sense objects finds (relative or absolute) happiness in the self. That one whose mind is endowed with clear knowledge of brahman attains the fulfillment (sukha) that does not wane, (attains mokṣa).
यद् बाह्य-स्पर्शेषु अ-सक्त-आत्मा, [सः] आत्मनि सुखं विन्दति। सः ब्रह्म-योग-युक्त-आत्मा अ-क्षयं सुखम् अश्नुते॥
किञ्च, ब्रह्मणि स्थितः –
बाह्य-स्पर्शेषु बाह्याश् च ते स्पर्शाश् च बाह्य-स्पर्शाः स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्य-स्पर्शेषु असक्तः आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा, विषयेषु प्रीति-वर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तद् विन्दति इत्येतत्।
स ब्रह्म-योग-युक्तात्मा ब्रह्मणि योगः समाधिः ब्रह्म-योगः तेन ब्रह्म-योगेन युक्तः समाहितः तस्मिन् व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्म-योग-युक्तात्मा, सुखम् अक्षयम् अश्नुते व्याप्नोति।
तस्माद् बाह्य-विषय-प्रीतेः क्षणिकायाः इन्द्रियाणि निवर्तयेद् आत्मनि अक्षय-सुखार्थी इत्यर्थः॥
yad, hi, saṃsparśa-ja, yoga, duḥkha-yoni, eva, tad;
ādi-antavat, kaunteya, na, tad, √ram, budha.

O Arjuna, because those experiences are born of sense objects, are sources of pain alone (immeasurably less than the sukha, the fulfillment that does not wane) and have a beginning and end – the wise one does not revel in those (experiences).
कौन्तेय, ये हि [=यस्मात्] संस्पर्श-जाः भोगाः, ते दुःख-योनयः एव आदि-अन्तवन्तः, [तस्मात्] बुधः तेषु न रमते॥
इतश् च निवर्तयेत् –
ये हि यस्मात् संस्पर्श-जाः विषयेन्द्रिय-संस्पर्शेभ्यो जाताः भोगा भुक्तयः दुःख-योनय एव ते, अविद्या-कृतत्वात्। दृश्यन्ते हि आध्यात्मिकादीनि दुःखानि तन्-निमित्तान्य् एव।
यथा इह-लोके तथा पर-लोकेऽपि इति गम्यते “एव”-शब्दात्।
न संसारे सुखस्य गन्धमात्रम् अपि अस्ति इति बुद्ध्वा विषय-मृग-तृष्णिकाया इन्द्रियाणि निवर्तयेत्।
न केवलं दुःख-योनय एव, आद्य्-अन्तवन्तश् च, आदिः विषयेन्द्रिय-संयोगो भोगानाम् अन्तश् च तद्-वियोग एव।
अतः आद्यन्तवन्तः, अनित्याः मध्य-क्षण-भावित्वाद् इत्यर्थः।
कौन्तेय, न तेषु भोगेषु रमते बुधः विवेकी अवगत-परमार्थ-तत्त्वः, अत्यन्त-मूढानाम् एव हि विषयेषु रतिः दृश्यते, यथा पशु-प्रभृतीनाम्॥
√śak, iha, eva, yad, soḍhum, prāk, śarīra-vimokṣaṇa;
kāma-krodha-udbhava, vega, tad, yukta, tad, sukhin, nara.

The one who is able to withstand here itself the force born of requiring (kāma) and anger (krodha) before release from the body (before death), is a karma-yogī. That one is a happy person.
यः प्राक् शरीर-विमोक्षणात् काम-क्रोध-उद्भवं वेगम् इह एव सोढुं शक्नोति, सः युक्तः [कर्म-योगिन् इत्यर्थः]। सः सुखी नरः॥
अयं च श्रेयो-मार्ग-प्रतिपक्षी कष्टतमो दोषः सर्वानर्थ-प्राप्ति-हेतुः दुर्-निवारश् च, इति तत्-परिहारे यत्नाधिक्यं कर्तव्यम् इत्य आह भगवान् –
शक्नोति उत्सहते इहैव जीवन्न् एव यः सोढुं प्रसहितुं प्राक् पूर्वं शरीर-विमोक्षणाद् आ मरणाद् इत्यर्थः।
मरण-सीमा-करणं जीवतोऽवश्यम्-भावि हि काम-क्रोधोद्भवो वेगः, अनन्त-निमित्तवान् हि सः इति, यावद् मरणं तावन् न विस्रम्भणीय इत्यर्थः।
कामः इन्द्रिय-गोचर-प्राप्ते इष्टे विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुख-हेतौ या गर्धिः तृष्णा स कामः।
क्रोधश् च आत्मनः प्रतिकूलेषु दुःख-हेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः सः क्रोधः।
तौ काम-क्रोधौ उद्भवो (उद्भवौ) यस्य वेगस्य सः काम-क्रोधोद्भवः वेगः। रोमाञ्चन-प्रहृष्ट-नेत्र-वदनादि-लिङ्गः अन्तःकरण-प्रक्षोभ-रूपः कामोद्भवो वेगः, गात्र-प्रकम्प-प्रस्वेद-सन्दष्टोष्ठ-पुट-रक्त-नेत्रादि-लिङ्गः क्रोधोद्भवो वेगः।
तं काम-क्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम्, सः युक्तः योगी सुखी च इह लोके नरः
yad, antar-sukha, antar-ārāma, tathā, antar-jyotis, eva, yad;
tad, yogin, brahma-nirvāṇa, brahma-bhūta, adhi-√gam.

Whose fulfillment is within (the self), whose reveling is within (the self), and whose mind is within (centered on the self) only – that one is a yogī who, being brahman, gains liberation in/as brahman, (gains mokṣa, i.e., being free while alive remains free upon death).
यः अन्तः-सुखः अन्तर्-आरामः तथा यः अन्तर्-ज्योतिः, सः एव योगी ब्रह्म-भूतः ब्रह्म-निर्वाणम् अधिगच्छति॥
कथं-भूतश् च ब्रह्मणि स्थितः ब्रह्म प्राप्नोति इति आह भगवान् –
यः अन्तः-सुखः अन्तर् आत्मनि सुखं यस्य सः अन्तः-सुखः, तथा अन्तर् एव आत्मनि आरामः आरमणं क्रीडा यस्य सः अन्तर्-आरामः, तथा एव अन्तर् एव आत्मन्य् (एव) ज्योतिः प्रकाशो यस्य सः अन्तर्-ज्योतिर् एव
यः ई-दृशः सः योगी ब्रह्म-निर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्न् एव ब्रह्म-भूतः सन् अधिगच्छति प्राप्नोति॥
√labh, brahma-nirvāṇa, ṛṣi, kṣīṇa-kalmaṣa;
chinna-dvaidha, yata-ātman, sarva-bhūta-hita, rata.

Whose impediments have been (sufficiently) destroyed (by karma-yoga), who have (sufficiently) mastered themselves (their body-mind complex, by aṣṭāṅga-yoga and upāsana), who are happily engaged in the good of all beings, whose doubts have been resolved – becoming wise (ṛṣis) they gain liberation in/as brahman.
क्षीण-कल्मषाः यत-आत्मानः सर्व-भूत-हिते रताः छिन्न-द्वैधाः – ऋषयः ब्रह्म-निर्वाणं लभन्ते॥
किञ्च –
लभन्ते ब्रह्म-निर्वाणं मोक्षम् ऋषयः सम्यग्-दर्शिनः सन्न्यासिनः क्षीण-कल्मषाः क्षीण-पापादि-दोषाः छिन्न-द्वैधाः छिन्न-संशयाः यतात्मानः संयतेन्द्रियाः सर्व-भूत-हिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रताः अहिंसका इत्यर्थः॥
kāma-krodha-viyukta, yati, yata-cetas;
abhitas, brahma-nirvāṇa, √vṛt, vidita-ātman.

For the one who makes (proper) effort – free from requirements/anticipations and anger, whose mind is mastered and whose self is known – there is liberation in/as brahman both (here and hereafter, that is, before and after the death of the body).
काम-क्रोध-वियुक्तानां यत-चेतसां विदित-आत्मनां यतीनाम् अभितः ब्रह्म-निर्वाणं वर्तते॥
किञ्च –
काम-क्रोध-वियुक्तानां कामश् च क्रोधश् च काम-क्रोधौ ताभ्यां वियुक्तानां यतीनां सन्न्यासिनां यत-चेतसां संयतान्तःकरणानाम् अभितः उभयतः जीवतां मृतानां च ब्रह्म-निर्वाणं मोक्षो वर्तते विदितात्मनां विदितः ज्ञातः आत्मा येषां ते विदितात्मानः तेषां विदितात्मनां सम्यग्-दर्शिनाम् इत्यर्थः॥
sparśa, kṛtvā, bahis, bāhya, cakṣus, ca, eva, antare, bhrū;
prāna-apāna, sama, kṛtvā, nāsā-abhyantara-cārin.
yata-indriya-manas-buddhi, muni, mokṣa-para-ayana;
vigata-icchā-bhaya-krodha, yad, sadā, mukta, eva, tad.

Keeping external the external sense objects and the vision within the eyebrows (that is, the eyes shut), keeping (naturally) equal the exhalation and inhalation moving within the nostrils, the one who is contemplative – whose senses, mind, and intellect are mastered (enough to sit in meditation), having complete freedom (mokṣa) as the ultimate end, from whom are (mostly or completely) gone requiring/anticipating, fear and anger – that one (who sits in meditation, contemplating this teaching) is always liberated indeed.
बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः च भ्रुवोः अन्तरे एव [कृत्वा], नासा-अभ्यन्तर-चारिणौ प्राण-अपानौ समौ कृत्वा, यः मुनिः यत-इन्द्रिय-मनो-बुद्धिः मोक्ष-पर-अयणः विगत-इच्छा-भय-क्रोधः, सः सदा मुक्तः एव॥
सम्यग्-दर्शन-निष्ठानां सन्न्यासिनां सद्यो मुक्तिः उक्ता। कर्म-योगश् च ईश्वरार्पित-सर्व-भावेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः सत्त्व-सुद्धि-ज्ञान-प्राप्ति-सर्व-कर्म-सन्न्यास-क्रमेण मोक्षाय इति भगवान् पदे पदे अब्रवीद्, वक्ष्यति च।
अथ इदानीं ध्यान-योगं सम्यग्-दर्शनस्य अन्तर्-अङ्गं विस्तरेण वक्ष्यामि इति, तस्य सूत्र-स्थानीयान् श्लोकान् उपदिशति स्म –

स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् – श्रोत्रादि-द्वारेण अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः ब्राह्या बहिर् एव कृताः भवन्ति – तान् एवं बहिः कृत्वा चक्षुश् च एव अन्तरे भ्रुवोः “कृत्वा” इति अनुषज्यते। तथा प्राणापानौ नासाभ्यन्तर-चारिणौ समौ कृत्वा
यतेन्द्रिय-मनो-बुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश् च यस्य सः यतेन्द्रिय-मनो-बुद्धिः, मननाद् मुनिः सन्न्यासी, मोक्ष-परायणः एवं देह-संस्थानः मोक्ष-परायणः मोक्ष एव परम् अयनं परा गतिः यस्य सः अयं मोक्ष-परायणो मुनिः भवेत्। विगतेच्छा-भय-क्रोधः इच्छा च भयं च क्रोधश् च इच्छा-भय-क्रोधाः ते विगताः यस्मात् सः विगतेच्छा-भय-क्रोधः, यः एवं वर्तते सदा सन्न्यासी, मुक्त एव सः, न तस्य मोक्षाय अन्यः कर्तव्योऽस्ति॥
bhoktṛ, yajña-tapas, sarva-loka-mahā-īśvara;
su-hṛd, sarva-bhūta, jñātvā, asmad, śānti, √ṛ.

Knowing (and contemplating) (oneself, the witness of the thoughts of everyone, as the Lord) Me as (the doer and) the experiencer of sacred acts (yajña) and prayerful discipline, the limitless Lord of all worlds, and the (natural) friend of all beings, one attains the clarity (called mokṣa).
यज्ञ-तपसां भोक्तारं सर्व-लोक-महा-ईश्वरं सर्व-भूतानां सु-हृदं मां ज्ञात्वा शान्तिम् ऋच्छति॥
एवं समाहित-चित्तेन किं विज्ञेयम्? इति उच्यते –
भोक्तारं यज्ञ-तपसां यज्ञानां तपसां च कर्तृ-रूपेण देवता-रूपेण च, सर्व-लोक-महेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सर्व-लोक-महेश्वरं सु-हृदं सर्व-भूतानां सर्व-प्राणिनां प्रत्युपकार-निरपेक्षतया उपकारिणं सर्व-भूतानां हृदयेशयं सर्व-कर्म-फलाध्यक्षं सर्व-प्रत्यय-साक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्व-संसारोपरतिम् ऋच्छति प्राप्नोति॥
इति श्रीमत्-परम-हंस-परिव्राजकाचार्य-गोविन्द-भगवत्-पूज्य-पाद-शिष्य-श्रीमच्-छङ्कर-भगवतः कृतौ श्री-भगवद्-गीता-भाष्ये प्रकृति-गर्भो नाम पञ्चमोऽध्यायः॥५॥
om, tad, sat. iti, śrīmat-bhagavat-gītā, upaniṣad, brahma-vidyā, yoga-śāstra, śrī-kṛṣṇa-arjuna-saṃvāda, karma-sannyāsa-yoga, nāma, pañcama, adhyāya.
Om (brahman, the witness of all) is that (only) reality. Thus ends the fifth chapter, called “The Topic of Renunciation of Action,” of the (eighteen chapters of) Songs of the Glorious Lord, which is (looked upon as) sacred teaching (Upaniṣad) and (whose teaching is) in (the form of) a dialogue between Śrī Kṛṣṇa and Arjuna, (the subject matter being) knowledge of brahman and yoga.

Go to Top ('Home' key on many Windows browsers)

अतीतानन्तराध्यायान्ते ध्यान-योगस्य सम्यग्-दर्शनं प्रति अन्तर्-अङ्गस्य सूत्र-भूताः श्लोकाः “स्पर्शान् कृत्वा बहिः” (BhG.5.27) इत्य्-आदयः उपदिष्टाः। तेषां वृत्ति-स्थानीयः अयं षष्ठोऽध्यायः आरभ्यते।
तत्र ध्यान-योगस्य बहिर्-अङ्गं कर्म इति, यावद् ध्यान-योगारोहणासमर्थः तावद् गृह-स्थेन अधिकृतेन कर्तव्यं कर्म इति, अतः तत् स्तौति – “अनाश्रित” (BhG.6.1) इति।
ननु किम्-अर्थं ध्यान-योगारोहण-सीमा-करणम्? यावता अनुष्ठेयम् एव विहितं कर्म यावज्-जीवम्।
न, “आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते” (BhG.6.3) इति विशेषणाद्, “आरूढस्य” च शमेन एव सम्बन्ध-करणात्।
आरुरुक्षोः आरूढस्य च शमः कर्म च उभयं कर्तव्यत्वेन अभिप्रेतं चेत् स्यात्, तदा ‘आरुरुक्षोः आरूढस्य’ च इति शम-कर्म-विषय-भेदेन विशेषणं विभाग-करणं च अन्-अर्थकं स्यात्।
तत्र आश्रमिणां कश्चिद् योगम् आरुरुक्षुः भवति, आरूढश् च कश्चिद्, अन्ये न आरुरुक्षवः न च आरूढाः, तान् [अन्यान्] अपेक्ष्य ‘आरुरुक्षोः आरूढस्य च’ इति विशेषणं विभाग-करणं च उपपद्यत एव इति चेद्।
न, “तस्य एव” (BhG.6.3) इति वचनात्, पुनः ‘योग’-ग्रहणाच् च “योगारूढस्य” (BhG.6.3) इति। य आसीत् पूर्वं योगम् आरुरुक्षुः, तस्य एव आरूढस्य “शम” एव कर्तव्यं “कारणं” योग-फलं प्रति उच्यते इति। अतो न यावज्-जीवं कर्तव्यत्व-प्राप्तिः कस्यचिद् अपि [वैदिक-]कर्मणः।
योग-विभ्रष्ट-वचनाच् (BhG.6.37-38, 41) च – गृह-स्थस्य चेत् कर्मिणो योगो विहितः षष्ठे अध्याये, सः योग-विभ्रष्टोऽपि कर्म-गतिं कर्म-फलं प्राप्नोति, इति तस्य नाशाशङ्का अन्-उपपन्ना स्यात्।
अवश्यं हि कृतं कर्म काम्यं नित्यं वा – मोक्षस्य नित्यत्वाद् अन्-आरभ्यत्वे – स्वं फलं आरभत एव।
नित्यस्य च कर्मणः वेद-प्रमाणावबुद्धत्वात्, फलेन भवितव्यम् इति अवोचाम, अन्यथा वेदस्य आनर्थक्य-प्रसङ्गात्। न च कर्मणि सति उभय-विभ्रष्ट-वचनम् अर्थवत्, कर्मणो (कर्मिणः) विभ्रंश-कारणानुपपत्तेः।
कर्म कृतम् ईश्वरे संन्यस्य इत्य् अतः कर्तरि (कर्तुः) कर्म फलं नारभत इति चेत्।
न, ईश्वरे सन्न्यासस्य अधिकतर-फल-हेतुत्वोपपत्तेः।
मोक्षाय एव इति चेत्, स्व-कर्मणां कृतानां ईश्वरे सन्न्यासो मोक्षाय एव न फलान्तराय योग-सहितः, योगाच् च विभ्रष्टः, इत्य् अतः तं प्रति नाशाशङ्का युक्ता एव इति चेत्।
न, “एकाकी यत-चित्तात्मा निर्-आशीर् अपरिग्रहः” (BhG.6.10) “ब्रह्म-चारि-व्रते स्थितः” (BhG.6.14) इति कर्म-सन्न्यास-विधानात्।
न च अत्र ध्यान-काले स्त्री-सहायत्वाशङ्का, येन एकाकित्वं विधीयते। न च गृह-स्थस्य “निर्-आशीर् अपरिग्रहः” (BhG.6.10) इत्य्-आदि-वचनम् अनुकूलम्। उभय-विभ्रष्ट-प्रश्नानुपपत्तेश् च।
“अन्-आश्रित” (BhG.6.1) इत्य् अनेन कर्मिण एव ‘सन्न्यासित्वं योगित्वं च’ उक्तम्, प्रतिषिद्धं च ‘निर्-अग्नेः अक्रियस्य च सन्न्यासित्वं योगित्वं च’ इति चेद्।
न, ध्यान-योगं प्रति बहिर्-अङ्गस्य सतः कर्मणः फलाकाङ्क्षा-सन्न्यास-स्तुति-परत्वात्।
न केवलं निर्-अग्निः अक्रियः एव सन्न्यासी योगी च। किं तर्हि? कर्मी अपि, कर्म-फलासङ्गं संन्यस्य कर्म-योगम् अनुतिष्ठन् सत्त्व-शुद्ध्य्-अर्थम्, “स सन्न्यासी च योगी च भवति” (BhG.6.1) इति स्तूयते।
न च एकेन वाक्येन कर्म-फलासङ्ग-सन्न्यास-स्तुतिः चतुर्थाश्रम-प्रतिषेधश् च उपपद्यते।
न च प्रसिद्धं निर्-अग्नेः अक्रियस्य परमार्थ-सन्न्यासिनः श्रुति-स्मृति-पुराणेतिहास-योग-शास्त्रेषु विहितं सन्न्यासित्वं योगित्वं च प्रतिषेधति भगवान्।
स्व-वचन-विरोधाच् च। “सर्व-कर्माणि मनसा संन्सस्य … न एव कुर्वन् न कारयन् आस्ते” (BhG.5.13) “मौनी सन्तुष्टो येन केनचिद् अ-निकेतः स्थिर-मतिः” (BhG.12.19) “विहाय कामान् यः सर्वान् पुमांश् चरति निः-स्पृहः” (BhG.2.71) “सर्वारम्भ-परित्यागी” (BhG.12.16) इति च तत्र तत्र भगवता स्व-वचनानि दर्शितानि, तैः विरुध्येत चतुर्थाश्रम-प्रतिषेधः।
तस्माद् मुनेः योगम् आरुरुक्षोः प्रतिपन्न-गार्हस्थ्यस्य अग्नि-होत्रादि(-कर्म) फल-निरपेक्षम् अनुष्ठीयमानं ध्यान-योगारोहण-साधनत्वं सत्त्व-शुद्धि-द्वारेण प्रतिपद्यते, इति “स सन्न्यासी च योगी च” (BhG.6.1) इति स्तूयते॥
śrī-bhagavat, √vac:
an-āśrita, karma-phala, kārya, karman, √kṛ, yad;
tad, sannyāsin, ca, yogin, ca, na, nis-agni, na, ca, a-kriya.

The Lord said: One who does action to be done without depending on the result of action is (also) a sannyāsī (renunciate, in terms of one’s binding likes and dislikes) and yogī (meditator, in terms of a having a composed mind), not (just) one who (formally) gives up fire rituals (for dedicated listening to and reflecting on this teaching) and (all other) practices (except dedicated contemplation).
श्री-भगवान् उवाच। यः कर्म-फलम् अन्-आश्रितः कार्यं कर्म करोति, सः (अपि) सन्न्यासी च योगी च – न (केवलं) निर्-अग्निः न च अ-क्रियः॥
अनाश्रितः न आश्रितः अनाश्रितः। किम्? कर्म-फलं कर्मणः फलं कर्म-फलं यत् तद् अनाश्रितः, कर्म-फल-तृष्णा-रहित इत्यर्थः।
यो हि कर्म-फल-तृष्णावान् सः कर्म-फलम् आश्रितो भवति। अयं तु तद्-विपरीतः, अतः अनाश्रितः कर्म-फलम्।
एवं-भूतः सन् कार्यं कर्तव्यं नित्यं काम्य-विपरीतम् अग्नि-होत्रादिकं कर्म करोति निर्वर्तयति यः कश्चिद् ईदृशः कर्मी स कर्म्य्-अन्तरेभ्यो विशिष्यते इत्य् एवम्-अर्थम् आह – स सन्न्यासी च योगी च इति। सन्न्यासः परित्यागः स यस्य अस्ति स सन्न्यासी च, योगी च योगः चित्त-समाधानं स यस्य अस्ति स योगी च इति एवं-गुण-सम्पन्नः अयं मन्तव्यः।
केवलं निर्-अग्निः अक्रिय एव सन्न्यासी योगी च इति मन्तव्यः। निर्गताः अग्नयः कर्माङ्ग-भूताः यस्मात् स निर्-अग्निः, अक्रियश् च अन्-अग्न-साधना अपि अविद्यमानाः क्रियाः तपो-दानादिकाः यस्य असौ अक्रियः॥
yad, sannyāsa, iti, pra-√ah, yoga, tad, √vid, pāṇḍava;
na, hi, a-sannyasta-saṅkalpa, yogin, √bhū, kaścana.

What they call sannyāsa (renunciation) – know that to be (the defining core of karma-)yoga, O Arjuna. Because anyone who has not renounced (given up) requirements/anticipations (regarding the result of action) is not a (karma-)yogī.
यं सन्न्यासम् इति प्राहुः तं योगं विद्धि, पाण्डव। कश्चन हि [=यस्माद्] अ-सन्न्यस्त-सङ्कल्पः योगी न भवति॥
ननु च निर्-अग्नेः अक्रियस्य एव श्रुति-स्मृति-योग-शास्त्रेषु सन्न्यासित्वं योगित्वं च प्रसिद्धम्। कथम् इह साग्नेः स-क्रियस्य च सन्न्यासित्वं योगित्वं च अप्रसिद्धम् उच्यते? इति।
न एष दोषः, कयाचिद् गुण-वृत्त्या उभयस्य सम्पिपादयिषितत्वात्। तत् कथम्? कर्म-फल-सङ्कल्प-सन्न्यासात् सन्न्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात् कर्म-फल-सङ्कल्पस्य वा चित्त-विक्षेप-हेतोः परित्यागाद् योगित्वं च, इति गौणम् उभयम्। न पुनः मुख्यं सन्न्यासित्वं योगित्वं च अभिप्रेतम्, इत्य् एतम् अर्थं दर्शयितुम् आह –

यं सर्व-कर्म-तत्-फल-परित्याग-लक्षणं परमार्थ-सन्न्यासम् इति प्राहुः श्रुति-स्मृति-विदः, योगं कर्मानुष्ठान-लक्षणं तं परमार्थ-सन्न्यासं विद्धि जानीहि हे पाण्डव
कर्म-योगस्य प्रवृत्ति-लक्षणस्य तद्-विपरीतेन निवृत्ति-लक्षणेन परमार्थ-सन्न्यासेन की-दृशं सामान्यम् अङ्गी-कृत्य तद्-भाव उच्यते? इत्य् अपेक्षायाम् इदम् उच्यते –
अस्ति परमार्थ-सन्न्यासेन सा-दृश्यं कर्तृ-द्वारकं कर्म-योगस्य। यो हि परमार्थ-सन्न्यासी स त्यक्त-सर्व-कर्म-साधनतया सर्व-कर्म-तत्-फल-विषयं सङ्कल्पं प्रवृत्ति-हेतु-काम-कारणं संन्यस्यति। अयम् अपि कर्म-योगी कर्म कुर्वाण एव फल-विषयं सङ्कल्पं संन्यस्यति इत्य् एतम् अर्थं दर्शयिष्यन् आह –
न हि यस्माद् असंन्यस्त-सङ्कल्पः असंन्यस्तः अपरित्यक्तः फल-विषयः सङ्कल्पः अभिसन्धिः येन सः असंन्यस्त-सङ्कल्पः कश्चन कश्चिद् अपि कर्मी योगी समाधानवान् भवति न सम्भवति इत्यर्थः, फल-सङ्कल्पस्य चित्त-विक्षेप-हेतुत्वात्।
तस्माद् यः कश्चन कर्मी संन्यस्त-फल-सङ्कल्पो भवेत् स योगी समाधानवान् अविक्षिप्त-चित्तो भवेत्, चित्त-विक्षेप-हेतोः फल-सङ्कल्पस्य संन्यस्तत्वाद् इत्यभिप्रायः।
एवं परमार्थ-सन्न्यास-कर्म-योगयोः कर्तृ-द्वारकं सन्न्यास-सामान्यम् अपेक्ष्य “यं सन्न्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव” इति कर्म-योगस्य स्तुत्य्-अर्थं सन्न्यासत्वम् उक्तम्॥
ārurukṣu, muni, yoga, karman, kāraṇa, √vac;
yoga-ārūḍha, tad, eva, śama, kāraṇa, √vac.

For the (relatively) contemplative one who desires to attain yoga (the contemplation presented herein), karma(-yoga) is said to be the means. Only for that one who has attained yoga (contemplation), śama (cessation of duties, a sannyāsa lifestyle of jñāna-yoga) is said to be the means.
योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते। तस्य योग-आरूढस्य एव शमः कारणम् उच्यते॥
ध्यान-योगस्य फल-निर्-अपेक्षः कर्म-योगो बहिर्-अङ्गं साधनम् इति तं सन्न्यासत्वेन स्तुत्वा, अधुना कर्म-योगस्य ध्यान-योग-साधनत्वं दर्शयति –
आरुरुक्षोः आरोढुम् इच्छतः, अन्-आरूढस्य, ध्यान-योगे अवस्थातुम् अशक्तस्य एव इत्यर्थः। कस्य आरुरुक्षोः? मुनेः कर्म-फल-सन्न्यासिन इत्यर्थः। किम् आरुरुक्षोः? योगम्कर्म कारणं साधनम् उच्यते।
योगारूढस्य पुनः तस्य एव शमः उपशमः सर्व-कर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्यर्थः।
यावद् यावत् कर्मभ्यः उपरमते, तावत् तावद् निर्-आयासस्य जितेन्द्रियस्य चित्तं समाधीयते। तथा सति स झटिति योगारूढो भवति।
तथा च उक्तं व्यासेन –
नैता-दृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
शीलं स्थितिर् दण्ड-निधानम् आर्जवं ततस् ततश् चोपरमः क्रियाभ्यः॥
(MBhSan.175.37) इति॥
yadā, hi, na, indriya-artha, na, karman, anu-√sañj;
sarva-saṅkalpa-sannyāsin, yoga-ārūḍha, tadā, √vac.

When, indeed, one is attached neither to the sense objects nor to the actions (themselves), then this renunciate of all fancies is said to be yogārūḍha (one who has attained contemplation) (and, hence, is qualified for sannyāsa lifestyle of only contemplation).
यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते, तदा सर्व-सङ्कल्प-सन्न्यासी योग-आरूढः उच्यते॥
अथ इदानीं ‘कदा योगारूढो भवति?’ इत्य् उच्यते –
यदा समाधीयमान-चित्तो योगी हि इन्द्रियार्थेषु इन्द्रियाणाम् अर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभाव-बुद्ध्या न अनुषज्जते अनुषङ्गं कर्तव्यता-बुद्धिं न करोति इत्यर्थः।
सर्व-सङ्कल्प-सन्न्यासी सर्वान् सङ्कल्पान् इहामुत्रार्थ-काम-हेतून् संन्यसितुं शीलम् अस्य इति सर्व-सङ्कल्प-सन्न्यासी, योगारूढः प्राप्त-योग इत्येतत्, तदा तस्मिन् काले उच्यते
“सर्व-सङ्कल्प-सन्न्यासी” इति वचनात् सर्वांश् च कामान् सर्वाणि च कर्माणि संन्यस्येद् इत्यर्थः।
सङ्कल्प-मूला हि सर्वे कामाः –
“सङ्कल्प-मूलः कामो वै यज्ञाः सङ्कल्प-सम्भवाः।” (ManSmrt.2.3)
काम जानामि ते मूलं सङ्कल्पात् किल जायसे।
न त्वां सङ्कल्पयिष्यामि तेन मे न भविष्यसि॥
(MBhSan.177.25) इत्यादि-स्मृतेः।
सर्व-काम-परित्यागे च सर्व-कर्म-सन्न्यासः सिद्धो भवति, “स यथा-कामो भवति तत्-क्रतुर् भवति, यत्-क्रतुर् भवति तत्-कर्म कुरुते” (BrhU.4.4.5) इत्यादिश्रुतिभ्यः, “यद् यद् धि कुरुते जन्तुः, तत् तत् कामस्य चेष्टितम्” (ManSmrt.2.4) इत्यादि-स्मृतिभ्यश् च।
न्यायाच् च – न हि सर्व-सङ्कल्प-सन्न्यासे कश्चित् स्पन्दितुम् अपि शक्तः।
तस्मात् “सर्व-सङ्कल्प-सन्न्यासी” इति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान्॥
ud-√dhṛ, ātman, ātman, na, ātman, ava-√sad;
ātman, eva, hi, ātman, bandhu, ātman, eva, ripu, ātman.

(This is a solitary pursuit, because) one should lift oneself (the body-sense-mind complex) up (to yoga) by oneself (the body-sense-mind complex). One should not lower oneself, because oneself alone (not anyone else) is the friend of oneself, and oneself alone (not anyone else) is the enemy of oneself.
आत्मना आत्मानम् उद्धरेत्। आत्मानं न अवसादयेत्, आत्मा एव हि [=यस्मात्] आत्मनः बन्धुः, आत्मा एव आत्मनः रिपुः॥
यदा एवं योगारूढः, तदा तेन आत्मा आत्मना उद्धृतो भवति संसाराद् अन्-अर्थ-व्रातात्। अतः –
उद्धरेत् संसार-सागरे निमग्नम् आत्मना आत्मानं ततः उद् ऊर्ध्वं हरेद् उद्धरेद्, योगारूढताम् आपादयेद् इत्यर्थः।
न आत्मानम् अवसाधयेद् न अधः नयेद्, न अधः गमयेत्।
आत्मैव हि यस्माद् आत्मनः बन्धुः। न हि अन्यः कश्चिद् बन्धुः, यः संसार-मुक्तये भवति। बन्धुर् अपि तावद् मोक्षं प्रति प्रतिकूल एव, स्नेहादि-बन्धनायतनत्वात्। तस्माद् युक्तम् अवधारणम् “आत्मा एव ह्य् आत्मनो बन्धुः” इति।
आत्मा एव रिपुः शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि आत्म-प्रयुक्त एव इति युक्तम् एव अवधारणम् “आत्मा एव रिपुर् आत्मनः” इति॥
bandhu, ātman, ātman, tad, yad, ātman, eva, ātman, jita;
an-ātman, tu, śatrutva, √vṛt, ātman, eva, śatruvat.

By whom oneself (the body-sense-mind complex) is mastered by oneself (the body-sense-mind complex) – for that one, oneself is the friend of oneself; whereas, for the one who has not (mastered) oneself, oneself alone remains as an enemy, like an (external) enemy.
येन आत्मना एव आत्मा जितः, तस्य आत्मनः आत्मा बन्धुः। अन्-आत्मनः [=अ-जित-आत्मनः] तु आत्मा एव शत्रुवत् शत्रुत्वे वर्तेत॥
आत्मा एव बन्धुः आत्मा एव रिपुः आत्मनः इत्य् उक्तम्। तत्र किं-लक्षण आत्मा आत्मनो बन्धुः, किं-लक्षणो वा आत्मा आत्मनो रिपुः? इत्य् उच्यते –
बन्धुः आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्धुः येन आत्मना आत्मा एव जितः, आत्मा कार्य-करण-सङ्घातो येन वशी-कृतः, जितेन्द्रिय इत्यर्थः। अन्-आत्मनस् तु अजितात्मनस् तु शत्रुत्वे शत्रु-भावे वर्तेत आत्मा एव शत्रुवद्, यथा अन्-आत्मा [अन्यः इत्यर्थः] शत्रुः आत्मनः अपकारी, तथा आत्मा आत्मन अपकारे वर्तेत इत्यर्थः॥
jita-ātman, praśānta, parama-ātman (param, ātman), samāhita;
śīta-uṣṇa-sukha-duḥkha, tathā, māna-apamāna.

In (the natural situations of) cold/hot, pleasure/pain, and in respect and disrespect – for the one whose body-sense-mind complex is mastered and who is clear, the mind is completely composed.
शीत-उष्ण-सुख-दुःखेषु तथा मान-अपमानयोः, जित-आत्मनः प्रशान्तस्य परम-आत्मा (आत्मा परं [=अधिकं]) समाहितः॥
जितात्मनः कार्य-करण-सङ्घात आत्मा जितो येन सः जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः सन्न्यासिनः परमात्मा समाहितः साक्षाद् आत्म-भावेन वर्तते इत्यर्थः। किञ्च शीतोष्ण-सुख-दुःखेषु तथा माने अपमाने च मानापमानयोः पूजा-परिभवयोः समः स्यात्॥
jñāna-vijñāna-tṛpta-ātman, kūṭa-stha, vijita-indriya;
yukta, iti, √vac, yogin, sama-loṣṭa-aśma-kāñcana.

Whose mind is content with one’s knowledge and its assimilation; who remains unchanged (kūṭa-stha); whose senses are mastered; for whom a lump of clay, a stone, and gold are (transcended as the reality, sat, that is) the same (sama) (otherwise, they are all seen as an-artha, nothing to do for my security) – that yogī is called composed (yukta).
ज्ञान-विज्ञान-तृप्त-आत्मा [परोक्ष-अपरोक्ष-ज्ञानेन स-प्रतिबन्द-अ-प्रतिबन्द-अपरोक्ष-ज्ञानेन वा तृप्त-आत्मा] कूट-स्थः विजित-इन्द्रियः सम-लोष्ट-अश्म-काञ्चनः योगी युक्तः इति उच्यते॥
ज्ञान-विज्ञान-तृप्तात्मा ज्ञानं शास्त्रोक्त-पदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभव-करणम्, ताभ्यां ज्ञान-विज्ञानाभ्यां तृप्तः सञ्जातालं-प्रत्ययः आत्मा अन्तःकरणं यस्य सः ज्ञान-विज्ञान-तृप्तात्मा, कूट-स्थः अप्रकम्प्यः, भवति इत्यर्थः, विजितेन्द्रियश् च। य ईदृशः, युक्तः समाहितः इतिउच्यते कथ्यते।
योगी सम-लोष्टाश्म-काञ्चनः लोष्टाश्म-काञ्चनानि समानि यस्य सः सम-लोष्टाश्म-काञ्चनः॥
su-hṛd-mitra-ari-udāsīna-madhya-stha-dveṣya-bandhu;
sādhu, api, ca, pāpa, sama-buddhi, vi-√śiṣ.

That one is exalted whose vision is the same (sama) toward the kind-hearted, friends, enemies, acquaintances, mediators, the hateful, kin, the virtuous, and even sinners.
सु-हृन्-मित्र-अरि-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु साधुषु पापेषु अपि च सम-बुद्धिः विशिष्यते (विमुच्यते)॥
किञ्च –
‘सुहृद्’-इत्यादि-श्लोकार्धम् एकं पदम्।
सु-हृद् इति प्रत्युपकारम् अन्-अपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदासीनः न कस्यचित् पक्षं भजते, मध्य-स्थः यो विरुद्धयोः उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः सम्बन्धी इत्य् एतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्ध-कारिषु सर्वेषु एतेषु सम-बुद्धिः ‘कः किं-कर्म [करोति]?’ इत्य् अव्यापृत-बुद्धिर् इत्यर्थः। विशिष्यते, “विमुच्यते” इति वा पाठान्तरम्। योगारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः॥
yogin, √yuj, sa-tatam, ātman, rahas, sthita;
evākin, yata-citta-ātman, nis-āśis, a-parigraha.

Remaining in seclusion, alone, with a mind and body that is mastered, without fancies (of the future), without possessions, may the yogī (the sannyāsī) constantly unite the mind (contemplate).
रहसि स्थितः एकाकी यत-चित्त-आत्मा निर्-आशीः अ-परिग्रहः योगी आत्मानं [=बुद्धिं] स-ततं युञ्जीत॥
अत एवम् उत्तम-फल-प्राप्तये –
योगी ध्यायी युञ्जीत समादध्यात् स-ततं सर्वदा आत्मानम् अन्तःकरणं रहसि एकान्ते गिरि-गुहादौ स्थितः सन् एकाकी अ-सहायः।
“रहसि स्थितः एकाकी च” इति विशेषणात् सन्न्यासं कृत्वा इत्यर्थः।
यत-चित्तात्मा चित्तम् अन्तःकरणम् आत्मा देहश् च संयतौ यस्य सः यत-चित्तात्मा, निर्-आशीः वीत-तृष्णः अपरिग्रहः च परिग्रह-रहितः इत्यर्थः। सन्न्यासित्वेऽपि त्यक्त-सर्व-परिग्रहः सन् युञ्जीत इत्यर्थः॥
śuci, deśa, pratiṣṭhāpya, sthira, āsana, ātman;
na, atyucchrita, na, atinīca, caila-ajina-kuśa-uttara.
tatra, eka-agra, manas, kṛtvā, yata-citta-indriya-kriya;
upaviśya, āsana, √yuj, yoga, ātma-viśuddhi.

Arranging one’s seat in a clean place, firm, not too high nor too low, on which the cover is (from top to bottom): a (soft) cloth, a hide (for padding), and kuśa grass (for insulation from cold and dampness, or whatever else provides the same). Then sitting upon that seat (or its equivalent) – making the mind single-pointed (having just one object) – may the one whose activities of the mind and senses are mastered contemplate (the teaching) for clarity of mind (for removing obstacles to abiding in this knowledge).
शुचौ देशे स्थिरं न अत्युच्छ्रितं न अतिनीचं चैल-अजिन-कुश-उत्तरम् आत्मनः आसनं प्रतिष्ठाप्य, तत्र आसने उपविश्य, मनः एक-अग्रं कृत्वा, यत-चित्त-इन्द्रिय-क्रियः आत्म-विशुद्धये योगं युञ्ज्यात्॥
अथेदानीं योगं युञ्जतः आसनाहार-विहारादीनां योग-साधनत्वेन नियमो वक्तव्यः, प्राप्त-योग-लक्षणं तत्-फलादि च, इत्य् अत आरभ्यते। तत्र आसनम् एव तावत् प्रथमम् उच्यते –
शुचौ शुद्धे विविक्ते स्व-भावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनं न अत्युच्छ्रितं न अतीव उच्छ्रितं अपि अति-नीचम्, तच् च चैलाजिन-कुशोत्तरं चैलम् अजिनं कुशाश् च उत्तरे यस्मिन् आसने तद् आसनं चैलाजिन-कुशोत्तरम्। पाठ-क्रमाद् विपरीतः अत्र क्रमः चैलादीनाम्॥
प्रतिष्ठाप्य, किम्? –
तत्र तस्मिन् आसने उपविश्य योगं युञ्ज्यात्। कथम्? सर्व-विषयेभ्यः उपसंहृत्य एकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य सः यत-चित्तेन्द्रिय-क्रियः।
स किम् अर्थं योगं युञ्ज्याद्? इत्याह –
आत्म-विशुद्धये अन्तःकरणस्य विशुद्ध्य्-अर्थम् इत्येतत्॥
sama, kāya-śiras-grīva, dhārayat, a-cala, sthira;
samprekṣya, nāsikā-agra, sva, diś, ca, an-avalokayat.
praśānta-ātman, vigata-bhī, brahma-cāri-vrata, sthita;
manas, saṃyamya, mad-citta, yukta, √ās, mad-para.

Holding the body, head, and neck in line and still; being steady (having a wide base); (as though) looking at the tip of one’s nose (relaxing the shut eyes, whose open gaze otherwise would be along the tip of the nose); not looking (nor listening, etcetera) in all directions; being of clear mind, without fear, and firm in one’s vow of seeking brahman (brahma-carya – listening to the teacher, then continually contemplating and teaching others); mastering the mind – may the yogī sit, thinking of Me (through My teaching), having Me as the ultimate.
काय-शिरो-ग्रीवं समम् अ-चलं धारयन्, स्थिरः [सन्], स्वं नासिका-अग्रं सम्प्रेक्ष्य, दिशः च अन्-अवलोकयन्, प्रशान्त-आत्मा विगत-भीः ब्रह्म-चारि-व्रते स्थितः [सन्], मनः संयम्य, मच्-चित्तः मत्-परः युक्तः [योगी इत्यर्थः] आसीत॥
बाह्यमासनमुक्तम्, अधुना शरीरधारणं कथम् इत्युच्यते –
समं काय-शिरो-ग्रीवं कायश् च शिरश् च ग्रीवा च काय-शिरो-ग्रीवं तत् समं धारयन् अचलं च। समं धारयतः चलनं सम्भवति, अतः विशिनष्टि – अचलम् इति। स्थिरः स्थिरो भूत्वा इत्यर्थः।
स्वं नासिकाग्रं सम्प्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वा इव इति।
इव-शब्दो लुप्तो द्रष्टव्यः। न हि स्व-नासिकाग्र-सम्प्रेक्षणम् इह विधित्सितम्।
किं तर्हि? चक्षुषो दृष्टि-संनिपातः।
स च अन्तःकरण-समाधानापेक्षो विवक्षितः। स्व-नासिकाग्र-सम्प्रेक्षणम् एव चेद् विवक्षितम्, मनः तत्रैव समाधीयेत, न आत्मनि।
आत्मनि हि मनसः समाधानं वक्ष्यति “आत्म-संस्थं मनः कृत्वा” (BhG.6.25) इति। तस्माद् इव-शब्द-लोपेन अक्ष्णोः दृष्टि-संनिपात एव “सम्प्रेक्ष्य” इत्य् उच्यते।
दिशश् च अनवलोकयन् दिशां च अवलोकनम् अन्तरा अकुर्वन् इत्येतत्॥

किञ्च –
प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगत-भीः विगत-भयः, ब्रह्म-चारि-व्रते स्थितः ब्रह्म-चारिणो व्रतं ब्रह्म-चर्यं गुरु-शुश्रूषा-भिक्षान्न-भुक्त्यादि तस्मिन् स्थितः, तद्-अनुष्ठाता भवेद् इत्यर्थः। किञ्च, मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतद्, मच्-चित्तः मयि परमेश्वरे चित्तं यस्य सोऽयं मच्-चित्तः, युक्तः समाहितः सन् आसीत उपविशेत्। मत्-परः अहं परो यस्य सोऽयं मत्-परो भवति।
कश्चिद् रागी स्त्री-चित्तः, न तु स्त्रियम् एव परत्वेन गृह्णाति, किं तर्हि? राजानं महा-देवं वा। अयं तु मच्-चित्तो मत्-परश् च॥
yuñjat, evam, sadā, ātman, yogin, niyata-mānasa;
śānti, nirvāṇa-paramā, mad-saṃsthā, adhi-√gam.

Always uniting the mind (contemplating) in this way, having mastered the mind, the yogī attains the clarity (śānti) whose culmination is complete freedom, centered on Me (the Lord, Parameśvara).
एवं सदा आत्मानं [=बुद्धिं] युञ्जन्, नियत-मानसः योगी निर्वाण-परमां मत्-संस्थां शान्तिम् अधिगच्छति॥
अथेदानीं योग-फलम् उच्यते –
युञ्जन् समाधानं कुर्वन् एवं यतोक्तेन विधानेन सदा आत्मानं सर्वदा योगी नियत-मानसः नियतं संयतं मानसं मनो यस्य सोऽयं नियत-मानसः, शान्तिम् उपरतिं निर्वाण-परमां निर्वाणं मोक्षः तत् परमा निष्टा यस्याः शान्तेः सा निर्वाण-परमा तां निर्वाण-परमाम्, मत्-संस्थां मद्-अधीनाम् अधिगच्छति प्राप्नोति॥
na, atyaśnat, tu, yoga, √as, na, ca, eka-antam, an-aśnat;
na, ca, atisvapna-śīla, jāgrat, na, eva, ca, arjuna.

Whereas (jñāna-)yoga (contemplation of the teaching) is not there for one who eats too much, nor for one who does not eat adequately, nor for one who habitually sleeps too much, nor for one who is (habitually always) awake, O Arjuna.
अत्यश्नतः तु योगः न अस्ति, न च एक-अन्तम् अन्-अश्नतः, न च अतिस्वप्न-शीलस्य, न एव च जाग्रतः, अर्जुन॥
इदानीं योगिनः आहारादि-नियम उच्यते –
न अत्य्-अश्नतः आत्म-संमितम् अन्न-परिमाणम् अतीत्याश्नतः अत्य्-अश्नतः न योगः अस्तिन च एकान्तम् अन्-अश्नतः योगः अस्ति। “यद् उ ह वा आत्म-संमितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयोऽन्नं न तद् अवति” (श. ब्रा. ९.२.१.२) इति श्रुतेः।
तस्माद् योगी न आत्म-संमिताद् अन्नाद् अधिकं न्यूनं वा अश्नीयात्।
अथवा, योगिनः योग-शास्त्रे परिपठीताद् अन्न-परिमाणाद् अतिमात्रम् अश्नतः योगो न अस्ति। उक्तं हि –
अर्धं स-व्यञ्जनान्नस्य तृतीयम् उदकस्य च।
वायोः सञ्चरणार्थं तु चतुर्थम् अवशेषयेद्॥ (? ) इत्यादि-परिमाणम्।
तथा – न च अति-स्वप्न-शीलस्य योगो भवति नैव च अतिमात्रं जाग्रतो भवति च अर्जुन
yukta-āhāra-vihāra, yukta-ceṣṭa, karman;
yukta-svapna-avabodha, yoga, √bhū, duḥkha-han.

For one whose food and activity are moderated – whose bodily movement is regulated during activities (without meaningless, wasted bodily movement), whose sleeping and waking hours are moderated – (jñāna-)yoga is the destroyer of all sorrows.
युक्त-आहार-विहारस्य कर्मसु युक्त-चेष्टस्य युक्त-स्वप्न-अवबोधस्य योगः दुःख-हा भवति॥
कथं पुनः योगो भवति इत्य् उच्यते –
युक्ताहार-विहारस्य आह्रियते इति आहारः अन्नम्, विहरणं विहारः पाद-क्रमः, तौ युक्तौ नियत-परिमाणौ यस्य सः युक्ताहार-विहारः तस्य, तथा युक्त-चेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य, तथा युक्त-स्वप्नावबोधस्य युक्तौ स्वप्नश् च अवबोधश् च तौ नियत-कालौ यस्य तस्य, युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु युक्त-स्वप्नावबोधस्य योगिनो योगो भवति दुःख-हा दुःखानि सर्वाणि हन्तीति दुःख-हा।
सर्व-संसार-दुःख-क्षय-कृद् योगः भवति इत्यर्थः॥
yadā, viniyata, citta, ātman, eva, ava-√sthā;
nis-spṛha, sarva-kāma, yukta, iti, √vac, tadā.

When the mind that is mastered abides in ātmā (oneself) alone, then – being free from attraction toward all (objects of) desire – one is said to be composed (yukta).
यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते, तदा सर्व-कामेभ्यः निः-स्पृहः युक्तः इति उच्यते॥
अथ अधुना कदा युक्तो भवति इत्य् उच्यते –
यदा विनियतं विशेषेण नियतं संयतम् एकाग्रताम् आपन्नं चित्तं हित्वा बाह्यार्थ-चिन्ताम् आत्मन्य् एव केवले अवतिष्ठते, स्वात्मनि स्थितिं लभते इत्यर्थः।
निः-स्पृहः सर्व-कामेभ्यः निर्गता दृष्टादृष्ट-विषयेभ्यः स्पृहा तृष्णा यस्य योगिनः सः युक्तः समाहितः इत्य् उच्यते तदा तस्मिन् काले॥
yathā, dīpa, nivāta-stha, na, √iṅg, tad, upamā, smṛtā;
yogin, yata-citta, yuñjat, yoga, ātman.

“Like the (flame of an) oil lamp in a windless place does not flicker.” This is the example cited for the mastered mind of the yogī who is uniting in yoga (who is in contemplation) of ātmā.
यथा निवात-स्थः दीपः न इङ्गते – आत्मनः योगं युञ्जतः योगिनः यत-चित्तस्य सा उपमा स्मृता॥
तस्य योगिनः समाहितं यच् चित्तं तस्योपमा उच्यते –
यथा दीपः प्रदीपः निवात-स्थः निवाते वात-वर्जिते देशे स्थितः न इङ्गते न चलति, सा उपमा उपमीयते अनया इत्य् उपमा योग-ज्ञैः चित्त-प्रचार-दर्शिभिः स्मृता चिन्तिता योगिनो यत-चित्तस्य संयतान्तःकरणस्य युञ्चतो योगम् अनुतिष्ठतः आत्मनः समाधिम् अनुतिष्ठत इत्यर्थः॥
yatra, upa-√ram, citta, niruddha, yoga-sevā;
yatra, ca, eva, ātman, ātman, paśyat, ātman, √tuṣ.

When the mind – mastered by following yoga (contemplation) – abides (in ātmā), and when one sees the ātmā (oneself) by the ātmā (the mind), then one is satisfied in oneself alone.
यत्र [=यस्मिन् काले] योग-सेवया निरुद्धं चित्तम् उपरमते, यत्र च आत्मना [=मनसा] आत्मानं पश्यन्, आत्मनि [=स्वे] एव तुष्यति॥
एवं योगाभ्यास-बलाद् एकाग्री-भूतं निवात-प्रदीप-कल्पं सत् –
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारित-प्रचारं योग-सेवया योगानुष्ठानेन, यत्र चैव यस्मिंश् च काले आत्मना समाधि-परिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिः-स्वरूपं पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते॥
sukha, ātyantika, yad, tad, buddhi-grāhya, atīndriya;
√vid, yatra, na, ca, eva, idam, sthita, √cal, tattvatas.
yad, labdhvā, ca, apara, lābha, √man, na, adhika, tatas;
yad, sthita, na, duḥkha, guru, api, vi-√cal.
tad, √vid, duḥkha-saṃyoga-viyoga, yoga-sañjñita;
tad, niśyaya, yoktavya, yoga, a-nirviṇṇa-cetas.

When one knows that same limitless sukha (fulfillment that is the nature of ātmā) – which is to be grasped by the intellect, yet is not within the scope of the senses – and, abiding (there in the sukha), never moving away from this truth (this reality), having gained that which one knows is not bettered by another gain, and abiding in which (reality) one would not be affected – even by great pain – know that disassociation (vi-yoga) from association (saṃ-yoga) with sorrow to be what is called yoga (essentially an undoing of one’s natural, but unanalyzed, attachment to/identity with the body-mind complex through inquiry into reality and continued contemplation). That (jñāna)-yoga should be pursued with firm resolve by a mind that is not indifferent (since the natural identifications are very strong).
यत्र [=यस्मिन् काले] अयं यद् तद् आत्यन्तिकं बुद्धि-ग्राह्यम् अतीन्द्रियं सुखं वेत्ति, स्थितः च तत्त्वतः न एव चलति, यम् [आत्म-लाभम्] च लब्ध्वा ततः अधिकम् अपरं लाभं न मन्यते, यस्मिन् [आत्म-तत्त्वे] स्थितः गुरुणा दुःखेन अपि न विचाल्यते, तं दुःख-संयोग-वियोगं योग-सञ्ज्ञितं विद्यात्। सः योगः अ-निर्विण्ण-चेतसा निश्चयेन योक्तव्यः॥
किञ्च –
सुखम् आत्यन्तिकं अत्यन्तम् एव भवति इत्य् आत्यन्तिकम् अनन्तम् इत्यर्थः, यत् तद् बुद्धि-ग्राह्यं बुद्ध्या एव इन्द्रिय-निरपेक्षया गृह्यते इति बुद्धि-ग्राह्यम् अतीन्द्रियम् इन्द्रिय-गोचरातीतम् अविषय-जनितम् इत्यर्थः, वेत्ति तद् ई-दृशं सुखम् अनुभवति यत्र यस्मिन् काले, न च एव अयं विद्वान् आत्म-स्व-रूपे स्थितः तस्माद् नैव चलति तत्त्वतः तत्त्व-स्व-रूपाद् न प्रच्यवते इत्यर्थः॥
किञ्च –
यं लब्ध्वा यम् आत्म-लाभं लब्ध्वा प्राप्य च अपरम् अन्यद् लाभं लाभान्तरं ततः अधिकम् अस्ति इति न मन्यते न चिन्तयति। किञ्च, यस्मिन् आत्म-तत्त्वे स्थितः दुःखेन शस्त्र-निपातादि-लक्षणेन गुरुणा महता अपि न विचाल्यते
“यत्रोपरमते” (BhG.6.20) इत्याद्य्-आरभ्य यावद्भिः विशेषणैः विशिष्ट आत्मावस्था-विशेषः योगः उक्तः –
तं विद्याद् विजानीयाद् दुःख-संयोग-वियोगं दुःखैः संयोगः दुःख-संयोगः, तेन वियोगः दुःख-संयोग-वियोगः, तं दुःख-संयोग-वियोगं योग इत्य् एव संज्ञितं विपरीत-लक्षणेन विद्याद् विजानीयाद् इत्यर्थः।
योग-फलम् उपसंहृत्य पुनर् अन्वारम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योग-साधनत्व-विधानार्थम्।
यथोक्त-फलो योगः निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्ण-चेतसा।
न निर्विण्णम् अनिर्विण्णम्। किं तत्? चेतः तेन निर्वेद-रहितेन चेतसा चित्तेन इत्यर्थः॥
saṅkalpa-prabhava, kāma, tyaktvā, sarva, a-śeṣatas;
manas, eva, indriya-grāma, viniyamya, samantatas.
śanais, śanais, upa-√ram, buddhi, dhṛti-gṛhītā;
ātma-saṃstha, manas, kṛtvā, na, ka-cid, api, √cint.

Totally giving up all anticipations born of scheming (saṅkalpa about one’s goals in meditation), exercising complete authority by the mind alone (in meditation) over all the organs (of sense and action), one should slowly (and gently) – with the intellect endowed with resolve (prior to sitting in meditation) – bring (the mind) to abide (in ātmā). Making the mind abide in ātmā (Paramātmā, the Lord as one’s self), may one contemplate nothing else.
सर्वान् सङ्कल्प-प्रभवान् कामान् अ-शेषतः त्यक्त्वा, मनसा एव इन्द्रिय-ग्रामं समन्ततः विनियम्य, धृति-गृहीतया बुद्ध्या शनैः शनैः उपरमेत्। आत्म-संस्थं मनः कृत्वा, न किञ्-चिद् अपि चिन्तयेत्॥
किञ्च –
सङ्कल्प-प्रभवान् सङ्कल्पः प्रभवः येषां कामानां ते सङ्कल्प-प्रभवाः कामाः तान् [कामान्] त्यक्त्वा परित्यज्य सर्वान् अशेषतः निर्-लेपेन। किञ्च, मनसा एव विवेक-युक्तेन इन्द्रिय-ग्रामम् इन्द्रिय-समुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात्॥
शनैः शनैः न सहसा उपरमेद् उपरतिं कुर्यात्।
कया? बुद्ध्या। किं-विशिष्टया? धृति-गृहीतया धृत्या धैर्येण गृहीतया धृति-गृहीतया धैर्येण युक्तया इत्यर्थः।
आत्म-संस्थम् आत्मनि संस्थितम् “आत्मैव सर्वं न ततोऽन्यत् किञ्चिद् अस्ति” इत्य् एवम् आत्म-संस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत्। एष योगस्य परमो विधिः॥
yata, yata, nis-√car, manas, cañcala, a-sthira;
tatas, tatas, niyamya, etad, ātman, eva, vaśam, √nī.

Bringing it (the mind) back from whichever (distracting object) the (naturally) mobile, unsteady mind goes to – (by understanding that object also as) within (para/limitless) ātmā alone – may one bring (the mind) under control.
यतः यतः चञ्चलम् अ-स्थिरं मनः निश्चरति, ततः ततः एतद् [मनः] आत्मनि एव नियम्य, वशं नयेत्॥
तत्र एवम् आत्म-संस्थं मनः कर्तुं प्रवृत्तो योगी –
यतो यतः यस्मद् यस्माद् निमित्तात् शब्दादेः निश्चरति निर्गच्छति स्व-भाव-दोषाद् मनः चञ्चलम् अत्यर्थं चलम्, अत एव अस्थिरम्, ततस् ततः तस्मात् तस्मात् शब्दादेः निमित्ताद् नियम्य तत् तन् निमित्तं याथात्म्य-निरूपणेन आभासी-कृत्य वैराग्य-भावनया च एतद् मनः आत्मन्य् एव वशं नयेद् आत्म-वश्यताम् आपादयेत्। एवं योगाभ्यास-बलाद् योगिनः आत्मन्य् एव प्रशाम्यति मनः॥
praśānta-manas, hi, enad, yogin, sukha, uttama;
upa-√i, śānta-rajas, brahma-bhūta, a-kalmaṣa.

Limitless fulfillment (as though) reaches (since it is already the nature of) this (jñāna-)yogī who has a mind that is clear, that is, whose cloud (of delusion) has subsided, who (recognizes one’s self) is free from impurities, and who has attained brahman.
उत्तमं सुखम् उपैति [इव] एनं हि प्रशान्त-मनसं शान्त-रजसम् अ-कल्मषं ब्रह्म-भूतं योगिनम्॥
प्रशान्त-मनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्त-मनाः तं प्रशान्त-मनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम् उपैति उपगच्छति शान्त-रजसं प्रक्षीण-मोहादि-क्लेश-रजसम् इत्यर्थः, ब्रह्म-भूतं जीवन्-मुक्तम्, “ब्रह्मैव सर्वम्” इत्य् एवं निश्चयवन्तं ब्रह्म-भूतम् अकल्मषं धर्माधर्मादि-वर्जितम्॥
yuñjat, evam, sadā, ātman, yogin, vigata-kalmaṣa;
sukhena, brahma-saṃsparśa, atyanta, sukha, √aś.

Always uniting the mind (contemplating) in this way, free from impurities, the (jñāna-)yogī easily gains limitless fulfillment that is (revealed) by the contact with (the knowledge of) brahman (revealed as one’s nature, upon removal of ignorance).
एवं सदा आत्मानं [=बुद्धिं] युञ्जन्, विगत-कल्मषः योगी सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते॥
युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तराय-वर्जितः सदा सर्वदा आत्मानं विगत-कल्मषः विगत-पापः, सुखेन अन्-आयासेन ब्रह्म-संस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तद् ब्रह्म-संस्पर्शं सुखम् अत्यन्तम् अन्तम् अतीत्य वर्तत इत्य् अत्यन्तम् उत्कृष्टं निर्-अतिशयम् अश्नुते व्याप्नोति॥
sarva-bhūta-stha, ātman, sarva-bhūta, ca, ātman;
√īkṣ, yoga-yukta-ātman, sarvatra, sama-darśana.

Whose mind is absorbed in this contemplation, who sees sama (the same, that is, brahman) everywhere – sees one’s self abiding in all beings and all beings in one’s self (assimilates the knowledge of oneself as being Paramātmā, the Lord as one’s self).
योग-युक्त-आत्मा सर्वत्र सम-दर्शनः आत्मानं सर्व-भूत-स्थं [ईक्षते], सर्व-भूतानि च आत्मनि ईक्षते॥
इदानीं योगस्य यत् फलं ब्रह्मैकत्व-दर्शनं सर्व-संसार-विच्छेद-कारणं तत् प्रदर्श्यते –
सर्व-भूत-स्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्व-भूतानि च आत्मनि ब्रह्मादीनि स्तम्ब-पर्यन्तानि च सर्व-भूतानि आत्मनि एकतां गतानि ईक्षते पश्यति योग-युक्तात्मा समाहितान्तःकरणः सर्वत्र सम-दर्शनः सर्वेषु ब्रह्मादि-स्थावरान्तेषु विषमेषु सर्व-भूतेषु समं निर्-विशेषं ब्रह्मात्मैकत्व-विषयं दर्शनं ज्ञानं यस्य स सर्वत्र सम-दर्शनः॥
yad, asmad, √dṛś, sarvatra, sarva, ca, asmad, √dṛś;
tad, asmad, na, pra-√naś, tad, ca, asmad, na, pra-√naś.

The one who sees Me everywhere and sees everything in Me – I am not lost (remote) to that one, nor is that one lost (remote) to Me.
यः मां सर्वत्र पश्यति, मयि च सर्वं पश्यति, तस्य अहं न प्रणश्यामि, सः च मे न प्रणश्यति॥
एतस्य आत्मैकत्व-दर्शनस्य फलम् उच्यते –
यो मां पश्यति वासु-देवं सर्वस्य आत्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादि-भूत-जातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्व-दर्शिनः अहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि। स च मे न प्रणश्यति स च विद्वान् मम वासु-देवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम च एकात्मकत्वात्।
स्वात्मा हि नाम आत्मनः प्रिय एव भवति, यस्माच् च अहम् एव सर्वात्मैकत्व-दर्शी॥
sarva-bhūta-sthita, yad, asmad, √bhaj, ekatva, āsthita;
sarvathā, vartamāna, api, tad, yogin, asmad, √vṛt.

Having attained (this vision/knowledge of) oneness, the one who thus gains Me as abiding in all beings, that (jñāna-)yogī, though engaging in all types (of action), abides in Me (abides not just when in the seat of meditation – because knowledge is continuous, in and out of meditation).
यः एकत्वम् आस्थितः [सन्] सर्व-भूत-स्थितं मां भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते॥
इत्येतत् पूर्व-श्लोकार्थं सम्यग्-दर्शनम् अनूद्य तत्-फलं मोक्षः अभिधीयते –
[सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः।] सर्वथा सर्व-प्रकारैः वर्तमानोऽपि सम्यग्-दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्य-मुक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यते इत्यर्थः॥
ātma-aupamya, sarvatra, sama, √dṛś, yad, arjuna;
sukha, vā, yadi, vā, duḥkha, tad, yogin, parama, mata.

O Arjuna, the one who sees (that life is) the same everywhere, whether pleasant or unpleasant, with oneself as the basis of comparison (since ātmā is one) – that (jñāna-)yogī is regarded as the most exalted.
अर्जुन, यः सर्वत्र यदि सुखं वा दुःखं वा आत्म-औपम्येन समं पश्यति, सः योगी परमः मतः॥
किञ्च अन्यत् –
आत्मौपम्येन आत्मा स्वयम् एव उपमीयते अनया इत्य् उपमा तस्या उपमाया भावः औपम्यम्।
तेन आत्मौपम्येन, सर्वत्र सर्व-भूतेषु समं तुल्यं पश्यति यः अर्जुन
स च किं समं पश्यति इत्य् उच्यते –
यथा मम सुखम् इष्टं तथा सर्व-प्राणिनां सुखम् अनुकूलम्। वा-शब्दः च-अर्थे। यदि वा यच् च दुःखं मम प्रतिकूलम् अन्-इष्टं यथा तथा सर्व-प्राणिनां दुःखम् अन्-इष्टं प्रतिकूलं इत्य् एवम् आत्मौपम्येन सुख-दुःखे अनुकूल-प्रतिकूले तुल्यतया सर्व-भूतेषु समं पश्यति, न कस्यचित् प्रतिकूलम् आचरति, अहिंसक इत्यर्थः।
यः एवम् अहिंसकः सम्यग्-दर्शन-निष्ठः स योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्व-योगिनां मध्ये॥
arjuna, √vac:
yad, idam, yoga, yuṣmad, prokta, sāmya, madhu-sūdana;
etad, asmad, na, √dṛś, cañcalatva, sthiti, sthirā.

Arjuna said: O Kṛṣṇa, this (jñāna-)yoga that you have talked about as (the vision of) sameness, I do not see its steady continuance due to the very fleeting nature (of the mind).
अर्जुनः उवाच। मधु-स्ूदन, त्वया अयं योगः यः साम्येन प्रोक्तः, एतस्य [योगस्य] स्थिरां स्थितिं चञ्चलत्वात् अहं न पश्यामि॥
एतस्य यथोक्तस्य सम्यग्-दर्शन-लक्षणस्य योगस्य दुःख-सम्पाद्यताम् आलक्ष्य शुश्रूषुः ध्रुवं तत्-प्राप्त्य्-उपायम् अर्जुन उवाच –
यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधु-सूदन एतस्य योगस्य अहं न पश्यामि नोपलभे, चञ्चलत्वाद् मनसः। किम्? स्थिराम् अचलां स्थितिम्
cañcala, hi, manas, kṛṣṇa, pramāthin, balavat, dṛḍha;
tat, asmad, nigraha, √man, vāyu, iva, su-dus-kara.

O Kṛṣṇa, since the mind is very fleeting, distracting, strong, and well rooted, I think that its control is quite as difficult as that of the wind.
कृष्ण, चञ्चलं हि [=यस्मात्] प्रमाथि बलवत् दृढम् [च] मनः, अहं तस्य निग्रहं वायोः इव सु-दुष्-करं मन्ये॥
प्रसिद्धम् एतत् –
चञ्चलं हि मनः कृष्ण, ‘कृष्ण’-इति कृषतेः विलेखनार्थस्य रूपम्। भक्त-जन-पापादि-दोषाकर्षणात् कृष्णः तस्य सम्बुद्धिः हे कृष्ण हि यस्माद् मनः चञ्चलम्। न केवलम् अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथन-शीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् पर-वशी-करोति।
किञ्च – बलवत् प्रबलम्, न केनचिद् नियन्तुं शक्यम्, दुर्-निवारत्वात्। किञ्च – दृढं तन्तु-नागवद् अच्छेद्यम्।
तस्य एवं-भूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोर् इव यथा वायोः दुष्-करो निग्रहः ततोऽपि दुष्-करं मन्ये इत्यभिप्रायः॥
śrī-bhagavat, √vac:
a-saṃśayam, mahā-bāhu, manas, dus-nigraha, cala;
abhyāsa, tu, kaunteya, vairāgyya, ca, √grah.

The Lord said: O Arjuna, without a doubt, the mind is fleeting and difficult to master. But, O Arjuna, with repetition (in prayerful meditation and eventually in contemplation) and with dispassion (by objective inquiry into the distracting objects and their valuation) it is mastered.
श्री-भगवान् उवाच। महा-बाहो, अ-संशयं मनः चलं दुर्-निग्रहम्। कौन्तेय, अभ्यासेन तु वैराग्येण च गृह्यते॥
एवम् एतद् यथा ब्रवीषि –
असंशयं न अस्ति संशयः मनो दुर्-निग्रहं चलम् इत्य् अत्र हे महा-बाहो। किन्तु अभ्यासेन तु अभ्यासो नाम चित्त-भूमौ कस्याञ्चित् समान-प्रत्ययावृत्तिः चित्तस्य। वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्ट-भोगेषु दोष-दर्शनाभ्यासाद् वैतृष्ण्यम्। तेन वैराग्येण गृह्यते विक्षेप-रूपः प्रचारः चित्तस्य। एवं तद् मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः॥
a-saṃyata-ātman, yoga, dus-pāpa, iti, asmad, mati;
vaśya-ātman, tu, yatat, śakya, avāptum, upāyatas.

By one whose mind is not mastered, this (jñāna-)yoga is difficult to gain, whereas by one whose mind is mastered and who makes effort through (proper) means (through the contemplation presented in this teaching), it is possible to gain. This is my vision.
अ-संयत-आत्मना योगः दुष्-प्रापः। वश्य-आत्मना तु उपायतः यतता [च] अवाप्तुं शक्यः – इति मे मतिः॥
यः पुनः असंयतात्मा, तेन –
असंयतात्मना अभ्यास-वैराग्याभ्याम-संयतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो दुष्-प्रापः दुःखेन प्राप्यत इति मे मतिः
यस् तु पुनः वश्यात्मा अभ्यास-वैराग्याभ्यां वश्यत्वम् आपादितः आत्मा मनः यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्ताद् उपायात्॥
arjuna, √vac:
a-yati, śrad-dhā, upeta, yoga, calita-mānasa;
a-prāpya, yoga-saṃsiddhi, kim, gati, kṛṣṇa, √gam.

Arjuna said: O Kṛṣṇa, (the sannyāsī talked about in this teaching) endowed with trust (in this Your teaching), but who does not make (adequate) effort, whose mind wanders away from yoga, not gaining success in yoga – what is that one’s lot?
अर्जुनः उवाच। कृष्ण, श्रद्धया उपेतः अ-यतिः योगात् चलित-मानसः योग-संसिद्धिम् अ-प्राप्य कां गतिं गच्छति॥
तत्र योगाभ्यासाङ्गी-करणेन इह-लोक-पर-लोक-प्राप्ति-निमित्तानि कर्माणि संन्यस्तानि, योग-सिद्धि-फलं च मोक्ष-साधनं सम्यग्-दर्शनं न प्राप्तम् इति, योगी योग-मार्गाद् मरण-काले चलित-चित्तः इति तस्य नाशम् अशङ्क्य –
अयतिः अप्रयत्नवान् योग-मार्गे श्रद्धया आस्तिक्य-बुद्ध्या च उपेतः योगाद् अन्त-काले च चलितं मानसं मनो यस्य सः चलित-मानसः भ्रष्ट-स्मृतिः सः अप्राप्य योग-संसिद्धिं योग-फलं सम्यग्-दर्शनं कां गतिं हे कृष्ण गच्छति
kad-cid, na, ubhaya-vibhraṣṭa, chinna-abhra, iva, √naś;
a-pratiṣṭha, mahā-bāhu, vimūḍha, brahman, pathan.

O Kṛṣṇa, deluded in the path (in the means for the knowledge) of brahman, fallen from both (karma-yoga and jñāna-yoga), and thus without a basis, I hope that that one does not fizzle out, like a cloudlet (split off from a cloud bank)?
महा-बाहो, ब्रह्मणः पथि विमूढः उभय-विभ्रष्टः अ-प्रतिष्ठः छिन्न-अभ्रम् इव कच्-चिद् न नश्यति॥
कच्चित् किं न उभय-विभ्रष्टः कर्म-मार्गाद् योग-मार्गाच् च विभ्रष्टः सन् छिन्नाभ्रम् इव नश्यति, किं वा न नश्यति अप्रतिष्ठो निर्-आश्रयः हे महा-बाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म-प्राप्ति-मार्गे॥
etad, asmad, saṃśaya, kṛṣṇa, chettum, √arh, a-śeṣatas;
tvad-anya, saṃśaya, idam, chettṛ, na, hi, upa-√pad.

Now, O Kṛṣṇa, You ought to completely remove my doubt, since – other than You (the Lord, Īśvara) – there is no remover of this (particular) doubt.
कृष्ण, एतद् मे संशयम् अ-शेषतः छेत्तुम् अर्हसि, त्वद्-अन्यः हि [=यस्मात्] अस्य संशयस्य छेत्ता न उपपद्यते॥
एतद् मे मम संशयं कृष्ण छेत्तुम् अपनेतुम् अर्हसि अशेषतःत्वद्-अन्यः त्वत्तः अन्यः ऋषिः देवो वा छेत्ता नाशयिता संशयस्य अस्य न हि यस्माद् उपपद्यते न सम्भवति। अतः त्वम् एव छेत्तुम् अर्हसि इत्यर्थः॥
śrī-bhagavat, √vac:
pārtha, na, eva, iha, na, amutra, vināśa, tad, √vid;
na, hi, kalyāṇa-kṛt, ka-cid, dus-gati, tāta, √gam.

The Lord said: O Arjuna, neither here itself (due to the positive attitude of trust, śraddhā) nor hereafter (according to karma) is there loss for that one. Because, O Dear One, (to the extent) anyone performs adaptive action (in keeping with dharma), (to that extent) that one does not get a bad lot.
श्री-भगवान् उवाच। पार्थ, न एव इह न अमुत्र तस्य विनाशः विद्यते। तात, कश्-चिद् हि [=यस्मात्] कल्याण-कृत् दुर्-गतिं न गच्छति॥
हे पार्थ न एव इह लोके न अमुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते न अस्ति। नाशो नाम पूर्वस्माद् हीन-जन्म-प्राप्तिः स योग-भ्रष्टस्य न अस्ति।
न हि यस्मात् कल्याण-कृत् शुभ-कृत् कश्चिद् दुर्-गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्र-रूपेण इति पिता तात उच्यते। पिता एव पुत्र इति पुत्रोऽपि तात उच्यते। शिष्योऽपि पुत्र उच्यते। यतो न गच्छति
prāpya, puṇya-kṛt, loka, uṣitvā, śāśvatī, samā;
śuci, śrīmat, geha, yoga-bhraṣṭa, abhi-√jan.

The one who has “fallen” from this yoga gains the (same) worlds (heavens) of those who do adaptive actions, lives there for countless years, then is (re-)born in the home of the virtuous (following dharma) and fortunate family.
योग-भ्रष्टः पुण्य-कृतां लोकान् प्राप्य, शाश्वतीः समाः उषित्वा, शुचीनां श्रीमतां गेहे अभिजायते॥
किं तु अस्य भवति? –
योग-मार्गे प्रवृत्तः सन्न्यासी सामर्थ्यात् प्राप्य गत्वा पुण्य-कृताम् अश्व-मेधादि-याजिनां लोकान्, तत्र च उषित्वा वासम् अनुभूय शाश्वतीः नित्याः समाः संवत्सरान्, तद्-भोग-क्षये शुचीनां यतोक्त-कारिणां श्रीमतां विभूतिमतां गेहे गृहे योग-भ्रष्टः अभिजायते
athavā, yogin, eva, kula, √bhū, dhīmat;
etad, hi, dus-labhatara, loka, janman, yad, īdṛśa.

Or (even better) that one is born in the family of wise yogīs. Such a birth as this is indeed more difficult to attain in this world.
अथवा धीमतां योगिनाम् एव कुले भवति। यद् एतद् ईदृशं जन्म हि लोके दुर्-लभतरम्॥ (MunU.3.2.9)
अथवा श्रीमतां कुलाद् अन्यस्मिन् योगिनाम् एव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम्।
एतद् हि जन्म, यद् दरिद्राणां योगिनां कुले, दुर्-लभतरं दुःख-लभ्यतरं पूर्वम् अपेक्ष्य लोके जन्म यद् ई-दृशं यथोक्त-विशेषणे कुले॥
tatra, tad, buddhi-saṃyoga, √labh, paurva-dehika;
√yat, ca, tatas, bhūyas, saṃsiddhi, kuru-nandana.

There, one gains connection with (quickly matures to) an intellect (like the one) that existed while in the previous body and then strives further than that, toward success (complete freedom), O Arjuna.
तत्र पौर्व-देहिकं तं बुद्धि-संयोगं लभते, ततः च संसिद्धौ भूयः यतते, कुरु-नन्दन॥
यस्मात् –
तत्र योगिनां कुले तं बुद्धि-संयोगं बुद्ध्या संयोगं बुद्धि-संयोगं लभते पौर्व-देहिकं पूर्वस्मिन् देहे भवं पौर्व-देहिकम्। यतते च प्रयत्नं च करोति ततः तस्मात् पूर्व-कृतात् संस्काराद् भूयः बहुतरं संसिद्धौ संसिद्धि-निमित्तं हे कुरु-नन्दन
pūrva-abhyāsa, tad, eva, √hṛ, hi, avaśa, api, tad;
jijñāsu, api, yoga, śabda-brahman, ati-√vṛt.

By that previous (life’s) practice (its karma-phala, the result of its karma) alone, even without will, one is indeed swept along. Just desiring to know about this (jñāna-)yoga one (quickly) goes beyond the Veda text (its bulky heaven-going section).
तेन पूर्व-अभ्यासेन एव अ-वशः अपि सः ह्रियते हि। योगस्य जिज्ञासुः अपि शब्द-ब्रह्म अतिवर्तते॥
कथं पूर्व-देह-बुद्धि-संयोग इति तद् उच्यते –
यः पूर्व-जन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेन [पूर्वाभ्यासेन] एव बलवता ह्रियते संसिद्धौ हि यस्माद् अवशोऽपि सः योग-भ्रष्टः।
न कृतं चेद् योगाभ्यास-जात् संस्काराद् बलवत्तरम् अधर्मादि-लक्षणं कर्म, तदा योगाभ्यास-जनितेन संस्कारेण ह्रियते, अधर्मश् चेद् बलवत्तरः कृतः, तेन योग-जोऽपि संस्कारः अभिभूयत एव।
तत्-क्षये तु योग-जः संस्कारः स्वयम् एव कार्यम् आरभते, न दीर्घ-काल-स्थस्य अपि विनाशः तस्य अस्ति इत्यर्थः।
अतः जिज्ञासुर् अपि योगस्य स्व-रूपं ज्ञातुम् इच्छन् अपि योग-मार्गे प्रवृत्तः सन्न्यासी योग-भ्रष्टः, सामर्थ्यात् सोऽपि शब्द-ब्रह्म वेदोक्त-कर्मानुष्ठान-फलम् अतिवर्तते अतिक्रामति अपाकरिष्यति, किम् उत बुद्ध्वा यः योगं तन्-निष्ठः अभ्यासं कुर्यात्॥
prayatna, yatamāna, tu, yogin, saṃśuddha-kilbiṣa;
an-eka-janma-saṃsiddha, tatas, √yā, parā, gati.

The (jñāna-)yogī who indeed strives with resolve (until) free from faults, accomplished (by accumulated effort) after many (prior) births (wherein all obstacles to knowledge are overcome) – that one thereupon gains the limitless end.
प्रयत्नात् यतमानः तु [=एव] योगी संशुद्ध-किल्बिषः अनेक-जन्म-संसिद्धः ततः परां गतिं याति॥
कुतश् च योगित्वं श्रेयः इति –
प्रयत्नाद् यतमानः, अधिकं यतमान इत्यर्थः। तत्र योगी विद्वान् संशुद्ध-किल्बिषः विशुद्ध-किल्बिषः संशुद्ध-पापः अनेक-जन्म-संसिद्धः अनेकेषु जन्मसु किञ्चित् किञ्चित् संस्कार-जातम् उपचित्य तेन उपचितेन अनेक-जन्म-कृतेन संसिद्धः अनेक-जन्म-संसिद्धः ततः लब्ध-सम्यग्-दर्शनः सन् याति परां प्रकृष्टां गतिम्
tapasvin, adhika, yogin, jñānin, api, mata, adhika;
karmin, ca, adhika, yogin, tasmāt, yogin, √bhū, arjuna.

This yogī is superior to tapasvīs (who perform prayerful disciplines) and is also considered superior to jñānīs (that is, scholars who treat this teaching as just theory rather than as about themselves). This yogī is also superior to those who perform rituals. Therefore, be a yogī (through karma-yoga become a jñāna-yogī), O Arjuna.
योगी तपस्विभ्यः अधिकः ज्ञानिभ्यः [=पण्डितेभ्यः] अपि अधिकः मतः। योगी कर्मिभ्यः च अधिकः। तस्मात् योगी भव, अर्जुन॥
यस्माद् एवं तस्मात् –
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानम् अत्र शास्त्रार्थ-पाण्डित्यम्, तद्वद्भ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः इति। कर्मिभ्यः, अग्नि-होत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात् तस्माद् योगी भव अर्जुन
yogin, api, sarva, mad-gata, antar-ātman;
śrad-dhāvat, √bhaj, yad, asmad, tad, asmad, yuktatama, mata.

One who has trust (śraddhā) – the mind absorbed in Me – seeks Me (through this contemplation). That one is considered by Me the most exalted among all yogīs.
यः श्रद्धावान् मद्-गतेन अन्तर्-आत्मना मां भजते, सः सर्वेषां योगिनाम् अपि युक्ततमः मे मतः॥
योगिनाम् अपि सर्वेषां रुद्रादित्यादि-ध्यान-पराणां मध्ये मद्-गतेन मयि वासु-देवे समाहितेन अन्तर्-आत्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम्, स मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति॥
इति श्रीमत्-परम-हंस-परिव्राजकाचार्य-गोविन्द-भगवत्-पूज्य-पाद-शिष्य-श्रीमच्-छङ्कर-भगवतः कृतौ श्री-भगवद्-गीता-भाष्येऽभ्यास-योगो नाम षष्ठोऽध्यायः॥६॥
om, tad, sat. iti, śrīmat-bhagavat-gītā, upaniṣad, brahma-vidyā, yoga-śāstra, śrī-kṛṣṇa-arjuna-saṃvāda, dhyāna-yoga, nāma, ṣaṣṭha, adhyāya.
Om (brahman, the witness of all) is that (only) reality. Thus ends the sixth chapter, called “The Topic of Contemplation,” of the (eighteen chapters of) Songs of the Glorious Lord, which is (looked upon as) sacred teaching (Upaniṣad) and (whose teaching is) in (the form of) a dialogue between Śrī Kṛṣṇa and Arjuna, (the subject matter being) knowledge of brahman and yoga.

Go to Top ('Home' key on many Windows browsers)

“योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः” (BhG.6.47) इति प्रश्नबीजम् उपन्यस्य, स्वयमेव “ईदृशं मदीयं तत्त्वम्, एवं मद्गतान्तरात्मा स्यात्” इत्येतत् विवक्षुः॥
śrī-bhagavat, √vac:
asmad, āsakta-manas, pārtha, yoga, yuñjat, mad-āśraya;
a-saṃśayam, samagra, asmad, yathā, √jñā, tad, √śru.

The Lord said: O Arjuna, please listen to that (jñānaṃ sa-vijñānam, knowledge and its assimilation) by which – having your mind committed to Me, having Me as your foundation, and taking to (My two-fold) yoga – you will know Me (Parameśvara, paraṃ brahma) complete, without doubt.
श्री-भगवान् उवाच। पार्थ, मयि आसक्त-मनाः मद्-आश्रयः योगं युञ्जन्, यथा समग्रं माम् अ-संशयं ज्ञास्यसि, तद् शृणु॥
मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सः मय्य् आसक्त-मनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन्, मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयः। यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनं कर्म अग्निहोत्रादि तपः दानं वा किञ्चित् आश्रयं प्रतिपद्यते, अयं तु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् साधनान्तरं मय्येव आसक्तमनाः भवति। यः त्वं एवंभूतः सन् असंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण “एवमेव भगवान्” इति, तत् शृणु उच्यमानं मया॥
jñāna, yuṣmad, asmad, sa-vijñāna, idam, √vac, a-śeṣatas;
yad, jñātvā, na, iha, bhūyas, anya, jñātavya, ava-√śiṣ.

This knowledge (jñāna), along with its assimilation (vijñāna), I will tell you completely, knowing which nothing more remains here to be known.
अहं ते [=तुभ्यं] इदं ज्ञानं स-विज्ञानं वक्षामि अ-शेषतः, यद् ज्ञात्वा इह न अन्यद् भूयः ज्ञातव्यम् अवशिष्यते॥
तच्च मद्विषयम् –
ज्ञानं ते तुभ्यम् अहं स-विज्ञानं विज्ञानसहितं स्वानुभवयुक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्‌त्स्न्येन। तत् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय – यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते नावशिष्टं भवति। इति मत्तत्त्वज्ञो यः, सः सर्वज्ञो भवतीत्यर्थः। अतो विशिष्टफलत्वात् दुर्लभं ज्ञानम्॥
manuṣya, sahasra, ka-cid, √yat, siddhi;
yatat, api, siddha, ka-cid, asmad, √vid, tattvatas.

Among thousands of people, a rare one makes an effort for this accomplishment. Even of those who make an effort and are prepared, a rare one knows Me in reality.
मनुष्याणां सहस्रेषु कश्-चिद् सिद्धये यतति। यतताम् अपि सिद्धानां कश्-चिद् मां वेत्ति तत्त्वतः॥
कथमित्युच्यते –
मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थम्। तेषां यतताम् अपि सिद्धानाम्, सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चित् एव हि मां वेत्ति तत्त्वतः यथावत्॥
bhūmi, ap, an-ala, vāyu, kha, manas, buddhi, eva, ca;
aham-kāra, iti, idam, asmad, bhinnā, prakṛti, aṣṭadhā.

Earth (solidity), water (liquidity), fire (heat/light), wind (movement), space (dimension), mind, intellect, and the “I” notion (– the universe divided into five sensible elements and the means to sense them) – this is My nature (prakṛti) divided in eight ways.
भूमिः आपः अन्-अलः वायुः खं मनः बुद्धिः अहङ्कारः एव च इति इयं मे प्रकृतिः अष्टधा भिन्ना॥
श्रोतारं प्ररोचनेन अभिमुखीकृत्याह –
भूमिः इति पृथिवीतन्मात्रमुच्यते, न स्थूला, “भिन्ना प्रकृतिरष्टधा” इति वचनात्। तथा अबादयोऽपि तन्मात्राण्येव उच्यन्ते – आपः अनलः वायुः खम्मनः इति मनसः कारणमहङ्कारो गृह्यते। बुद्धिः इति अहङ्कारकारणं महत्तत्त्वम्। अहङ्कारः इति अविद्यासंयुक्तमव्यक्तम्। यथा विषसंयुक्तमन्नं विषमित्युच्यते, एवमहङ्कारवासनावत् अव्यक्तं मूलकारणमहङ्कार इत्युच्यते, प्रवर्तकत्वात् अहङ्कारस्य। अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके। इति इयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्ना भेदमागता॥
a-parā, idam, itas, tu, anyā, prakṛti, √vid, asmad, parā;
jīva-bhūtā, manā-bāhu, yad, idam, √dhṛ, jagat.

This is not My ultimate (nature – it is a lower level of reality within Me, as a-sat is to sat, the unreal is to the real). Whereas, O Arjuna, different from this, please know My ultimate nature, ultimate prakṛti – being the basis of the jīva (individual) and by which this universe is sustained.
इयम् अ-परा। महा-बाहो, इतः तु अन्यां मे परां प्रकृतिं विद्धि – जीव-भूतां यया इदं जगत् धार्यते॥
अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धनात्मिका इयम्इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीव-भूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महा-बाहो, यया प्रकृत्या इदं धार्यते जगत् अन्तः प्रविष्टया॥
enad-yoni, bhūta, sarva, iti, upa-√dhṛ;
asmad, kṛtsna, jagat, prabhava, pralaya, tathā.

Please bear in mind that all beings have these two (prakṛtis, the universe of forms and its reality) as their source. I am the source of the entire universe, as well as its resolution.
सर्वाणि भूतानि एतद्-योनीनि इति उपधारय। अहं कृत्स्नस्य जगतः प्रभवः, तथा प्रलयः॥
एतद्-योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः येषां भूतानां तानि एतद्योनीनि, भूतानि सर्वाणि इति एवम् उपधारय जानीहि। यस्मात् मम प्रकृती योनिः कारणं सर्वभूतानाम्, अतः अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथा। प्रकृतिद्वयद्वारेण अहं सर्वज्ञः ईश्वरः जगतः कारणमित्यर्थः॥
mattas, paratara, na, anya, ka-cid, √as, dhanam-jaya;
asmad, sarva, idam, prota, sūtra, maṇi-gaṇa, iva.

There is no other (cause) superior to Me, O Arjuna. Like collections of gems (so many glories) on a thread, all this is strung in Me.
मत्तः परतरम् अन्यद् न किञ्-चिद् अस्ति, धनञ्-जय। सूत्रे मणि-गणाः इव मयि इदं सर्वं प्रोतम्॥
यतः तस्मात् –
मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किञ्चित् न अस्ति न विद्यते, अहमेव जगत्कारणमित्यर्थः, हे धनञ्जय। यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वम् इदं जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं ग्रथितमित्यर्थ, दीर्घतन्तुषु पटवत्, सूत्रेमणि-गणा इव
rasa, asmad, ap, kaunteya, prabhā, √as, śaśi-sūrya;
praṇava, sarva-veda, śabda, kha, pauruṣa, nṛ.

O Arjuna, I am (to name a few) the taste in (the essence of) water, the light of the moon and sun, the sound symbol Om in all the Vedas, the sound in (the essence of) space, and the humanness (the unique capacity of self-judgment) in humans.
कौन्तेय, अहम् अस्मि – अप्सु रसः, शशि-सूर्ययोः प्रभा, सर्व-वेदेषु प्रणवः, खे शब्दः, नृषु पौरुषम्॥
केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते –
रसः अहम्, अपां यः सारः स रसः, तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थः। एवं सर्वत्र। यथा अहम् अप्सु रसः, एवं प्रभा अस्मि शशि-सूर्ययोःप्रणवः ओङ्कारः सर्व-वेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः। तथा खे आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम्। तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुम्बुद्धिः नृषु, तस्मिन् मयि पुरुषाः प्रोताः॥
puṇya, gandha, pṛthivī, ca, tejas, ca, √as, vibhāvasu;
jīvana, sarva-bhūta, tapas, ca, √as, tapasvin.

I am sweet fragrance in earth and the tejas (heat and light) in (the essence of) fire. I am the life in living beings, and the prayerful discipline in ascetics.
पृथिव्यां च पुण्यः गन्धः, विभावसौ च तेजस् अस्मि। सर्व-भूतेषु जीवनं, तपस्विषु च तपस् अस्मि॥
पुण्यः सुरभिः गन्धः पृथिव्यां च अहम्, तस्मिन् मयि गन्धभूते पृथिवी प्रोता। पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितम् अबादिषु रसादेः पुण्यत्वोपलक्षणार्थम्। अपुण्यत्वं तु गन्धादीनाम् अविद्याधर्माद्यपेक्षं संसारिणां भूतविशेषसंसर्गनिमित्तं भवति। तेजश्च दीप्तिश्च अस्मि विभावसौ अग्नौ। तथा जीवनं सर्व-भूतेषु, येन जीवन्ति सर्वाणि भूतानि तत् जीवनम्। तपश्च अस्मि तपस्विषु, तस्मिन् तपसि मयि तपस्विनः प्रोताः॥
bīja, asmad, sarva-bhūta, √vid, pārtha, sanā-tana;
buddhi, buddhimat, √as, tejas, tejasvin, asmad.

O Arjuna, please understand the ever-existing Me as the seed of all beings. I am the intellect of all who have an intellect, and the brilliance of all that have brilliance.
पार्थ, सना-तनं मां सर्व-भूतानां बीजं विद्धि। बुद्धिमतां बुद्धिः, तेजस्विनां तेजस् अहम् अस्मि॥
बीजं प्ररोहकारणं मां विद्धि सर्व-भूतानां हे पार्थ सनातनं चिरन्तनम्। किञ्च, बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमताम् अस्मि, तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम्
bala, balavat, ca, asmad, kāma-rāga-vivarjita;
dharma-a-viruddha, bhūta, kāma, √as, bharata-ṛṣabha.

In all that have strength, I am the strength that is free from kāma (requirement/anticipation – toward the unattained) and rāga (attachment – toward the attained), and in all beings (I am nonbinding) desire not opposed to dharma (My universal order), O Arjuna.
बलवतां च काम-राग-विवर्जितं बलं, भूतेषु धर्म-अ-विरुद्धः कामः अहम् अस्मि, भरत-ऋषभ॥
बलं सामर्थ्यम् ओजो बलवताम् अहम्, तच्च बलं काम-राग-विवर्जितम्, कामश्च रागश्च कामरागौ – कामः तृष्णा असंनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु – ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं सत्त्वमहमस्मि, न तु यत्संसारिणां तृष्णारागकारणम्। किञ्च – धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिविषयः, स कामः अस्मि हे भरतर्षभ
yad, ca, eva, sāttvika, bhāva, rājasa, tāmasa, ca, yad;
matta, eva, iti, tad, √vid, na, tu, asmad, tad, tad, asmad.

Those things born from sattva (clear energy) and those from rajas (agitation) and tamas (mass, dullness) (guṇas), know them to be from Me only. They (the a-sat – all impermanent things) are in Me (sat – permanent existence, that is, their existence depends on Me), but I am not in them (that is, My existence does not depend on them).
ये च एव सात्त्विकाः भावाः, ये च राजसाः तामसाः [च], तान् मत्तः एव इति विद्धि। ते मयि, न तु अहं तेषु॥
किञ्च –
ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावाः पदार्थाः, राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताः , ये केचित् प्राणिनां स्वकर्मवशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान् समस्तान् एव। यद्यपि ते मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः, यथा संसारिणः। ते पुनः मयि मद्वशाः मदधीनाः॥
tri, guṇamaya, bhāva, idam, sarva, idam, jagat;
mohita, na, abhi-√jñā, asmad, idam, para, a-vyayva.

This entire world (of humans) is deluded by these things that are modifications of the three guṇas. This (populace) does not know Me, who is distinct (a separate order of reality, as a-sat is to sat, the unreal is to the real) from them (from what they think they are), and is changeless (not modified into them).
एभिः भावैः त्रिभिः गुणमयैः सर्वम् इदं जगत् मोहितम्। माम् एभ्यः परम् अव्ययं [च] [लोकः] न अभिजानाति॥
एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति जगत् इति अनुक्रोशं दर्शयति भगवान्। तच्च किंनिमित्तं जगतः अज्ञानमित्युच्यते –
त्रिभिः गुणमयैः गुणविकारैः रागद्वेषमोहादिप्रकारैः भावैः पदार्थैः एभिः यथोक्तैः सर्वम् इदं प्राणिजातं जगत् मोहितम् अविवेकितामापादितं सत् न अभिजानाति माम्, एभ्यः यथोक्तेभ्यः गुणेभ्यः परं व्यतिरिक्तं विलक्षणं च अव्ययं व्ययरहितं जन्मादिसर्वभावविकारवर्जितम् इत्यर्थः॥
daivī, hi, etad, guṇamayī, asmad, māyā, dus-atyayā;
asmad, eva, yad, pra-√pad, māyā, etad, √tṝ, tad.

Because, this, My māyā (prakṛti, this captivating world of appearances, mere names and forms) – in the form of the three guṇas and coming from Me the Lord – is difficult to cross. (Therefore, giving up all else in māyā) those who seek only Me (as themselves) cross this māyā.
मम हि [=यस्मात्] एषा माया गुणमयी दैवी दुर्-अत्यया, ये माम् एव प्रपद्यन्ते ते एतां मायां तरन्ति॥
कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामतिक्रामति इत्युच्यते –
दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्यया। तत्र एवं सति सर्वधर्मान् परित्यज्य माम् एव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति, ते संसारबन्धनात् मुच्यन्ते इत्यर्थः॥
na, asmad, dus-kṛtin, mūḍha, pra-√pad, nara-adhama;
māyā, apahṛta-jñāna, āsura, bhāva, āśrita.

Those who do maladaptive action, who are deluded and the lowest among people, do not seek (the ultimate) Me. Robbed of discerning capacity by (this enchanting) māyā (this captivating world of appearances), they have resorted to the condition of an asura (one who fights against the Lord’s order, against the cosmic cycle).
दुष्-कृतिनः मूढाः नर-अधमाः न मां प्रपद्यन्ते। मायया अपहृत-ज्ञानाः आसुरं भावम् आश्रिताः॥
यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते –
न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः। ते च मायया अपहृत-ज्ञानाः संमुषितज्ञानाः आसुरं भावं हिंसानृतादिलक्षणम् आश्रिताः
catur-vidha, √bhaj, asmad, jana, su-kṛtin, arjuna;
ārta, jijñāsu, artha-arthin, jñānin, ca, bharata-ṛṣabha.

Fourfold are the people who do adaptive action and who seek Me, O Arjuna. (These four kinds of devotees, bhaktas, are) the one who is seized by trouble, the one who requires security, the one who wants to know (Me), and the jñānī (one who knows Me), O Arjuna.
चतुर्-विधाः जनाः सु-कृतिनः मां भजन्ते, अर्जुन। आर्तः अर्थ-अर्थी जिज्ञासुः ज्ञानी च, भरत-ऋषभ॥
ये पुनर्नरोत्तमाः पुण्यकर्माणः –
चतुर्विधाः चतुःप्रकाराः भजन्ते सेवंते मां जनाः सुकृतिनः पुण्यकर्माणः हे अर्जुनआर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः तत्त्वविच् हे भरतर्षभ
tad, jñānin, nitya-yukta, eka-bhakti, vi-√śiṣ;
priya, hi, jñānin, atyartham, asmad, tad, ca, asmad, priya.

Among them, the jñānī (who knows Me) – who is always united (in Me) and whose worship is of the one (Lord as everything) – is distinguished, because I (ātmā) am totally beloved to that jñānī and that one is (totally) beloved to Me (as ātmā alone is beloved, priya – see Bṛhadāraṇyaka Upaniṣad 2.4.5).
तेषां ज्ञानी नित्य-युक्तः एक-भक्तिः विशिष्यते, अत्यर्थं हि [=यस्मात्] अहं ज्ञानिनः प्रियः, सः च मम प्रियः॥
तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्ववित्त्वात् नित्य-युक्तः भवति एक-भक्तिः च, अन्यस्य भजनीयस्य अदर्शनात्, अतः स एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते, अतिरिच्यते इत्यर्थः। प्रियो हि यस्मात् अहम् आत्मा ज्ञानिनः, अतः तस्य अहम् अत्यर्थं प्रियः, प्रसिद्धं हि लोके “आत्मा प्रियो भवति” इति। तस्मात् ज्ञानिनः आत्मत्वात् वासुदेवः प्रियो भवतीत्यर्थः। स च ज्ञानी मम वासुदेवस्य आत्मैवेति मम अत्यर्थं प्रियः
udāra, sarva, eva, etad, jñānin, tu, ātman, eva, asmad, mata;
āsthita, tad, hi, yukta-ātman, asmad, eva, an-uttamā, gati.

All (four) indeed are exalted, but the jñānī is ātmā (My self) alone. That is My vision. Because that one, whose mind is absorbed (in Me), has attained the goal that is but Me, beyond which there is none.
सर्वे एव एते उदाराः, ज्ञानी तु आत्मा एव – [इति] मे मतम्। सः हि [=यस्मात्] युक्त-आत्मा माम् एव अन्-उत्तमां गतिम् आस्थितः॥
न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रियाः? न, किं तर्हि? –
उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः। न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवति। ज्ञानी तु अत्यर्थं प्रियो भवतीति विशेषः। तत् कस्मात् इत्यत आह – ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम मतं निश्चयः। आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात् “अहमेव भगवान् वासुदेवः न अन्योऽस्मि” इत्येवं युक्तात्मा समाहितचित्तः सन् माम् एव परं ब्रह्म गन्तव्यम् अनुत्तमां गन्तुं प्रवृत्त इत्यर्थः॥
bahu, janman, anta, jñānavat, asmad, pra-√pad;
vāsu-deva, sarva, iti, tad, mahā-ātman, su-dus-labha.

At the end of many births, the one who (finally) has the knowledge that “the Lord (Vāsu-deva, the conscious being in which everything exists) is all (the Lord is all this, including oneself),” attains Me. That wise person is very rare.
बहूनां जन्मनाम् अन्ते ज्ञानवान् “वासु-देवः सर्वम्” इति मां प्रपद्यते। सः महा-आत्मा सु-दुर्-लभः॥
ज्ञानी पुनरपि स्तूयते –
बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते। कथम्? वासु-देवः सर्वम् इति। यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा, न तत्समः अन्यः अस्ति, अधिको वा। अतः सु-दुर्लभः, “मनुष्याणां सहस्रेषु” (BhG.7.3) इति हि उक्तम्॥
kāma, tad, tad, hṛta-jñāna, pra-√pad, anya-devatā;
tad, tad, niyama, āsthāya, prakṛti, niyata, svā.

Those whose discrimination has been robbed by various requirements and are ruled by their own disposition worship various deities, following various stipulations (per the appropriate deity to fulfill each particular requirement).
तैः तैः कामैः हृत-ज्ञानाः स्वया प्रकृत्या नियताः तं तं नियमम् आस्थाय अन्य-देवताः प्रपद्यन्ते॥
आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते –
कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृत-ज्ञानाः अपहृतविवेकविज्ञानाः प्रपद्यन्ते अन्य-देवताः प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः, तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया आत्मीयया॥
yad, yad, yad, yad, tanu, bhakta, śrad-dhā, arcitum, √iṣ;
tad, tad, a-calā, śrad-dhā, tad, eva, vi-√dhā, asmad.

Whoever be the devotee and to whichever (limited) form (of Mine) one wishes to worship with faith – for that one, the very same faith I make firm (by giving the result of the devotee’s action).
यः यः भक्तः यां यां तनुं श्रद्धया अर्चितुम् इच्छति, तस्य तस्य ताम् एव श्रद्धाम् अहम् अ-चलां विदधामि॥
तेषां च कामीनाम् –
यः यः कामी यां यां देवता-तनुं श्रद्धया संयुक्तः भक्तः च सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां ताम् एव विदधामि स्थिरीकरोमि॥
tad, tad, śrad-dhā, yukta, tad, rādhana, √īh;
√labh, ca, tatas, kāma, asmad, eva, vihita, hi, tad.

That one, endowed with that faith, engages in the worship of that (deity, that limited form of Me) and obtains from that (deity) those desired objects – because those are ordained by Me alone (in the form of the laws of karma).
सः तया श्रद्धया युक्तः तस्याः राधनम् ईहते, ततः च कामान् लभते, तान् हि [=यस्मात्] मया एव विहितान्॥
यथैव पूर्वं प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धया अर्चितुम् इच्छति –
स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टते। लभते च ततः तस्याः आराधितायाः देवता-तन्वाः कामान् ईप्सितान् मया एव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान्, हि यस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यं लभते इत्यर्थः। “हितान्” इति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम्, न हि कामा हिताः कस्यचित्॥
antavat, tu, phala, tad, tad, √bhū, alpa-medhas;
deva, deva-yaj, √yā, mad-bhatka, √yā, asmad, api.

But for those of limited discernment (hence, of limited goals and of limited capacity for appreciation) that result is limited (in time, in value, etcetera). Those who worship the deities go to the (limited world of the) deities, and those who worship (the limitless) Me go to Me (as their self).
तेषां तु अल्प-मेधसां तद् फलम् अन्तवत् भवति। देव-यजः देवान् यान्ति, मद्-भक्ताः अपि मां यान्ति॥
यस्मात् अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते, अतः –
अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्प-मेधसां अल्पप्रज्ञानाम्। देवान् देव-यजो यान्ति देवान् यजन्त इति देवयजः, ते देवान् यान्ति, मद्भक्ता यान्ति माम् अपि। एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय, अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान्॥
a-vyakta, vyakti, āpanna, √man, asmad, a-buddhi;
para, bhāva, ajānat, asmad, a-vyaya, an-uttama.

Those who lack discernment, not knowing My limitless nature – changeless and beyond which there is none – think of Me, who is formless, as having attained a form.
अ-बुद्धयः अ-व्ययम् अन्-उत्तमं मम परं भावम् अ-जानन्तः माम् अ-व्यक्तं व्यक्तिम् आपन्नं मन्यन्ते॥
किंनिमित्तं मामेव न प्रपद्यन्ते इत्युच्यते –
अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम् इदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तम् अबुद्धयः अविवेकिनः परं भावं परमात्मस्वरूपम् अजानन्तः अविवेकिनः मम अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं भावमजानन्तः मन्यन्ते इत्यर्थः॥
na, asmad, prakāśa, sarva, yoga-māyā-samāvṛta;
mūḍha, idam, na, abhi-√jñā, loka, asmad, a-ja, a-vyaya.

Veiled (seemingly embodied in names and forms) by māyā, which is the union (of the three guṇas), I am not evident to everyone. This person (the general populace) who is deluded does not (properly) know Me, the unborn and changeless (ātmā, the self, their self).
योग-माया-समावृतः अहं न सर्वस्य प्रकाशः। अयं लोकः मूढः माम् अ-जम् अ-व्ययं न अभिजानाति॥
तदज्ञानं किंनिमित्तमित्युच्यते –
न अहं प्रकाशः सर्वस्य लोकस्य, केषाञ्चिदेव मद्भक्तानां प्रकाशः अहमित्यभिप्रायः। योग-माया-समावृतः योगः गुणानां युक्तिः घटनं सैव माया योगमाया, तया योगमायया समावृतः, सञ्छन्नः इत्यर्थः। अत एव मूढो लोकः अयं न अभिजानाति माम् अजम् अव्ययम्
यया योगमायया समावृतं मां लोकः नाभिजानाति, नासौ योगमाया मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति, यथा अन्यस्यापि मायाविनः मायाज्ञानं तद्वत्॥
√vid, asmad, samatīta, vartamāna, ca, arjuna;
bhaviṣya, ca, bhūta, asmad, tu, √vid, na, ka-cid.

O Arjuna, I know (all) things past, present, and future. But no one (except the jñānī who knows himself or herself as Me) knows Me.
अर्जुन, अहं समतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद। न तु कश्चन मां वेद॥
यतः एवम्, अतः –
अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि च अर्जुन, भविष्याणि च भूतानि वेद अहम्। मां तु वेद न कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा, मत्तत्त्ववेदनाभावादेव न मां भजते॥
icchā-dveṣa-samuttha, dvam-dva-moha, bhārata;
sarva-bhūta, sammoha, sarga, √yā, param-tapa.

O Arjuna, Scorcher of Foes, all beings at birth – because of the delusion occasioned by the natural pairs of opposites, (which delusion is) born of requiring and aversion – become completely deluded.
भारत, परन्-तप, सर्गे इच्छा-द्वेष-समुत्थेन द्वन्-द्व-मोहेन सर्व-भूतानि सम्मोहं यान्ति॥
केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां न विदन्ति इत्यपेक्षायामिदमाह –
इच्छा-द्वेष-समुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन। केनेति विशेषापेक्षायामिदमाह – द्वन्द्व-मोहेन द्वन्द्वनिमित्तः मोहः द्वन्द्वमोहः तेन। तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः सम्बध्यमानौ द्वन्द्वशब्देन अभिधीयेते। यत्र यदा इच्छाद्वेषौ सुख-दुःख-तद्धेतु-सम्प्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्म-तत्त्व-विषय-ज्ञानोत्पत्ति-प्रतिबन्ध-कारणं मोहं जनयतः। न हि इच्छा-द्वेष-दोष-वशीकृत-चित्तस्य यथाभूतार्थ-विषय-ज्ञानम् उत्पद्यते बहिरपि, किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इति। अतः तेन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन, भारत भरतान्वयज।
सर्व-भूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत्, यान्ति गच्छन्ति हे परन्तप। मोहवशान्येव सर्वभूतानि जायमानानि जायन्ते इत्यभिप्रायः। यतः एवम्, अतः तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि संमोहितानि मामात्मभूतं न जानन्ति, अत एव आत्मभावे मां न भजन्ते॥
yad, tu, anta-gata, pāpa, jana, puṇya-karman;
tad, dvam-dva-moha-nirmukta, √bhaj, asmad, dṛḍha-vrata.

But those people of adaptive action whose karma demerit (and merit) has come to an end – being freed from the delusion occasioned by the (natural) pairs of opposites – and whose commitment is firm, they worship Me (as themselves).
येषां तु पुण्य-कर्मणां जनानां पापम् अन्त-गतं, ते द्वन्-द्व-मोह-निर्मुक्ताः दृढ-व्रताः मां भजन्ते॥
के पुनः अनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तः त्वां विदित्वा यथाशास्त्रमात्मभावेन भजन्ते इत्यपेक्षितमर्थं दर्शितुम् उच्यते –
येषां तु पुनः अन्त-गतं समाप्तप्रायं क्षीणं पापं जनानां पुण्य-कर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्यकर्माणः तेषां पुण्यकर्मणाम्, ते द्वन्द्व-मोह-निर्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढ-व्रताः। “एवमेव परमार्थतत्त्वं नान्यथा” इत्येवं सर्वपरित्यागव्रतेन निश्चितविज्ञानाः दृढव्रताः उच्यन्ते॥
jarā-maraṇa-mokṣa, asmad, āśritya, √yat, yad;
tad, brahman, tad, √vid, kṛtsna, adhi-ātma, karman, ca, a-khila.

Those who make effort for freedom from old age and death – taking refuge in Me – they know that brahman (reality, Me) in entirety as adhyātma (centered on/existing in the body – as pratyag-ātmā, themselves) and (they know) all about karma.
ये माम् आश्रित्य जरा-मरण-मोक्षाय यतन्ति, ते तद् ब्रह्म कृत्स्नम् अध्यात्मं [विदुः], कर्म च अ-खिलं विदुः॥
ते किमर्थं भजन्ते इत्युच्यते –
जरा-मरण-मोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम् आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत् ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं वस्तु तत् विदुः, कर्म च अखिलं समस्तं विदुः॥
sa-adhi-bhūta-adhi-daivam, asmad, sa-adhi-yajñam, ca, yad, √vid;
prayāṇa-kāla, api, ca, asmad, tad, √vid, yukta-cetas.

Those who know Me as adhibhūta (centered on/existing in beings) and adhidaiva (centered on/existing in deities) and as adhiyajña (centered on/existing in rituals), whose minds are absorbed in Me even at the moment of death – they know Me.
ये मां स-अधिभूत-अधिदैवं स-अधियज्ञं च विदुः, युक्त-चेतसः प्रयाण-काले अपि च – ते मां विदुः॥
साधिभूताधिदैवम् अधि-भूतं च अधि-दैवं च अधिभूताधिदैवम्, सह अधिभूताधिदैवेन वर्तते इति साधिभूताधिदैवं च मां ये विदुः, साधि-यज्ञं च सह अधि-यज्ञेन साधि-यज्ञं ये विदुः, प्रयाण-काले मरणकाले अपि च मां ते विदुः युक्त-चेतसः समाहितचित्ता इति॥
Om (brahman, the witness of all) is that (only) reality. Thus ends the seventh chapter, called “The Topic of Knowledge and Its Assimilation,” of the (eighteen chapters of) Songs of the Glorious Lord, which is (looked upon as) sacred teaching (Upaniṣad) and (whose teaching is) in (the form of) a dialogue between Śrī Kṛṣṇa and Arjuna, (the subject matter being) knowledge of brahman and yoga.
om, tad, sat. iti, śrīmat-bhagavat-gītā, upaniṣad, brahma-vidyā, yoga-śāstra, śrī-kṛṣṇa-arjuna-saṃvāda, jñāna-vijñāna-yoga, nāma, saptama, adhyāya.

Go to Top ('Home' key on many Windows browsers)

“ते ब्रह्म तद्विदुः कृत्स्नम्” (BhG.7.29) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुनः उवाच –
arjuna, √vac:
kim, tad, brahman, kim, adhi-ātma, kim, karman, puruṣa-uttama;
adhi-bhūta, ca, kim, prokta, adhi-daiva, kim, √vac.
adhi-yajña, katham, kim, atra, deha, idam, madhu-sūdana;
prayāṇa-kāla, ca, katham, jñeya, √as, niyata-ātman.

Arjuna said: O Kṛṣṇa, what is that brahman (reality)? What is adhyātma (centered on the body)? What is karma (action and its result)? What is called adhibhūta (centered on beings)? And what is called adhidaiva (centered on the deities)? Here, in this body, what and how is (attained) adhiyajña (the one centered on ritual), O Kṛṣṇa? And, at the moment of death, how are those who have mastered the mind to know You?
अर्जुनः उवाच। पुरुष-उत्तम, किं तद् ब्रह्म, किम् अध्यात्मं, किं कर्म, अधिभूतं किं प्रोक्तम्, अधिदैवं च किम् उच्यते॥ अत्र अस्मिन् देहे कः कथम् अधियज्ञः, मधु-सूदन। प्रयाण-काले च नियत-आत्मभिः कथं ज्ञेयः असि॥
śrī-bhagavat, √vac:
a-kṣara, brahman, parama, sva-bhāva, adhi-ātma, √vac;
bhūta-bhāva-udbhava-kara, visarga, karma-sañjñita.

The Lord said: Brahman (reality) is changeless and limitless. Adhyātma (the self – centered on the body) is said to be of its (brahman’s) nature. What is called karma is (an act of) offering (in what should be a sacred act, yajña, and its result, phala) that causes the arising of existence (embodiment) of beings.
श्री-भगवान् उवाच। अ-क्षरं परमं ब्रह्म। स्व-भावः अध्यात्मम् उच्यते। भूत-भाव-उद्भव-करः विसर्गः कर्म-सञ्ज्ञितः॥
एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच –
अक्षरं न क्षरतीति अक्षरं परमात्मा, “एतस्य वा अक्षरस्य प्रशासने गार्गि” (BrhU.3.8.9) इति श्रुतेः। ओङ्कारस्य च “ओमित्येकाक्षरं ब्रह्म” (BhG.8.13) इति परेण विशेषणात् अग्रहणम्। परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम्। तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्व-भावः, स्वो भावः स्वभावः अध्यात्मम् उच्यते। आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते। भूत-भावोद्भव-करः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः। विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः, स एष विसर्गलक्षणो यज्ञः कर्म-संज्ञितः कर्मशब्दित इत्येतत्। एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति॥
adhi-bhūta, kṣara, bhāva, puruṣa, ca, adhi-daivata;
adhi-yajña, asmad, eva, atra, deha, deha-bhṛt, vara.

Adhibhūta (the world – centered on beings/things) is perishable existence. And adhidaivata (adhidaiva, the chief deity – centered on deities) is puruṣa (the cosmic person, called Hiraṇya-garbha). Adhiyajña (centered on yajña, ritual) here, in the body, is Me alone, O Exalted Among the Embodied Ones.
क्षरः भावः अधिभूतम्। पुरुषः [हिरण्य-गर्भः इत्यर्थः] च अधिदैवतम्। अत्र देहे अधियज्ञः अहम् एव, देह-भृतां वर॥
अधि-भूतं प्राणिजातम् अधिकृत्य भवतीति। कोऽसौ? क्षरः क्षरतीति क्षरः विनाशी, भावः यत्किञ्चित् जनिमत् वस्तु इत्यर्थः। पुरुषः पूर्णम् अनेन सर्वम् इति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानाम् अनुग्राहकः, सः अधि-दैवतम्अधि-यज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता, “यज्ञो वै विष्णुः” (तै. सं. १-७-४) इति श्रुतेः। स हि विष्णुः अहम् एव, अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः, यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायी इति देहाधिकरणो भवति, देह-भृतां वर
anta-kāla, ca, asmad, eva, smarat, muktvā, kalevara;
yad, pra-√yā, tad, mad-bhāva, √yā, na, √as, atra, saṃśaya.

Remembering Me alone at the moment of death, having given up the body, the one who (as though) departs (from the standpoint of the wise person’s, jñānī’s, subtle mind dissipating upon leaving the physical body) – that one attains My nature (complete freedom, called mokṣa). In this there is no doubt.
अन्त-काले च माम् एव स्मरन्, कलेवरं मुक्त्वा, यः प्रयाति, सः मद्-भावं याति। अत्र संशयः न अस्ति॥
अन्तकाले मरणकाले च माम् एव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति, सः मद्भावं वैष्णवं तत्त्वं यातिन अस्ति न विद्यते अत्र अस्मिन् अर्थे संशयः – याति वा न वा इति॥
yad, yad, vā, api, smarat, bhāva, √tyaj, anta, kalevara;
tad, tad, eva, √i, kaunteya, sadā, tad-hhāva-bhāvita.

O Arjuna, (when) in the end one gives up the body, whatever thing one (naturally) remembers – always having been made in that state (of obsession through constant contemplation of whatever is ultimate to one) – that alone one reaches (as a positive or negative result, depending on whether one acted upon the obsessions in keeping with dharma or not).
कौन्तेय, अन्ते कलेवरं त्यजति, यं यं वा अपि भावं स्मरन्, सदा तद्-भाव-भावितः [सन्] तं तम् एव एति॥
न मद्विषय एव अयं नियमः। किं तर्हि? –
यं यं वा अपि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेवरं शरीरं तं तम् एव स्मृतं भावम् एव एति नान्यं कौन्तेय, सदा सर्वदा तद्-भाव-भावितः तस्मिन् भावः तद्भावः स भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन्॥
tasmāt, sarva, kāla, asmad, anu-√smṛ, √yudh, ca;
asmad, arpita-manas-buddhi, asmad, eva, √i, a-samśayam.

Therefore, please remember Me (as presented in this teaching) at all times and fight (O Arjuna). Being one whose mind and intellect are both offered unto Me (the Lord – as nature, prakṛti, the cosmic order), without a doubt you will reach Me (as reality, brahman) alone.
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च। मयि अर्पित-मनो-बुद्धिः माम् एव अ-संशयम् एष्यसि॥
यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम् –
तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम्। युध्य च युद्धं च स्वधर्मं कुरु। मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव स त्वं मयि अर्पित-मनो-बुद्धिः सन् माम् एव यथास्मृतम् एष्यसि आगमिष्यसि, असंशयः न संशयः अत्र विद्यते॥
abhyāsa-yoga-yukta, cetas, na-anya-gāmin;
parama, puruṣa, divya, √yā, pārtha, anucintayat.
kavi, purāṇa, anuśāsitṛ, aṇu, aṇīyas, anu-√smṛ, yad;
sarva, dhātṛ, a-citya-rūpa, āditya-varṇa, tamas, parastāt.

O Arjuna, accordingly (with My teaching), reflecting with a mind endowed with the yoga consisting of continued practice (study and contemplation) and not inclined to go elsewhere (to anything as not-Me), the one who would contemplate (continuously and at the moment of death) the all-knowing Lord (the kavi) – the one who is always there, the one who accordingly (through dharma) rules, subtler than the subtle (dimensionless), the dispenser of all (results of action), whose form cannot be comprehended, whose appearance is (illuminating) like the sun, and is beyond darkness (ignorance) – that one attains the limitless, effulgent person (puruṣa), Me.
पार्थ, अभ्यास-योग-युक्तेन न-अन्य-गामिना [च] चेतसा अनुचिन्तयन्, यः कविं, पुराणम्, अनुशासितारम्, अणोः अणीयांसं, सर्वस्य धातारम्, अ-चिन्त्य-रूपम्, आदित्य-वर्णं, तमसः परस्तात् अनुस्मरेत् – परमं दिव्यं पुरुषं याति॥
किञ्च –
अभ्यास-योग-युक्तेन मयि चित्तसमर्पणविषयभूते एकस्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्ययानन्तरितः अभ्यासः स चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं योगिनः चेतः तेन, चेतसा नान्य-गामिना न अन्यत