Sorry, your browser does not support JavaScript!
Go
Top
आत्म-बोध

Format by A.K. Aruna, 2017 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view.
Ātma-Bodha is attributed to Śaṅkarācarya.

ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.

tapas, kṣīṇa-pāpa, śānta, vīta-rāgin;
mumukṣu, apekṣya, idam, ātma-bodha, vi-√dhā.

तपोभिः क्षीण-पापानां वीत-रागिणां शान्तानां मुमुक्षूणाम् अपेक्ष्यः अयम् आत्म-बोधः विधीयते
bodha, anya-sādhana, hi, sa-akṣāt, mokṣa-eka-sādhana;
pāka, bahnivat, jñāna, vinā, mokṣa, na, √sidh.

सर्वेभ्यः अन्य-साधनेभ्यः पृथक्, आत्म-बोधः हि यस्मात् साक्षात् मोक्ष-एक-साधनम् एव पाकस्य बह्निवत्, तस्मात् ज्ञानं विना मोक्षः न सिद्ध्यति
a-virodhitā, karman, na, a-vidyā, vi-ni-√vṛt;
vidyā, a-vidyā, ni-√han, eva, tejas, timara-saṅghavat.

अ-विद्या-अ-विरोधितया, कर्म न अ-विद्यां विनिवर्तयेत्विद्या एव अ-विद्यां निहन्ति, तेजस् तिमिर-सङ्घवत् यथा तेजस् एव अन्धकार-समूहं निहन्ति॥
paricchinna (avacchinna), iva, a-jñāna, tad-nāśa, sat, kevala;
svayam, pra-√kāś, hi, ātman, megha-apāya, aṃśumat, iva.

अ-ज्ञानात् आत्मा परिच्छिन्नः (अवच्छिन्नः) इव प्रकाशते, तद्-आत्म-अ-ज्ञान-नाशे सति केवलः आत्मा स्वयं प्रकाशते हि, मेघ-अपाये सति अंशुमान् सूर्यः इव केवलः स्वयं प्रकाशते॥
a-jñāna-kaluṣa, jīva, jñāna-abhyāsa, vi-nis-mala (hi, nis-mala);
kṛtvā, jñāna, svayam, √naś, jala, kataka-reṇuvat.

अ-ज्ञान-कलुषं जीवं श्रवण-मनन-निदिध्यासन-रूप-ज्ञान-अभ्यासात् (AtB.66) विनिस्-मलं (हि निस्-मलं) कृत्वा, ज्ञानं तद्-ज्ञान-साधनं स्वयं नश्येत्, जलं कतक-रेणुवत्
saṃsāra, svapna-tulya, hi, rāga-dveṣa-ādi-saṅkula;
sva-kāla, satyavat, √bhā, prabodha, sat, a-sat, √bhū.

राग-द्वेष-आदि-संकुलः संसारः स्वप्न-तुल्यः हि – यतस् स्व-काले सत्यवत् भाति, प्रबोधे सति अ-सत् भवेत्
tāvat, satya, jagat, √bhā, śuktikā-rajata, yathā;
yāvat, na, √jñā, brahman, sarva-adhiṣṭhāna, a-dvaya.

यथा शुक्तिका-रजतं, यावत् सर्व-अधिष्ठानम् अ-द्वयं ब्रह्म न ज्ञायते तावत् जगत् सत्यं भाति
upādāna, a-khila-ādhāra, √gam, parama-īśvara;
sarga-sthiti-laya, √yā, budbuda, iva, vārin.

उपादाने अ-खिल-आधारे परम-ईश्वरे जगन्ति जगत्-व्यक्ताः सर्ग-स्थिति-लयान् यान्ति, वारिणि जले बुद्बुदानि इव
sat-cit-ātman, anusyūta, nitya, viṣṇu, prakalpita;
vyakti, vividha, sarva, hāṭaka, kaṭaka-ādivat.

सर्वाः विविधाः व्यक्तयः नित्ये अनुस्यूते सूत्र-आत्मिके सत्-चित्-आत्मनि सत्-चित्-स्व-रूपे सत्-चित्-स्व-रूप-आत्मनि च विष्णौ परम-ईश्वरे प्रकल्पिताः, हाटके सुवर्णे कटक-आदिवत्
yathā, ākāśa, hṛsika-īśa, nānā-upādhi-gata, vibhu;
tad-bheda, bhinnavat, √bhā, tad-nāśa, kevala, √bhū (sat, kevala).

यथा आकाशः, नाना-उपाधि-गतः विभुः हृषीक-ईशः सर्व-इन्द्रिय-ईशः परम-ईश्वरः तद्-भेदात् भिन्नवत् भाति, तद्-नाशे सति केवलः भवेत्
nānā-upādhi-vaśa, eva, jāti-nāma-āśrama-ādi;
ātman, āropita, toya, rasa-varṇa-ādi-bhedavat.

नाना-उपाधि-वशात् एव जाति-नाम-आश्रम-आदयः आत्मनि आरोपिताः, तोये जले रस-वर्ण-आदि-भेदवत्
pañcī-kṛta-mahā-bhuta-saṃbhava, karma-sañcita;
śarīra, sukha-duḥkha, bhoga-āyatana, √vac.

पञ्ची-कृत-महा-भूत-संभवं कर्म-सञ्चितं शरीरं सुख-दुःखानां भोग-आयतनम् उच्यते
pañca-prāṇa-manas-buddhi-daśa-indriya-samanvita;
a-pañcī-kṛta-bhūta-uttha, sūkṣma-aṅga, bhoga-sādhana.

अ-पञ्ची-कृत-महा-भूत-उत्थं पञ्च-प्राण-मनस्-बुद्धि-दश-इन्द्रिय-समन्वितं सूक्ष्म-अङ्गं सूक्ष्म-शरीरं भोग-साधनम्
an-ādi-a-vidyā, a-nirvācyā, kāraṇa-upādhi, √vac;
upādhi-tritā, anya, ātman, ava-√dhṛ.

अ-निर्वााचयाा अन्-आदि-अ-विद्या कारण-उपाधिः उच्यतेउपाधि-त्रितयात् अन्यं पृथक् आत्मानं अवधारयेत्
pañca-kośa-ādi-yoga, tad-tanmaya, iva, sthita;
śuddha-ātman, nīla-vastra-ādi-yoga, sphaṭika, yathā.

शुद्ध-आत्मा पञ्च-कोश-आदि-योगेन पञ्च-कोश-आदि-सन्निधिना तद्-तन्मयः देह-इन्द्रिय-आदि-ताद्-आत्म्यः इव स्थितः, यथा स्फटिकः नील-वस्त्र-आदि-योगेन
vapus-tuṣa-ādi, kośa, yukta, yukti, avaghātatas;
ātman, antara, śuddha, vi-√vic, taṇḍula, yathā.

वपुस्-तुष-आदिभिः कोशैः युक्तं यदि अपि, तद् शुद्धम् अन्तरम् आत्मानं विवेकी युक्त्या विविच्यात्, यथा अवघाततस् अवहननात् तण्डुलम्
sadā, sarva-gata, api, ātman, na, sarvatra, ava-√bhās;
buddhi, eva, ava-√bhās, su-accha, prati-bimbavat.

सदा सर्व-गतः अपि आत्मा न सर्वत्र अवभासते प्रकाश्यते। बुद्धौ एव अवभासेत, सु-अच्छेषु दर्पण-आदिषु एव प्रतिबिम्बवत्
deha-indriya-manas-buddhi-prakṛti, vi-lakṣaṇa;
tad-vṛtti-sa-akṣin, √vid, ātman, rājavat, sadā.

देह-इन्द्रिय-मनस्-बुद्धि-प्रकृतिभ्यः वि-लक्षणं सदा तद्-वृत्ति-साक्षिणम् आत्मानं विद्यात्, राजवत्
vyāpṛta, indriya, ātman, vyāpārin, iva, a-vivekin;
√dṛś, abhra, dhāvat, dhāvat, iva, yathā, śaśin.

अ-विवेकिनाम् आत्मा व्यापृतेषु इन्द्रियेषु व्यापारी इव दृश्यते, यथा अभ्रेषु धावत्सु शशी धावन् इव
ātma-caitanya, āśritya, deha-indriya-manas-dhī;
svakīya-artha, √vṛt, sūrya-loka, yathā, jana.

आत्म-चैतन्यम् आश्रित्य देह-इन्द्रिय-मनस्-धियः स्वकीय-अर्थेषु वर्तन्ते, यथा जनाः सूर्य-आलोकं सूर्य-प्रकाशम् आश्रित्य॥
deha-indriya-guṇa, karman, a-mala, sat-cit-ātman;
adhi-√as, a-viveka, gagana, nīlatā-ādivat (nīlima-ādivat).

अ-विवेकेन जनाः देह-इन्द्रिय-गुणान् कर्माणिअ-मले सत्-चित्-आत्मनि अध्यस्यन्ति, गगने नीलता-आदिवत्
a-jñāna, manasa-upādhi (mānasa-upādhi), kartṛtva-ādi, ca, ātman;
√kḷp, ambu-gata, candra, calana-ādi, yathā, ambhas.

अ-ज्ञानात् जनाः मनस-उपाधेः कर्तृत्व-आदीनि च आत्मनि कल्प्यन्ते, यथा अम्भसः चलन-आदि अम्बु-गते चन्द्रे चन्द्र-प्रतिबिम्बे॥
rāga-icchā-sukha-duḥkha-ādi, buddhi, satya, pra-√vṛt;
suṣupti, na, √as, tad-nāśa, tad, buddhi, tu, na, ātman.

बुद्धौ सत्यां राग-इच्छा-सुख-दुःख-आदि प्रवर्तते, सुषुप्तौ तद्-बुद्धि-नाशे सति राग-आदि न अस्तितस्मात् राग-आदि बुद्धेः, न तु आत्मनः
prakāśa, arka, toya, śaitya, agni, yathā, uṣṇatā;
sva-bhāva, sat-cit-ānanda-nitya-nis-malatā, ātman.

यथा अक्र्स्य प्रकाशः तोयस्य शैत्यं अग्नेः उष्णता च, आत्मनः स्व-भावः सत्-चित्-आनन्द-नित्य-निस्-मलता
ātman, sat-cit-aṃśa, ca, buddhi, vṛtti, iti, dvaya;
saṃyojya, ca, a-viveka, √jñā, iti, pra-√vṛt.

आत्मनः सत्-चित्-अंशःबुद्धेः वृत्तिःच इति द्वयं अ-विवेकेन संयोज्य, जनः “अहं जानामिइति प्रवर्तते
ātman, vivkriyā, na, √as, buddhi, bodha, na, jātu, api (iti);
jīva, sarva, alam, jñātvā, kartṛ, draṣṭṛ, iti, √muh.

आत्मनः न विक्रिया अस्ति, बुद्धेः न जातु बोधः अपि अस्ति। जीवः सर्वं प्रति अलं अल्पं ज्ञात्वा, “अहं कर्ता द्रष्टाइति मुह्यति
rajju-sarpavat, ātman, jīva, jñātvā, bhaya, √vah;
na, asmad, jīva, para-ātman, iti, jñāta (jñāna), ced, nis-bhaya, √bhū.

रज्जु-सर्पवत्, आत्मानं जीवं ज्ञात्वा, सः भयं वहेत। “अहं न जीवः, अहं तु पर-आत्माइति चेद् ज्ञातः, सः निस्-भयः भवेत्
ātman, ava-√bhās, eka, buddhi-ādi, indriya, api (indriya, ca);
dīpa, ghaṭa-ādivat, sva-ātman, jaḍa, tad, na, ava-√bhās.

एकः आत्मा बुद्धि-आदीन् इन्द्रियाणि अपिअभासयति, दीपः घट-आदिवत्तैः जडैः स्व-आत्मा न अवभास्यते
sva-bodha, na, anya-bodha-icchā, bodha-rūpatā, ātman;
na, dīpa, anya-dīpa-icchā, yathā, sva-ātma-prakāśana.

स्व-बोधे आत्मनः बोध-रूपतया न अन्य-बोध-इच्छा अन्य-बोध-अपेक्षिता, यथा स्व-आत्म-प्रकाशने दीपस्य न अन्य-दीप-इच्छा
niṣidhya, nikhila-upādhi, na, iti, na, iti, iti, vākyatas;
√vid, aikya, mahā-vākya, jīva-ātma-parama-ātman.

न इति न इतिइति वाक्यतस् निखिल-उपाधीन् निषिध्य, महा-वाक्यैः जीव-आत्म-परम-आत्मनोः ऐक्यं विद्यात्
ā-vidyaka, śarīra-ādi-dṛśya, budbudvat, kṣara;
etad-vi-lakṣaṇa, √vid, asmad, brahman, iti, nis-mala.

आविद्यकं शरीर-आदि-दृश्यं क्षरं, बुद्बुद्वत्एतद्-वि-लक्षणम्अहं निस्-मलं ब्रह्मइति विद्यात्
deha-anyatva, na, asmad, janma-jarā-kārśya-laya-ādi;
śabda-ādi-viṣaya, saṅga, nis-indriyatā, na, ca.

देह-अन्यत्वात् मे मम आत्मनः न जन्म-जरा-कार्श्य(=अपक्षय)-लय-आदयः, निस्-इन्द्रियतया च न शब्द-आदि-विषयैः सङ्गः
a-manastva, na, asmad, duḥkha-rāga-dveṣa-bhaya-ādi;
a-prāṇa, hi, a-manas, śubhra, iti-ādi-śruti-śāsana.

अ-मनस्त्वात् मे मम आत्मनः न दुःख-राग-द्वेष-भय-आदयः, “अ-प्राणः हि अ-मनाः शुभ्रःइति-आदि-श्रुति-शासनात् च॥
nis-guṇa, nis-kriya, nitya, nis-vikalpa, nis-añjana;
nis-vikāra, nis-ākāra, nitya-mukta, √as, nis-mala.

अहं बुद्धि-आदि-अ-भावात् निस्-गुणः, इन्द्रिय-आदि-अ-भावात् निस्-क्रियः, अ-परोक्षात् नित्यः निस्-विकल्पः च, अ-सङ्गत्वात् निस्-अञ्जनः, निस्-अवयवत्वात् निस्-विकारः निस्-आकारः च, बन्ध-अ-भावात् नित्य-मुक्तः, अ-विद्या-तद्-कार्य-रहितत्वात् निस्-मलः अस्मि
asmad, ākāśavat, sarva, bahis-antar-gata, a-cyuta;
sadā, sarva-sama, siddha (suddha), nis-saṅga, nis-mala, a-cala.

अहं आकाशवत् सर्वं बहिस्-अन्तर्-गतः, अ-च्युतः, सदा सर्व-समः, सिद्धः (शुद्धः), निस्-सङ्गः, निस्-मलः, अ-चलः
nitya-śuddha-vimukta-eka, a-khaṇḍa-ānanda, a-dvaya;
satya, jñāna, an-anta, yad, para, brahman, asmad (para-brahman, asmad), eva, tad.

अहं तद् परं ब्रह्म एव यद्सत्यं ज्ञानम् अन्-अन्तं”, नित्य-शुद्ध-विमुक्त-एकं, नित्य-अ-खण्ड-आनन्दं, नित्य-अ-द्वयम्
evam, nis-antara-kṛta (nis-antara-abhyasta), brahman, eva, √as, iti, vāsanā;
√hṛ, a-vidyā-vikṣepa, roga, iva, rasa-ayana.

एवंब्रह्म एव अस्मिइति निस्-अन्तर-कृता (निस्-अन्तर-अभ्यस्ता) वासना अ-विद्या-विक्षेपान् रोगान् हरति, रस-अयनम् इव
vivikta-deśa, āsīna, vi-rāga, vijita-indriya;
√bhū, eka, ātman, tad, an-anta, an-anya-dhī.

विविक्त-देशः आसीनः वि-रागः विजित-इन्द्रियः अन्-अन्य-धीः तं एकम् अन्-अन्तम् आत्मानं भावयेत्
ātman, eva, a-khila, dṛśya, pravilāypa, dhī, su-dhī;
√bhū, eka, ātman, nis-mala-ākāśavat, sadā.

आत्मनि एव अ-खिलं दृश्यं धिया ज्ञानेन प्रविलाप्य, सु-धीः एकम् आत्मानं सदा भावयेत्, निस्-मला-आकाशवत्
rūpa-varṇa-ādika, sarva, vihāya, parama-artha-vid;
paripūrṇa-cit-ānanda-sva-rūpa, ava-√sthā.

सर्वं रूप-वर्ण-आदिकं विहाय, परम-अर्थ-विद् परिपूर्ण-चित्-आनन्द-स्व-रूपेण अवतिष्ठते
jñātṛ-jñāna-jñeya-bheda, para, na, ātman (para-ātman, na), √vid;
cit-ānanda-eka-rūpatva, √dīp, svayam, eva, tad (hi).

ज्ञातृ-ज्ञान-ज्ञेय-भेदः परे आत्मनि न विद्यतेचित्-आनन्द-एक-रूपत्वात् तद् (हि) स्वयम् एव दीप्यते
evam, ātma-araṇi, dhyāna-mathana, sa-tatam, kṛta;
udita-avagati-jvāla, sarva-a-jñāna-indhana, √dah.

एवम् आत्म-अरणौ अन्तः-करण-अधर-अरणौ उत्तर-अरणि-रूपेण महा-वाक्य-प्रणवस्य ध्यान-मथने स-ततं कृते सति (KaivU.11) उदित-अवगति-ज्वाला सर्व-अ-ज्ञान-इन्धनं दहेत्
aruṇa, iva, bodha, pūrva, santamasa, hṛta;
tatas, āvis, √bhū, ātman, svayam, eva, aṃśumat, iva.

अरुणेन उषसा इव सन्तमसे हृते सति बोधेन पूर्वं ततस् आत्मा स्वयम् एव आविर् भवेत्, अशुमान् सूर्यः इव
ātman, tu, sa-tatam, prāpta, api, a-prāptavat, a-vidyā;
tad-nāśa, prāptavat, √bhā, sva-kaṇṭha-ābharaṇa, yathā.

आत्मा तु स-ततं प्राप्तः अपिअ-विद्यया अ-प्राप्तवत् अ-प्राप्तः इव तद्-नाशेप्राप्तवत् प्राप्तः इव भाति, यथा स्व-कण्ठा-भरणं स्व-माला॥
sthāṇu, puruṣavat, bhrānti, kṛta, brahman, jīvatā;
jīva, tāttvika, rūpa, tad, dṛṣṭa, ni-√vṛt.

स्थाणौ पुरुषवत्, भ्रान्त्या ब्रह्मणि जीवता कृता अध्यस्ता इत्यर्थः। जीवस्य तात्त्विके रूपे तस्मिन् ब्रह्मणि दृष्टे ज्ञाते सति भ्रान्ति-ज-जीविता निवर्तते
tattva-sva-rūpa-anubhāva, utpanna, jñāna, añjasā;
asmad, asmad, iti, ca, a-jñāna, √bādh, diś-bhrama-ādivat.

तत्त्व-स्व-रूप-अनुभवात् उत्पन्नं ज्ञानं, तद् ज्ञानम् “अहं ममइति अ-ज्ञानं अ-ज्ञान-कार्यं च अञ्जसा बाधते निवर्तयति, सूर्य-उदयात् सर्व-दिक्-भ्रम-आदिवत्
samyak-vijñānavat, yogin, sva-ātman, eva, a-khila, sthita;
eka, ca, sarva, ātman, √īkṣ, jñāna-cakṣus.

सम्यक्-विज्ञानवान् योगी ज्ञान-चक्षुषा स्व-आत्मनि एव स्थितम् अ-खिलं जगत्, सर्वं जगत् च एकम् आत्मानं स्व-आत्मानम् एव इत्यर्थः ईक्षते
ātman, eva, idam, jagat, sarva, ātman, anyad, na, kim-cana (√vid);
mṛd, yadvat, ghaṭa-ādi, sva-ātman, sarva, √īkṣ.

आत्मा एव इदं सर्वं जगत्, आत्मनः अन्यद् न किम्-चन (विद्यते)। यद्वत् घट-आदीनि मृदा, सः योगी सर्वं जगत् स्व-आत्मानम् एव ईक्षते
jīvat-mukti, tu, tad-vidvat, pūrva-upādhi-guṇa, √tyaj;
tad, sat-cit-ādi-dharmatva (sat-cit-ānanda-rūpatva), √bhaj, bhramara-kīṭavat.

जीवन्-मुक्तिः तु तद्-विद्वान् पूर्व-उपाधि-गुणान् त्यजेत्, सः सत्-चित्-आदि-धर्मत्वात् (सत्-चित्-आनन्द-रूपत्वं) ब्रह्म भेजे भक्तः प्राप्नोति इत्यर्थः च, भ्रमर-कीटवत् कीट-देह-कोशात् भ्रमर-नित्य-ध्यायन् भ्रमर-बीज-रूपः नचिरेण वृद्ध-भ्रमरः भवेत्॥
tīrtvā, moha-arṇava, hatvā, rāga-dveṣa-ādi-rākṣasa;
yogin, śānti-samāyukta, ātma-ārāma (hi, ātma-ārāma), vi-√rāj.

मोह-अर्णवं तीर्त्वा, राग-द्वेष-आदि-राक्षसान् हत्वा, शान्ति-समायुक्तः आत्म-आरामः (हि आत्म-आरामः) योगी विराजते, सीता-समायुक्त-श्री-रामवत्॥
bāhya-a-nitya-sukha-āsakti, hitvā, ātma-sukha-nirvṛta;
ghaṭa-stha-dīpavat, śaśvat, antar (-dīpavat, su-accha, sva-antar), eva, pra-√kāś.

बाह्य-अ-नित्य-सुख-आसक्तिं हित्वा, यस्मात् सः योगी आत्म-सुख-निर्वृतः आत्म-आनन्द-प्राप्तः, घट-स्थ-दीपवत् शश्वत् अन्तर् (-दीपवत् सु-अच्छः स्व-अन्तर्) एव प्रकाशते
upādhi-stha, api, tad-dharma, a-lipta (na, lipta), vyomavat, muni;
sarva-vid, mūḍhavat, √sthā, a-sakta, vāyuvat, √car.

उपाधि-स्थः अपि मुनिः तद्-धर्मैः अ-लिप्तः (न लिप्तः), व्योमवत्सर्व-विद् सन् मूढवत् प्राकृतवत् तिष्ठेत्, अ-सक्तः सन् च वायुवत् चरेत्
upādhi-vilaya, viṣṇu, nis-viśeṣam, √viś, muni;
jala, jala, viyat, vyoman, tejas, tejas, vā, yathā.

उपाधि-विलयात् मुनिः विष्णौ सर्व-व्यापके पर-ब्रह्मणि निस्-विशेषं विशेत्, यथा जले जलं व्योम्नि वियत् तेजसि तेजस् वा
yad-lābha, na, apara, lābha, yad-sukha, na, apara, sukha;
yad-jñāna, na, apara, jñāna, tad, brahman, ava-√dhṛ.

यद्-लाभात् न अपरः लाभः, यद्-सुखात् न अपरं सुखं, यद्-ज्ञानात् न अपरं ज्ञानं, तद् ब्रह्म इति अवधारयेत्
yad, dṛṣṭvā, na, para, dṛśya, yad, bhutvā, na, punar-bhava;
yad, jñātvā, na, para, jñyeya (jñāna), tad, brahman, iti, ava-√dhṛ.

यद् दृष्ट्वा न परं दृश्यं, यद् भूत्वा न पुनर्-भवः, यद् ज्ञात्वा न परं ज्ञेयं (ज्ञानं), तद् ब्रह्म इति अवधारयेत्
tiryac, ūrdhvam, adhas, pūrṇa, sat-cit-ānanda, a-dvaya;
an-anta, nitya, evam, yad, tad, brahman, iti, ava-√dhṛ.

यद् तिर्यक् ऊर्ध्वम् अधस्, यद् पूर्णं सत्-चित्-आनन्दम् अ-द्वयम् अन्-अन्तं नित्यम् एकं, तद् ब्रह्म इति अवधारयेत्
a-tad-vyāvṛtti-rūpa, veda-anta, √lakṣ, a-vyaya;
a-khaṇḍa-ānanda, eka, yad, tad, brahman, iti, ava-√dhṛ.

यद् अ-तद्-व्यावृत्ति-रूपेण वेद-अन्तैः लक्ष्यते, यद् अ-व्ययम् अ-खण्ड-आनन्दम् एकं, तद् ब्रह्म इति अवधारयेत्
a-khaṇḍa-ānanda-rūpa, tad, ānanda-lava-āśrita;
brahma-ādi, tāratamya, √bhū, ānandin, lava (a-khila).

तस्य अ-खण्ड-आनन्द-रूपस्य ब्रह्मणः आनन्द-लव(=अंश)-आश्रिताः लवाः (अ-खिलाः) ब्रह्म-आद्याः आनन्दिनः तारतम्येन भवन्ति
tad-yukta, a-khila, vastu, vyavahāra, cit- (vyavahāra, tad-) anvita;
tasmāt, sarva-gata, brahman, kṣīra, sarpis, iva, a-khila.

अ-खिलं वस्तु तद्-युक्तम्, अ-खिलः व्यवहारः चित्-(तद्-)अन्वितः च। तस्मात् तद् ब्रह्म सर्व-गतं, सर्पिस् घृतम् इव अ-खिले क्षीरे
an-aṇu, a-sthūla, a-hrasva, a-dīrgha, a-ja, a-vyaya;
a-rūpa-guṇa-varṇa-ākhya, tad, brahman, iti, ava-√dhṛ.

यद् अन्-अणु अ-स्थूलम् अ-ह्रस्वम् अ-दीर्घम् अ-जम् अ-व्ययम् अ-रूप-गुण-वर्ण-आख्यं, तद् ब्रह्म इति अवधारयेत्
yad-bhās, √bhās, arka-ādi, bhāsya, yad, tu, na, √bhās;
yad, sarva, idam, √bhā, tad, brahman, iti, ava-√dhṛ.

यद्-भासा यद्-प्रकाशेन अक्र्-आदिः भासते, यद् तु भास्यैः न भास्यते, येन इदं सर्वं भाति, तद् ब्रह्म इति अवधारयेत्
svayam, antar-bahis-vyāpya, bhāsayat, a-khila, jagat;
brahman, pra-√kāś, vahni-pratapta-āyasa-piṇḍavat.

अन्तर्-बहिस्-व्याप्य अ-खिलं जगत् भासयन् ब्रह्म स्वयं प्रकाशते, वह्नि-प्रतप्त-आयस-पिण्डवत
etad- (jagat-) vi-lakṣaṇa, brahman, brahman, anyad, na, kim-cana;
brahma-anyad, √bhā, ced, mithyā, yathā, maru-marīcikā.

ब्रह्म एतद्-(जगद्-)वि-लक्षणं, ब्रह्मणः अन्यद् न किम्-चनब्रह्म-अन्यद् भाति चेद्, मिथ्या भवेत्, यथा मरु-मरीचिका
√dṛś, √śru, yad, yad, brahman, anyad, na, tad, √bhū;
tattva-jñāna, ca, tad, brahman, sat-cit-ānanda, a-dvaya.

यद् यद् दृश्यते श्रूयते वा, तद् न ब्रह्मणः अन्यद् भवेत्तत्त्व-ज्ञानात् च तद् सत्-चित्-आनन्दं ब्रह्म अ-द्वयम् एव॥
sarva-ga, sat-cit-ātman, jñāna-cakṣus, nir-√īkṣ;
a-jñāna-cakṣus, na, √īkṣ, bhāsvanta, bhānu, andhavat.

ज्ञान-चक्षुस् पुरुषः सर्व-गं सत्-चित्-आत्मानं निरीक्षते, अ-ज्ञान-चक्षुस् तु न ईक्षेत, अन्धवत् भास्वन्तं भानुम्
śravaṇa-ādi, uddīpta-jñāna-agni- (uddīpta, jñāna-agni-) paritāpita;
jīva, sarva-mala, mukta, svarṇavat, √dyut, svayam.

श्रवण-आदिभिः (उद्दीप्तः ज्ञान-अग्नि-)उद्दीप्त-ज्ञान-अग्नि-परितापितः सन् जीवः सर्व-मलात् मुक्तः स्वयं द्योतते, स्वर्णवत्
hṛd-ākāsa-udita, hi, ātman, bodha-bhānu, tamas-apahṛt;
sarva-vyāpin, sarva-dhārin, √bhā, sarva, pra-√kāś (√bhā, a-khila).

आत्मा बोध-भानुः तमस् अपहृत् हृद्-आकाश-उदितः हि, सर्व-व्यापी, सर्व-धारीभाति, सर्वं प्रकाशते (अ-खिमलं स्वयं च भासयते)॥
diś-deśa-kāla-ādi-an-apekṣya, sarva-ga, śīta-ādi-hṛd, nitya-sukha, nis-añjana;
yad, sva-ātma-tīrtha, √bhaj, vi-nis-kriya, tad, sarva-vid, sarva-gata, a-mṛta, √bhū.

दिक्-देश-काल-आदि-अन्-पेक्ष्य यः तद् सर्व-गं शीत-आदि-हृद् नित्य-सुखं निस्-अञ्जनं स्व-आत्म-तीर्थं भजते, सः ज्ञानी विनिस्-क्रियः सर्व-विद् सर्व-गतः अ-मृतःभवेत्

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om, pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति आत्म-बोधः समाप्तः॥